81072: आमन्त्रितं पूर्वमविद्यमानवत् =================================== **Padacheda:** आमन्त्रितम् | S | 1 | 1 | पूर्वम् | S | 1 | 1 | अविद्यमानवत् | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- A preceding Vocative is considered as non-existent (for the purposes of the accent of the following word and the enclitic forms of युष्मद् and अस्मद्). Vasu English Translation ------------------------ A preceding Vocative is considered as non-existent (for the purposes of the accent of the following word and the enclitic forms of युष्मद् and अस्मद्). Such a Vocative is treated as if not at all existing, it is simply ignored. The operation which its presence otherwise would have caused does not take place, and that operation takes place which would have taken place had it not existed. What are the particular purposes served by considering it as non-existent? They are (1) the absence of the accent-less-ness of the subsequent vocative, which the first, taken as a पद, would have caused under (8.1.19). As देव꣡दत्त ! य꣡ज्ञदत्त ! Here the first Vocative देवदत्त does not cause the second Vocative to lose its accent, but it remains first acute by (6.1.198). (2) The accentless-ness of the verb required by (8.1.28) is prevented: as, दे꣡वदत्त प꣡चसि ॥ (3) The substitution of the shorter forms of युष्मद् and अस्मद्, required by (8.1.20) — (8.1.23) is prevented, as देवदत्त तव (not ते) ग्रामः स्वम्, देवदत्त मम (not मे) ग्रामः स्वम् ॥ (4) The application of (8.1.37) takes place, in spite of the intervention of the Vocative between the Particle and the verb; such intervention is not considered as taking away anything from the immediateness (अनन्तरम्) of the Particle from the verb: as, यावद् देवदत्त प॒च॒सि॒ ॥ (5) For the purposes of (8.1.47), though a Vocative may precede जातु, the latter is still considered as अविद्यमानपूर्वं and (8.1.47) applies, as देवदत्त जातु प꣡चसि ॥ (6) So also in the case of (8.1.49), as आहो देवदत्त प꣡चसि, उताहो देवदत्त पचसि, no option is allowed here by (8.1.50). Why do we use the word 'as if' or यत् in the *sutra*, instead of saying 'altogether'? In other words, why do we say "it is considered as if non-existent", instead of saying "it is considered altogether non-existent"? The vocative does produce its own particular effect. Thus in आम् भो देवदत्त ! the vocative भो is considered as one word (एकान्तर) for the purposes of separating आम् from the vocative देवदत्त under (8.1.55). This is the opinion of *Patanjali*; but the opinion of the author of *Kasika* is that भो would have been considered as अविद्यमानवत् but for (8.1.73). Why do we say 'a Vocative'? Observe देवदत्तः प॒च॒ति॒ ॥ Why do we say पूर्वं 'with regard to the subsequent word'? The vocative itself will not be considered as non-existent, for the application of rules that would apply to vocative as such. Thus in देव꣡दत्त य꣡ज्ञदत्त, the vocative देवदत्त gets its accent by (6.1.193) also. In fact, the word पूर्वं connotes its correlative पर 'subsequent'; and the vocative is considered as non-existent, for the purposes of the operations to be performed on such subsequent term, whether such operation be caused by the vocative itself, or by any other cause; but it is not to be considered non-existent for the purposes of operations to be performed upon itself. Therefore in दे꣡वदत्त प꣡चसि, *Devadatta* does get the accent of the vocative. In इमं मे गङ्गे यमुने सरस्वति शतुद्रि the first vocative गङ्गे is considered as non-existent with regard to यमुने, and, therefore, यमुने is considered as following immediately after the *pada* मे and thus यमुने becomes *anudatta*, not because of गङ्गे, but because of मे; similarly सरस्वति and शतुद्रि are *anudatta*, not because of the preceding Vocative, but because of मे ॥ In other words, the intervention of the vocatives does not stop the action of मे ॥ Bhashya ------- आमन्त्रितं पूर्वमविद्यमानवत् वत्कारणं किमर्थम्?॥ स्वाश्रयमपि यथा स्यात्। आम् भो देवदत्तेत्यत्र(1) आम एकान्तरमामन्त्रितमनन्तिक इत्येकान्तरता यथा स्यात्। ॥पूर्वं प्रति विद्यमानत्वादुत्तरत्रानन्तर्याप्रसिद्धिः॥ पूर्वं प्रति विद्यमानत्वादुत्तरत्रानन्तर्यस्याऽप्रसिद्धिः(2) स्यात्। इमं मे गङ्गे यमुने सरस्वति शुतुद्रि(3)। गङ्गेशब्दोऽयं(4) यमुनेशब्दं(5) प्रत्यविद्यमानवद्भवति। (न तु(3) मेशब्दं प्रति)। तत्रामन्त्रितस्य पदात्परस्येत्यनुदात्तत्वं न स्यात्॥ सिद्धं तु पदपूर्वस्येति वचनात्॥ सिद्धमेतत्॥ कथम्?॥ पदपूर्वस्येति वचनात्। पदपूर्वस्य चामन्त्रितस्याऽविद्यमानवद्भावो भवतीति वक्तव्यम्॥ कानि पुनरस्य योगस्य प्रयोजनानि? ॥ अविद्यमानवत्त्वे प्रयोजनमामन्त्रितयुष्मदस्मत्तिङ्निघाताः(6)॥ (अविद्यमानवत्त्वे(3) आमन्त्रितयुष्मदस्मत्तिङि्नघाताः प्रयोजनम्)॥ आमन्त्रितस्य पदात्परस्यानुदात्तो भवतीतीहैव भवतिपचसि देवदत्त। देवदत्त यज्ञदत्तेत्यत्र न भवत्यविद्यमानवत्त्वादामन्त्रितस्य। युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ इतीहैव भवति-ग्रामो वां स्वम् जनपदो नौ स्वम्। देवदत्तयज्ञदत्तौ युवयोः स्वमित्यत्र न भवत्यविद्यमानवत्त्वादामन्त्रितस्य। तिङ्ङतिङ इतीहैव भवति-देवदत्तः पचतीति(1)। देवदत्त पचसीत्यत्र न भवत्यविद्यमानवत्त्वादामन्त्रितस्य॥ पूजायामनन्तरप्रतिषेधः(1)॥ पूजायामनन्तरप्रतिषेधः प्रयोजनम्। यावत्पचति शोभनम्। यावदेवदत्त पचसीत्यत्रापि सिद्धं भवति॥ जात्वपूर्वम्॥ जात्वपूर्वं प्रयोजनम्। जातु पचति। देवदत्त जातु पचसीत्यत्रापि सिद्धं भवति॥ आहो उताहो चानन्तरविधौ(1)॥ आहो उताहो चानन्तरविधौ प्रयोजनम्। आहो(2) पचसि, उताहो पचसि। आहो देवदत्त पचसि उताहो देवदत्त पचसीत्यत्रापि सिद्धं भवति। ॥ आम एकान्तरविधौ॥ आम एकान्तरविधौ प्रयोजनम्। आम् पचसि देवदत्त। आम् भोः पचसि देवदत्तेत्यत्रापि(1) सिद्धं भवति। अविद्यमानवत्त्वादामन्त्रितस्य(1)॥ (आमन्त्रितं पूर्वमविद्यमानवत्)॥ Kashika ------- आमन्त्रितं पूर्वमविद्यमानवद् भवति। तस्मिन् सति यत् कार्यं तद् न भवति, असति यत् तद् भवति। कानि पुनरविद्यमानवत्त्वे प्रयोजनानि? आमन्त्रिततिङ्निघात — युष्मदस्मदादेशाभावाः। देव॑दत्त॒ यज्ञ॑दत्त इत्यत्रामन्त्रितस्य पदात् परस्य (८.१.१९) इति निघातो न भवति। षाष्ठिकामन्त्रिताद्युदात्तत्वं (६.१.१९८) भवति। देव॑दत्त॒ पच॑सि इत्यत्र **तिङ्ङतिङः** (८.१.२८) इति निघातो न भवति। देवदत्त तव ग्रामः स्वम्, देवदत्त मम ग्रामः स्वमित्येवमादिषु युष्मदस्मदादेशा न भवन्ति। पूजायामनन्तरप्रतिषेधः प्रयोजनम्। यावद् देवदत्त प॒च॒सि॒ इत्यत्रापि **पूजायां नानन्तरम्** (८.१.३७) इत्येव प्रतिषेधो भवति। **जात्वपूर्वम्** (८.१.४७) इत्येतद् देवदत्त जातु पच॑सि इत्यत्रापि भवति। **आहो उताहो चानन्तरम्** (८.१.४९) इति, आहो देवदत्त पच॑सि, उताहो देवदत्त पच॑सि इत्यत्रापि भवति। **आम एकान्तरमामन्त्रितमनन्तिके** (८.१.