82029: स्कोः संयोगाद्योरन्ते च
==============================
**Padacheda:** स्कोः | S | 6 | 2 |
संयोगाद्योः | S | 6 | 2 |
अन्ते | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha
---------
**यः संयोगः पदस्य अन्ते उत झल्-वर्णात् अव्यवहितरूपेण पूर्वं विद्यते, तस्य आदिस्थस्य सकारस्य ककारस्य च लोपः भवति ।**
झल् = वर्गप्रथमाः + वर्गद्वितीयाः + वर्गतृतीयाः + वर्गचतुर्थाः + ऊष्माणः । आहत्य 24 व्यञ्जनानि
**संयोगान्तस्य लोपः** (8.2.23) इति सूत्रेण पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपे प्राप्ते; तदपवादत्वेन प्रकृतसूत्रं प्रवर्तते । पदान्ते विद्यमानस्य संयोगस्य, तथा च यस्मात् संयोगात् अनन्तरम् अव्यवहितरूपेण झल्-प्रत्याहारस्य वर्णः अस्ति तादृशस्य संयोगस्य प्रथमः वर्णः सकारः उत ककारः अस्ति चेत् तस्य सकारस्य / ककारस्य एव लोपः भवति — इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि —
1. पदान्तसंयोगस्य आदिस्थसकारस्य लोपः
"भृस्ज्" इति जकारान्तशब्दस्य तृतीयाद्विवचनस्य रूपसिद्धौ प्रकृतसूत्रेण सकारस्य लोपः भवति —
.. code-block:: text
भृस्ज् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे **स्वादिष्वसर्वनामस्थाने** (1.4.17) इत्यनेन प्रकृतेः पदसंज्ञा भवति ।]
→ भृज् + भ्याम् [**स्कोः संयोगाद्योरन्ते च** (8.2.29) इति सकारलोपः]
→ भृष् + भ्याम् [**व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति जकारस्य षकारः]
→ भृड् + भ्याम् [**झलां जशोऽन्ते** (8.2.39) इति षकारस्य जश्त्वे डकारः]
→ भृड्भ्याम्
2. अपदान्तसंयोगात् झल्-वर्णे परे आदिस्थसकारस्य लोपः
"मस्ज्"-धातोः क्त-प्रत्ययान्तरूपस्य स्थितौ झल्-वर्णे परे प्रकृतसूत्रेण संयोगादिसकारस्य लोपः भवति —
.. code-block:: text
टुमस्जोँ (शुद्धौ, तुदादिः, (6.151))
→ मस्ज् [**आदिर्ञिटुडवः** (1.3.5) इति टु-समुदायस्य इत्संज्ञा । **उपदेशेऽजनुनासिक इत्** (1.3.2) इति ओकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः]
→ मस्ज् + क्त [**निष्ठा** (3.2.102) इति क्तप्रत्ययः]
→ मस्ज् + त [**लशक्वतद्धिते** (1.3.8) इति ककारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः]
→ मज् + त [**स्कोः संयोगाद्योरन्ते च** (8.2.29) इति सकारलोपः]
→ मग् + त [**चोः कुः** (8.2.30) इति झलि परे जकारस्य कुत्वे गकारः]
→ मग् + न [**ओदितश्च** (8.2.45) इति निष्ठानत्वम्]
→ मग्न
3. पदान्तसंयोगस्य आदिस्थककारस्य लोपः
"तक्ष्" इति षकारान्तशब्दस्य तृतीयाद्विवचनस्य रूपसिद्धौ प्रकृतसूत्रेण ककारस्य लोपः भवति —
.. code-block:: text
तक्ष् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे **स्वादिष्वसर्वनामस्थाने** (1.4.17) इत्यनेन प्रकृतेः पदसंज्ञा भवति ।]
→ तष् + भ्याम् [**स्कोः संयोगाद्योरन्ते च** (8.2.29) इति सकारलोपः]
→ तड् + भ्याम् [**झलां जशोऽन्ते** (8.2.39) इति षकारस्य जश्त्वे डकारः]
→ तड्भ्याम्
4. अपदान्तसंयोगात् झल्-वर्णे परे आदिस्थककारस्य लोपः
अदादिगणस्य "चक्ष्"-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपे तकारादिप्रत्यये परे प्रकृतसूत्रेण संयोागादिककारस्य लोपः भवति —
