82004: उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ============================================= **Padacheda:** उदात्तस्वरितयोः | S | 6 | 2 | यणः | S | 5 | 1 | स्वरितः | S | 1 | 1 | अनुदात्तस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A स्वरित vowel is the substitute of an अनुदात्त vowel when the latter follows after such a semi-vowel which has replaced an उदात्त (acute accent) or a स्वरित vowel. Vasu English Translation ------------------------ A स्वरित vowel is the substitute of an अनुदात्त vowel when the latter follows after such a semi-vowel which has replaced an उदात्त (acute accent) or a स्वरित vowel. An unaccented vowel becomes *svarita*, when it comes after a यण् (semi-vowel), which यण् itself has come in the room of a vowel which was acute or *svarita* once. Let us first take the vowel following an *udatta* *yan*. Thus कुमा॒र्यौ॑, कुमा॒॑र्यः ॥ The word कुमारी꣡ is acutely accented on the final, because the long ई (ङीप्) replaces अ꣡ of कुमार (6.1.161). The semi-vowel य् is substituted in the room of this acute ई꣡; the *anudatta* आ and अः become *svarita* after such a य् ॥ Now to take an example of a *svarita*-*yan*. The words सकृल्लू꣡ and खलपू꣡ are finally acute by *krit*-accent (6.2.139). The Locative singular of these words are खलपू꣡ + इ॒ = खल्पिवं, and सकृल्ल्वि by (6.4.83). This व् is a semi-vowel which comes in the room of the acute ऊ꣡, therefore, it is *udatta*-*yan*. After this *udatta*-*yan*, the *anudatta* इ of the Locative becomes *svarita* by the first part of this *sutra*. Now when खलप्वि॑ + आशा꣡ and सकृल्ल्वि॑ + आशा꣡ are combined by *sandhi*, this *svarita* इ is changed to य्; it is, therefore, a *svarita*-*yan*. The unaccented आ will become *svarita*, after this *svarita*-*yan*. As खलप्व्या॑शा and सकृल्ल्व्या॑शा ॥ The word आशा is finally acute and consequently आ is not acute (*Phit*. I.18). Objection:- Here an objector may say: that the *svarita* accent on इ in खलप्वि is by this very *sutra*, this *svarita* is to be considered as *asiddha* for the purposes of यण् *adesa* of (6.4.83). How can then the य् substituted for this इ be considered as *svarita*-*yan*? Answer:- This is considered as *siddha* by *asraya*. (आश्रयात् सिद्धत्वम्) ॥ Objection :-If this be so, then उदात्तादनुदात्तस्य स्वरितः (8.4.66) should also be considered as *siddha*: and we should have *svarita* in दध्याशा &c also. For the word द꣡धि is first-acute by *Phit* Il. 3. Therefore धि is *svarita* by (8.4.66). The य् is *svarita* *yan*, the *anudatta* आ after this should become *svarita* according this view, but this is not so. Answer:- To avoid this difficulty, we have the following. Vart:- यण्स्वरो यणादेशो सिद्धो वक्तव्यः ॥ "The यण् accent should be considered as valid, for the purposes of यण् substitution". Some say, that even in such cases as दध्या॑शा the above rule applies, and that the unaccented vowel becomes *svarita*, if it follows a *svarita*-*yan* which is preceded by an acute vowel. They quote the following from *Taittariya* *sakha* : यास्ते विश्वाः समिधः सन्त्यग्ने, where the अ of अग्ने is pronounced as *svarita*. So also in the *Brahmana* portion as : दध्या॑शयति the आ is read as *svarita*. But according to *Katyayana* and *Patanjali*, the unaccented vowel does not become *svarita* by this *sutra*, when it follows a *svarita*-*yan* which is preceded by an acute vowel. To get rid of these anomalies, the *Mahabhashya* proposes several alternatives, two of which will be mentioned here. The first proposal is to divide this composite *sutra* into two parts: (1) उदात्तयणः परस्य अनुदात्तस्य स्वरितो भवति "an unaccented vowel becomes *svarita* when it follows after an *udatta* *yan*". (2) स्वरितयणश्च परस्य अनुदात्तस्य स्वरितो भवति "an unaccented vowel becomes *svarita*, when following a *svarita* *yan*" and in this second *sutra*, we shall read the *anuvritti* of *udatta*-*yan* from the preceding half. So that this half will mean: उदात्तयण इत्येवं यो निर्वृत्तः स्वरितः, तस्य यणः परस्य अनुदात्तस्य स्वरितो भवति ॥ The *svarita* must have been obtained by the application of the first half of this *sutra* and this *svarita* should be changed to यण्, which would change the *anudatta* into *svarita*. So that the स्वरित यणः means this particular *svarita* obtained by the application of this very *sutra*. The second proposal is not to read *svarita* into the *sutra* at all. The *svarita* in सकृल्ल्व्या॑शा would then be explained by *udatta*-*yanah* rule. सकृल्लू + इ + आशा = सकृल्ल्व् + य् + आशा ॥ Here व् is *udatta*-*yan*. This will cause आ to become *svarita*. The intervening *svarita* य् is considered as not existent for the purposes of accent स्वरविधौव्यञ्जनमविद्यमानवत् ॥ Nor is this य् to be considered as *sthani*-*vad* to इ by (1.1.57), for in applying the rule of accent, such a substitute is not considered as *sthanivat* by (1.1.58). Why do we say " of *udatta* and *svarita*"? Observe बैदी꣡ + आशा꣡ = बैद्याशा, so also शार्ङ्गव्याशा ॥ Here the semi-vowel replaces an unaccented ई, and is अनुदात्त यण् ॥ These words are first acute owing to नित् accent (4.1.73). Why do we say "an unaccented vowel becomes *svarita*"? Observe कुमार्यत्र, किशोर्यत्र ॥ The word अ꣡त्र is acutely accented on the first by लित् accent. (6.1.193). Bhashya ------- उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ॥ यण्स्वरो यणादेशे स्वरितयणः स्वरितार्थम्॥ यण्स्वरो यणादेशे सिद्धो वक्तव्यः॥ किं प्रयोजनम्?॥ स्वरितयणः स्वरितार्थम् । स्वरितयणः स्वरितत्वं यथा स्यात्, -खलप्व्यटति खलप्व्यश्नाति॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। आहाऽय-स्वरितयणइति, न चाऽस्ति सिद्धः(1) स्वरितः, तत्राश्रयात्सिद्धत्वं भविष्यति(2)॥ आश्रयात्सिद्धत्वमिति(3) चेदुदात्तात्स्वरिते दोषः॥ आश्रयात्सिद्धत्वमिति चेदुदात्तात्स्वरिते दोषो भवति-दध्याशा(4) मध्वाशा॥ एवं तर्हि योगविभागः करिष्यते। झ्र्ठउदात्तयणः(5)ट उदात्तयणः परस्याऽनुदात्तस्य स्वरितो भवति। ततः स्वरितयणः। स्वरितयणश्च(6) परस्यानुदात्तस्य स्वरितो भवति। उदात्तयण इत्येव॥ अथ वा स्वरितग्रहणं न करिष्यते॥ केनेदानीं स्वरितयणः परस्याऽनुदात्तस्य स्वरितो भविष्यति?॥ उदात्तयण इत्येव॥ ननु च स्वरितयणा व्यवहितत्वान्न प्राप्नोति॥ स्वरविधौ व्यञ्ञ्जनमविद्यमानवदिति नास्ति व्यवधानम्॥ अथ वा नैवं विज्ञायते- स्वरितस्य यण्, स्वरितयण्,स्वरितयण इति॥ कथं तर्हि?॥ स्वरिते यण् स्वरितयण्,स्वरितयण इति॥ Kashika ------- उदात्तयणः स्वरितयणश्च परस्यानुदात्तस्य स्वरित आदेशो भवति। उदात्तयणः — कु॒मा॒यौ᐀्॑,कु॒मा॒र्यः॑। उदात्तनिवृत्तिस्वरेण (६.१.१६१) अयमीकार उदात्तः, तस्य स्थाने यणादेशः, स उदात्तयण्, तस्मात् परस्यानुदात्तस्य स्वरित आदेशो भवति। स्वरितयणः — स॒कृ॒ल्ल्व्या॑शा। ख॒ल॒प्व्या॑शा। स॒कृ॒ल्लूः, ख॒ल॒पूरिति कृत्स्वरेण (६.२.१३९) अन्तोदात्तौ, तयोः **ओः सुपि**(६.४.८३) इति यणादेशः, स उदात्तयण्, ततः परस्य सप्तम्येकवचनस्य स्वरितत्वम्, तस्य यणादेशः स्वरितयण्, तस्मात् स्वरितयणः परस्याशाशब्दाकारस्यानुदात्तस्य स्वरितो भवति। ननु च सप्तम्येकवचनस्य यदुदात्तयण इति स्वरितत्वम्, तदसिद्धं यणादेशे, तत् कथमयं स्वरितयण् भवति ? आश्रयात् सिद्धत्वं भविष्यति। यद्येवम् **उदात्तादनुदात्तस्य स्वरितः** (८.४.६६) इत्येतस्याप्याश्रयात् सिद्धत्वं प्राप्नोति। ततश्च दध्याशेत्यत्रापि स्वरितः स्यात् ? तस्मादयमेव यण्स्वरो यणादेशे सिद्धो वक्तव्यः। केचित् तु ब्रुवते — उदात्तात् स्वरितयणोऽपि परस्यानुदात्तस्य स्वरितत्वं दृश्यते। तथा च तैत्तिरीयके शाखान्तरे पठ्यते — यास्ते॒ विश्वाः॑ स॒मिधः॒ सन्त्य॑ग्ने॒ (तै०सं० ३.५.५.३) इति। अग्न इत्ययमकारः स्वरितः पठ्यते। तथा ब्राह्मणेऽपि दध्या॑शयति (तै०ब्रा० १.७.६.