82042: रदाभ्यां निष्ठातो नः पूर्वस्य च दः ========================================= **Padacheda:** रदाभ्याम् | S | 5 | 2 | निष्ठातः | S | 6 | 1 | नः | S | 1 | 1 | पूर्वस्य | S | 6 | 1 | च | S | 0 | 0 | दः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After र and द for the त of the Participial suffix त and तवत् there is substituted न and the same substitution takes place also for the preceding द। Vasu English Translation ------------------------ After र and द for the त of the Participial suffix त and तवत् there is substituted न and the same substitution takes place also for the preceding द। After र :- आस्तीर्णम्, विस्तीर्णम्, विशीर्णम्, निगीर्णम्, अवगूर्णम् ॥ After द :- भिन्नः, भिन्नवान्, छिन्नः, छिन्नवान् from भिद् and छिद् ॥ Why do we say "after र and द"? Observe कृतः, कृतवान् ॥ The word र here does not denote the common sound र, which would include ऋ also, but the consonant र ॥ But even if र् be taken a common sound-name including र् and ऋ, yet the न् change does not take place in कृत &c, because between त and the र्-sound, there intervenes vowel-sound इ, for ऋ is sounded not like pure र्, but र् + a vowel sound. Why do we say "of the Participial suffix"? Observe कर्त्ता, हर्त्ता ॥ Why do we say "for the त"? Observe चरितम्, हरितम् ॥ Here the त of the *Nishtha* does not follow immediately after र्, the augment इट् intervenes. Why do we say "of the preceding"? The succeeding द will not be changed. As भिन्नवद्भ्याम्, भिन्नवद्भिः ॥ In the word कार्तिः the descendant of कृतः the त of *Nishtha* is immediately preceded by र्, but no change has taken place, because the *Vriddhi*, by which कृ is changed to कार्, is *Bahiranga* and consequently *asiddha*, and for the purposes of न change, the र् so obtained is invalid. Bhashya ------- रदाभ्यां निष्ठातो नः पूर्वस्य च दः रदाभ्यामिति किमर्थम्?॥ चरितं मुदितम्॥ ननु च रदाभ्यामित्युच्यमानेऽप्यत्र प्राप्नोति। अत्रापि हि(5) रेफदकाराभ्यां परा निष्ठा॥ न रेफदकाराभ्यां निष्ठा विशेष्यते॥ किं तर्हि?॥ तकारो विशेष्यते-रेफदकाराभ्यामुत्तरस्य तकारस्य नो भवति स चेन्निष्ठाया इति॥ अथ झ्र्निष्ठादेशे(1)ट पूर्वग्रहणं किमर्थम्?॥ निष्ठादेशे पूर्वग्रहणं परस्यादेशप्रतिषेधार्थम्॥ निष्ठादेशे पूर्वग्रहणं क्रियते॥ झ्र्किं प्रयोजनं(1)?॥ परस्यादेशप्रतिषेधार्थम्ट। परस्यादेशो मा भूदिति। भिन्नवद्भ्याम्। भिन्नवदि्भः। छिन्नवद्भ्याम्(2)। छिन्नवदि्भः(2)॥ पञ्ञ्चमीनिर्दिष्टाद्धि परस्य॥ पञ्ञ्चमीनिर्दिष्टाद्धि परस्येति परस्य प्राप्नोति॥ वृद्धिनिमित्तात्प्रतिषेधः॥ वृद्धिनिमित्तात्प्रतिषेधो वक्तव्यः॥ किं प्रयोजनम्?॥ प्रयोजनं(2) कार्तिक्षैतिफौल्लयः॥ प्रयोजनं(3) कार्तिक्षैतिफौल्लयः। कार्तिरिति वृद्धौ कृतायां रदाभ्यामिति नत्वं प्राप्नोति। क्षैतिरिति वृद्धौ कृतायां क्षियो दीर्घादिति नत्वं प्राप्नोति। फौल्लिः इति वृद्धौ कृतायामुदुपधत्वसन्नियोगेन लत्वमुच्यमानं न प्राप्नोति॥ अथोच्यमानेऽपि प्रतिषेधे वृद्धिनिमित्तादिति कथमिदं विज्ञायते, -वृद्धिरेव निमित्तं वृद्धिनिमित्तं, वृद्धिनिमित्तादिति?॥ आहो स्विद्धृद्धि(1)र्निमित्तमस्य सोऽयं वृद्धिनिमित्तः,वृद्धिनिमित्तादिति?॥ किं चातः?॥ यदि विज्ञायते वृद्धिरेव निमित्तं वृद्धिनिमित्तं वृद्धिनिमित्तादिति, -क्षतिः सङ्गृहीतः कार्त्तिरसङ्गृहीतः। अथ विज्ञायते वृद्धिर्निमित्तमस्य(1) सोऽयं वृद्धिनिमित्तः, वृद्धिनिमित्तादिति,-कार्तिः सङ्गृहीतः क्षैतिरसङ्गृहीतः। उभयथा च फौल्लिरसङ्गृहीतः॥ यथेच्छसि तथाऽस्तु॥ अस्तु तावद्वृद्धिरेव निमित्तं वृद्धिनिमित्तं, वृद्धिनिमित्तादिति। ननु चोक्तं-क्षैतिः सङ्गृहीतः कार्तिरसङ्गृहीतइति॥ कार्तिश्च सङ्गृहीतः॥ कथम्?॥ वृद्धिर्भवति गुणो भवतीति(2) रेफशिरा गुणवृद्धिसंज्ञकोऽभिनिर्वर्त्तते(3)। अथ वा पुनरस्तु-वृद्धिनिमित्तमस्य सोऽयं वृद्धिनिमित्तः, वृद्धिनिमित्तादिति॥ ननु चोक्तं-कार्तिः सङ्गृहीतः क्षैतिरसङ्गृहीतःइति॥ क्षैतिश्च सङ्गृहीतः॥ कथम्? ॥ यत्तद्वृद्धिशास्त्रं तस्मिन्वृद्धिशब्दो वर्तते॥ स तर्हि प्रतिषेधो वक्तव्यः?॥ न वा बहिरङ्गलक्षणत्वात्॥ न वा वक्तव्यः(1)॥ किं कारणम्?॥ बहिरङ्गलक्षणत्वात्। बहिरङ्गा वृद्धिरन्तरङ्गं तत्वम्। असिद्धं बहिरङ्गमन्तरङ्गे॥ एवं च कृत्वा लत्वमपि सिद्धं भवति फौल्लिरिति॥ रदाभ्यां निष्ठातः Kashika ------- रेफदकाराभ्यामुत्तरस्य निष्ठातकारस्य नकार आदेशो भवति, पूर्वस्य च दकारस्य रेफात् तावत् — आस्तीर्णम्। विस्तीर्णम्। विशीर्णम्। निगीर्णम्। अवगूर्णम्। दकारात् — भिन्नः। भिन्नवान्। छिन्नः। छिन्नवान्। रदाभ्यामिति किम्? कृतः। कृतवान्। र इत्यत्र रश्रुतिसामान्यं नोपादीयते। किं तर्हि? व्यञ्जनमात्रम्। रेफसामान्यनिर्देशेऽपि सति रेफात् परा याज्भक्तिः, तद्व्यवधानाद् नत्वं न भवति। निष्ठेति किम्? कर्ता। हर्ता। त इति किम्? चरितम्। मुदितम्। पूर्वस्येति किम्? परस्य मा भूत् — भिन्नवद्भ्याम्, भिन्नवद्भिः। इह कृतस्यापत्यं कार्तिरिति वृद्धेर्बहिरङ्गलक्षणाया असिद्धत्वाद् नत्वे कर्तव्ये रेफस्यासिद्धत्वम्॥ Siddhanta Kaumudi ----------------- रेफदकाराभ्यां परस्य निष्ठातस्य नः स्यात् । निष्ठापेक्षया पूर्वस्य धातोर्दकारस्य च । शॄ । ऋत इत् (SK2390) । रपरः । णत्वम् । शीर्णः । बहिरङ्गत्वेन वृद्धेरसिद्धत्वान्नेह । कृतस्यापत्यं कार्तिः । भिन्नः । छिन्नः ॥ Laghu Siddhanta Kaumudi ----------------------- रदाभ्यां परस्य निष्ठातस्य नः स्यात् निष्ठापेक्षया पूर्वस्य धातोर्दस्य च॥ शॄ हिंसायाम्॥ ॠत इत्। रपरः। णत्वम्। शीर्णः। भिन्नः। छिन्नः॥ Balamanorama ------------ **रदाभ्यां निष्ठातो नः पूर्वस्य च दः** - रदाभ्यां । रदाभ्यामित्यकारावुच्चारणाऽर्थौ । तदाह — रेफदकाराभ्यामिति । निष्ठायाः - त्- निष्ठात्, तस्य निष्ठात इति विग्रहः । तदाह — निष्ठातस्येति । निष्ठातकारस्येत्यर्थः । नः स्यादिति । नकारः स्यादित्यर्थः । सूत्रे 'न' इति प्रथमान्तम् । अकार उच्चारणार्थः । दकारसय्चेतिनकार॑इत्यनुषज्यते । सूत्रे 'द' इति षष्ठन्तमिति भावः । चरितमुदितमित्यत्र तु नत्वं न, निष्ठातकारस्य इटा व्यवहितत्वेन रदाभ्यां परत्वाऽभावात् । रेफात्परस्योदाहरति — श इति । शृ धातोः क्तप्रत्ययसूचनमिदम् ।ननु कृतस्यापत्यं कार्तिः । अत इञ् , आदिवृद्धिः, रपरत्वम् । अत्रनिष्ठातकारस्य रेफात् परस्य नत्वं स्यादित्यत आह — बहिरङ्गत्वेनेति । दात्परस्योदाहरति — छिन्नः भिन्न इति । अत्र निष्टातकारस्य, धात्वन्तदकारस्यच नत्वमिति भावः । Tattvabodhini ------------- **रदाभ्यां निष्ठातो नः पूर्वस्य च दः** - रदाभ्याम् । इह रदाभ्यामित्यनेन तकारो विशेष्यते, न निष्ठा, तेन चरितमुदितमित्यत्र न , तकारस्येटा व्यतत्वात् । तदेतदाह — परस्य निष्ठातस्येति । बहिरङ्गत्वेनेति । निष्ठातकाराद्बहिर्भूतं तद्धितञित्प्रत्ययमाश्रित्याऽङ्गस्यादेरचो विधीयमानत्वाद्वृद्धिर्बहिरङ्गेति भावः । द्राण इति । द्रा कुत्सायां गतौ । ग्लानः म्लान इति । ग्लौ म्लै हर्षक्षये । Padamanjari ----------- 'निष्ठातः' इति समासनिर्देशः । तत्र प्रधानभूततकारः रदाभ्याम्ऽ इत्यनेन विशेष्यते, न गुणभूता निष्ठेत्याह -रेफदकाराभ्यामुतरस्येति । तेन चरितम्, मुदितमित्यत्र निष्ठाया अव्यवधानेऽपि तस्येटा व्यवहितत्वान्नत्वं न भवति । अवगूर्णमिति ।'