82034: नहो धः ============= **Padacheda:** नहः | S | 6 | 1 | धः | S | 1 | 1 | Sutrartha --------- **नह्-धातोः अन्तिमहकारस्य पदान्ते झल्-वर्णे वा परे धकारादेशः भवति ।** णहँ (बन्धने) अस्य धातोः हकारस्य झलि परे पदान्ते च **हो ढः** (8.2.31) इत्यनेन ढत्वे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन धत्वम् विधीयते । यथा - 1) 'उप+नह्' इत्यस्य क्विप्-प्रत्यये कृते 'उपानह्' अयं हकारान्तः शब्दः सिद्ध्यति । अस्य प्रथमैकवचने - उपानह् + सुँ → उपानह् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः । लोपेऽपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इति नह्-इत्यस्य **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा] → उपानध् [**नहो धः** (8.2.34) इति पदान्ते हकारस्य धकारः] → उपानद् [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वम्] → उपानद् / उपानत् [**वा पदान्तस्य** (8.4.56) इति वैकल्पिकं चर्त्वम्] 2) नह्-धातोः क्त-प्रत्ययान्तरूपम् - नह् + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः] → नध् + त [हकारस्य **नहो धः** (8.2.34) इति झलि परे धकारः] → नध् + ध [**झषस्तथोर्धोऽधः** (8.2.40) इत्यनेन तकारस्य धकारः] → नद् + ध [**झलां जश् झशि** (8.4.55) इति धकारस्य दकारः] → नद्ध Sutrartha (English) ------------------- The हकार for the verb नह् is converted to धकार at पदान्त or when followed by a झल् letter. Vasu English Summary -------------------- The ह of नह् is changed to ध before a before a झल् (all consonant except semi-vowels and nasals) letter or at the end of a word. Vasu English Translation ------------------------ The ह of नह् is changed to ध before a before a झल् (all consonant except semi-vowels and nasals) letter or at the end of a word. As नद्धा, नद्धुम्, नद्धव्यम्, उपानत्, परीणत् ॥ The त् of the affixes तृ &c, is changed to ध by (8.2.40); and for the preceding ध is substituted द by (8.4.53). उपानत् is formed by (8.2.39), read with (8.4.56). परीणत् is formed by क्विप् as it belongs to सम्पदादि class, the lengthening is by (6.3.116), and ण-change by (8.4.14). It would have shortened the processes of transformation, had only द been ordained in the *sutra*, instead of ध; but the ordaining of ध is for the purposes of (8.2.40), by which there should be ध for the participial त &c, in नद्धम्, and that there should not be the change of this *Nishtha* त into म by (8.2.42). Thus नध् + त = नध् + ध (8.2.40) नद्धम् (8.4.53) But had the substitute been द, we should have नद् + त = नन्नं by (8.2.42). Kashika ------- नहो हकारस्य धकारादेशो भवति झलि परे, पदान्ते च। नद्धम्। नद्धुम्। नद्धव्यम्। उपानत्। परीणत्॥ Siddhanta Kaumudi ----------------- नहो हस्य धः स्याज्झलि पदान्ते च । उपानत् । उपानद् । उपानहौ । उपानहः । उपानद्भ्याम् । उपानत्सु । उत्पूर्वात् ष्णिह प्रीतावित्स्मात् ऋत्विक् (SK373)आदिना क्विन् । निपातनाद्दलोपषत्वे । क्विन्नन्तत्वात्कुत्वेन हस्य घः । जश्त्वचर्त्वे । उष्णिक् । उष्णिग् । उष्णिहौ । उष्णिहः । उष्णिग्भ्याम् । उष्णिक्षु । द्यौः । दिवौ । दिवः । द्युषु । गीः । गिरौ । गिरः । एवं पूः । चतुरश्चतस्रादेशः । चतस्रः 2 । चतसृणाम् । किमः कादेशे टाप् । का । के । काः । सर्ववत् ॥ Laghu Siddhanta Kaumudi ----------------------- नहो हस्य धः स्याज्झलि पदान्ते च॥ Tattvabodhini ------------- नहो धः। `द`इत्येव तु नोक्तं, तथा हि सति `नद्ध`मित्यत्र `रदाभ्यां`मिति नत्वं स्यात्, `झषस्तथो`रिति च न स्यात्। नहो हस्येति। `हो ढः`इत्यतोऽनुवृत्तेः `अलोऽन्त्यस्ये`त्यनेन वा हस्यैवादेश इति भावः। `झलो झलि``पदस्य``स्कोः `संयोगाद्योरन्ते चे`त्यतो झल्पदान्तग्रहणान्यनुवर्तन्ते। तदाह -झलीत्यादि। झलि परतः पदान्ते वा विद्यमानेस्येत्यर्थः। उपानदिति। उपपूर्वान्नहेः संपदादित्वात्क्विपि `नहिवृती`ति पूर्वपदस्य दीर्घः। सोर्हङ्यादिलोपे धत्वम्। जश्त्वचर्त्वे। अत्रेदं बोध्यम् -सुष्ठु अनङ्वाहो यस्यामिति बहुव्रीहौ `स्वनङ्वा`निति पुंवदेव रूपम्ष। केचित्तु गौरादिङीषं कृत्वा `स्वनङ्वाही`त्युदाजह्रुः। तदसत्। अनुपसर्जनाधिकारविरोधात्। गीरिति। `गृ? निगरणे`, `गृ? शब्दे`इत्यस्माद्वा क्विप्। `ॠत इद्धातोः`इतीत्त्वे रपरत्वम्। `र्वोरुप धाया दीर्घः`इति दीर्घः। पूरिति। `पृ? पालनपूरणयोः``उदोष्ठ�पूर्वस्य`इत्युत्त्वम्। चतरुआ इति। इह `चतुरनडुहो`रित्याम्न भवति, परत्वादामं बाधित्वा चतरुआआदेसे कृते सकृद्गतिन्यायेन पुनस्तस्याऽप्रवृत्तेः। चतसृणामिति। `न तुसृचतसृ`इति न दीर्घः। सर्ववदिति। `तेन तुल्य`मिति वति। `सर्वनाम्नो वृत्तिमात्रे`इति पुंवद्भावः। Praudhamanorama --------------- द इत्येव नोक्तम्, तथा हि सति नद्धमित्यत्र 'रदाभ्याम्' इति नत्वं स्यात्। 'झषस्तथोः' इति च न स्यात्। अत्रेदमवधेयम्- सुष्ठु अनड्वाहो यस्यामिति बहुव्रीहौ स्वनड्वाहीत्युदाजह्रुस्तच्चिन्त्यम् 'अनुपसर्जनात्' इत्यधिकारविरोधात्। **गीरिति।** गॄ निगरणे शब्दे च। क्विप्। 'ॠत इत्' इतीत्त्वम्। 'र्वोरुपधाया' दीर्घः। **पूरिति।** पॄ पालनपूरणयोः। 'उदोष्ठयपूर्वस्य' इत्त्युत्वम्। Prakriyasarvasvam ----------------- नहेर्झलि पदान्ते च हस्य धः स्यात् । तस्य धत्वं जश्त्वम् । नद्धा । मे तृ, Sudha ----- **नहो ध इति ।** **हो ढः** इत्यतो 'हः' इत्यनुवर्तते, **पदस्य** इत्यधिकृतम् **स्कोः संयोगाद्योरन्ते च** इत्यतोऽन्ते इत्यनुवर्तते । **झलो झलि** इत्यतो झलि इत्यनुवर्तते । तदाह - **नहो हस्येत्यादिना** । Sutra Prayogas -------------- * **समनात्सीत्ततः** (भट्टिकाव्यम्): `नहो धः` इति धत्वम्। * **सन्नत्स्याम्यथवा** (भट्टिकाव्यम्): `नहो धः` इति धत्वम्।