82022: परेश्च घाङ्कयोः ====================== **Padacheda:** परेः | S | 6 | 1 | च | S | 0 | 0 | घाङ्कयोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The र् of परि is changed to ल् before घ and अङ्क। Vasu English Translation ------------------------ The र् of परि is changed to ल् before घ and अङ्क। As परिघः or पलिघः, पर्यङ्कः or पल्यङ्कः ॥ The word घ here means the word-form घ, and not the technical घ of तरप् and तमप् ॥ See (3.3.84) by which हन् is replaced by घ ॥ Vart:- So also, it must be stated, before the word योगः ॥ As, परियोगः or पलियोगः ॥ Bhashya ------- परेश्च घाऽङ्कयोः ॥ योगे च(1)॥ योगे चेति वक्तव्यम्। इहापि यथा स्यात्परियोगः पलियोगः। ॥ सङि लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि॥ सङीति प्रकृत्य लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि वक्तव्यानि॥ किं प्रयोजनम्?॥ प्रयोजनं-गिरौ गिरः पयो धावति द्विष्टरां दृषत्स्थानं काष्ठशक्स्थाता क्रुञ्ञ्चा धुर्यः झ्र्इति(1)ट॥ झ्र्प्रयोजनं गिरौ गिरः पयो धावति द्विष्टरां दृषत्स्थानं काष्ठाशक्स्थाता क्रुञ्ञ्चा धुर्य इतिट॥ गिरौ गिर इत्यत्र अचि विभाषेति लत्वं प्राप्नोति-सङीति वचनान्न भवति॥ नैतदस्ति प्रयोजनम्। उक्तमेतत्-धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्सिद्धमिति॥ पयो धावतीत्यत्र धि चेति सलोपः प्राप्नोति-सङीति वचनान्न भवति॥ एतदपि नास्ति प्रयोजनं वक्ष्यत्येतत् -धिसकारे सिचो लोप इति॥ द्विष्टरामित्यत्र ह्रस्वादङ्गादिति सलोपः प्राप्नोति सङीति वचनान्न भवति॥ एतदपि नास्ति प्रयोजनम् - -अत्रापि सिच इत्येवाऽनुवर्तिष्यते(1)॥ दृषत्स्थानमित्यत्र झलो झलीति सलोपः प्राप्नोति सङीति वचनान्न भवति॥ एतदपि नास्ति प्रयोजनम् -अत्रापि सिच इत्येवानुवर्तिष्यते॥ काष्ठशक्स्थातेत्यत्र स्कोः संयोगाद्योरन्ते चेति ककारलोपः प्राप्नोति सङीति वचनान्न भवति॥ एतदपि नास्ति प्रयोजनं -काष्ठशगेव नास्ति कुतो यः काष्ठशकितिष्ठेत?॥ क्रुञ्ञ्चेत्यत्र चोः कुर्झलीति कुत्वं प्राप्नोतिः सङीति वचनान्न भवति।. एतदपि नास्ति प्रयोजनं, निपातनादेतस्तिद्धम्॥ किं निपातनम्?॥ ऋत्विग्दधृक्स्नग्दिगुष्णिगञ्ञ्चुयुजिक्रुञ्ञ्चामिति॥ धुर्य इत्यत्र हलि चेति दीर्घत्वं प्राप्नोति सङीति वचनान्न भवति।. एतदपि नास्ति प्रयोजनं न भकुर्छुरामिति प्रतिषेधो भविष्यति॥ Kashika ------- परि इत्येतस्य यो रेफस्तस्य घशब्देऽङ्कशब्दे च परतो विभाषा लकार आदेशो भवति। परिघः, पलिघः। पर्यङ्कः, पल्यङ्कः। घ इति स्वरूपग्रहणमत्रेष्यते, न **तरप्तमपौ** (१.१.२२) इति ॥ योगे चेति वक्तव्यम्॥ परियोगः, पलियोगः॥ Siddhanta Kaumudi ----------------- परे रेफस्य लो वा स्याद्घशब्दे अङ्कशब्दे च । पलिघः । परिघः । पर्यङ्कः । पल्यङ्कः । इह तरप्तमपौ घः (SK2003) इति कृत्रिमस्य न ग्रहणं व्याख्यानात् ॥ Padamanjari ----------- परि घ इति ।'परौ घः' इत्यप्, हन्तेष्टिलोपः, घत्वं च । पर्यङ्क इति । ठकि लक्षणेऽ पचाद्यच्,'हलश्च' इति घञ्, चाद् घश्च । घ इति स्वरूपग्रहणमत्रेष्यत इति । इष्टिरेवेयम् । परियोगः, पर्यनुयोगः ॥ Prakriyasarvasvam ----------------- अनयोः परयोः परिशब्दरेफस्य लत्वं वा स्यात् । पर्यङ्क्यते चित्रादिभिरिति पल्यङ्कः पर्यङ्कः । (वा० ८-२-२२) पलियोगः परियोगश्च चोद्यम् ॥ Vartika ------- घ इति स्वरूपस्य ग्रहणम् ।