५) इत्याकारः स्वरितः पठ्यत इति। यथा तु वार्त्तिकं भाष्यं च तथा उदात्तात् स्वरितयण्ाः परस्यानुदात्तस्यानेन स्वरितत्वं न भवतीति स्थितम्। तथा च भाष्ये स्वरितयण्ग्रहणमिदं प्रत्याख्यायते, स॒कृ॒ल्ल्व्या॑शा इत्येवमादावुदात्तयण इत्येव स्वरितस्य सिद्धत्वात्। स्वरितयण्व्यवधानमव्यवधानमेव — **स्वरविधौ व्यञ्जनमविद्यमानवत्** इति। तत् तु क्रियते, पूर्वस्मादपि विधौ स्थानिवद्भावाद् व्यवधानमस्ति, स्वरदीर्घयलोपेषु च लोपाजादेशस्य स्थानिवद्भावः प्रतिषिध्यत इति। उदात्तस्वरितयोरिति किम् ? बैदी॒ आ॒शा बैद्या॒शा। शार्ङ्ग॑रव्या॒शा। अनुदात्तयणादेशोऽयम्। अनुदात्तस्येति किम् ? कु॒मा॒र्यत्र॑। कि॒श॒ोर्यत्र॑। अत्रेत्ययमाद्युदात्तो लित्स्वरेण (६.१.१९३)॥ Siddhanta Kaumudi ----------------- उदात्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरितः स्यात् । अभ्यभि हि । स्वरितस्य यणः । खलप्व्याशा । अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिघातो न ॥ Padamanjari ----------- ठुदातस्वरितयोःऽ इत्यनुवादेऽपि स्थानषष्ठ।लेषा; व्याख्यानात् । तेन उदातस्वरितयोः समीपवर्ती यो यण् ततः परस्यानुदातस्य स्वरितत्वं न भवति । सकृल्ल्व्याशा, खलप्व्याशा इति । ततः परस्य सप्तम्येकवचनस्य स्वरितत्वमिति । केन ? इत्यत आह - उदातयण् इत्यनेनेति । योऽयमस्मिन्सूत्रे पूर्वो भागः, तेनेत्यर्थः । ठुदातयणो हल्पूर्वात्ऽ इत्युदातत्वं तु न भवति,'नोङ्दात्वोः' इति प्रतिषेधात्, आशाशब्दः ठाशाया अदिगाख्या चेत्ऽ इति अन्तोदातत्वादनुदातादिः । तत्कथमयं स्वरितयण् भवतीति । न कथञ्चित्, न ह्ययं स्वरितमपनीय तत्स्थाने भवति । न हि पूर्वं शास्त्रं स्थानिबुध्या आदेशे प्रवर्तते, किं तर्हि ? स्थानिन्येव । यथोक्तम् -'हत इत्येतद् द्विरुच्यते' इति, न पुनस्तद्वुध्या ढशब्दो द्विरुच्यत इति । आश्रयादिति । आहायम् - स्वरितयण इति, न चास्ति सिद्धः स्वरितः, तत्राश्रयात् सिद्धत्वं भविष्यति । एवमुच्यमानेऽतिप्रसङ्गमुद्भावयति - यद्येवमिति । दध्याशेति । दविशब्दः'नब्विषयस्यानिसन्तस्य' इत्याद्यौदातः, सेषनिघातः, ठुदातादनुदातस्य स्वरितःऽ इति तस्य स्वरितत्वम्, तस्याश्रयात्सिद्धत्वे सति तत्स्थानिकादपि यणः परस्यानुदातस्य स्वरितत्वप्रसङ्ग इत्यर्थः । तस्मादित्यादि । यत एवमाश्रयात्सिद्धत्वे दोषः, तस्मादयमेव यण्स्वरो यता सिद्धो भवति तथा वक्तव्यम् । तत्कथम् ? योगविभागः करिष्यते -ठुदातयणःऽ, उदातयणः परस्यानुदातस्य स्वरितो भवति; ततः'स्वरितयणः;, स्वरितयणश्च परस्यानुदातस्य स्वरितो भवति, उदातयण इत्येव । तेन उदातयण इत्येवं यो' भिनिर्वृतः स्वरितः, तद्यणः परस्यानुदातस्य स्वरितत्वं भवतीत्यर्थः । तेनास्यैव स्वरितस्याश्रयात्सिद्धत्वं भविष्यति । यद्येवमित्यादिना योऽतिप्रसङ्ग उद्भावितः, तं केषाञ्चिन्मतेन परिहरति - केचित्विति । उदातात्स्वरितयणो पीति । उदातात्परो यः स्वरितः ठुदातादनुदातस्यऽ इति विहितः तस्य यो यण् तस्मादपि परस्येत्यर्थः । तैतिरीयक इति । तितिरिणा प्रोक्तमधीयते तैतिरीयाः, तेषामाम्नायस्तैतिरीयकम्, चरणलक्षणो वुञ् । शाखान्तर इति । वृत्तिकारदेशे या शाखा तदपेक्षं शाखान्तरत्वम् । एकशतं ह्यध्वर्युशाखाः, विशेषवचनो वान्तरशब्दः । यास्ते विश्वा इति ।'