५५) इति आम् भो॑ पचसि॒ देव॑दत्त इत्यत्रापि भवति। आमन्त्रितमिति किम्? देवदत्तः प॒च॒ति॒। पूर्वमिति किम्? देव॑दत्त इत्येतस्यामन्त्रिताद्युदात्तत्वे कर्तव्ये नाविद्यमानवद् भवति। पूर्वत्वं च परापेक्षं भवतीति परस्यैव कार्ये स्वनिमित्तेऽन्यनिमित्ते वा तदविद्यमानवद् भवति, न तु स्वकार्ये। देव॑दत्त॒ पच॑सि इत्यत्रापि ह्यामन्त्रिताद्युदात्तत्वं भवत्येव। इह इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ इति गङ्गेशब्दः पूर्वमामन्त्रितम् ततः परस्य यमुनेशब्दस्यानुदात्तत्वे कर्तव्ये स्वयमविद्यमानवत्त्वाद् निमित्तं न भवति। मेशब्दस्य निमित्तभावं न प्रतिबध्नाति॥ Siddhanta Kaumudi ----------------- स्पष्टम् । अग्ने॒ तव॒ … । देवास्मान्पाहि । अग्ने॒ नय॑ । अग्न॒ इन्द्र॒ वरु॑ण॒ …। इह युष्मदस्मदोरादेशस्तिङन्तनिघात आमन्त्रितनिघातश्च न । सर्वादा रक्ष देव नः इत्यत्र तु देवेत्यस्याविद्यमानवद्भावेऽपि ततः प्राचीनं रक्षेत्येतदाश्रित्यादेशः । एवं इमं मे गङ्गे यमुने इति मन्त्रे यमुन इत्यादिभ्यः प्राचीनामन्त्रिताविद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्य सर्वेषां निघातः ॥ Balamanorama ------------ **आमन्त्रितं पूर्वमविद्यमानवत्** - आमन्त्रितं पूर्वम् । स्पष्टमिति । अनुवर्तनीयपदान्तराऽभावादिति भावः ।अग्ने तेवेति ।अग्ने तव श्रवो वयः॑ इत्यृचि 'अग्ने' इत्यविद्यमानवत् । देवास्मानित्यत्र देवशब्दोऽविद्यमानवत् ।अग्ने नये॑त्यृचि 'अग्ने' इत्यविद्यमानवत् ।अग्न इन्द्र वरुणे॑त्यृचि 'अग्ने' इत्यविद्यमानवदिति भावः । ततः किमित्यत आह-इहेति । अग्ने तवेत्यत्र देवाऽस्मानित्यत्र च युष्मदस्मदोः ते-नसावादेशौ न भवतः, तव समानित्यनयोः पदात्परत्वाऽभावात्पादादौ स्थितत्वाच्चा ।अग्ने नये॑त्यत्रनये॑ति तिङन्तस्य 'तिङ्ङ्तिङः' इत्यनुदात्तत्वं न भवति अतिङन्तात्पदात्परं तिङन्तं निहन्यते इति हि तदर्थः । इह च 'अग्ने' इत्यतिङन्तस्याऽविद्यमानवत्त्वादतिङन्तात्परत्वाऽभावान्नानुदात्तत्वम् । अग्न इन्द्र वरुणेत्यत्र तुआमन्त्रितस्य चे॑ति सर्वानुदात्तत्वं न भवति, पदात्परमामन्त्रितं निहन्यते इति हि तदर्थः । इह च अग्नेशब्दस्याऽविद्यमानवत्त्वेन पदात्परत्वाऽभावादिन्द्रशब्दस्य नानुदात्तत्वम् । एवं वरुणशब्दस्यापि नानुदात्तत्वं, ततः प्राचीनयोरग्ने इन्द्र इत्यनयोरविद्यमानत्वात् । ननुसर्वदा रक्ष देव नः॑ इत्यत्र कथं नसादेशः, देवेत्यस्याऽविद्यमानबत्त्वादित्यत आह — सर्वदेति ।लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि॒॑प्रतापरूद्र!ते ख्याति॑रित्यादौ तु 'ते' इति विभक्ति प्रतिरूपकमव्ययं, तत्र आमन्त्रितस्याऽविद्यमानवत्त्वाद्युष्मच्छभ्दस्य पादादिस्थत्वात् । एवमिति ।इदं मे गङ्गे यमुने सरस्वति शुतुद्रिस्तोमँ परुष्णिया॑ इति मन्त्रे सर्वेषां निघात इत्यन्वयः ।