.. code-block:: text
चक्षिङ् (व्यक्तायां वाचि, अदादिः, (2.7))
→ चक्ष् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्]
→ चक्ष् + त [**तिप्तस्झि...** (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]
→ चक्ष् + ते [**टित आत्मनेपदानां टेरे** (3.4.79) इति एत्वम्]
→ चक्ष् + शप् + ते [**कर्तरि शप्** (3.1.68) इति शप्]
→ चक्ष् + ते [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शब्लुक्]
→ चष् + ते [**स्कोः संयोगाद्योरन्ते च** (8.2.29) इति ककारलोपः]
→ चष्टे [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम्]
**दलकृत्यम्**
1. **पदान्ते उत झलि परे किमर्थम् ?** — यत्र संयोगात् परः स्वरः / अन्तःस्थवर्णः / वर्गपञ्चमः विद्यते, तत्र प्रकृतसूत्रेण संयोगादिसकारस्य संयोगादिककारस्य च लोपः न भवति । यथा, "अक्षि" इति शब्दस्य पञ्चम्येकवचने "अक्ष्णः" इत्यत्र नकारे परे संयोगादिककारस्य लोपः न भवति ।
2. **स्कोः इति किम्?** — प्रकृतसूत्रेण केवलम् सकारस्य ककारस्य च एव लोपः भवति, अन्यवर्णानां न । यथा, "भिद्"-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य "भिन्त्तः" इत्यस्मिन् रूपे तकारे परे संयोागादि-नकारस्य लोपः न भवति ।
**बहिरङ्गयणादेशस्य कृते अन्तरङ्गः लोपः असिद्धः भवति**
"असि + अत्र → अस्यत्र", "काकु + अत्र → काक्वत्र" एतादृशानां शब्दानां सिद्धौ इक्-वर्णस्य यणादेशे कृते पदान्तसंयोगस्य आदौ सकारः ककारः वा जायते, अतः प्रकृतसूत्रेण तस्य अनिष्टः लोपः प्राप्नोति । तस्य निवारणार्थम् **असिद्धं बहिरङ्गमन्तरङ्गे** इति परिभाषायाः साहाय्यं स्वीक्रियते । अत्र प्रक्रियायाम् विद्यमानस्य यणादेशस्य निमित्तम् अग्रे विद्यमानः भिन्नपदस्थः अकारः अस्ति, परन्तु सकारलोपस्य निमित्तम् "अस्य्" इति एकस्मिन् एव पदे विद्यमानः संयोगः अस्ति । अतः, **बह्वपेक्षम् बहिरङ्गम्, अल्पापेक्षम् अन्तरङ्गम्** इति सिद्धान्तम् अनुसृत्य अत्र ** यणादेशस्य अपेक्षया सकारलोपः अन्तरङ्गः अस्ति** । अतश्च **असिद्धं बहिरङ्गमन्तरङ्गे** इत्यनया परिभाषया यणादेशः संयोगान्तलोपस्य कृते असिद्धः एव ज्ञेयः । इत्युक्ते, यणादेशे कृते तत्पश्चात् सकारलोपः न हि प्रवर्तते । अयमेव सिद्धान्तः काशिकायाम् अपि उक्तः अस्ति । प्रक्रिया इयम् —
.. code-block:: text
असि + अत्र
→ अस्य + अत्र [**इको यणचि** (6.1.77) इति इकारस्य यणादेशः यकारः । अत्र 'असि' इति शब्दस्य पदसंज्ञा अस्ति, अतः स्थानिवद्भावेन 'अस्य्' इति शब्दस्य अपि पदसंज्ञा अवश्यं भवति । अस्यां स्थितौ **स्कोः संयोगाद्योरन्ते च** (8.2.23) इति सूत्रेण सकारस्य अनिष्टः लोपः प्राप्नोति । परन्तु ** असिद्धं बहिरङ्गमन्तरङ्गे** इत्यनया परिभाषया यणादेशस्य बहिरङ्गत्वात्, असिद्धत्वात् च अयं लोपः नैव विधीयते ।]
→ अस्यत्र
Sutrartha (English)
-------------------
If there is a संयोगः at end of a पद, or if there is a संयोगः which is followed by a झल्-वर्ण, and if the first letter of that संयोगः is either स् or क् , then this letter is deleted.
