82018: कृपो रो लः ================= **Padacheda:** कृपः | S | 6 | 1 | रः | S | 6 | 1 | लः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- For the र् of the root कृप् there is substituted ल्। Vasu English Translation ------------------------ For the र् of the root कृप् there is substituted ल्। The र् here merely indicates the sound, and includes both the single consonant र् and the same consonant of the vowel ऋ ॥ So also with ल् ॥ So that for the single र् there is substituted ल्; and for र् when a portion of ऋ, the ल् is substituted, i.e. ऋ becomes लृ ॥ Thus कृप् = क्लृप्, as in the *sutra* लुटि च क्लृपः (1.3.93). कल्प्ता, कल्प्तारौ, कल्प्तारः ॥ क्लृप्तः, क्लृप्तवान् ॥ The word कृपा is derived from the root क्रप् by vocalisation, as it has been enumerated in *Bhidadi* class (क्रपेः संप्रसारणं च (3.3.104)). The vocalised root-form कृप is not to be taken here, as it is a *lakshanika* form. Vart:- The words कृपण, कृपाण, कृपीट, कर्पूर &c, are also from क्रप् ॥ Or by the *Unadi* diversity, the ल् change does not take place. Vart:- Optionally so of बाल &c. As, बाल: or बारः, मूलम् or मूरम्, लघु or रघु, असुरः or असुलः, अलम् or अरम्, अङ्गुलिः or अङ्गुरिः ॥ Vart:- Optionally so in the *Vedas*, or when names, of कपिलका &c, as कपिरकः or कपिलकः, तिल्पिलीकम् or तिर्प्पिरीकम्, लोमाणि or रोमाणि, पांशुरं or पांशुलं, कर्म or कल्म, शुक्रः or शुक्लः, कल्मषं, कर्मषं ॥ Some say 'र and ल are one': and operations regarding र may be performed with regard to ल ॥ Bhashya ------- कृपो रो लः ॥ कृपणादीनां प्रतिषेधः॥ कृपणादीनां प्रतिषेधो वक्तव्यः। कृपणः। कृपाणः। कृपा(1)। कृपीटम्॥ वालमूललघ्वलमङ्गुलीनां(1)(2) वा लो र(त्व) मापद्यते॥ वालमूललघ्वलमङ्गुलीनां वा लो र(त्व)मापद्यत इति वक्तव्यम्। वाल(1)-अश्ववारः। अश्ववालः(2)। वाल॥ मूल-मूरदेवः। मूलदेवः(2)। मूल॥ लघु-वरुणस्य(3) लघुस्यदः। वरुणस्य रघुस्यदः। लघु॥ अलम्-अलं भक्ताय(4)। अरं भक्ताय(4)। अलम्॥ अङ्गुलि-सुबाहुः स्वङ्गुलिः। सुबाहुः स्वङ्गुरिः॥ संज्ञाच्छन्दसोर्वा कपिलकादीनाम्॥ संज्ञाच्छन्दसोर्वा कपिलकादीनामिति वक्तव्यम्। कपिरकः। कपिलकः(2)। तिल्पिलिकम्। तिर्पिरिकम्। कल्मषम्। कर्मषम्। रोमाणि। लोमानि। पांसुलम्। पांसुरम्। कर्म। कल्म। शुक्रः। शुक्लः(5)॥ Kashika ------- कृपेर्धातो रेफस्य लकारादेशो भवति। र इति श्रुतिसामान्यमुपादीयते। तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोर्द्वयोरपि ग्रहणम्। ल इत्यपि सामान्यमेव। ततोऽयं केवलस्य रेफस्य स्थाने लकारादेशो विधीयते। ऋकारस्याप्येकदेशविकारद्वारेण ऌकारः, एवं च **लुटि च क्ऌपः** (१.३.९३) इत्येवमादयो निर्देशा उपपद्यन्ते। कल्प्ता, कल्प्तारौ, कल्प्तारः। चिक्ऌप्सति। क्ऌप्तः। क्ऌप्तवान्। कृपा इत्येतत् **क्रपेः संप्रसारणं च** (ग०सू० ३०) इति भिदादिषु पाठाद् भवति। तस्य हि कृतसंप्रसारणस्य लाक्षणिकत्वाद् इह कृप इति ग्रहणं नास्ति। कृपणकृपीटकर्पूरादयोऽपि क्रपेरेव द्रष्टव्याः। **उणादयो बहुलम्** (३.३.१) इति वा कृपेरेव लत्वाभावः॥ वालमूललघ्वसुरालमङ्गुलीनां वा रो लमापद्यत इति वक्तव्यम्॥ वालः, वारः। मूलम्, मूरम्। लघु, रघु। असुरः, असुलः। अलम्, अरम्। अङ्गुलिः, अङ्गुरिः॥ कपिलकादीनां संज्ञाछन्दसोर्वा रो लमापद्यत इति वक्तव्यम्॥ कपिरकः, कपिलकः। तिल्पिलीकम्, तिर्पिरीकम्। लोमानि, रोमाणि। पांशुरम्, पांशुलम्। कर्म, कल्म। शुक्रः, शुक्लः। रलयोरेकत्वस्मरणमिति केचित्। किमिदमेकत्वस्मरणमिति? समानविषयत्वमेव तयोः स्मर्यत इत्यर्थः॥ Siddhanta Kaumudi ----------------- कृप उ इति छेदः । कृपेति लुप्तषष्ठीकम् । तच्चावर्तते । कृपो यो रेफस्तस्य लः स्यात् । कृपेरृकारस्यावयवो यो रेफसदृशस्तस्य च लकारसदृशः स्यात् । कल्पते । चकॢपे । चकॢपिषे । चकॢप्से इत्यादि स्यन्दिवत् ॥ Balamanorama ------------ **कृपो रो लः** - तङि प्रथमपुरुषैकवचनस्य टेरेत्त्वे शपि लघूपधगुणे रपरत्वे कर्पते इति स्थिते — कृपो रो लः । 'कृप' इति लुप्तविभक्तिकम् । षष्ठएकवचने उदिति ऋकरास्य रूपम् । अवयवषष्ठी । कृप उरिति स्थिते आद्गुणे कृपोरिति भवति । 'र' इति षष्ठन्तम् । कृपोर् रः इति स्थितेरो री॑ति रेफलोपे 'कृपो रः' इति भवति । 'ल' इति प्रथमान्तम् । अकार उच्चारणार्थः । तदाह - कृप उः [रः ल] इति च्छेद इति । एतच्च ऋऌक्सूत्रभाष्ये स्थितम् । ननु कृपेत्यत्र का विभक्तिर्लुप्तेत्यत आह — लुप्तषष्ठीकमिति । पकारादकार उच्चारणार्थः । कृप्धातोरिति लभ्यते । तच्चावर्तते इति । कृप रः लः इति पदत्रयमावर्तत इत्यर्थः । तथा च वाक्यद्वयं संपद्यते — 'कृप रः लः' इत्येकं वाक्यम् । तदाह — कृपो यो रेफस्तस्य लः स्यादिति । तथा च 'कल्पते' इति भवति । 'कृप उः रः लः' इति द्वितीयं वाक्यम् । तत्र कृपेत्वयवषष्ठन्तमुरित्यत्रान्वेति । उरित्यवयवषष्ठन्तं रेफे अन्वेति । तथाच कृप्धातोरवयवो य ऋकारस्तस्य यो रेफस्तस्य लकारः स्यादिति लभ्यते । तत्र ऋकारादवयवत्वं रेफस्य न संभवतीति रेपशब्दो रेफसदृशे ऋकारांशे लाक्षणिकः । ल इत्यपि लकारसदृशे ऌकारांशे लाक्षणिकः । तदाह — कृपेरृकारस्यावयव इत्याद#इना । एवं च लिटि चकृप् ए इतिस्थिते कित्त्वाद्गुणाऽबावे ऋकारैकदेशस्य रेफसदृशस्य लकारसदृशे सति 'चकॢपे' इति रूपम् । 