आमन्त्रितस्य चे॑त्यनुदात्तत्वमित्यर्थः । सर्वशब्दं विशिनष्टि — यमुने इत्यादिभ्यप्राचीनानामिति । इति आदिर्येशामिति विग्रहः । आदिना सरस्वतिशुतुद्रीत्यनयोग्र्रहणम् । तद्गुणसंविज्ञानो बहुव्रीहिः । 'यमुने' 'सरस्वति' 'शुतुद्रि' इत्येतेषु एकैकस्मात्प्राचीनानां 'गङ्गे' 'यमुने' 'सरस्वति' इत्येषां सर्वेषां निघात इत्यर्थः । शुतुद्रिशब्दस्य त्वनुदात्तत्वं नेत्यविवादं, तस्य द्वितीयपादादिस्थत्वात् ।आमन्त्रितस्य चे॑त्यत्रपदस्य,पदात्,अनुदात्तं सर्वमपादादौ॑ इत्यनुवृत्तेः॑ 'इमं मे' इत्यृचो जगतीच्छन्दस्कतया सरस्वतीत्यन्तप्रथमपादस्य द्वादशाक्षरस्य समाप्ते । ननु 'गङ्गे' इत्यस्यानुदात्तत्वमुचितं, तस्य मे इति पदात्परत्वात्, यमुने, सरस्वति इत्यनयोस्तु नानुदात्तत्वसंभवः, ततः प्राचीनयोर्गङ्गे यमुन#ए इत्यनयोरविद्यमानवत्त्वे पदात्परत्वाऽभावादित्यत आह — आमन्त्रि[नाम]विद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्येति । आमन्त्रितानां मध्ये गङ्गे यमुने इत्यनयोरविद्यमानवद्भावेऽपीति योजनीयम् । एवंच 'इत्यादिभ्य' इतिसर्वेषा॑मिति च बहुवचनमनुपपन्नमित्यपास्तम् । क्वचित् पुस्तकेषुयमुने इत्यादिप्राचीनाऽऽमन्त्रिताऽविद्यमानवद्भावेऽपी॑ति पाठो दृश्यते । तत्र आदिना सरस्वतीत्येतदुच्यते । यमुने सरस्वतीत्याभ्यचां प्राचीनयोरामन्त्रितयोरविद्यमानवद्भावेऽपीति सुगममेव । अयं च निघातः पदकाले स्पष्टं श्रूयते । Tattvabodhini ------------- **आमन्त्रितं पूर्वमविद्यमानवत्** - इहेति ।अग्ने तव॑देवास्मा॑नित्यत्रयुष्मदस्मदोर्न भवत्यादेशः,अग्ने नये॑त्यत्रतिड्डतिङः॑इति न तिङन्तनिघातः,अग्न इन्द्र वरुणे॑त्यत्र तुआमन्त्रितस्य चे॑त्यमान्त्रितनिघातो नेति विवेकः । सर्वेषां निघात इति । अयं च निघातः पदकाले श्रीयते न तु संहिताकाले ।स्वरितात्संहितायामनुदात्ताना॑मिति संहितायामेकश्रुतिविधानात् । Padamanjari ----------- किमदमविद्यमानवत् ? इत्याह - तस्मिन्सतीत्यादि । तत्र तस्मिन्सति यत्कार्यं तन्न भवतीत्यत्रोदाहरणमाह - आमन्त्रिततिडनिघातेति । असति च यत्कार्यं तद्भवतीत्यत्रोदाहरणमाह - पूजायामित्यादि । आमन्त्रिताद्यौदातत्वे कर्तव्ये इति । असति पूर्वग्रहणे ठामन्त्रितमविद्यमानवत्ऽ त्युच्यमाने स्वस्याद्यौदातत्वेऽपि षाष्ठिके कर्तव्येऽविद्यमानवत् स्यात्, क इदानीं तस्यावकाशः ? यत्राविद्यमानवद्भावः प्रतिषिध्यते, विकल्प्यते वा; तथा ठपादादौऽ वित्यधिकारात्पादादिरप्यवकाशः - उषो नो अधषु हवा व्युच्छनन्, नस्भावो ह्यत्राविद्यमानवद्भावादेव भवति; इन्द्र त्वा वृषभं वयम्, त्वादेशो भवति । एवं तु इन्द्र पिब तुल्यं सुतो मदाय, इन्द्र पिब वृषभूतस्य वृष्णः, अग्ने याहि शस्त्रिभिः, वायो याहि शिवादिव - इत्यादौ तिङ्निघातः प्राप्नोति ? कर्तव्योऽत्र यत्नः, उक्तं हि पुरस्तात् - ठापादपरिसमाप्तेरपादादावित्यधिकारःऽ इति । यदि ठामन्त्रितं पूर्वमविद्यमानवत्ऽ देवदत पचसीत्यत्र पचसीत्येतदपेक्षवा देवदतशब्दस्य पूर्वत्वमस्तीत्यविद्यमानवत्वे सति आमन्त्रिताद्यौदातत्वं न स्यादित्यत आह - पूर्वत्वं चेति । पूर्वशब्दस्य सम्बन्धिशब्दत्वाद्यं प्रति पूर्वत्वं तत्कार्यं प्रत्येवाविद्यमानवत्वम्, न स्वकार्यं प्रति; तेन नायं दोष इत्यर्थः । कार्यशब्देनैतद्दर्शयति - अविद्यमानवत् कार्यमत्रातिदिश्यते । तत्र पूर्वशब्दस्य सम्बन्धिशब्दत्वेन परस्य कार्ये कर्तव्य इत्येतावदाश्रीयते, न तु परं प्रत्यविद्यमानवत्; पूर्वं तु प्रति विद्यमानवदित्यर्थ इति स्यात् । इमं मे गङ्गे यमुने सरस्वतीत्यत्र गङ्गेशब्दस्य यमुनेशब्दं प्रत्येवाविद्यमानवत्वं न मेशब्दं प्रतीति व्यवधानाद् यमुनेशब्दस्य निघातं प्रति मेशब्दो निमितं न स्यात् । यथोपदर्शिते त्वर्थे, परस्य कार्ये कर्तव्ये इत्येतावतत्कार्यं स्वनिमितमन्यनिमितं वेति विशेषाभावाद् मेशब्दापेक्षेऽपि निघाते गङ्गेशब्दस्याविद्यमानवत्वं सिध्यति । तदेतत् स्वनिमितेऽन्यनिमिते चेत्यत्र सूचितम् । तदेवमुक्तं दर्शयति - इहेत्यादि । गङ्गेशब्दोऽविद्यमानवत्वात्स्वयं निमितं न भवतीत्वेतावत्, न तु मेशब्दस्य निमितभावं प्रतिबध्नातीत्यर्थः । परं प्रत्यविद्यमानवद्भवतीत्याश्रीयमाणे हि तथा स्यात् । ननु वत्करणमन्तरेणापि'गोतो णित्' इत्यादावतिदेशो दृश्यते, तत्किमत्र वत्करणेन ? नन्वसति वत्करणे'पूर्वमामन्त्रितमविद्यमानम्' इत्युच्यमाने पूर्वस्यामन्त्रतस्य निवृत्तिः स्यात् ? नैष दोषः; अर्थप्रत्ययनाय शब्दप्रयोगादनिवृतेऽर्थे शब्दनिवृत्यभावात् । अथापि परप्रयोगो भवतु, पूर्वप्रयोगो मा भूदित्यर्थः कल्पेत ? तथापि राजदन्तादिषु परमामन्त्रितं वेति वक्तव्यं स्यात् । परमेवामन्त्रितं भवति, न पूर्वमित्यर्थः । तदेवमन्तरेणापि वतिमतिदेशः सिद्धः ? इदं तर्हि प्रयोजनम् - स्वाश्रयमपि यथा स्यात् - आं बो देवदत ठाम एकान्तरमामन्त्रितमनन्तिकेऽ इत्येकान्तरता यथा स्यात् । एकवचनान्तं ह्युतरसूत्रस्य विषयः, बहुवचनान्ते तु'विभाषितं विशेषवचने बहुवचनम्' इति पक्षे निघातप्रसङ्गः । यद्यप्यतिदेशिककार्याविरुद्धं स्वाश्रयमतिदेशेप्यवसत्यपि वत्करणे भवति, इह तु वत्करणाद्यत्नाद्विरुद्धमपि क्वचित्प्राप्यते । अविद्यमानवत्वविरोधिनी ह्यएकान्तरता । व्याख्यानाच्चातिप्रसङ्गो नोद्भावनीयः ॥ Nyaas ----- `तस्मिन्? सति` इत्यादिनाऽविद्यमानवद्भवतीत्यस्यार्थमाचष्टे। `अविद्यमानवत्` इति। वतिना निर्देशोऽयम्, अविद्यमानेन तुल्यं वर्तत इत्यविद्यमानवत्। वतिश्च साद्श्ये भवति, एवञ्च तस्याविद्यमानेन सादृश्यं भवति यदि सत्यपि तस्मस्तन्निबन्धनं कार्यं न भवति। असति च तस्मिन्? यत्? कार्यं तदत्तानिबन्धनं तत्? सत्यपि तस्मिन्? भवति। `आमन्त्रितनिघातेन` [आमन्त्रिततिङनिघात -काशिका -पदमंजरी च] इत्यादिना तस्मिन्? सति यत्कार्यं प्राप्नोति तदभावमविद्यमानवद्भावस्य प्रयोजनं दर्शयति। `देवदत्त् यज्ञदत्त` इति। अत्र पूर्वस्याविद्यमानत्वादसति निघाते यज्ञदत्तशब्दस्य षाष्टिकमेवामन्त्रि (6.1.192) ताद्युदात्तत्वं भवति। `देवदत्त मम ग्रामः स्वम्` ति। **तवममौ ङसि** (7.2.96) इति तदममादेशौ साप्तिकौ। `इत्येवमादिषु` इति। आदिशब्देन `देवदत्त तुभ्यं दीयते` इत्येवमादीनां ग्रहणम्, `युष्मदस्मदादेशा न भवन्ति` इति। **तेमयावेकवचनस्य** (8.1.22) इत्येवमादयः। `पूजायामनन्तरप्रतिषेधः प्रयोजनम्` इत्यादिना तस्मिन्नामन्त्रितेऽसति यत्कार्यं प्राप्नोति तस्य सत्यपि तस्मिन्? भावेऽविद्यमानवद्भावस्य प्रयोजनं दर्शयति। `यावद्देवदत्त पचसीत्यत्रापि` इत्यादि। यत्राप्यामन्त्रितं व्यवधायकमित्येषोऽपिशब्दस्यार्थो वेदितव्यः। `देवदत्तः पचति` इति। अत्राविद्यमानत्वाभावत्? तिङनिघातो भवत्येव। `पूर्वम्` इति। किं देवदत्त इति पूर्वं परमपि खलु भवति? न चेह परमस्तीति नास्ति देवदत्तेत्यस्य पूर्वत्वम्। तेनामन्त्रिताद्युदात्तत्वे कर्तव्ये नाविद्यमानवद्भवति। `देवदत्त पचसि` इति। अत्र पचसीत्येतदपेक्षया देवदत्तशब्दस्य पूर्वत्वमस्तीत्यविद्यमानवद्भावेन तस्य भवितव्यम्, ततश्चामन्त्रिताद्युदात्तत्व तस्य न स्यात्। `इमं मे गङ्गे यमुने` -इत्यत्र च गङ्गेशब्दस्य यमुनेशब्देनानन्तर्यमपनयन्? स निघातनिमित्तभावं प्रतिबध्नीयादिति यमुनेशब्दस्य निघातो न स्यादित्येतच्चोद्यद्वयमाशङ्क्याह -`पूर्वत्वं च` इत्यादि। चकारोऽवधारणे, भिन्नक्रमश्च। परापेक्षमेवेत्येवं द्रष्टव्यम्। इतिकरणो हेतौ। येषां यद्भावो यदपेक्षवद्भवति तेषां तद्भावेनानूद्यमानानां विधीयमानो धर्मस्तद्विषय एव प्रतीयते। तद्यथा -पुत्रः कार्येष्ववहित इति पुत्रस्य पुत्रभावः पुत्रापेक्ष इति तस्य पुत्रभावेनानूद्यमानस्य विधीयमानं कार्येष्ववहितत्वं यदपेक्षं पुत्रत्वं तत्कार्येष्ववगम्यते, नान्यकार्येषु। पूर्वत्वं चेदं परापेक्षमेव। तस्मात्? तदनूद्यामन्त्रितस्याविद्यमानवद्भावो यदपेक्षं तत्पूर्वत्वं तस्यैव परस्य कार्ये कर्तव्ये भवति, नान्यस्य। किंविशिष्टे कार्ये? स्वानिमित्ते, अन्यनिमित्ते या। स्वं निमित्तं यस्य तत्? स्वनिमित्तम्, आमन्त्रितमित्यर्थः। तस्मादन्यच्छब्दान्तरं निमित्तं यस्य तदन्तनिमित्तम्। यत एवं परस्यैव कार्ये कर्तव्ये तदामन्त्रितमविद्यमानवद्भवति, न तु स्वकार्ये कर्तव्ये, तेन देवदत्त पचसौत्यत्रामन्त्रिताद्युदात्तत्वं न परस्य कार्यम्; किं तर्हि? आमन्त्रितस्यैव। यतः परस्य कार्यमनुदात्तत्वम्, तस्मस्त्वविद्यमानव्दभवत्येव।