Vasu English Summary
--------------------
The स् or क् , when initial in a conjunct consonant, are elided before a झल् (all consonant except semi-vowels and nasals) affix and at the end of a word.
Vasu English Translation
------------------------
The स् or क् , when initial in a conjunct consonant, are elided before a झल् (all consonant except semi-vowels and nasals) affix and at the end of a word.
A conjunct consonant, having स for क as its first member, when coming at the end of a *Pada*, or when followed by a *jhal* beginning affix, loses its स् or क् ॥ Thus from the root लस्ज् we have लग्नः and लग्नवान् before the *jhal* affix त and तवत्; the substitution of न् for त् is considered *asiddha* for this purpose (8.2.1). So also साधुलक् at the end of a *Pada*. Similarly मग्नः मग्नवान्, साधुमक् from मस्ज् ॥ So also with initial क्, as तट् from तक्ष्; so also तष्टः, तष्टवान्, काष्ठतट् ॥
Vart:- It should be rather stated that "before a *jhal* affix included in the *pratyahara* सङ्" ॥ The सङ् is a *pratyahara* formed with the स of सन् (3.1.5) and the ङ् of महिङ् (3.4.78). It thus includes all the *krit* affixes, and *dhatu* affixes i. e. affixes which come after a verb and not the *Taddhita* or the Feminine affixes. This *Vartika* applies to all the preceding *sutras* of this sub-division and is of use in the following places.
गिरोऽभोधिर्द्विष्टरां च दृषत्स्थः काष्ठशक्स्थिरः । कुञ्चाघुर्येति मा स्मैषु सत्वादीनि भवांत्विति ॥
So that in गिरः there should not be the optional ल by (8.2.21). In अभोधिः, the स् of अभस् is not elided before धि as required by (8.2.25). In द्विष्टरां the rule (8.2.27) does not apply. In दृषत्स्थः the rule (8.2.26) does not apply. In काष्ठशक्स्थिरः the rule (8.2.29) is non-applicable. In क्रुञ्चा the rule (8.2.30) does not apply. In धुर्यः (धुरं वहति) there is not lengthening by (8.2.77). Thus काष्ठशक्स्थाता ॥ Here क् would require to be elided as initial in a consonant, followed by a *jhal* consonant थ ॥ काष्ठशक् is formed by adding क्विप् to शक् ॥ But according to *Patanjali*, there can be formed no valid word from शक् with क्विप्, a fortiori, no such word can be formed as काष्ठशक्स्थाता (काष्ठशकि तिष्ठति).
In वास्यर्थम्, काक्यर्थम्, the स् and क् are not elided, because य् is a *Bahiranga* substitute and *asiddha*, and the word वास्य् काक्य् are not considered as *Pada*, ending in a conjunct consonant.