'कृपः रः लः' इति च्छेदमभ्युपगम्य कृपधातो रेफस्य लकार इति व्याख्याने तु 'चकॢपे' इति न सिध्येत् । तदर्थमावृत्तिराश्रितेत्यभिप्रेत्याह — कल्पते चकॢपे इति । ऊदित्त्वादिड्विकल्पं मत्वा आह — चकॢपिषे चकॢप्से इति । स्यन्दिवदिति । चकॢपाथे चकॢपिध्वे — चक्लृब्ध्वे । चकॢपे चकॢपिवहे, चकॢपिमहे- चकॢप्महे । Tattvabodhini ------------- **कृपो रो लः** - ॒कृपो रो लः॑ इत्यर्वाचीनपाठस्तु नादर्तव्य इति ध्वनयति — कृपेरृकारस्येत्यादिना । वर्णैकदेशस्य वर्णग्रहणेन ग्रहणादाह — रेफसदृश इति । एवं चात्र कृपेत्यस्यावृत्तिरवश्यं स्वीकर्तव्या । तथा चलुटि च कॢपः॑ इत्यादिसौत्रनिर्देशोऽप्युपपद्यत इति भावः । Padamanjari ----------- कृपो धातोरिति पाठः । भाष्ये -'कृपो रो लः' इति पठितत्वात् ।'नुड्विधिलादेशविनामेष्वृकारे प्रतिविधातव्यम्' इत्युक्तम्, तत्रावसरे प्राप्ते लादेशे प्रतिविधते - इति सामान्यमिति । वर्णत्वावर्णत्वकृतभेदतिरस्कारेण वर्णात्मिकायामवर्णात्मिकायां च रेफव्यक्तौ यत्सामान्यं वर्तते यतो द्वयोरपि तयो र इत्यभिन्नाभिधानप्रत्ययौ भवतः, तदुपादीयते; न तु वर्णात्मिकैव रेफव्यक्तिरित्यर्थः । ततः किम् ? इत्यत आह - तेनेति । इत्यपि सामान्यं चेति । उपादीयत इत्यपेक्षते । अत्रापि तेन यश्च केवलो लकारः, यश्च ऌकारस्थः, तयोर्द्वयोरपि ग्रहणमिति पठितव्यम्, पूर्वानुसारेण तु गम्यमानत्वान्न पठितम् । यदि द्वयोरपि ग्रहणम्, ततोऽपि किम् ? इत्याह - ततोऽयमिति । केवलस्यौशुद्धस्य । लकार आदेश इति । अत्रापि केवल इति द्रष्टव्यम् । ऋकारस्यापि ऌकार इति । आन्तरतम्यात् । ननु सत्यपि द्वयोरपि ग्रहणे ऋकारस्थस्य रेफस्य ऌकारस्थो लकार आदेशो भवतु, कथं तु कृत्स्नस्य कृत्स्नो वर्ण आदेशो लभ्यते ? इत्याशङ्क्योक्तम् - एकदेशद्वारेणेति । एकदेशविकारस्थो रेफः, तस्य विकार एकदेशविकारः । यद्वा - अत्र एकदेश ऌकारस्थो लकारः, स एव विकार एकदेशविकारः, तद्द्वारेण । तत एतदुक्तं भवति - अज्भक्तिसम्पुटितयो रेफलकारयोर्निष्कृष्य कर्तुमशक्यत्वात्समुदायस्य समुदाय आदेश इति । यदि निष्कर्षोऽशक्यक्रियः, मा भूतयोरुपादानम्, न पुनरेतावता सूत्रेऽनुपातयोः समुदाययोः स्थान्यादेशभावो विद्यते ? इत्यत आह -तथा चेति । एवमादय इति । आदिशब्देन'तासि च कॢपः' , ठृदुपधाच्चाकॢपि चृतेःऽ ठनवकॢप्त्यवमर्षयोःऽ इत्यादेर्ग्रहणम् । कल्प्तेति । ऊदित्वात्पक्षे इडभावः । अत्र लत्वस्यासिद्धत्वात् पूर्वं परस्मैपदे'तासि च क्लपः' इतीडभावः, अन्यत्र तु गुणे कृते रेफस्य लकारः । चिकॢप्सतीति ।'