82023: संयोगान्तस्य लोपः ======================== **Padacheda:** संयोगान्तस्य | S | 6 | 1 | लोपः | S | 1 | 1 | Sutrartha --------- **यस्य पदस्य अन्ते संयोगः विद्यते तस्य पदस्य अन्तिमवर्णस्य लोपः भवति ।** द्वयोः व्यञ्जनयोः स्वरस्य (विरामस्य च) व्यवधानं विना कृतम् उच्चारणम् **संयोगः** नाम्ना ज्ञायते । एतादृशः संयोगः यस्य पदस्य अन्ते विद्यते, तस्य पदस्य अन्तिमवर्णस्य (इत्युक्ते, संयोगस्य अन्तिमवर्णस्य) प्रकृतसूत्रेण लोपः भवति । उदाहरणानि एतानि — 1) "विद्वस्"-शब्दस्य पुंलिङ्गस्य प्रथमैकवचनस्य रूपे पदान्तसकारस्य लोपः — .. code-block:: text विद्वस् + सुँ [प्रथमैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा अपि भवति ।] → विद्व् न् स् + स् [**उगिदचां सर्वनामस्थाने अधातोः** (7.1.70) इति नुमागमः] → विद्वान् स् स् [**सान्तमहतः संयोगस्य** (6.4.10) इति नकारस्य उपधायाः दीर्घः] → विद्वान् स् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्यनेन सुँ-प्रत्ययस्य अपृक्तसकारस्य लोपःभवति । सुँप्रत्ययस्य लोपे कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययविशिष्टम् कार्यम् अवश्यम् प्रवर्तते, अतः **सुप्तिङन्तं पदम्** (1.4.14) इति सुप्-प्रत्ययविशिष्टा पदसंज्ञा अवशिष्टस्य अंशस्य विषये अपि भवति ।] → विद्वान् [पदस्य अन्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य **संयोगान्तस्य लोपः** (8.2.23) इत्यनेन लोपः भवति । अतः अत्र सकारस्य लोपः क्रियते ।] 2) "पठ्"-धातोः लङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपे पदान्ततकारस्य लोपः — .. code-block:: text पठ् + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ् । **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा ।] → पठ् + झि [**तिप्तस्झि...** (3.4.78) इति प्रथमपुरुषबहुवचनस्य विवक्षायाम् झि-प्रत्ययः] → पठ् + अन्ति [**झोऽन्तः** (7.1.3) इति झकारस्य अन्त्-आदेशः] → पठ् + अन्त् [**इतश्च** (3.4.100) इति इकारस्य लोपः] → पठ् + शप् + अन्त् [**कर्तरि शप्** (3.1.68) इति औत्सर्गिकं गणविकरणम् शप् ] → अट् + पठ् + अ + अन्त् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.78) इति अडागमः ] → अपठन्त् [**अतो गुणे** (6.1.97) इति गुणैकादेशः । → अपठन् [**संयोगान्तस्य लोपः** (8.2.23) इत्यनेन पदान्ततकारस्य लोपः] **सूत्रे 'अन्त'ग्रहणस्य प्रयोजनम्** अस्मिन् सूत्रे विद्यमानः "संयोगान्तस्य" इति शब्दः "पदस्य" इत्यस्य विशेषणरूपेण प्रयुज्यते । यस्य पदस्य अन्ते संयोगः विद्यते, तादृशस्य पदस्य निर्देशं कर्तुम् "संयोगान्तस्य" इति शब्दे "अन्त" इति शब्दः स्थापितः वर्तते । एतादृशस्य पदस्य लोपः भवति — इति प्रकृतसूत्रस्य आशयः । अनेन प्रकारेण सम्पूर्णस्य पदस्य लोपे प्राप्ते **अलोऽन्त्यस्य** (1.1.52) इत्यनया परिभाषया 'पदस्य अन्तिमवर्णस्यैव लोपः भवति' इति अर्थः स्पष्टी भवति । अतः अस्य सूत्रस्य सम्यक् अर्थज्ञापनार्थम् **येन विधिस्तदन्तस्य** (1.1.72) इत्यस्य, तथा च **अलोऽन्त्यस्य** (1.1.52) इत्यस्यापि सूत्रस्य साहाय्यम् आवश्यकम् अस्ति । **बाध्यबाधकभावः** प्रकृतसूत्रेण संयोगान्तस्य पदस्य अन्तिमवर्णस्य लोपे प्राप्ते; **रात्सस्य** (8.2.24) इति अग्रिमसूत्रेण सः नियम्यते । **यत्र यत्र संयोगस्य प्रथमः वर्णः रेफः अस्ति, तत्र तत्र केवलम् सकारस्यैव लोपः भवति** इति **रात्सस्य** (8.2.24) इति सूत्रस्य आशयः । अपि च, पदान्ते विद्यमानस्य संयोगस्य प्रथमवर्णः