यद्वृतान्नित्यम्' इति सन्तीत्यस्य निघातप्रतिषेधः, अग्नेशब्दस्यामन्त्रितनिघातः । ब्राह्मण इति । तत्रैव तैतिरीयके दधिशब्द उक्तस्वरः, आशयतीत्यस्य तिङ्निघातः । ननु चोभयत्राप्यत्र यणादेशे कृते ठुदातादनुदातस्य स्वरितःऽ इत्येव स्वरितः, तथा च यत्र स प्रतिषिध्यते'नोदातस्वरितोदयम्' इति, तत्र स्वरितो न दृश्यते च - स्वस्मभ्यमाभर प्रत्यग्निरुपसामग्रमख्यादिति, अयं तु स्वरित उदातस्वरितपरस्यापि भवति - दहाशसो रक्षसः पाह्यस्मानिति । तथा च भाष्येऽप्युदातपर एवानुदातेति प्रसङ्ग उद्भावितः - दध्याशेति । तस्मात् पूर्वोक्तस्यातिप्रसङ्गस्य नायं व्यभिचार इति चिन्त्यमेतत् । निराकरिष्यमाणत्वाद्वास्य नात्र सुष्ठुअ निर्बन्धनीयं दर्शयति - यथा त्विति । अत्र वार्तिकम् -'यण्स्वरो यणादेशे सिद्धो वक्तव्यः' ,'स्वरितयणः स्वरितार्थः आश्रयात्सिद्धत्वमिति चेदुदातात् स्वरिते दोषः' इति । यदि च ठुदातादनुदातस्य स्वरितःऽ इति यः स्वरितः तस्य यो यण् ततः परस्यानुदातस्य स्वरितत्वमिष्ट्ंअ स्याद्, दोषत्वेन वचनमनुपपन्नं स्यात् । भाष्ये तु यथायमर्थः स्थितः, तथा दर्सयति - तथा चेति । अत्र भाष्यम् - ठथ वा स्वरितग्रहणं न करिष्यते; यदि न क्रियते, केनेदानीं स्वरितयणः परस्यानुदातस्य स्वरितत्वं भवति ? उदातयण इत्येव, स्वरितयणा व्यवहितत्वान्न प्राप्नोति,'स्वरविधौ व्यञ्जनमविद्यमानवत्' इति नास्ति व्यवधानम्' इति । यदि चोदातात् स्वरितयणः परस्यानुदातस्य स्वरितत्वमिष्ट्ंअ स्यात् प्रत्याख्यानं न युज्येत । यदि प्रत्याख्यानम्, किमर्थं तर्हि स्वरितयण्ग्रहणं क्रियते ? इत्याह - तत्क्रियत इति । स्थानिवद्भावाद्व्यवधानमस्तीति । यण्स्थानिकेनेकारेण । व्यञ्जनस्य ह्यविद्यमानवद्भावः, नाचः । ननु च'न पदान्तद्विर्वचन' इति स्वरविधौ प्रतिषिद्धः स्थानिवद्भावः ? तत्राह - स्वरदीर्घेति । बैद्याशेति । बिदस्यापत्यं स्त्री ठनृष्यानन्तर्ये बिदादिभ्योऽञ्ऽ,'शार्ङ्गवाद्यञो ङीन्' , नित्स्वरेणाद्यौदातो बैदीशब्दः ॥ Nyaas ----- `उदात्तयणः, स्वरितयणश्च` इति। उदात्तस्थाने यो यण स उदात्तयण; स्वरितस्थाने यो यण्? स स्वरितयणित्यर्थः। `कुमार्यौ, कुमार्यः` इति। अत्र `अनुदात्तौ सुप्तितौ` (3.1.4) इत्यौजसावनुदात्तौ, तयोरुदात्तयणोः परयोः स्वरितो भवति। `उदात्तनिवृत्तिस्वरेण` इति। उदात्तलोपनिमित्तस्वरः पूर्वमुदात्तस्य लोपो यस्मात्, स पुनरुदात्तनिवृत्तिस्वरः **अनुदात्तस्य च यत्रोदात्तलोपः** (6.1.161) इत्यत्र यो विहिसः स [नास्ति -कांउ। पाठे] वेदितव्यः। `कृत्स्वरेणान्तोदात्तौ` इति। `ल्व्या प्व्या` इति। लूपूभ्यां धातुस्वरेणान्तोदात्ताभ्यां क्विप्, **उपपदमतिङ्** (2.2.19) इति समासः। **गतिकारकोपपदात् कृत्** (6.2.139) इति कृदन्तस्योत्तरपदस्य प्रकृतिभावदिधानादेतौ कृत्स्वरेणान्तोदात्तौ भवतः। `उदात्तयणाअदेशश्च` इति। इहनेन सूत्रेणानुदात्तयोदात्तयणः परस्य स्वरितो विधीयते, स्वरितयणश्च परसय सप्तम्येकवचनस्य पूर्वेण प्रकारेण स्वरितो विधीयत इति दर्शयति। `तस्य यो यण्` इति। तस्येत्यनेन सप्तम्येकवचनस्य परामर्शः। `आशाशब्दाकारस्यानुदात्तस्य` इति। `आशाया अदिगारव्या चेत्` (फि।