हलन्ताच्च' इति सनः कित्वम् । क्रपेरिति ।'क्रप कृपायाम्' । भवतु सम्प्रसारणे कृते रूपम्, तथापि रूपसामान्याद् ग्रहणप्रसङ्गः ? अत आह - तस्य हीति । क्रपेरेव द्रष्टव्या इति । रञ्जे क्युन्ऽ, बहुलवचनात्क्रपेरपि भवति'कृकृपिभ्यां कीटन्' इत्यत्रापि क्रपिरेव पठितव्यः ।'खर्जिपिञ्जादिभ्य ऊरोलचौ' क्रपेरपि भवतु, सर्वत्र बहुलवचनात् सम्प्रसारणम् । कर्पूरादय इति । आदिशब्देन कृपाणस्य ग्रहणम् ।'युधिबुधिदृशेः किच्च' इति बाहुलकात् कृपेरपि आनच् । यद्यवश्यं बाहुलकमाश्रयणीयम्, कृपेरपि न दोषः ? इत्याह - उणादय इति । बालेति ।'बल वल्ल संवरणे' , बल्यत इति बालः । मूलमिति ।'मूल प्रतिष्ठायाम्' इत्यस्मादिगुपधलक्षणः कः ।'लङ्घिवंह्यएर्नलोपश्च' इति कुप्रत्ययान्तो लघुशब्दः । अलमित्यव्ययम् । ठङ्गेः कुलिःऽ अङ्गुलः । ठमेर्गुरी रश्च लो वाऽ इति नाश्रितम् । कपिलकादिषुचारस्य लः । रोमाणीति । रौतेर्मनिन्, रोमन् नामन् सीमन् स्तोमन् होमन् सोमन् लोमन् व्योमन् विधर्मन् पाप्मन् धामन्ऽ इत्यत्र'लोमन् समान्' इति निपातनं नाश्रितम् । पांसुरमिति । पांसुरस्मिन्नस्तीति'नगपांसुपाण्डुभ्यश्च' इति रः ।'कृञो मनिन्' कर्म । शुक्रः, शुक्ल इति । ठृज्राग्रऽ इति निपातनं नाश्रितम् । अथ'कॢपू सामर्थ्ये, इत्येव कस्मान्न पठितम्, एवं हि लत्वं न विधेयं भवति ? नैतदस्ति; अचीकॢपदिति हि न सिध्येत् । ठृकारऌकारयोः सवर्णविधिः' इति ऌकारस्य ठुरत्ऽ इति अकारे कृते अचीकृपदिति स्यात्, लत्वविधौ तस्यासिद्धत्वात्पूर्वमृकारः, ततो लत्वमिति सिद्धमिष्टम् । तथा चलीकॢप्यते इति रीको पि लत्वसिद्धिर्भवति ॥ Nyaas ----- इह र इति वर्ण उपादीयते, ल इत्यस्यादेशस्तादृश एव; ततश्च केवलो यो रेफवरणो नावयवभूतस्तस्यैव तथाभूत एव लकारादेशः स्यात्, ऋकारस्य तु लकारो न स्यात्; तयोः स्थान्यादेशभावेन सूत्रोऽनुपादानात्। ततश्च कॢप्तः, कॢप्तवानित्यादि न सिध्येदिति यश्चोदयेत्, तं प्रत्याह -`र इति सामान्यमुपादीयते` इति। वर्णत्वावर्णत्वकृतं भेदमुत्सृज्य यत्? सामान्य वर्णात्मिकायामवर्णात्मिकायां च रेफव्यक्तौ वर्तते यतस्तयोर्वर्णत्वावर्णत्वादिभेदभिन्नयोद्र्वयोरपि र इत्यभिधानप्रत्ययावभिन्नौ भवतस्तदुपादीयते, न तु वर्णात्मकः -एवं विशेषः। `तेन` इति। सामान्योपादानेन द्वयोरपि ग्रहणं भवतीति। तस्य सामान्यस्य द्वयोरपि भावात्? `ल इत्यपि सामान्यमेव` इति। उपदीयत इत्यपेक्षते। अत्रापि तेन यश्चकेवलो लकारो यश्च ऌकारस्थः, तयोद्र्वयोरपि ग्रहणमित्येतद्वाच्यम्? पूर्वानुसारेण