सकारः उत ककारः अस्ति चेत् प्रकृतसूत्रस्य अपवादरूपेण **स्कोः संयोगाद्योरन्ते च** (8.2.29) इति सूत्रम् प्रवर्तते, येन संयोगान्तलोपस्य अपेक्षया **संयोगादौ विद्यमानस्य सकारस्य ककारस्य च लोपः भवति** । **वार्त्तिकम् - ** "दध्यत्र", "मध्वत्र" एतादृशानां शब्दानां सिद्धौ इक्-वर्णस्य यणादेशे कृते यण्-वर्णः नित्यम् पदान्ते एव विधीयते, अतः प्रकृतसूत्रेण तस्य अनिष्टः लोपः प्राप्नोति । एतादृशस्य लोपस्य निवारणार्थम् सिद्धान्तकौमुद्याम् इति वार्त्तिकं पाठ्यते । **पदान्ते विद्यमानस्य यण्-वर्णस्य प्रकृतसूत्रेण लोपः न भवति** — इति अस्य वार्त्तिकस्य आशयः । प्रक्रिया इयम् — .. code-block:: text दधि + अत्र → दध्य् + अत्र [**इको यणचि** (6.1.77) इति इकारस्य यणादेशः यकारः । अत्र 'दधि' इति शब्दस्य पदसंज्ञा अस्ति, अतः स्थानिवद्भावेन 'दध्य्' इति शब्दस्य अपि पदसंज्ञा अवश्यं भवति । अस्यां स्थितौ **संयोगान्तस्य लोपः** (8.2.23) इति सूत्रेण यकारस्य लोपः प्राप्नोति । अस्य लोपस्य निवारणार्थं इति वार्त्तिकं दीयते । अनेन वार्त्तिकेन पदान्त-यकारस्य लोपः निवार्यते ।] → दध्यत्र भाष्यकारेण अत्र अन्यः अपि एकः उपायः उक्तः अस्ति । अत्र प्रक्रियायाम् विद्यमानस्य यणादेशस्य निमित्तम् अग्रे विद्यमानः भिन्नपदस्थः अकारः स्वीक्रियते, परन्तु संयोगान्तलोपस्य निमित्तम् 'दध्य्' इति एकस्मिन् एव पदे विद्यमानः संयोगः अस्ति । अतः, **बह्वपेक्षम् बहिरङ्गम्, अल्पापेक्षम् अन्तरङ्गम्** इति सिद्धान्तम् अनुसृत्य अत्र ** यणादेशस्य अपेक्षया संयोगान्तलोपः अन्तरङ्गः अस्ति** । अतश्च **असिद्धं बहिरङ्गमन्तरङ्गे** इत्यनया परिभाषया यणादेशः संयोगान्तलोपस्य कृते असिद्धः एव ज्ञेयः । इत्युक्ते, यणादेशे कृते तत्पश्चात् संयोगान्तलोपः न हि प्रवर्तते । अयमेव सिद्धान्तः काशिकायाम् अपि उक्तः दृश्यते । **'सुध्युपास्यः' इति शब्दस्य चत्वारि रूपाणि** अस्मिन् सूत्रे सिद्धान्तकौमुद्याम् प्रसङ्गवशात् "सुध्युपास्य" शब्दस्य — **सुध्युपास्य, सुद्ध्युपास्य, सुद्ध्य्युपास्य, सुद्ध्ध्य्युपास्य** — इति चत्वारि रूपाणि पाठितानि सन्ति । एतेषाम् प्रक्रिया एतादृशी वर्तते — .. code-block:: text सुधीभिः उपास्यः [**कर्तृकरणे कृता बहुलम्** (2.1.32) इति तृतीयातत्पुरुषः] सुधी उपास्य [**कृत्तद्धितसमासाश्छ** (1.2.46) इति प्रातिपदिकसंज्ञा ।**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक्] → सुध्य् उपास्य [**इको यणचि** (6.1.77) इति यणादेशः] → सुध्युपास्य → सुध्युपास्य, सुध्ध्युपास्य, सुध्य्युपास्य, सुध्ध्युपास्य [**अनचि च** (8.4.47) इति धकारस्य पाक्षिकं द्वित्वम् । इत्यत्र 'मयः इति पञ्चमी, यणः इति षष्ठी' इति पक्षे यकारस्य अपि पाक्षिकं द्वित्वम् ] → सुध्युपास्य, सुद्ध्युपास्य, सुद्ध्य्युपास्य, सुद्ध्ध्य्युपास्य [**झलां जश् झशि** (8.4.53) इति प्रथमधकारस्य जश्त्वे दकारः] Sutrartha (English) ------------------- The last letter of a पद that ends in a संयोग is removed. Vasu English Summary -------------------- When a word ends in a double consonant the last consonant is dropped. Vasu English Translation ------------------------ When a word ends in a double consonant the last consonant is dropped. As गोमान्, यवमान्, कृतवान् and हतवान् ॥ In श्रेयान्, भूयान्, the रु though subsequent in order, does not prevent the operation of this rule, because it is *asiddha* (8.2.66). Thus श्रेयस् + स् = श्रेयन्स् + स् (7.1.70), = श्रेयन्स् (6.1.68) = श्रेयन्र् (8.2.66) = श्रेयन् (8.2.23) = श्रेयान् (6.4.8). But though the रुत्व does not debar *lopa*, it debars the जश् change. By (8.2.39), the final स् required to be changed to a letter of जश् class; रु prevents it. As यशः, पयः ॥ For रुत्व is ordained even where the present संयोगान्तलोप applies and where it does not apply. Thus it is ordained in श्रेयन्र् where the present *sutra* applies, as well as पयर् where this *sutra* does not apply. But the जश्त्व rule (8.2.39) covers the whole ground of रुत्व, hence if जश्त्व rule were not debarred by रुत्व, the latter would find no scope. Therefore रुत्व debars जश्त्व to justify its existence, but it does not debar संयोगान्तलोपः for it still has scope left to it else where. In दध्यत्र and मध्वत्र formed from दधि + अत्र and मधु + अत्र, by changing इ and उ to य् and व्, we have दध्य् + अत्र and मध्व् + अत्र, where य् and व् are final in a *pada*, and so they require to be elided. It is, however, not done, because यण् substitution is a *Bahiranga* operation, as it depends upon two words and consequently, is considered *asiddha* for the purposes of this rule, which depends on one word only. Why do we say 'of a *Pada*'? Observe गोमन्तौ, गोमन्तः ॥ Bhashya ------- संयोगान्तस्य लोपः ॥ संयोगान्तस्य लोपे यणः प्रतिषेधः॥ संयोगान्तस्य लोपे यणः प्रतिषेधो वक्तव्यः। दध्यत्र मध्वत्रेति॥ संयोगादिलोपे चझ्र्काक्यर्थं(2) वास्यर्थम्ट॥ संयोगादिलोपे च यणः प्रतिषेधो वक्तव्यः॥ किमर्थम्(3)?॥काक्यर्थं वास्यर्थम्। ॥ न वा झलो लोपात्॥ न वा वक्तव्यम्॥ किं कारणम्?॥ झलो लोपात्॥ झलो लोपः संयोगान्तलोपो वक्तव्यः॥ बहिरङ्गलक्षणत्वाद्वा॥ अथ वा बहिरङ्गो यणादेशोऽन्तरङ्गो लोपः। असिद्धं बहिरङ्गमन्तरङ्गे। ॥ संयोगान्तलोपे सग्रहणम्॥ संयोगान्तलोपे सग्रहणं कर्तव्यम्। संयोगान्तलोपः सस्य चेति वक्तव्यम्। इहापि यथा स्यात् -श्रेयान् भूयान् ज्यायान्॥ किं पुनः कारणं न सिध्यति?॥ परत्वाद्रुः प्राप्नोति॥ असिद्धो रुस्तस्याऽसिद्धत्वाल्लोपो भविष्यति॥ न सिध्यति॥ किं कारणम्?॥ रुविधानस्याऽनवकाशत्वात्॥ अनवकाशो(1) रुर्लोपं बाधेत॥ सावकाशो रुः॥ कोऽवकाशः?॥ पयः शिरः॥ ननु चात्रापि जश्त्वं प्राप्नोति, स यथैव रुर्जश्त्वं बाधते एवं लोपमपि बाधेत॥ न बाधते॥ किं कारणम्?॥ येन नाऽप्राप्ते तस्य बाधनं भवति न चाऽप्राप्ते जश्त्वे रुरारभ्यते,लोपे पुनः प्राप्ते चाप्राप्ते च ॥ झ्र्अथवा(2)ट योगविभागात्सिद्धम्(3)॥अथवा योगविभागः करिष्यते। एवं वक्ष्यामि -संयोगान्तस्य लोपोऽरात्। संयोगान्तस्य लोपो भवत्यरात्॥ ततः सस्य। सस्य च लोपो भवति संयोगान्तस्य॥ किमर्थम्पुनरिदमुच्यते?॥ प्रतिषिद्धार्थं रुबाधनार्थं च॥ अथ वा यदेतद्रात्सस्येति सग्रहणं तत्पुरस्तादपक्रक्ष्यते(1) -संयोगान्तस्य लोपः। ततः सस्य। सस्य च संयोगान्तस्य लोपो भवति। ततः - रात्। रात्सस्यैव संयोगान्तस्य लोपो भवतीति(2)। अथ वा रात्सस्येत्यत्र संयोगान्तस्य लोप इत्येतदनुवर्त्तिष्यते॥ झ्र्संयोगान्तस्य लोपःट। Kashika ------- संयोगान्तस्य पदस्य लोपो भवति। गोमान्। यवमान्। कृतवान्। हतवान्। इह श्रेयान्, भूयानिति रुत्वं परमप्यसिद्धत्वात् संयोगान्तस्य लोपं न बाधते। जश्त्वे तु नाप्राप्ते तदारभ्यत इति तस्य बाधकं भवति — यशः, पय इति। दध्यत्र, मध्वत्रेत्यत्र तु यणादेशस्य बहिरङ्गलक्षणस्यासिद्धत्वात् संयोगान्तलोपो न भवति॥ Siddhanta Kaumudi ----------------- संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् । इति यलोपे प्राप्ते ॥ (वार्तिकम्) । (वार्तिकम्) ॥ मय इति पञ्चमी यण इति षष्ठी इति पक्षे यकारस्यापि द्वित्वम् । तदिह धकारयकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि ॥ एकधमेकयम् । द्विधं द्वियम् । द्विधमेकयम् । एकधं द्वियम् । सुद्ध्युपास्यः । मद्ध्वरिः । धात्रंशः । लाकृतिः ॥ Laghu Siddhanta Kaumudi ----------------------- संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात्॥ Laghu Shabdendushekhar ---------------------- **इति पक्षे इति** । विनिगमनाविरहादिति भावः । द्वित्वस्य त्रैपादिकत्वात्तत्र न यणो बहिरङ्गासिद्धत्वम् । अत एव "दद्ध्यत्र" इति भाष्ये उदाहृतम् । **धकारयकारयोरिति** । तेन विसर्गादिद्वित्वेनाधिक्येऽपि न क्षतिः । **द्विधमिति** । द्विधत्वं प्रक्रियायां बोद्ध्यम् । **एकस्या आकृतेश्चरितः प्रयोगो न द्वितीयस्यास्तृतीयस्याश्च भविष्यति** इति **कृञ्चानुप्रयुज्यते लिटि** (३.१.४०) इति सूत्रभाष्योक्तन्यायेनैकस्य द्वित्वे परस्य तदभावोऽनुचित इति न वाच्यम् । सार्थकानेकविषये तन्न्यायाङ्गीकारात् । यत्रान्याकृतिकरणे भिन्नार्थत्वसम्भावना तद्विषयत्वाच्च । **हलो यमां यमि लोपः** (८.४.६४) इति लोपे द्वित्वाभावे चैकधमेव रूपम् ॥ Balamanorama ------------ **संयोगान्तस्य लोपः** - तदाह — प्रसक्तस्येति । तत्र श्रवणाऽभावात्मके लोपे विहिते श्रवणार्थमुच्चारणमपि नास्तीत्यर्थाल्लभ्यते । प्रसक्तस्य किम् दधीत्यादौ क्विपोऽश्रवणात्मकलोपस्य प्रत्ययलक्षणमाश्रित्य ह्रस्वस्य पिति कृतीति तुग्मा भूत् । संयोगान्तस्य लोपः । पदस्येत्यधिकृतम् । संयोगोऽन्तो यस्येति विग्रहः । संयोगान्तस्य पदस्य लोप इत्यन्वयः । न च कृत्स्नपदस्य लोपः किन्त्वलोऽन्त्यस्येति परिभाषया तदन्तस्यैव । तदाह — संयोगान्तमित्यादिना । अत्र अन्तग्रहणं स्पष्टार्थमेव । संयोगस्य पदविशेषणतया येन विधिरित्येव तदन्तलाभात् । यत्तु संयोगावन्तौ यस्येति विग्रहलाभार्थमन्तग्रहणम् । अन्यथा सुदृषत्प्रासाद इत्यत्र पकारात् पूर्वस्यतकारस्य लोपः स्यादिति, तन्न, संयोगसंज्ञाया व्यासज्यवृत्तित्वात्, प्रत्येकवृत्तित्वमब्युपगम्या.ञन्तग्रहणप्रयोजनवर्णनस्य व्यर्थत्वादिति शब्दरत्ने विस्तरः ।इति यलोप इति । सुध् य इति यकारस्याऽनेन सूत्रेण लोपे प्राप्ते तत्प्रतिषेध आरभ्यते । यणः प्रतिषेधो वाच्यः । यणः संयोगान्तलोपप्रतिषेधो वक्तव्य इत्यर्थः ।अनेन वार्तिकेन यकारस्य संयोगान्तलोपो न भवती॑ति शेषः । इदं वार्तिकमाकरे प्रत्याख्यातम् । अथात्र यकारस्याऽचः परत्वाऽभावादच्परकत्वाच्चाऽनचि चेति द्वित्वाऽप्राप्तौ द्वित्वविधिमाह — यणो मयो द्वे वाच्ये । अनेन वार्तिकेन यकारस्य द्वित्वमित्यन्वयः । ननु यदि यण इति पञ्चमी मय इति षष्ठी तर्हि यणः परस्य मयो द्वित्वमिति लभ्यते । प्रकृते च यकारो न यणः परो नापि मय् । अतः कथमनेन वार्तिकेन तस्य द्वित्वमित्यत आह — मय इतीति । 'पक्षे' इत्यनेन उभयथा व्याख्यानमिष्टमिति सूचि तम् । विनिगमनाविरहादिति भावः । अत्रापि वार्तिके 'यरोऽनुनासिक' इत्यतो 'वा' ग्रहणमनुवर्तते । ततश्च फलितमाह — तदिहेति ।