सू।1।18) इत्याशाशब्द आद्युदात्तः, तेन **अनुदात्तं पदमेकवर्जम्** (6.1.158) इत्याकारस्यानुदात्तत्वम्। `ननु च` इत्यादि। सप्तम्येकवचनस्य `उदात्तयणः` इत्येवमनेन सुत्रेण यत्? स्वरितत्वं विहितं तत्? षाष्ठिकयणादेशे कर्तव्येऽसिद्धम्, ततश्च नैवायं स्वरितस्य स्थाने यणादेश इति सकृल्ल्व्याशा खलप्व्यशेत्यत्र स्वरितत्वं न भवतीत्यभिप्रायः। `आश्रयात्` इत्यादि। आहायम् -स्वरितयण इति; न क्वचित्? सिद्धः स्वरितः। तत्राश्रयात्? सिद्धत्वं भविष्यति, यथा `अतो रोरप्लुतादप्लुते` इत्यत्र रुत्वस्य। `यद्येवम्` इत्यादि। एतेनाश्रयात्? सिद्धत्वे समाश्रोयमाणेऽतिप्रसङ्गमुद्भावयति। `दध्याशा` इति। दधिशब्दः `नब्विषयस्यानिसन्तस्य` (फि।सू।2।26) इत्याद्युदात्तः, शेष स्यानुदात्तत्वम्, **उदात्तादनुदात्तस्य स्वरितः** (8.4.66) इति धकारात्परस्येकारस्य स्वरितत्वम्। तस्याश्रयात्? सिद्धत्वे तत्स्थानिकाद्यण उत्तरस्याशाशब्दाकारस्य स्वरितत्वं स्यात्। `तस्मात्` इत्यादि। यत एवमाश्रयात्? सिद्धत्व आश्रीयमाणेऽयमतिप्रसङ्गो भवति; तस्मादयमेव यण्स्वरो योऽनेन सूत्रेण (8.2.4) विधीयते, तस्य यणादेशे कर्तव्ये सिद्धत्वं वक्त्व्यम्। वक्तव्य मित्यस्य व्याख्यानमर्थः। तत्तु पूर्ववदेव योगादिभागमाश्रित्य कर्तव्यम्। `केचित्तु` इत्यादि। यद्येवमित्यादिना योऽतिप्रसङ्गदोष उद्भावितः, तं केषाञ्चिन्मतेन परिहरति। अनिष्टेऽपि विषये प्रवृत्तिरतिप्रसङ्गः। न च **उदात्तादनुदात्तस्य स्वरितः** (8.4.66) इत्यनेनोदात्तात्? परो यः स्वरितो विधीयते तस्याश्रयात्? सिद्धत्वमानिष्टम्; यस्मादुदात्तात्? परो यः स्वरितयण्? तत्परस्यानुदात्तस्य स्वरितत्वम्, ततः स्थानित्वाद्यणः परस्याशाशब्दाकारस्य स्वरितत्वं तैत्तिरीयके शाखान्तरे पठते। तदनुदात्तत्वं पुनरग्निशब्दसयाकारस्य; तस्य प्रातिपदिकस्वरेणान्तोदात्तत्वात्। `तथा ब्राआहृणेऽपि इति। [इति-नस्ति -प्रांउ।पाठे] तदेकदेशविशेषो ब्राआहृणशब्देनेह विवक्षितः। `दध्याशयति` इति। अश्नोतेर्णिजन्तस्य धातुस्वरेण चित्स्वरेण वान्तोदात्तादकारोऽनुदात्तः। तस्य स्वरितयणः परस्य ब्राआह्णे स्वरितत्वं पठते। `यथा तु` इत्यादि। एतेन तमेवातिप्रसङ्घं समर्थयते। वार्तिककारेणोक्तम् -`आक्षयात्? सिद्धमिति चेदुदात्तात्? स्वरिते दोषः` इति। अस्यायमर्थः -यद्याश्रयात्? स्वारतस्य सिद्धत्वमुदात्तात्? परो यः स्वरितस्तस्य यो यण्? ततः परस्यानुदात्तस्य स्वरितत्वमिष्टं स्यात्, तत्र दोषः। तेनानेन सूत्रेण स्वरितत्वं न भवतीति स्थितम्। अनेन हि वार्त्तिकेन -उदात्तात्? परो यः स्वरितयण्? तस्मात्परस्यानुदात्तस्य स्वरती भवतीत्येषोऽर्थो न प्रतीयते। तस्मादेतच्च न। यथा भाव्यं तथोदात्तस्यानेन स्वरितयणः परस्यानुदात्तस्य स्वरितो न भवतीति सिद्धं भवतीति। `तथा` इत्यादिनानन्तरमेवार्थं द्रढयति। भाष्ये हि `स्वरितग्रहणं न करिष्यते` इत्यादिना यन्थेन स्वरितग्रहणासिद्धत्वे सूत्रे प्रत्याच्याते। एवञ्च तत्प्रत्याल्यानमुपपद्यते, यद्युदात्तात्? स्वरितयणः परस्यानुदात्तस्य स्वरितत्वं नेष्यते; अन्यथा तन्निमित्तस्य स्वरितस्येष्टौ सत्यां प्रत्याख्यानमुपपन्नमेव न स्यात्। किं [`कि` नास्ति -प्रांउ।