गम्यमानार्थत्वान्नोक्तम्। `ततोऽयम्` इत्यादि। यत एवं द्वयोरपि रेफयोलकारयोश्च ग्रहणम्, तस्मात्? केवलस्य रेफस्य केवलो लकार आदेशो विधीयते। आन्तरतम्यादृकारस्यापि ऌकारः। ननु च सत्यपि द्वयोरपि ग्रहणे ऋकारस्य स्थान ऋकारो विधीयत इत्येतन्न लभ्येत, न हि ऋकारस्थो रेफ ऋकारो भवति, किं तर्हि? तदवयवः; तत्र द्वयोरपि ग्रहणे सति ऋकारस्थस्यापि रेफस्य ऌकारस्थो लकारस्त त्सदृश एवान्तरतन्याद्भवतीत्येषोऽर्थो लभ्यते, न तु ऋकारस्यापि स्थाने ऌकारो भवतीत्येषोऽर्थोऽपि? इत्येतस्य चोद्यस्य निराकरणार्थं `एकदेशविकारहद्वारेण` इत्युक्तम्। एकदेश ऋकारस्यावयवो रेफस्तस्य विकार ऌकारावयवो लकारः। अथ वा -एकदेश ऌकारस्यावयवो लकारः, स एव विकारः। ऋकारस्य रेफस्यैकदेशविकारः। द्वारम् -मुखम्, उपाय इति यावत्। तेन ऋकारस्य स्थान ऌकारादेशो विधीयते। यदि ऋकारऌकारस्थयो रेफलकारयोरृकारऌकाराभ्यां पृथग्भावः सम्भवति। तस्मान्नान्तरीयकत्वादेकदेशविकारद्वारेण समस्तस्यैव ऋकारस्य समस्त एव ऌकारादेशो विधीयते। अस्यैवार्थस्य द्रढीकरणायाह -`एवं च` इत्यादि। यत एवमेकदेशविकाद्वारेण ऋकारस्य स्थाने ऌकारो विधीयते, एवञ्च `लुटि च कॢपः` इत्येवमादीनां ग्रहणम्। तदेवं चोद्यं परिहरता यदुक्तम् -`नुङ्विधिलादेशविनामेष्वृकारः [`ऋकारे` -काशिका, पदमञ्जरी च] प्रतिविधातव्यः` [विधातव्यम् -काशिका, पदमञ्जरी च] (वा।1) इति, तत्रावसरे प्राप्ते लादेशे प्रतिविहितम्। `कल्प्ता, कल्प्तारौ, कल्प्तारः` इति। तृच्, अथ वा लुट्। `चिकॢप्सति` इति। सन्, **हलन्ताच्च** (1.2.10) इति कित्वाद्गुणाभावः। `कॢप्तः, कॢप्तवान्` इति। क्तक्तवत्। `कृपा` इति। एतत्कथं सिध्यति? यावताऽत्रापि लत्वेन भवितव्यम्? इत्यत आह -`कृपेत्येतत्` इत्यादि। एतेन `क्रप कृपायां गतौ` (धातुपाठः-771) इत्यस्मात्? `षिद्भिदादिभ्यो॥ऽङ्` (3.3.104) इत्यङि तत्सन्नियोगेन च सम्प्रसारणे कृते कृपेत्येतद्भवतीति दर्शयन्? कृपेत्यस्य रूपस्य लाक्षणिकत्वं दर्शयति। यद्येवम्, ततः किमत्यत्र लत्वं न भवति? इत्याह -`तस्य हि` इत्यादि। यतसतस्य कृतसम्प्रसारणस्य क्रपेः कृपेत्येतद्रूपं भवति, तस्माल्लाक्षणिकत्वम्। अतो लक्षणप्रतिपदोक्तपरिभाषयैव (व्या।प।3) न गृह्रते इति भवति लप्रसङ्गः।कृपण, कृपीट, कर्पूरादिषु ह्रौपदेशिकमेव कृपेत्येसद्रूपम्, न लाक्षणिकम्। तथा हि `रञ्जे क्वुन्` [`रजः क्युन्` इति द।उ।पाठः `रजेः, रञ्जेः` इति पाठान्तरे] (द।उ।5।24) इति यः क्वुन्? विहितः, तस्मिन्? बहुलवचनात्? कृपेरेव विहिते कृपण इति भवति; `कृतृकृपिभ्यः कीटन्` [`कृतृकृपिकम्पिभ्यः कीटन्` इति द।उ।पाठः `कपिकम्पिभ्यः` इति पाठान्तरम्] (द।उ।5।