Why do we say "of स् and क्"? Observe नर्नर्त्ति, वर्वर्त्ति ॥
Why do we say 'initial in a conjunct consonant'? Observe पयः शक् ॥
Why do we say 'at the end of a word'? Observe तक्षिता, तक्षकः ॥
Kashika
-------
पदस्यान्ते यः संयोगः, झलि परतो वा यः संयोगः, तदाद्योः सकारककारयोर्लोपो भवति। लस्जेः — लग्नः। लग्नवान्। साधुलक् । मस्जेः — मग्नः। ककारस्य — तक्षेः — तट्। तष्टः। तष्टवान्। काष्ठतट्॥ झलि सङीति वक्तव्यम्॥ किमिदं सङीति? सनः सप्रभृति महिङो ङकारेण प्रत्याहारः। इह मा भूत् — काष्ठशक् स्थातेति। थकारे झलि ककारस्य संयोगादेर्लोपः प्राप्नोति। तदत्र शकेः क्विबन्तस्य प्रयोग एव नास्तीत्याह — **काष्ठशगेव नास्ति कुतोऽयं काष्ठशकि तिष्ठेत्** (महाभाष्य ३.४००) इति। वास्यर्थम्, काक्यर्थम् इत्यत्रापि बहिरङ्गलक्षणस्य यणादेशस्यासिद्धत्वात् संयोगादिलोपो न भवति। स्कोरिति किम्? नर्नर्त्ति। वर्वर्त्ति। संयोगाद्योरिति किम्? पयः। शक् । अन्ते चेति किम्? तक्षिता। तक्षकः॥
Siddhanta Kaumudi
-----------------
पदान्ते झलि च परे यः संयोगस्तदाद्योः सकारककारयोर्लोपः स्यात् । भृट् । भृड् । सस्य श्चुत्वेन शः । तस्य जश्त्वेन जः । भृज्जौ । भृज्जः । ऋत्विग् (SK373) इत्यादिना ऋतावुपपदे यजेः क्विन् । क्विन्नन्तत्वात्कुत्वम् । ऋत्विक् । ऋत्विग् । ऋत्विजौ । ऋत्विजः । रात्सस्य (SK280) इति नियमान्न संयोगान्तलोपः । उर्क् । उर्ग् । ऊर्जौ । ऊर्जः । त्यदाद्यत्वं पररूपत्वं च ॥
Laghu Siddhanta Kaumudi
-----------------------
पदान्ते झलि च यः संयोगस्तदाद्योः स्कोर्लोपः। भृट्। सस्य श्चुत्वेन शः। झलां जश् झशि इति शस्य जः। भृज्जौ। भृड्भ्याम्॥ त्यदाद्यत्वं पररूपत्वं च॥
Balamanorama
------------
**स्कोः संयोगाद्योरन्ते च** - तत्र विशेषमाह — स्कोः संयोगाद्योः ।पदस्ये॑त्यधिकृतम् । चकारात्झलो झली॑त्यतोझली॑त्यनुवर्तते । पदस्यान्ते इति झलीति च संयोगेत्यनेन संबध्यते ।संयोगे॑ति लुप्तषष्ठीकं पृथक्पदम् । स् च क् च स्कौ, तयोरिति विग्रहः 'संयोगान्तस्य लोपः' इत्यतो 'लोप' इत्यनुवर्तते । तदाह — पदन्ते इत्यादिना । अत्र काष्ठशक् स्थातेत्यत्र झल्परसंयोगादित्वात्ककारस्य लोपप्राप्तौ तन्निवृत्त्यर्थं वार्तिकं पठितं-झलीत्यपहायसङीति वक्तव्य॑मिति । सनः सकारमारभ्य आमहिङो ङकारेण प्रत्याहारः । तदिदं वार्तिकं बाष्ये प्रत्याख्यातं-॒काष्ठशगेव नास्तिकुतः काष्ठशक् स्थाते॑ ति । ककारान्तेब्यो नास्ति क्विप्, अनभिधानादित्याशयः । नच पृथक्स्थातेत्यत्र ककारस्य लोपनिवृत्तयेसङी॑ति वार्तिकमावश्यकमिति