त॑दित्यव्यम् । इयता संदर्भेण यत्प्रपञ्चितं तेन इह=सुध् यित्यत्र यकारधकारयोर्द्वित्वविकल्पाच्चात्वारि रूपाणि सम्पद्यन्ते इत्यर्थः । एकधमेकयमिति । एको धकारो यस्य तदेकधम् । एवमेकयमित्यपि । धकारयकारयोरुभयोरपि द्वित्वाऽभावे एकधकारमेकयकारं च प्रथमं रूपमित्यर्थः । द्विधं द्वियमिति । द्वो धाकारौ यस्य द्विधम् । एवं द्वयमित्यपि । धकारयकारयोरुभयोरपि द्वित्वे द्वियकारं द्विधाकारं च द्वितीयं रूपमित्यर्थः । द्विधमेकयमिति । धकारस्य द्वित्वे यकारस्य द्वित्वाऽभावे द्विधमेकयं च तृतीयं रूपमित्यर्थः । एकधं द्वियमिति । धकारस्य द्वित्वाऽभावे यकारस्य द्वित्वे एकधं द्वियं च चतुर्थं रूपमित्यर्थः । सुद्ध्युपास्य इति । इहन भूसुधियो॑रिति निषेधस्तु न भवति, तस्याऽजादौ सुपि विधानात् । 'इकोऽसवर्ण' इत्यपि न,न समासे इति तन्निषेधात् । मद्ध्वरिरिति । मधुर्नाम असुरविशेषः तस्यारिश्शत्रुः — मद्ध्वरिः । हरिरित्यर्थः । अत्र धकारादुकारस्य स्थानत आन्तर्याद्यथासंख्यपरिभाषया वा वकारः । न चात्र वकारस्य द०न्तस्थानाधिक्यान्न स्थानसाम्यमिति वाच्यं, यावत्स्थानसाम्यस्य सावण्र्यप्रयोजकत्वेऽपि आन्तरतम्ये यत्किञ्चित्स्थानसाम्यस्यापि प्रयोजकत्वात् । अन्यथा चेता स्तोतेत्यादौ इकारादेरेकाराद्यनापत्तेः । धात्रंश इति । अत्र तकारस्यैव द्वित्वं न तु रेफस्येत्यनुपदमेव अचोरहाब्यामित्यत्र वक्ष्यते । लाकृतिरिति । ऌवर्णस्य आकृतिरिव आकृतिर्यस्येति विग्रहः । अत्र आकारे परे ऌवर्णस्य दन्तस्थानसाम्याल्लकारः । न च दन्तस्थानसाम्यात्प्रथमातिक्रमे कारणाऽभावाच्च तस्य वकार एवास्तु । आन्तरतम्ये यत्कचित्स्थानसाम्यस्य प्रयोजकताया मध्ध्वरिरित्यत्रोक्तत्वादिति वाच्यम्, त्र हि चत्वारो यणो यवरला विधेयाः । तत्र वकारविधिरुकारे ओष्ठस्थानसाम्यान्निस्सपत्नः सावकाशः, तत्र लकारस्य दन्तरूपस्थानभेदादप्राप्तेः । लाकृतिरित्यत्र ऌवर्णे तु वकारो लकारश्चेत्युभयमपि प्राप्तम् । अत्र शब्दपरविप्रतिषेधमाश्रित्य लकारविधिः परत्वादपवादत्वाच्च वकारविधिं बाधते । यदि हि प्रथमातिक्रमे कारणाऽबावादत्रापि वकार एव स्यात्तर्हि लकारविधिर्निरवकाश एव स्यात् । अतोऽत्र ऌवर्णस्य लकार एवेत्यास्तां तावत् । Tattvabodhini ------------- **संयोगान्तस्य लोपः** - संयोगान्तस्य । तदन्तस्येति । अलोऽन्त्यस्ये॑ति परिभाषयेति भावः । यद्यपि विशेषणेन तदन्तविधिवलाभात्संयोगस्येत्येव सूत्रयितुमुचितं तथापिप्रत्येकं संयोगसंज्ञे॑ति पक्षेदृष्टत्करोती॑त्यादौ लोपं वारयितुं संयोगावन्तौ यस्येति द्विवचनान्तेन समासलाभार्थमन्तग्रहणमिति मनोरमायां स्थितम् ।संयोग॑ इति महासंज्ञाकरणसामथ्र्यादेकस्य संयोगसंज्ञा न भविष्यतीति अन्तग्रहणमिह त्यक्तुं शक्यम् । यणः प्रतिषेधः इति । वाचनिकमिदम् । यद्वा वाच्यो=व्याख्येयः । व्याख्या च द्वेधा,झलो झली॑त्यतो झल्ग्रहणमपकृष्य झल एव लोपो विधीयत इति, अन्तरङ्गे लोपे कर्तव्ये बहिरङ्गस्य यणोऽसिद्धत्वमिति वा । न च षाष्ठी परिभाषा त्रैपादिकमन्तरङ्गलोपं न पश्यतीति वाच्यम्; कार्यकालपक्षाभ्युपगमात् । न चनाजानन्तर्ये॑ इति निषेधः, उत्तरकालप्रवृत्ते लोपेऽजानन्तर्याभावात् । तदुक्तम्-॒संयोगान्तलोपे यणः प्रतिषेधः॑ ।न वा झलो लोपात्बहिरङ्गलक्षणत्वाद्वे॑ति । चत्वारि रूपाणीति । इह धकारस्य द्वित्वे जश्त्वे च कृतेपूर्वत्रासिद्धीयमद्वित्वे॑ इति जशोऽसिद्धत्वाभावेन लक्ष्यभेदात्पुनर्दकारे द्वित्वप्रवृत्तौ रूपाधिक्यमस्ति । अत्र केचिदाहुः-॒उकारात्पर्सय यरो द्वित्वे कृते पुनरुकारात्परस्य यरो द्वित्वं न भवति, निमित्तभादेभावादित्याशयेनेदमुक्तमिति । तेषां तु तुदादिगणेवव्रश्चेत्यत्र उरदत्त्वस्य, अचः परस्मिन्निति स्थानिवद्भावान्न संप्रसारणे इति वस्योत्वं ने॑ति समाधानग्रन्थो मूलस्थो विरुध्येत, तन्निमित्तस्य लिटो भेदाऽभावादिति दिक् । अन्ये तु धकारस्य जश्त्वे कृतेपूर्वत्रासिद्धीयमद्वित्वे॑ इति जशोऽसिद्धत्वाबावाद्दकारे पुनर्द्वित्वं भवत्येव, व्यक्तिभेदात् । अत एव सय्यँन्तेत्यादौ परसवर्णद्वित्वं भाष्यकृता उदाहृतम् ।