3) इति कृपेरेत कोटनि विहिते कृपीट इति भवत; `खर्जिपिञ्जादिभ्य ऊरोलचौ` (द।उ।10।10) इत्युरप्रत्यये कृते कर्पूर इति भवतीत्याह -`कृपणकृपीट` इत्यादि। एवं मन्यते -बहुलवचनात्? क्रपेरेव क्युन्? [क्वुन्? प्रांउ।पाठः] भवति, तत्र चास्य सम्प्रसारणं कृतम्, `कृ-तृकृपिभ्यः कीटन्` (द।उ।5।3) इत्यत्रापि कृपिग्रहणमपनीय कॢपिग्रहणं करिष्यते, सम्प्रसारणं तु बहुलवचनादेव भविष्यति; `खर्जिपिञ्जादिभ्य ऊरोलचौ` इत्यत्रापि आदिग्रहणे कृपिरेव ग्रहीष्यते, सम्प्रसारणं च पूर्ववदेव भविष्यतीति। यद्यपि कृपणकृपाणेत्येवमादीनि रूपाणि स्युः, तदास्य दोष इति दर्शयितुमाह -`जणादयो बहुलमिति वा` इत्यादि।अत्यन्तभिन्नरूपयोरभिन्नस्वभावत्वमसम्भावयन्? पृच्छति -`किमिदम्` इत्यादि। `समानविषयत्वम्` इति। अभिन्नविषयत्वमेकशब्देनात्र विवक्षितम्, न त्वभिन्नस्वभावत्वमिति दर्शयति। किमर्थं पुनः कृपिमुद्दिश्य लादेशो विधीयते, न कृपिरेवोद्दिश्येत? गु स्थाने लत्वमात्रं कर्तव्यम्, तच्चावश्यमुकर्तव्यमुपल्कारीयतीत्येवमर्थम्। तथा च -`ऋदुपधाच्चकॢपि चृतेः (3.1.110) इत्यत्र कॢपिप्रतिषेधो न कर्तव्यो जायते। तेनैवं शक्यम् -इह ह्रचोकॢपदिति ऋकारऌकारयोः सवर्णसंज्ञादिधानादृकारस्य विधीयमानमुरत्त्वं ऌकारस्यापि स्यात्। तथा च ऌकारस्याप ऋवर्णः प्रसज्यते; ऋकारान्तं तूपदिश्य लत्वे विधीयमाने तस्यापि ऌकारस्य लत्वं सिद्धं भवति॥ Prakriyasarvasvam ----------------- कृपो रेफस्य लः स्यात् ' कल्पते । इकारभक्त्योर्मध्यस्थो रेफ ऋः स्याल्लकार लृः । लत्वनुड्विधिणत्वेषु स रेफो रेफकार्यवान्* ।। ७०३ ।। तेन रस्य लत्वे लृत्वाद् भावे क्लृप्यते । लुङि द्युताद्यङ् । अक्लृपत् । तङि सिच्युदित्त्वाद् वेट् । अकल्पिष्ट । अकल्पिषाताम् । अनिटि 'लिङ्सिचौ—' इति कित्त्वाद्गुणः । 'झलो झलि' । अक्लृप्त । अक्लृप्साताम् । अक्लृप्थाः । अक्लृब्ध्वम् । अक्लृप्सि । लिटि चक्लृपे । चक्लृपाते । लिट्यप्युदित्त्वाद् वेट् । चक्लृपिषे, चक्लृप्से । चक्लृपिध्वे, चक्लृब्ध्वे । चक्लृपे, चक्लृपिवहे, चक्लृप्वहे । कल्पिषीष्ट, क्लृप्सीष्ट । Vartika ------- वालमूललघ्वसुरालमङ्गुलीनां वा लो रमापद्यत इति वाच्यम् । Sutra Prayogas -------------- * **चकॢषे** (शिशुपालवधम्): `कृपो रो लः` इति ऋकारस्थस्यापि रेफस्य लकारः। * **प्रक्wxल्क़्क़्प्तैस्ते** (भट्टिकाव्यम्): `कृपो रो लः` इति लत्वम्। * **रुचि-संप्रक्wxल्क़्क़्प्तम्** (भट्टिकाव्यम्): `कृपो रो लः` इति लत्वम्। * **चक्wxल्क़्क़्पे** (भट्टिकाव्यम्): `कृपो रो लः` इति लत्वम्। * **अकल्पयत्** (भट्टिकाव्यम्): `कृपो रो लः` इति रेफस्य लकारः ।