एवं प्रथमचोद्यं निराकृत्य द्वितीयं निराकर्त्तुमाह -`इमं मे गङ्गे यमुने` इत्यादि। अत्रापि पूर्वत्वं च परापेक्षं भवतीत्येष एव हेतुः। गङ्गेशब्दः पूर्वमामन्त्रितान्तः स्वयमविद्यमानवत्त्वान्निमित्तं न भवतीति सम्बन्धनीयम्। क्व विषये निमित्तं न भवति? परस्यैव सुमुनेशब्दस्यानुदात्तत्वे कर्तव्ये। मेशब्दस्य च निमित्तभावं न प्रतिबध्यातीति गङ्गेशब्दः पूर्वमामन्त्रितो यमुनेशब्दस्यानुदात्तत्वे कर्तव्ये विद्यमानवत्त्वादिति सर्वमपेक्षते। इह पूर्वशपब्दस्य सम्बन्धिशब्दत्वात्? परस्य कार्ये कर्तव्ये पूर्वस्यामन्त्रितस्याविद्यमानवद्भावो विधीयते। `इमं मे गङ्गे यमुने` इत्तयत्र च यद्यपि गङ्गेशब्दादन्यच्छब्दान्तरं `मे` इत्येतद्यमुनेशब्दस्यानुदात्तस्य निमित्तम्, तथापि तदनुदात्तत्वं पस्यैवामन्त्रितस्य कार्यमिति तस्मिन्नपि कर्तव्ये गङ्गेशब्दोऽविद्यमानवद्भवति। अत एव प्रागुक्तम् -अन्यनिमित्ते वैतेनाविद्यटचमानत्वान्मेशब्दस्य निघातं प्रति यो निमित्तभावः तं न प्रतिबध्नाति। वत्करणं किमर्थम्? स्वाश्रयमपि यथा स्यात् -आम्? भो देवदत्तत्रि। `आम एकगान्तरमामन्त्रितमनन्तिके` (8.1.55) इत्येकान्तरतानिबन्धनो निघातप्रतिषेधः सिद्धो भवति। बहुवचनान्तञ्चैतद्विज्ञेयम्; एकवचनान्ते हि **नामन्त्रिते समानाधिकरणे सामान्यवचनम्** (8.1.73) इति प्रतिषेधान्नैवाविद्यमानवत्त्वमस्ति। बहुवचनान्ते तु **विभाषितं विशेषवचने बहुवचनम्** (8.1.74) इति पक्षे विद्यते। ननु च परार्थे प्रयुज्यमानाः शब्दा अतिदेशं गमयन्ति, यथा -`गौर्वाहीक इति, तत्र विद्यमानस्याविद्यमानमिति वचनादतिदेशो गम्यते। अतिदेशधर्मश्च स्वाश्रया निवृत्तिरिति नार्थो वतिना? सत्यमेतत्; एवं तु मन्यते -वतिमन्तरेण प्रयोगव्यवस्थार्थमिवं स्यात्, कुतश्चिदामन्त्रितं पूर्वं न भवतीति। तथा चामन्त्रितस्यामन्त्रितेन पूर्वेणैकान्तराता न स्यादिति॥ Praudhamanorama --------------- यत्तु प्राचोक्तम्— विशेष्यपूर्वं सम्बोधनेतरपूर्वं च सम्बोधनं हित्वाऽन्यस्मात् सम्बोधनात् परयोर्नैते आदेशा इति केचिदिति। तत्र केचिदित्यनुचितम्, उक्तार्थस्य प्रकृतद्विसूत्रीसिद्धत्वात्। यच्च व्याचख्युः-त्रिसूत्र्या अयमर्थ इति तन्न, तृतीयसूत्रार्थस्य तेनाऽसंस्पर्शात्। Prakriyasarvasvam ----------------- सम्बोधनमादिभूतमसद्वत्स्यात् । तेन तत्पूर्वत्वे पदात्परत्वं न । कृष्ण त्वां नमामि ।