गुरी उद्यमने' ,'श्वीदितो निष्ठायाम्' इतीटप्रतिषेधः, पूर्वेषु र्ठ्श्युकः कितिऽ इति । भिन्नः, भिन्नवानिति । आदेशे'न' इत्यकार उच्चारणार्थः, तेन दकारस्य स्थाने शुद्धो नकारो भवति । कृतः कृतवानिति । ननु यथा'कृपो रो लः' इत्यृकारस्यापि रेफस्य लकारो भवति, तथेहापि ऋकारस्य रेफमाश्रित्य नत्वं प्राप्नोति ? अत आह - र इत्यत्रेति । युक्तं तत्र सामान्योपादानात्, इह तु न सामान्यमुपादीयते, किं तर्हि ? व्यञ्जनम् । किमात्मकम् ? अर्द्धमात्रात्मकम्, ऋकारस्तु मात्राचतुर्भागात्मकः । अस्तु वा सामान्यनिर्देशः, तथापि न दोष इत्याह - सामान्यनिर्देशे चेति । ऋकारे ह्यभितोऽज्भक्तिः, मध्ये रेफभक्तिः, ततश्च परयाऽज्यभक्त्या व्यवधानान्नास्ति नत्वप्रसङ्गः । चरितम्, मुदितमिति ।'त' इत्यनुच्यमाने इटो निष्ठाभक्तत्वातस्य नत्वप्रसङ्गः । परस्य मा भूदिति । परस्यैव मा भूदित्यर्थः । असति पूर्वग्रहणे पाठक्रमे निष्ठा प्रत्यासन्नेति तद्दकारस्येव नत्वेन भाव्यम् । तेनैतदपि न चोदनीयम् - बहिरङ्गत्वाल्लाक्षणिकत्वाच्च न भविष्यतीति । किञ्च - पदस्येत्यधिकारात् पदावस्थायां नत्वविधानाद्बहिरङ्गत्वमपि नास्ति । केवलस्य वर्णस्यानुपदेशात् प्रतिपदोक्तत्वमपि नास्ति । अथापि प्रत्यासतिर्नापेक्ष्यते, तथापि पञ्चमीनिर्देशात् परस्यैव प्रसङ्गः । कार्तिरित्यत्र बहिर्भूततद्धितापेक्षत्वाद्बहिरङ्गा वृद्धिः । वृद्धेश्च यन्निमितं तदेव रेफस्यापि; ठुरण् रपरःऽ इत्यस्य वृद्धिविधिनैकवाक्यत्वात् ॥ Nyaas ----- `आस्तीर्णम्` इति। `स्तृञ्? आच्छादने` (धातुपाठः-1484)। `ऋत इद्धातोः` (7.1.100) इतीत्त्वम्, `हलि च` (8.2.77) इति दीर्घः। `विशीर्णम्` इति। `शृहिंसायाम्` (धातुपाठः-1488)। `निगीर्णम्` इति। `गृ? निगरणे` (धातुपाठः-1410)। एषु `श्रयुकः किति` (7.2.11) इतीट्प्रतिषेधः, `अवगूर्णम्` इति। `गुरी उद्यमने` (धातुपाठः-1396)। `श्वीदितो निष्ठायाम्` (7.2.14) इतीट्प्रतिषेधः। अथ यथा **कृपो रो लः** (8.2.18) इत्यत्र `र` इति वर्णत्वावर्णत्वकृतं भेदमुत्सृज्य सामान्यस्योपादानम्, तथेहापि, अस्ति च ऋकारे रेफः; ततश्च कृतः कृतवानित्यत्र भवितव्यमेव नत्वेनेति यो मन्यते, तं प्रत्याह -`र इत्यत्र` इत्यादि। यद्यत्र `र` इति सामान्यमुपादीयेत तस्मादेवः प्रसङ्गः, न तु रश्रुतिसामान्यमुपादीयते, किं तर्हि? व्यञ्जनमर्धमात्रात्मकम्। न च समानाकारोऽस्तीति कुतो नत्वप्रसङ्गः? भवतु नाम सामान्यस्योपादानम्, तथापि नैवात्र नत्वं प्रसज्यत इति दर्शयितुमाह -`सामान्यनिर्देशेऽपि` इत्यादि। ऋकारोऽत्र ये भागास्तन्मध्यवर्ती रेफो मात्राचतुर्भागात्मकः, तत्र योऽसौ रेफात्परस्तृतीयो भागस्तेन व्यवधानान्न भवति।