पाठेः] पुनर्भाष्ये स्वरितयणो ग्रहणं प्रत्याख्यायते, यावता तस्मिन्? प्रत्याख्याते सकुल्ल्व्याशेथ्येवमादावनुदात्तस्य स्वरितो न सिध्यति? इत्यत आह -`सकृल्ल्व्याशेत्येमादौ` इत्यादि। उदात्तयण्? पुनरत्रोकारवकारेको यकारः। ननु च योऽसौ सप्तम्येकवचनस्य स्थाने जायते तेन व्यवधानान्न सिध्यति? इत्यत आह -`स्वरितयण्` इत्यादि। अत्रैव कारणमाह -`स्वरविधौ` इत्यादि। इतिकरणो हेतौ। यदि स्वरितग्रहणन्तरेणापि सिध्यति, कस्मात्? सूत्रे तद्ग्रहणं क्रियते? इत्यत आह -`तत्तु क्रियते` इत्यादि। **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यस्य हि -पूर्वस्माद्विधौ कर्तव्येऽजादेशः स्थानिवद्भवतीत्येषोऽर्थोऽभिमतः। उदात्तयणः परस्यानुदात्तस्य स्वरितविधौ कर्तव्य सप्तम्येकवचनस्थाने यो यणादेशस्तस्य स्थानिवद्भावादिकारेण व्यवधानमस्ति; व्यञ्जनस्य स्वरविधावविद्यमानवद्भावात्? (व्या।प।37)। तेन व्यवधानं सति सकृल्ल्व्याशेत्यत्र `उदात्तयणः` इत्येव न सिध्यतीति स्वरितग्रहणं क्रियते। ननु च `नपदान्तरद्विर्वचन` (1.1.57) इत्यादिना स्वरविधौ प्रतिषिध्यते स्थानिवद्भावः। तत्कुतो व्यवधानम्? इत्यत आह -`स्वरदीर्घयलोपेषु` इत्यादि। अचो हि लोपादेशस्य स्वरविधौ [अयं भागः कांउद्रिते नास्ति] स्थानिवद्भावः प्रतिषिध्यते। तथा हि तत्रोक्तम् -`स्वरदीर्घयलोपेषु[अयं भागः कांउद्रिते नास्ति] लोपाजादेशो [लोपादेशो -कांउद्रितपठिः] न स्थानिवद्भवतीति वक्तव्यम्` (1.1.59।वा।1) ति। न चात्राचो लोपादेशः, किं तर्हि? यणादेशः तस्मान्नास्ति स्थाविद्भावप्रतिषेधः। `वैद्याशा` इति। विदस्यायत्यमिति `अनृष्यानन्तर्ये (4.1.104) इत्यादिना विदादित्वादञ्, तदन्तात्? `शाङ्गरवाद्यञो ङीन्` (4.1.73) इति ङीन्। अत्र नित्त्वादाद्युदात्तत्वे कृते शेषस्यानुदात्तत्वमिति बैद्याशाशब्देऽचानुदात्तस्थाने यण्, नोदात्तस्य, नापि स्वरितस्य। `अत्र` इति। `अयमाद्युदात्तो लित्स्वरेण` इति। **सप्तम्यास्त्रल्** (5.3.10) इति त्रल्प्रत्ययान्तत्वात्। `हलि लोः` (7.2.113) इतीद्रूपस्य लोपः॥ Prakriyasarvasvam ----------------- एतद्द्वयस्थानजाद् यणः परस्यानुदात्तस्य स्वरित आदेशः स्यात् । इत्यकारे- कारयोः स्वरितत्वम् । अभ्यर्ष (द्) वृहद्यशः । दिक्ष्वृध्नुवन्ति । विक्ष्वृञ्जसानः । स्वरितस्थाद्यणः कंसल्व्यात्सा मे रमतामिति । अन्तोदात्तः कंसलूः स्यादात्मा त्वाद्यनुदात्तवान् ।। ८८७ ।। तस्मिन्परे पुनः कार्ये कंसल्वीत्यस्य द्वेर्यणि । उदात्तयण इत्यंशविहितस्वरितस्य तु ।। ८८८ ।। असिद्धत्वे स्वरितयण् कथं स्यादिति चेदिह । यण् स्वरो यणि कर्तव्ये सिद्धो वाच्य इतीरणात् ।। स्वरितस्यास्य सिद्धत्वाद्यं स्वरितयण् भवेत् । इति । ८८९ ।। देव औ इत्यत्र—