षट्ट्स्सन्त॑ इत्यत्र सकारद्वित्वसिद्धयेपूर्वत्रासिद्धीयमद्वित्वे॑ इति मनोरमायामप्युक्तम् । एवं यकारेऽपि द्वित्वस्य पुनः प्रवृत्तौ क्षत्यभावः, आष्टमिकद्विर्वचनस्य स्थाने द्विर्वचनरूपत्वात्स्थान्यादेशव्यत्तयोश्च भेदात् । यत्तूक्तं मनोरमायायम्-॒एकस्यां व्यक्तौ एकं लक्षणं सकृदेव प्रवर्तते॑ इतिएकः पूर्वपरयोः॑ इति सूत्रे भाष्ये सिद्धान्तितत्वात्कथं पुनर्द्वित्वप्रवृत्तिः, अन्यथा द्वित्वानन्त्यापत्ते॑-रित्यादि, तदनवधाननिबन्धनम्,तत्राधानादिशास्त्रदृष्टान्तेन प्रयोगान्तरेऽपि गुणादिशास्त्रप्रवृत्तेरेव सिद्धान्तितत्वात्, न तु सकृच्छास्त्र प्रवृत्तेः । आनन्त्यापत्तिरपि प्रकृते न दोषः । सा हि अनन्तकार्यसहितप्रयोगस्याशक्यत्वात्तच्चास्त्रकर्तव्यस्य परिनिष्ठितप्रयोगस्याऽभावात्तच्छास्त्रस्याननुष्ठापकत्वापत्त्या दोषः । प्रकृते तु नास्ति, द्वित्वस्य वैकल्पिकत्वेन यावच्छक्ति द्वित्वप्रयोगसहितस्य परिनिष्ठितत्वेन तेनैव शास्त्रस्य कृतार्थत्वात् ।लिटि धातो॑रिति द्वित्वस्य तु नित्यत्वादानन्त्यापत्तेः क्वचिद्विश्रान्तौ कल्पनीयायां लाघवात्प्रथमप्रवृत्तावेव विश्रान्तिकल्पनादनभ्यासग्रहणं प्रत्याख्यातम् । अत एवसर्वस्य द्वे॑ इत्यस्यापि न पुनः पुनः प्रवृत्तिरित्याहुः । नन्वत्रइकोऽसवर्णे॑ इति शाकल्यमतेन रूपान्तरमस्त्विति चेन्मैवम्; समासे तन्निषेधात् । न च नित्यसमास एव तन्निषेध इति वाच्यम्;सिन्नित्यसमासयोः शाकलप्रतिषेधः॑ इति वार्तिकस्थनित्यग्रहणस्य भाष्ये प्रत्याख्यतत्वात् । मनोरमायां तु जश्त्वेन दकारे कृते तस्य द्वित्वं नेत्याद्य#आशयेन सकारद्वित्वेनाष्टौ, विसर्गाद्वित्वेन षोडशेत्युक्तम् । द्विधमिति । यद्यपि धस्य जश्त्वेन दकारे धद्वय नास्ति, तथापि भूतपूर्वगतिमाश्रित्यैवमुक्तम् । सुध्युपास्य इति ।कर्तृकरणे कृता बहुल॑मिति तृतीयासमासः । नन्विह यणेव दुर्लभः,सुधी॑शब्दस्य ध्यायतेः संप्रसारणेन निष्पन्नत्वेनसंप्रसारणाच्चे॑ति पूर्वरूपापत्तेरिति चेन्मैवम्,संप्रसारणपूर्वत्वे समानाङ्गग्रहण॑मिति वार्तिकोक्तेः । न चैवमपि न भूसुधियो॑रिति यण्निषेधः शङ्क्यः ; आङ्गत्वेन प्रत्यये परत एव तन्निषेधप्रवृत्तेः ।सुपी॑त्यनुवर्त्त्य सुपि परत एव यण्निषेधाच्च । धात्रंश इति । अत्र रेफस्य द्वित्वं न, द्वित्वप्रकरणेरहाभ्या॑मिति साक्षाच्छतेन निमित्तभावेन रेफस्य कार्यित्वबाधनात् ।सुध्युपास्य॑ इत्यादौ तु स्थानित्वेन निमित्तत्वमिको न बाध्यते,तस्मादित्युत्तरस्य॑वाय्वृतुपित्रुषसः॑ इत्यादिनिर्देशाज्ज्ञापकात् । तकारस्य तु द्वित्वं भवत्येव । तच्च वेत्यतो रूपद्वयम् । Padamanjari ----------- इह श्रेयान्, भूयानिति संयोगान्तलोपो न प्राप्नोति, परत्वाद्रुत्वेन बाध्यमानत्वात् ? इत्याशङ्क्याह - इहेति । यथैव तर्हि रुत्वमसिद्धत्वात्संयोगान्तलोपं न बाधते, तथा जश्त्वमपि न बाधेत; ततश्च पयः, यश इति जश्त्वमेव स्याद् ? अत आह - जश्त्वे त्विति । संयोगान्तलोपे हि प्राप्तेऽप्राप्ते च रुत्वमारभ्यते - श्रेयानित्यादौ प्राप्ते, पय इत्यादौ त्वप्राप्ते । जश्त्वे तु सर्वत्र प्राप्ते एव । तस्माद्येननाप्राप्तिन्यायेन जश्त्वमेव बाध्यते, न संयोगान्तलोपः । दध्यत्रेत्यादि । यणादेशो हि द्विपदाश्रयत्वाद्बहिरङ्गः, संयोगान्तस्य लोपस्तु एकपदाश्रयत्वादन्तरङ्गः । अन्तग्रहणं शक्यमकर्तुम् ।'