वाच्यं, तत्प्रत्याख्यानपरभाष्यप्रमाण्यादेवंजातीयकसंयोगादिलोपप्राप्तियोग्योदाहरणानामप्रयोगावगमादिति शब्देन्दुशेखरे स्पष्टम् । भृट्-भृडिति । भृस्ज् स् इति स्थिते हल्ङ्यादिलोपेस्को॑रिति सकारलोपे जकारस्य व्रश्चादिना षत्वे जश्त्वचर्त्वे इति भावः । यद्यपि जकारस्य संयोगान्तलोपेऽपि सकारस्यव्रश्चे॑ति षत्वे जश्त्वचर्त्वयोर्भृट्-भृड् इति सिध्यति तथापि न्याय्यत्वादिह संयोगादिलोप एव भवति । सस्येति । भृस्ज-औ इत्यादावचि पदान्तझल्परसंयोगादित्वाऽभावान्न संयोगादिलोपः ।झलां जस् झशी॑ति जश्त्वस्या.ञसिद्धत्वात्सकारस्य श्चुत्वमिति भावः । तस्येति । शकारस्येत्यर्थः । तालुस्थानकत्वात्शकारस्य जकारः । नच जश्त्वस्यासिद्धत्वात्शकारस्य व्रश्चेति षत्वं शङ्क्यं, षत्वं प्रति श्चुत्वस्याऽसिद्धत्वात् । ब्यामादौ तु 'स्वादिषु' इति पदत्वात्संयोगादिलोपः । व्रश्चेति षत्वं, जश्त्वं च । भृड्भ्यमित्यादि । ऋत्विगित्यादिनेति । 'ऋ गतौ' औणादिकस्तुः । ऋतुः=गमनं, प्रापति, दक्षिणाद्रव्यलाभो विवक्षितः । तस्मिन्निमित्ते यजन्ति=यज्ञियव्यापारं कुर्वन्तीत्यर्थे ऋतावुपपदे यजधातोः क्विन् ।वचिस्वपी॑ति यकारस्य संप्रसारणमिकारः । पूर्वरूपम् । यणादेशश्च । ऋत्विजिति रूपम् । ततः सोर्हल्ङ्यादिलोपः । एतावत्सिद्धवत्कृत्याह — क्विन्नन्तत्वात्कुत्वमिति.॒क्विन्प्रत्ययस्येत्यनेने॑ति शेषः । एतदर्थमेव क्विन्विधानमिति भावः । नच क्विपि 'चोः कुः' इति कुत्वेनैवैतत्सिध्यतीति वाच्यं, चोः कुरिति कुत्वं हिव्रश्चे॑ति षत्वेनाऽपवादत्वाद्बाध्येत ।क्विन्प्रत्ययस्ये॑ति कुत्वं तु क्विन्विधिसामर्थ्यादेव न बाध्यते । यष्टेत्यादौ षविधेश्चरितार्थत्वादिति भावः । ऊर्क ऊर्गिति ।ऊर्ज बलप्राणनयोः॑चुरादिण्यन्तात्भ्राजभासे॑त्यादिना क्विप्, णिलोपः । ऊर्जिति रूपम् । ततः सोर्हल्ङ्यादिलोपः । 'चोः कुः' इति जस्य कुत्वं गकारः । 'वाऽवसाने' इति चर्त्वविकल्पः । नच कुत्वे कर्तव्ये णिलोपस्य स्थानिवत्त्वं शङ्क्यं , पदान्तविधौ तन्निषेधात्, पूर्वत्रासिद्धीये न स्थानिव॑दिति वचनाच्च । इति जान्ताः । अथ दकारान्ता निरूप्यन्ते । त्यद्शब्दस्तद्शब्दपर्यायः । तस्य विशेषमाह — त्यदाद्यत्वं पररूपत्वमिति । सर्वत्र विभक्तावुत्पन्नायां 'त्यदादीनाम' इति दकारस्यान्त्यस्य अकारः, 'अतो गुणे' इति पररूपं चेत्यर्थः । तथश्चाऽदन्तवद्रूपाणीति भावः । त्य स् इति स्थिते ।
Tattvabodhini
-------------
