82046: क्षियो दीर्घात् ====================== **Padacheda:** क्षियः | S | 5 | 1 | दीर्घात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- For the त of the निष्ठा there is substituted न after क्षि when the root-vowel is lengthened. Vasu English Translation ------------------------ For the त of the निष्ठा there is substituted न after क्षि when the root-vowel is lengthened. Thus क्षीणाः क्लेशाः; क्षीणो जाल्मः; क्षीणस्तपस्वी ॥ The vowel of क्षी is lengthened by (6.4.60) and (6.4.61). Why do we say 'when the vowel is lengthened'? Observe अक्षितमसि मामेक्षेष्ठाः ॥ The word अक्षितं is formed with क्त in the sense of भाव and means 'imperishable'. The *Nishtha* being added in the sense of ण्यत्, there is no lengthening of the vowel by (6.4.60). The root क्षि includes the two roots क्षि क्षये and क्षि निवासगत्यौः ॥ As क्षितः कामो मया ॥ See also the commentary of *Sayana* on अक्षि॑तोतिः सनेदि॒मं वाजमिन्द्रः॑ सह॒स्रिणं॑ ॥ (*Rig* I.5.9). Objection:- The form क्षियः in the *sutra* is the Genitive singular of the root-noun क्षी ending in long ई, and will denote the root क्षी ending in long ई according to the maxim प्रकतिवदनुकरणं भवति "an imitative name (as क्षी here) is like its original (the root क्षी)". What is then the necessity of employing the word दीर्घात् in the *sutra*? For had the root क्षि with short इ been meant, the form would have been क्षेः ॥ Answer:- The *dhatu* imitative noun though taking इयङ् (6.4.77) as in क्षियः, includes the *dhatu* ending in short इ also, as in *sutra* (6.4.59), (6.4.60) where क्षि ending in short इ is taken. Question: If a root ending in short vowel may also be indicated by an imitative name, declined with the इयङ् augment, then why is the root जि exhibited in *sutra* (1.3.19) as जेः instead of जियः i. e, the *sutra* ought to have been वि पराभ्यां जियः and not वि पराभ्यां जेः ? Answer:- Here the word जि is not used as a *dhatu*-imitative word, there is no intention here to denote the verbal idea of the particular act connoted by the root जि; on the contrary, it simply expresses the mere form जि ॥ Bhashya ------- क्षियो दीर्घात् दीर्घादिति किमर्थम्?॥ अक्षितमसि मा मे क्षेष्ठाः। दीर्घादिति शक्यमकर्त्तुम्(1)॥ कस्मान्न भवति -अक्षितमसि मा से क्षेष्ठा, इति?॥ निर्देशाशादेवेदमभिव्यक्तं(2) दीर्घस्य ग्रहणमिति। यदि ह्रस्वस्य ग्रहणं स्यात् क्षेरित्येव(3) ब्रूयात्॥ नाऽत्र निर्देशः प्रमाणं शक्यं कर्तुम्(4)। यथैवाऽत्राऽप्राप्ता(5) विभक्तिरेवमियङादेशोऽपि॥ नाऽत्राऽप्राप्ता विभक्तिः, सिद्धाऽत्र विभक्तिः प्रातिपदिकादिति॥ कथं प्रातिपदिकसंज्ञा?॥ अर्थवत्प्रातिपदिकमिति॥ ननु चाऽधातुरिति प्रतिषेधः प्राप्नोति॥ नैष धातुर्धातोरेषोऽनुकरणम्(6)॥ यद्यनुकरणमियङादेशो न प्राप्नोति॥ प्रकृतिवदनुकरणं भवतीतीयङादेशो भविष्यति॥ यदि प्रकृतिवदनुकरणं भवतीत्युच्यते स्वाद्युत्पत्तिर्न प्राप्नोति॥ एवं तर्ह्यातिदेशिकानां स्वाश्रयाण्यपि न निवर्तन्ते इति(7)। अथाप्येतन्नास्ति(8)आतिदेशिकानां स्वाश्रयाण्यपि न निवर्तन्ते इत्येवमपि न दोषः। अवश्यमत्र सर्वतो नैर्देशिकी विभक्तिर्वक्तव्या। तद्यथा-नेर्विशः परिव्यवेभ्यः क्रियः विपराभ्यां(1) जेरिति॥ अथाप्येतन्नास्ति(2) प्रकृतिवदनुकरणं भवतीत्येवमपि न दोषः। धातोरजादौ यद्रूपं तदनुक्रियते॥ झ्र्क्षियो दीर्घात्ट॥ Kashika ------- क्षियो धातोर्दीर्घादुत्तरस्य निष्ठातकारस्य नकारादेशो भवति। क्षीणाः क्लेशाः। क्षीणो जाल्मः। क्षीणस्तपस्वी। **क्षियः**, **निष्ठायामण्यदर्थे**, **वाक्रोशदैन्ययोः** (६.४.५९,६०,६१) इति दीर्घत्वं भवति। दीर्घादिति किम्? अक्षि॑तमसि॒ मा मे॑क्षेष्ठाः (तै०सं०१.६.५.१)। अक्षितमिति क्तप्रत्ययो भावे, भावश्च ण्यदर्थ इति दीर्घाभावः। ह्रस्वस्यापि हि धात्वनुकरणस्य दृष्ट इयङा निर्देशः — **क्षियः**, **निष्ठायामण्यदर्थे** (६.४.५९,६०) इत्यत्र दीर्घग्रहणं क्रियते। **विपराभ्यां जेः** (१.३.१९) इत्येवमादौ तु धातुत्वमनुकार्यगतं सदप्यविवक्षितत्वाद् जिरूपसामान्यानुकरणं द्रष्टव्यम्॥ Siddhanta Kaumudi ----------------- दीर्घात् क्षियो निष्ठातस्य नः स्यात् । क्षीणवान् । भावकर्मणोस्तु क्षितः कामो मया । श्र्युकः किति (SK2381) । श्रितः । श्रितवान् । भूतः । भूतवान् । क्षुतः । (वार्तिकम्) ॥ तेन एकाच्त्वान्नेट् । ऊर्णुतः । नुतः । वृतः ॥ Balamanorama ------------ **क्षियो दीर्घात्** - क्षियो दीर्घात् । दीर्घादितिक्षियो विशेषमं । तदाह — दीर्घात्क्षिय इति । दीर्घान्तादित्यर्थः । निष्ठातस्य न इति ।रदाभ्या॑मित्यतस्तदनुवृत्तेरिति भावः । क्षीणवानिति । क्षिधातोः कर्तरि क्तवतुः, 'निष्ठायामण्यदर्थे' इति दीर्घः, तकारस्य नत्वम्, षात्परत्वाण्णः । क्षितः कामो मयेति । क्षपित इत्यर्थः । 