पदस्य' इति वर्तते, संयोगेन हि पदे विशेष्यमाणे तदन्तविधिना'संयोगान्तस्य' इति लभ्यत एव ॥ Nyaas ----- `संयोगान्तस्य` इति। संयोगोऽन्तो यस्य तत्तथोक्तम्। अन्तग्रहणं विस्पष्टार्थम्। `पदस्य` (8.1.16) इति हि वर्तते, तत्र संयोगेन पदे विशिष्यमाणे **येन विधिस्तदन्तस्य** (1.1.72) इत्येव संयोगान्तता पदस्य लभ्यते। `गोमान्` इति। हल्ङ्यादिलोपे कृतेऽलोऽन्त्यस्य लोपः (1.1.51) , **अत्वसन्तस्य चाधातोः** (6.4.14) इति दीर्घः। `क्षेयान्, भूयान्` इति। अत्र संयोगान्तलोपे न प्राप्नोति; परत्वाद्रुत्वेन बाध्यत इति यो मन्येत, तं प्रत्याह -`श्रेयान्, भूयान्` इत्यादि।यदि तर्हि परमपि रुत्वमसिद्धत्वात्? संयोगान्तसय बाधकं न भवति, एवं सत्यत एव हेतोर्जश्त्वस्यापि बाधकं न स्यात्, ततश्च यशः, पय इति जशत्वमेव स्यात्, न रुत्वम्? इत्यत आह -`जश्त्वे तु` इत्यादि। संयोगान्तलोपे हि प्राप्ते चाप्राप्ते च रुत्वमारभ्यते। श्रेयानित्यादौ प्राप्ते, पय इत्यत्र त्वप्राप्त इति युवतं यद्रुत्व न बाधते। जश्त्वे तु सर्वत्र प्राप्त एव तदारभ्यते। श्रेयानित्यादौ प्राप्ते, पय इत्यत्र त्वप्राप्त इति युक्तं यद्रूत्व न बाधते। जश्त्वे तु सर्वत्र प्राप्त एव तदारभ्यते। तस्माद्बाधकलक्षणयोगाद्रुत्वं जश्तवस्य बाधकं भवत्येव। श्रेयानिति -**प्रशस्यस्य श्रः** (5.3.60) ) इतीयसुनि श्रभावः, **आद्गुणः** (6.1.87) , `सान्तमहतः` (6.4.10) इति दीर्घः। भूयानिति -**बहोर्लोपो भू च बहोः** (6.4.158) इतीयसुनि ईकारस्य लोपः, बहोश्च भूभावः। अथ दध्यत्र, मध्वत्रेत्यत्र संयोगान्तलोपः कस्मान्न भवति? इत्याह -`दध्यात्र` इत्यादि। बहिरङ्गत्वं तु यणादेशस्य द्विपदाश्रयत्वात्। संयोगान्तलोपस्य त्वेकपदाश्रयत्वादन्तरङ्गत्वम्। पदस्येति किम्? गोमन्तौ, गोमन्तः॥ Praudhamanorama --------------- **तदन्तस्येति।** अलोऽन्त्यपरिभाषयेति भावः। यद्यपि विशेषणेन तदन्तविधिलाभात् संयोगस्येत्येव सूत्रयितुमुचितं तथापि प्रत्येकं संयोगसंज्ञेति पक्षे दृषत्करोतीत्यादौ लोपं वारयितुं संयोगावन्तौ यस्येति द्विवचनान्तेन समासलाभार्थमन्तग्रहणम्। वृत्तौ हि उपसर्जनानामेकत्वसंख्यौत्सर्गिकी द्वित्वादिकं तु प्रयत्नलभ्यमिति भाष्ये स्थितम्॥ **'यण—'** इति वाचनिकम्। यद्वा वाच्यो व्याख्येयः। व्याख्या च द्वेधा— **झलो झलि** (8.2.26) इत्यतो झल्ग्रहणमपकृष्य झल एव लोपो विधीयते इति, अन्तरङ्गे लोपे कर्तव्ये बहिरङ्गस्य यणोऽसिद्धत्वमिति वा। न च षाष्ठी असिद्धपरिभाषा त्रिपादीस्थत्वेनासिद्धमन्तरङ्गं लोपं न पश्यतीति वाच्यम्। कार्यकालपक्षाभ्युपगमात्। न च 'नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः' इति निषेधः। तस्यानित्यत्वात्, उत्तरकालप्रवृत्ते लोपे अजानन्तर्याभावाच्च। तथा च वार्तिकम्—'संयोगान्तस्य लोपे यणः प्रतिषेधः','न वा झलो लोपाद्', 'बहिरङ्गलक्षणाद्वा' इति। इह यथोद्देशपक्षे आद्यं वार्तिकद्वयम्, तृतीयं तु कार्यकालपक्षे इति विवेकः। यत्त्वाहुः— वार्तिककृतो वचनं, प्रत्याख्यानप्रकारद्वयं तु भाष्यकृत इति। तन्निर्मूलम्, मतभेदे प्रमाणाभावात्। यदप्याहुः—काव्यं, कलत्रं, शाल्वं चाचक्षाणः काव्, कलत्, शाल्; अदभ्रयतेरघब् इति, तदपि न, पक्षत्रयेऽपि संयोगान्तलोपस्य दुर्लभत्वात्। आद्यपक्षस्यैकरूप्यार्थं पूर्वं पूर्वमन्तरङ्गं परं परं बहिरङ्गमित्यल्लोपणिलोपयोरसिद्धत्वस्य सुवचत्वात्। अत एव कातन्त्रपरिशिष्टे शुक्लयतेः क्विपि शुक्ल् इत्युदाहृतम्। वान्तयोः क्विपि ऊठो दुर्वारत्वात्। न च स्थानिवत्वम्, क्वौ विधिं प्रति तन्निषेधात्; विचि **लोपो व्योः—** (6.1.66) इति लोपस्य प्रसङ्गाच्च। गिरिवेश्मयतेस्तु क्विपि यणः प्रतिषेधार्थं वचनारम्भपक्षे गिरिवेडित्युचितम्। प्रत्याख्यानपक्षे तु मान्तमेवेति दिक्। **इति पक्ष इति॥