**स्कोः संयोगाद्योरन्ते च** - स्कोः ।पदस्ये॑त्यनुवर्तते,झलो झलि॑त्यतोझली॑ति च ।संयोगे॑ति लुप्तषष्ठीकं झलन्ताभ्यां विशेष्यते । तदेतदाह — पदान्ते झलि च परे इति । झलि किम्भ्रष्टा । भृज्जतीति भृट् । क्विप् ।ग्रहिज्ये॑ति संप्रसारणम् ।व्रओ॑ति षत्वम् । ऊर्गिति ।ऊर्ज बलप्राणनयोः॑ । अस्माच्चुरादिण्यन्तात्भ्रजभासे॑त्यादिना क्विपि णिलोपः, स च चोः कुत्वे न स्थानिवत्, पदान्तविधित्वात्, पूर्वत्राऽसिद्धत्वाच्च । इह जान्तेषु — अवयाः । अवयाजौ । अवयाजैति नोदाहृतं,मन्त्रेओतवहोक्थे॑ति पर्कृत्यअव यजः॑इति विहितस्य ण्विनस्तदपवादस्य पदान्ते ङसश्छान्दसत्वेन वैदिकप्रक्रियायामेव वक्तुमुचित्वात् । इति जान्ताः ।
Padamanjari
-----------
गुणभूतोऽपि संयोगो झलन्ताभ्यां विशेष्यते । संयोगाद्योः पदस्यान्ते स्कोर्यस्मान्नास्ति सम्भवः ॥ इति मत्वाऽऽह - पदस्यान्त इति । झलि च परत इति । पदस्य यः संयोग इत्यपेक्षते । लग्न इति । ठोलस्जी व्रीडेऽ, निष्ठा, ईदित्वादिट्प्रतिषेधः । अत्र तकारे झलि परतः सजयोर्यस्संयोगः तदादिः सकारः, ठोदितश्चऽ इति निष्ठानत्वम्, तस्यासिद्धत्वात् कुत्वम् । साधुलगिति । साधु लज्जत इति क्विप् । मग्न इति ।'मस्जिनशोर्झलि' इति नुम्, स च जकारात्पूर्वः,'मस्जेरन्त्यात्पूर्वं नुममिच्छन्ति' इति वचनात् । तेन ठनिदिताम्ऽ इति नलोपः, सलोपादि पूर्ववत् । तष्ट इति ।'तक्षू तनूकरणे' , ऊदितावद्विकल्पितेट्,'यस्य विभाषा' इतीट्प्रतिषेधः । झलि सङीति वक्तव्यमिति । सङीत्ययं प्रकरणशेषः । किं प्रयोजनम् ? गिरोऽभोधिर्द्विष्टरां च दृषत्स्थः काष्टशक्स्थिरः । क्रुञ्चा धुर्येति मा स्मैषु सत्वादीनि भवन्त्विति ॥ गिर इति - अत्र ठचि विभाषाऽ इति लत्वं मा भूत् । अभोधिरिति -'धि च' इति सलोपो न भवति । द्विष्टरामिति -'ह्रस्वादङ्गात्' इति न भवति । दृषत्स्थः -'झलो झलि' इति न भवति । काष्ठशक्स्थिरः -'स्कोः संयोगाद्योः' इति न भवति । क्रुञ्चा -'चोः कुः' इति कुत्वं न भवति । धुरं वहतीति धुर्येति -'हलि च' इति दीर्घत्वं न भवति । तथा च वार्तिकम् -'सङ् लित्वलोपसंयोगादिलोपकुत्वदीर्घत्वानि' इति । सङीति प्रकृत्य लत्वादीनि वक्तव्यानीत्यर्थः । तदेवं वार्तिककारमतेऽपि चकाधीत्येव भवितव्यम्; सङीति वचनात् । सनः प्रमृतीति । धातुप्रत्ययानां ग्रहणमित्यर्थः । अत्र संयोगादिलोपं प्रयोजनं प्रत्याचष्टे - तदिति । तदिति वाक्योपन्यासे । शकेरिति । ककारान्तोपलक्षणमेतत्, तेन'कक लौल्ये' ,'कुक वृक आदाने' इत्यादेरपि क्विबन्तस्य प्रयोगो नास्त्येव । आहुरिति । भाष्यकारादयः । तत्र भाष्यं तावत् पठति - काष्ठशगेवेति । वाक्यर्थमित्यत्र स्थानिवद्भावोऽपि शक्यो वक्तुम्'तस्य दोषः संयोगादिलोप' इत्युक्तत्वात् ॥
Nyaas
-----