'क्षि क्षये' इत्यस्मादन्तर्भावितण्यर्थात्कर्मणि क्तः । भावे तु क्षितं कामेनेत्युदाहार्यम् । अत्र ण्यदर्थयोर्भावकर्मणोर्विहिते क्ते दीर्घो न भवति, अण्यदर्थ इत्युक्तेः । दीर्घान्तत्वाऽभावात्क्षियो दीर्घा॑दिति नत्वं न । श्र्युकः कितीति । 'श्रित' इत्यादौ इण्निषेधस्मारकमिदम् । क्षुतैति । 'टु क्षु शब्दे' अस्मात्क्तः । ननु ऊर्णुत इति कथम्, अनेकाच्कत्वेनश्र्युक॑इति निषेधस्याऽप्रवृत्तेरित्यत आह — ऊर्णोतेर्नुवदिति । वार्तिकमिदम् । Tattvabodhini ------------- **क्षियो दीर्घात्** - क्षियो । क्षि क्षये, क्षि निवासगत्योः, द्वयोरपि ग्रहणम् । क्षितः काम इति । अन्तर्भावितण्यर्थत्वेन सकर्मकत्वात्कर्मणि क्तः । एतच्च अक्षितोतसनेदिम॑मिति मन्त्रव्याख्यायां माधवग्रन्थे स्पष्टम् । भावे तु क्षितं कामेनेत्याद्युदाहरणीयम् । इण्निषेधसूत्रं स्मारयति — श्र्युकः कितीति । क्षुत इति । टुक्षु शब्दे । नुत इति । णु स्तुतौ । वृत इति । वृङ् संभक्तौ,वृञ् रणे । Padamanjari ----------- 'क्षि क्षये' ,'क्षि निवासगत्योः' - द्वयोरपि ग्रहणम् । क्षीणा इति । अकर्मकत्वात् कर्तरि क्तः,'निष्ठायामण्यदर्थे' इति दीर्घः । क्षीणस्तपस्वीति । अत्रापि'वा' ऽक्रोशदैन्ययोःऽ इति ।'दीर्घात्' इति शक्यमवक्तुम्,'क्षियः' इति निर्देशादेव दीर्घस्य ग्रहणं विज्ञायते, ह्रस्वस्य हि ग्रहणे इयङदेशात्परत्वात्'घिर्ङिति' इति गुणे कृते क्षेरिति निर्देअष्टव्यं स्यादित्यत आह - ह्रस्वान्तस्यापीति । यथाभूतस्य दीर्घत्वं विधेयं तथाभूतमेवानुकर्तुं युक्तम् । ह्रस्वान्तस्य च दीर्घत्वं विधेयमिति तस्यैव दीर्घविधावनुकरणम् । तत्रापि चेयङदेशो दृष्टः, तस्मादियङदेशो न दीर्घग्रहणे प्रमाणमित्यर्थः । यदि तर्हि ह्रस्वान्तस्यापि धात्वनुकरणस्येयङदेशो भवति'विपराभ्यां जेः' इत्यादावपि प्रसङ्गः ? इत्यत आह - विपराभ्यां जेरित्येवमादौ त्विति । अविवक्षित्वेति पाठः । तत्र हि धातावनुकार्येऽवस्थितं धातुत्वं क्रियावाचित्वलक्षणमविवक्षितत्वातस्य विवक्षामकृत्वा रूपसामान्यस्य - विजितम्, कूजितमित्यादिसाधारणस्य रूपस्यानुकरणम्, ततश्च विशेषणिबन्धनस्य कार्यस्य सामान्येऽभावात्प्रकृतावदृष्टत्वादनुकरणेऽप्यभाव इत्यर्थः । यदा तु विशेषोऽनुक्रियते, तदा तन्निबन्धनं कार्यमनुकरणे प्रवर्तते, यथात्रेयङदेशः । यद्येवम्, विभक्त्युत्पत्तिर्न प्राप्नोति, ठधातुःऽ इति प्रतिषेधेन प्रातिपदिकसंज्ञाया अभावात् ? नैष दोः; अधातुरिति पर्युदासोऽयम्, न प्रसज्यप्रतिषेधः । ततः किम् ? आतिदेशिकस्य कस्यचित् कार्यस्याभावात् धातोरन्यत्वात्स्वाश्रया प्रातिपदिकसंज्ञा प्रवर्तते । इयङदेशस्त्वातिदेशिको धातोर्विधीयमानत्वाद्भवति ॥ Nyaas ----- `क्षियः` इति। `क्षि क्षये` (धातुपाठः-236), `क्षि निवासगत्योः` (धातुपाठः-1407) इति द्वयोरपि ग्रहणम्; विशेषानुपादानात्। `क्षीणाअः क्लेशाः` इति। `क्तोऽधिकरणे` च` (3.4.76) इत्यादिनाऽकर्मकत्वात्? कर्तरि निष्ठा, `निष्ठायामण्यदर्थे` (6.4.60) इति दीर्घः। `क्षीणो जाल्मः, क्षीणस्तपस्वी` इत्यादि। `वाऽऽक्रोशदैभ्ययोः` (6.4.61) इति। ननु च `क्षियः` इति निर्देशादेव दीर्घस्य ग्रहणं विज्ञायते, तत्? किं दीर्घग्रहणेन? यदि ह्रस्वस्येवं ग्रहणं स्यात्, एवं सति परत्वात्? **घेर्ङिति** (7.3.111) इति गुणे कृते क्षेरिति निर्देशः स्यात्? इत्यत आह -`ह्रस्वस्यापि हि` इत्यादि। यदि नियोगतो दीर्घस्यैव धात्वनुकरणस्येयङा निर्देशः स्यात्, ततोऽस्मान्निर्देशाद्दीर्घस्येदं ग्रहणमिति विज्ञायते। न च दीर्घस्यैवेयङा निर्वेशो भवति। तथा हि ह्रस्वान्तस्यासौ दृष्टः क्षियः। `निष्ठायामण्यदर्थे` (6.4.60) इत्यत्रावसितं ह्रस्वान्तस्थेदमनुकर्णम्, न दीर्घान्तस्येति? उच्यते; यथाभूतस्यैवानुकर्तुयुक्तम्। ह्रस्वान्तस्य च दीर्घत्वं विधेयम्। अतस्तस्यैवानुकरणमिदमिति विज्ञायते। यदि तर्हि ह्रस्वान्तस्यापि धात्वनुकरणस्येयङा निर्देशो भवति, **विपराभ्यां जेः** (1.3.19) , **विभाषा चेः** (7.3.58) इत्येवमादावपि कस्मान्न भवति? इह `विपराभ्यां जेरित्येवमादौ` इत्यादि। अत्रासङ्कल्पमित्यतदध्याहार्यम्। धात्वनुकरणस्य हि `प्रकृतिवदनुकरणं भवति` (व्या।प।113) इतीयङा निर्देशो भवति। धात्वनुकरणं च किं भवितुमर्हति येन धातावनुकार्येव स्थितम्? धातुत्वं क्रियावाचित्वलक्षणं विवक्ष्यते। **विपराभ्यां जेः** (1.3.19) इत्येवमादौ त्वनुकार्यगतं धातुत्वं सदप्यववक्षितत्वादसङ्कल्पम्। तस्मान्नात्र धात्वनुकरणम्। अपि तु ङीप्रभृतेः क्रियावाचिनश्च तत्सादृश्यशब्दान्तरस्य ङीत्येवमादेर्यद्रूपसामान्यमर्थशून्यं तदनुकरणं द्रष्टव्यम्। तस्मादधात्वनुकरणत्वान्न भवतीयङादेश इत्यभिप्रायः। यदि तर्हि धात्वनुकरण स्यात्, प्रकृतिवदनुकरण भवतीति, एवं सत्यधातो (1.2.45) इति प्रातिपदिकसंज्ञाप्रतिषेधोऽपि स्यात्, ततश्च विभक्तिर्नोपपद्यते? वत्करणेनानुकार्येणार्थेणार्थनार्थवत्त्वस्याश्रयात्? प्रातिपदिकसंज्ञा भविष्यतीत्यदोषः॥ Prakriyasarvasvam ----------------- दीर्घात् क्षियो निष्ठातस्य नत्वं स्यात् । क्षीणः, क्षीणवान् । भावकर्मणोस्तु दीर्घो नत्वं च न । क्षितं दैत्यैः । क्षिताः कृष्णेन दैत्याः । ण्यर्थान्तर्भावात् सकर्मकः । Sutra Prayogas -------------- * **क्षीण-विक्रान्ताः** (भट्टिकाव्यम्): `क्षियो दीर्घात्` इति निष्ठानत्वम्।