** पक्षद्वयस्यापि भाष्ये स्थितत्वादिति भावः। **चत्वारि रूपाणीति।** यत्तु वदन्ति— धकारयकारोभयद्वित्वे उभयोः पुनर्द्वित्वे लोपविकल्पेऽन्यतरद्वित्वे च नव रूपाणि। तथा हि— एकधं त्रिधा—एकयं द्वियं त्रियं च। एवं द्विधं त्रिधं च त्रिधेति। न चान्तरङ्गे द्वित्वे बहिरङ्गस्य यणोऽसिद्धत्वम्, त्रैपादिकेऽन्तरङ्गे बहिरङ्गपरिभाषा न प्रवर्तत इति विसर्जनीयसूत्रे भाष्यकैयटयोर्व्यवस्थापितत्वादिति। अत्रेदं वक्तव्यम्— पुनर्द्वित्वमशुध्दम्, एकस्यां व्यक्तौ एकं लक्षणं सकृदेव प्रवर्तते इति **एकः पूर्वपरयोः** (6.1.84) इति सूत्रे भाष्ये सिद्धान्तितत्वात्। अन्यथा द्वित्वानामनन्त्यापत्तेः। न च **झरो झरि** (8.4.65) इति **हलो यमाम्—** (8.4.64) इति च लोपेन निर्वाहः, लोपस्य वैकल्पिकत्वात्। कथमन्यथा त्रिधं त्रियं चेति भवदुक्तिः सङ्गच्छेत। किं चैवं सति **सर्वस्य द्वे** (8.1.1) इति पुनः पुनः प्रवर्तेत। अत एव **लिटि धातोः** (6.1.8) इति सूत्रेऽभ्यासग्रहणं भाष्ये प्रत्याख्यातम्। सन्नन्ताद्यङन्ताद्वा णिचि चङि द्वित्वाभावार्थं तदिति तु कैयटादिभिरुक्तम्। तस्मादिह त्यज वा पञ्चमादीनि रूपाणि स्वीकुरु वा रूपानन्त्यमिति नवत्वोक्तिरसङ्गतैव। सकारद्वित्वेनाष्टौ, विसर्गद्वित्वेन षोडशेति त्वन्यदेतत्। यदप्युक्तं त्रैपादिकेऽन्तरङ्गे इत्यादि, तदपि न, 'नार्कुट' 'नार्पत्यः' इत्यत्र विसर्गवारणाय वृद्धेरसिद्धत्वस्य तत्रैव भाष्ये स्पष्टत्वात्। 'संयोगान्तलोपे यणः प्रतिषेधः' इत्यस्य बहिरङ्गत्वेन प्रत्याख्यातत्वात्। स्वयमपि तथैवानूदितत्वाच्च। तस्मादिह यथोद्देशपक्षो ग्राह्यो बहिरङ्गपरिभाषाया अप्रवृत्तये। तथा च भाष्ये मयः परस्य यणो द्वित्वे 'दध्यत्र' इत्युदाह्मतम्। न चैवमपि **इकोऽसवर्णे—** (6.1.127) इति शाकलेन रूपान्तरनस्त्विति वाच्यम्। समासे तन्निषेधात्। न च नित्यसमास एव तन्निषेध इति वाच्यम्। भाष्ये नित्यग्रहणस्य प्रत्याख्यातत्वात्। यथोत्तरं मुनीनां प्रामाण्यात्। नन्विह यणेव दुर्लभः, सुधीशब्दस्य ध्यायतेः सम्प्रसारणेन निष्पन्नत्वेन **सम्प्रसारणाच्च** (6.1.108) इति पूर्वरूपापत्तेः; इति चेत्? न, 'सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणम्' इति वार्तिकोक्तेः, सम्प्रसारणस्थानिकस्यातथात्वाच्च। न चैवमपि **न भूसुधियोः** (6.4.85) इति यण्निषेधः शङ्क्यः, आङ्गत्वेन प्रत्यये परत एव तस्य प्रवृत्तेः, अनन्तरस्येति न्यायेन **एरनेकाचः—** (6.4.82) इति **ओस्सुपि** (6.4.83) इति च सूत्रद्वयेन प्राप्तस्यैव निषेधाच्च। **धात्रंश इति।** अत्र रेफस्य द्वित्वं न । द्वित्वप्रकरणे रहाभ्यामिति साक्षाच्छ्रुतेन निमित्तभावेन रेफस्य कार्यित्वबाधात्। सुध्युपास्य इत्यादौ तु स्थानित्वेन निमित्तत्वमिकः **तस्मादित्युत्तरस्य** (1.1.67) इत्यादिनिर्देशाज्ज्ञापकान्न बाध्यत इति कैयटः। तकारस्य तु भवत्येवेत्युक्तम्, तच्च वा; इत्यतोऽत्र रूपद्वयम्। लाकृतिरिति त्वेकमेव। Prakriyasarvasvam ----------------- संयोगान्तस्य पदस्यान्त्यलोपः अरुन्तुदः । बहुतिलयोश्चाह भोजः । बहुन्तुदं वचः । तिलन्तुदं दारु । Sarala ------ संयोगः अन्ते यस्यासौ - संयोगान्तः, तस्य **संयोगान्तस्य** । **पदस्य** (८.१.१६) इत्यधिकृतम् ॥ Vartika ------- यणः प्रतिषेधो वाच्यः ।