झलोति वर्तते। `संयोगाद्योः` इति षष्ठीसमासः। अत्र यद्यपि संयोग उत्तरपदार्थो गुणभूतः, तथापि संयोगाद्योः स्कोरन्तग्रहणं विशेषणं न भवतीति गुणभूतोऽपि तेन संयोग एव विशिष्यत इति विज्ञायते, इत्याह -`पदस्यान्ते यः संयोगः` इति। `अन्ते` इति। अवसान इत्यर्थः। `झलि परतः` इति। पदस्येत्यपेक्षते। `तदाद्योः` इति। तस्यैवम्भूतस्य संयोगस्यादिभूतयोरित्यर्थः। `लग्नः` इति। `ओलजो ओलस्जीव्रीडे` (धातुपाठः-1290, 1291), निष्ठा। अत्र जकारे झलि परतः सकारजकारयोर्यः संयोगः पदस्यादयवस्तदादेः सकारस्य लोपः, **ओदितश्च** (8.2.45) इति नत्वम्, `श्वीदितो निष्ठायाम्` (7.2.14) इतीट्प्रतिषेधः, **चोः कुः** (8.2.30) इति कुत्वम् -गकारः। `साधुलक्` इति। साधु लज्जात इति क्विप्। अत्र पदस्यादसाने संयोगः। (7.1.60) इति नुम्, स च भवत्? `मस्जेरन्त्यात्? पूर्वो नुमनुषङ्गसंयोगादिलोपार्थम्` (वा। 7) इति वचनादन्त्याज्जकारात्? पूर्वो भवति, तस्य च `अनिदिताम्` (6.4.24) इत्यनुनासिकलोपः। `तष्टः` इति। `तक्षू त्वक्षू तनूकरणे` (धातुपाठः-655,656) ऊदित्त्वात्, स्वरत्यादिसूत्रेण (7.2.44) विभाषितेट्; तेन निष्ठायां **यस्य विभाषा** (7.2.15) इतीट्प्रतिषेधः। `काष्ठशवस्थाता` इति। काष्ठं शक्नोतीति क्विप्; काष्ठशकि स्थातेति `सप्तमी` (2.1.39) इति योगविभागात्समासः।`तदत्र` इत्यादिना `झलि सङीति वक्तव्यम्` (वा 917) इति यदुक्तम्, तत्? प्रत्याचष्टे। तदिति वाक्योपन्यासार्थः। `शकेः क्विबन्तस्य प्रयोग एव नास्ति` इति। शकेः **अन्येभ्योऽपि दृश्यते** (3.3.130) इति क्विप्? स्यात्, इह च `दृश्यते` इत्यस्य ग्रहण एवायमर्थः -यत्र लौकिके प्रयोगे क्विबन्तस्य प्रयोगो दृश्यते तत्र यथा स्यादिति, न च लोके काष्ठशगित्येवंविधः शकेः क्विबन्तस्य प्रयोगो दृश्यते। ततः शकेः क्विबन्तस्य प्रयोग एव नास्ति, अतो हेतोः `झलि सङीति वक्तव्यम्` (वा।917) इत्येतत्? प्रत्याख्यातुमाह भाव्यकारः -`काष्ठाशगेव नास्ति; कुतोऽयं काष्ठशकि तिष्ठेत्` इति। आधारपरतन्व उद्घनादावस्य वृत्तिः, अतो यत्र काष्ठशगाधार एव नास्ति, तत्र तदाधेयः स्थाता सुतरामेव नास्ति तस्मान्न झलि सङीति वक्तव्यम्; व्यावर्त्त्याभावात्। इह कस्मान्न भवति -वाक्स्थातेति? संयोगादिलोपे कुत्वम्यासिद्धत्वात्। अथेह कस्मान्न भवति -वास्यार्थम्? काक्यर्थम्? इत्याह -`दास्यर्थम्, काक्यर्थम्` इत्यादि। अथ स्कोरिति किमर्थम्? नर्नर्तीत्यत्र मा भूत्। नृतेर्यङ्लुगन्तस्य **रुग्रिकौ च लुकि** (7.4.91) इत्यभ्यासस्य रुकि कृते रूपमेतत्। `संयोगाद्योरिति किम्? `पयःशक्` इति। क्विबन्तमेतत्। सोपपदस्य हि शकेः क्विबन्तस्य प्रयोग एव नास्ति। केवलस्य तु स्यादेव। अन्ते चेति किम्? तक्षिता, तक्षकः॥
Praudhamanorama
---------------