`चरितम्, मुदितम्` इति। `चर गत्यर्थः` (धातुपाठः-559),`मुद हर्षे` (धातुपाठः-16)। असति हि `त` इति ग्रहणे `रदाभ्याम्` इत्यनेन निष्ठा विशेष्यते -रदाभ्यां परा या निष्ठेति, ततश्चरितमित्यादौ **आदेः परस्य** (1.1.54) इति इट एव नत्वं स्यात्; तस्य निष्ठाभक्तत्वात्। अथ `त` इत्युच्यमाने चरितमित्यादौ तकारस्य कस्मान्न भवति? इटा व्यवहितत्वात्। स हि प्रत्ययभक्तत्वात्? प्रत्ययमेव न व्यवदध्यात्। तदवयवत्वं तु व्यवदध्यादेव। `परस्य मा भूत्` इति। असति हि पूर्वग्रहणे यदि हि सन्निहितया निष्ठया दकारो विशेष्येत -निष्ठाया यो दकार इति, ततो जशत्वे कृते परस्यैव स्यात् -भिन्नवद्भ्याम्, भिन्नवद्भिरित्यादौ। अथ न विशेष्येत, ततो विशेषानुपादानाद्यथापूर्वस्य भवति, तथा परस्यापि। तस्मात्? परस्य मा भूदित्येवमर्थं पूर्वग्रहणं कृतम्। अथ कृतस्यापत्यम्, `अत इञ्` (4.1.95) कार्त्तिरित्यत्र कस्मान्न भवति? इत्याह -`इह` इत्यादि। वृद्धिर्हि तद्धितं निमित्तमाश्रित्य भवतीति बहिरङ्गा, नत्वं तु न किञ्चिद्बाह्रं निमित्तमाश्रित्य भविष्यतीत्यतस्तदन्तरङ्गम्। तस्माद्वृद्धेर्बहिरङ्गत्वान्नत्वे कर्तव्ये रेफस्यासिद्धत्वम्। ननु च यदि तर्हि बहिरङ्गलक्षणा सा, तस्या एवासिद्धत्वेन भवितुं युक्तम्, न तु रेफस्यापि, न हि रेफो वृद्धिर्भवति? नैष दोषः; वृद्ध्याश्रितो हि रेफः, ततो वृद्धेर्बहिरङ्गत्वाद्रेफस्यापि बहिरङ्गत्वेन भाव्यम्॥ Prakriyasarvasvam ----------------- रेफदकाराभ्यां परस्य निष्ठातकारस्य नत्वं स्यात् पूर्वस्य दकारस्य च स्यात् । तिर् न ॥ Sutra Prayogas -------------- * **अवतीर्णवान्** (शिशुपालवधम्): `रदाभ्यां निष्ठातो नः पूर्वस्य च दः` इति निष्ठानत्वम्। * **तूर्णम्** (भट्टिकाव्यम्): `रदाभ्याम्...` इति नत्वम् । * **अभ्यर्ण** (भट्टिकाव्यम्): `र-दाभ्याम्` इति नत्वम्। * **क्षुण्ण-भिन्न-विपन्न-कैः** (भट्टिकाव्यम्): `र-दाभ्यां` इति दस्य च नः । * **जीर्णं** (भट्टिकाव्यम्): `र-दाभ्याम्` इति निष्ठानत्वम्। * **संशूनान्** (भट्टिकाव्यम्): `रदाभ्याम्` इति निष्ठानत्वम्। * **विरुग्ण-संकीर्ण-विपन्न-भिन्नैः** (भट्टिकाव्यम्): `रदाभ्याम्` इति नत्वम्।