संयोगेति लुप्तषष्ठीकं झलन्ताभ्यां विशेष्यते इति व्याचष्टे— **पदान्त इत्यादिना।** भृज्जतीति भृट्। क्विप्। **सस्येति।** जश्त्वस्यासिद्धत्वात्पूर्वं श्चुत्वमित्यर्थः। एतेन प्राचो विपरीतोक्तिः प्रत्युक्ता। **ऊर्गिति।** ऊर्ज बलप्राणनयोः। अस्माच्चुरादिण्यन्तात् 'भ्राजभास' इत्यादिना क्विप्। णिलोपः। स च चोः कुत्वे न स्थानिवत्, पदान्तविधित्वात् पूर्वत्रासिद्धत्वाच्च। इह जान्तेष्ववया इति नोदाहृतम्। मन्त्रे श्वेतवहोक्थेति प्रकृत्य 'अवे यजः' इति विहितस्य ण्विनस्तदपवादस्य पदान्ते डसश्च छान्दसत्वात्। यत्तु— श्वेतवाडुक्थशास्पुरोडाशावयजां डसिति प्राचोक्तम्; तन्न, डसः प्रकृतिभूतययोर्वहियज्योर्दीर्घाभावात्। यदपि अवया इति प्रतीकमुपादाय ण्विनिति प्राचा व्याख्यातम्। तन्न, अपवादस्य डसो विषये उत्सर्गस्य ण्विनोऽप्रवृत्तेः।
Prakriyasarvasvam
-----------------
झलि परे पदान्ते च संयोगाद्योः सकयोर्लोपः स्यात् । भ्रज् तृ । षत्वष्टुत्वे । भ्रष्टा । मस्ज् तृ,
Sudha
-----
स्कोः संयोगाद्योरिति । **पदस्य**(8.1.16) इत्यधिकृतम् । चकारात् **झलो झलि**(8.2.26) इत्यतो झलीत्यनुवर्तते । **संयोगान्तस्य लोपः**(8.2.23) इत्यतो 'लोप' इत्यनुवर्तते । तदाह - पदान्ते झलि चेत्यादिना । भृट् । 'भ्रस्ज - पाके' क्विप् । **ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च**(6.1.16) इति सम्प्रसारण रेफस्य ऋकारः । **सम्प्रसारणाच्च**(6.1.108) इति पूर्वरूपम् । तस्मात्सौ 'भृस्ज् सु' इत्यत्र सोर्लोपे **स्कोः संयोगाद्योरन्ते च**(8.2.29) इति संयोगाद्यस्य 'स्' इत्यस्य लोपे **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः**(8.2.36) इत्यादिना जस्य षत्वे, षस्य डत्वे **वाऽवसाने**(8.4.56) इति टत्वे 'भृट्' इति । पक्षे - 'भृड्' इति । भृज्जौ । भृस्ज् + औ इत्यत्र **स्तोः श्चुना श्चुः**(8.4.40) इति सस्य शत्वे **झलां जश् झशि**(8.4.53) इति शस्य जत्वे संयोगे च 'भृज्जौ' इति रूपम् । एव सर्वत्राजादौ विभक्तौ बोध्यम् । भृड्भ्याम् । भृस्ज् + भ्याम् इत्यत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसंज्ञायां **स्कोः संयोगाद्योरन्ते च**(8.2.29) इति संयोगाद्यस्य स् इत्यस्य लोपे **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः**(8.2.36) इति षत्वे, तस्य जश्त्वेन डत्वे 'भृड्भ्याम्' इति । एवं हलादौ सर्वत्र । त्यदाद्यत्वं पररूपत्वमिति । सर्वत्र विभक्तावुत्पन्नायां **त्यदादीनामः**(7.2.102) इत्यन्तस्य अकारः, **अतो गुणे**(6.1.97) इति पररूपञ्चेत्यर्थः । ततश्च अदन्तवद्रुपाणीति तात्पर्यम् ।
Sutra Prayogas
--------------
* **बिभ्नक्षुर** (भट्टिकाव्यम्): `स्कोः संयोगाद्यो:` इत्यनेन सलोपे षत्वकुत्वयोश्च रूपम् ।