81071: तिङि चोदात्तवति ====================== **Padacheda:** तिङि | S | 7 | 1 | च | S | 0 | 0 | उदात्तवति | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A गति becomes अनुदात्त when followed by an accented finite verb. Vasu English Translation ------------------------ A गति becomes अनुदात्त when followed by an accented finite verb. The word गतिः is understood here. Thus यत् प्र प꣡चति, यत् प्र॒करो꣡ति ॥ Why have we used the word तिङि in the *sutra* ? In order to restrict the scope of the word उदात्तवति; so that a *Gati* would not become accentless before every *udatta* word, but only before *udatta* verbs. Thus आ does not become *anudatta* before मन्द्रैः in आ꣡ मन्द्रै꣡ रिन्द्र हरिभि र्याहि ॥ If it be said that the word गति is a particular name which the Particles get before verb only, and therefore गति would always refer to its correlative term verb, and not to noun, like as the word father refers to its correlative term son and not nephew: and that, therefore, उदात्तवति must refer to the verb like याहि and not to a noun like मन्द्रैः; then also we say that the employment of the term तिङि is necessary, in order to indicate that the verb must be a finite verb, and not a verbal root. So that though a verbal root be *udatta*, yet if in its conjugated form (तिङन्त) it is not *udatta*, the गति will not lose its accent. Thus in यत् प्रकरोति, the root कृ is *anudatta*, but the तिङन्त form करोति is *udatta*, hence the rule will apply here: which would not have been the case had उदात्तवति not been qualified by तिङि ॥ For the maxim is यत्क्रियायुक्ताः प्रादयस् तेषां तं प्रति गत्युपसर्गसंज्ञे भवतः ॥ Therefore in a तिङन्त, the designation of गति is with regard to धातु or verbal root. Objection: If तिङि is used for this purpose, then the rule will not apply to an आम् ending forms, like प्र पचतितराम् and प्रपचतितमान्, for these are not तिङन्त; but as a matter of fact, we find that प्र loses its accent, in these forms also. How is this explained? Answer:- Here there are two views : some compound the *Gati* प्र with the completed आमन्त form पचतितराम् ॥ According to them, this प्र would get the accent, on the rule that an Indeclinable first member retains its accent (6.2.2); so that even if the word तिङ् was not used in the *sutra*, the form पचतितराम् being the second member of a compound, became *anudatta*; and so प्र being followed by an *anudatta* never loses its accent. According to them, therefore, the *Gati* never loses its accent in प्र꣡पचतितराम् &c. Others compound the word ending in तरप् (पचतितर) with the *Gati*, and having formed प्रपचतितर, then add the affix आम् ॥ According to this view, the आम् accent debars all other accents, on the maxim, 'the accent of the last prevails' (सतिशिष्ठः), and so प्र is *anudatta*, not by this rule, but by अनुदात्तसर्वे पदमेकवर्जं ॥ According to them the word is प्रपचतितराम्꣡ ॥ According to both of these views, this *sutra* is not necessary for the purposes of प्रपचतिराम् &c. But there is a third view which makes this *sutra* necessary even for this purpose. There is this maxim: गतिकारकोपपदानाम् कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः "It should be stated that *Gatis*, *Karakas* and *Upapadas* are compounded with bases that end with *Krit*-affixes, before a case-termination has been added to the latter". This maxim itself has been explained in two different ways, one saying that the compounding takes place with *krit*-formed words only before the addition of case-affixes; but with words formed by *Taddhita* affixes, the compounding does not take place before a case affix has been added. The other view makes no such difference between *krit*-formed and non-*krit* formed words. This latter view is not necessary for our purposes. According to the first view, the *Gati* प्र can never be compounded with पचतितराम् as it is not a सुबन्त ॥ So both प्र and पचतितराम् having different accents, the present *sutra* became necessary to cause the loss of accent of प्र ॥ Why have we used the word उदात्तवति? See प्र꣡ पचति, प्र꣡ करोति ॥ Here the verb loses, its accent by (8.1.28), hence the *Gati* retains its accent. Bhashya ------- तिङि चोदात्तवति तिङ्ग्रहणं किमर्थम्?॥ तिङ्ग्रहणमुदात्तवतः परिमाणार्थम्॥ तिङ्गहणं क्रियते॥ (किं प्रयोजनम्(1)?)। उदात्तवतः परिमाणार्थम्। तिङ्युदात्तवति यथा स्यान्मन्द्रशब्दे मा भूत्-आ मन्द्रैरिन्द्र हरिभिर्याहि। ॥ यद्योगाद्गतिः(2)॥ यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो न चाङो मन्द्रशब्दं प्रति क्रियायोगः॥ किं तर्हि?॥ यद्योगाद्गतिरिति चेत्प्रत्ययोदात्तत्वेऽप्रसिद्धिः स्यात्। यत्प्रकरोति। तस्मात्तिङ्ग्रहणं कर्तव्यम्॥ यदि तिङ्ग्रहणं क्रियते आमन्ते न प्राप्नोति,- प्रपचतितराम् ,प्रजल्पतितराम्। असति पुनस्तिङ्ग्रहणे क्रियाप्रधानमाख्यातं तस्मादतिशये तरबुत्पद्यते,(1) तरबन्तात्स्वार्थे आम्, तत्र यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत इति भवत्येतं(2) सङ्घातं प्रति क्रियायोगः। तस्मान्नार्थस्तिङ्ग्रहणेन॥ कस्मान्न भवति-आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः?॥ यद्योगाद्गति(3)रिति। (यद्योगाद्गतिस्तं(4) प्रति गत्युपसर्गसंज्ञे भवतो न चाङो मन्द्रशब्दं प्रति क्रियायोगः)॥ ननु चोक्तं-यद्योगाद्गतिरिति चेत्प्रत्ययोदात्तत्वेऽप्रसिद्धिरिति ॥ नैषः दोषः । यत्क्रियायुक्ता इति नैवं विज्ञायते यस्य क्रिया यत्क्रिया, यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत इति॥ कथं तर्हि?॥ या क्रिया यत्क्रिया यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत इति॥ Kashika ------- गतिरिति वर्तते। तिङन्त उदात्तवति परतो गतिरनुदात्तो भवति। यत् प्र॒पच॑ति। यत् प्र॒क॒रोति॑। तिङ्ग्रहणमुदात्तवतः परिमाणार्थम्। अन्यथा हि यं प्रति गतिः, तत्रानुदात्तो भवतीति धातावेवोदात्तवति स्यात्, प्रत्यये न स्यात् — यत् प्र॒क॒रोति॑ इति। **यत्क्रियायुक्ताः प्रादयस्तेषां तं प्रति गत्युपसर्गसंज्ञे भवतः** (महाभाष्य १.७५) इति तिङन्ते धातुमेव प्रति गतिसंज्ञा। आमन्ते तर्हि न प्राप्नोति — प्रपचतितराम्, प्रपचतितमामिति? अत्र केचिदामन्तेन गतेः समासं कुर्वन्ति। तेषामव्ययपूर्वपदप्रकृतिस्वरत्वे (६.२.२) सत्यक्रियमाणेऽपि तिङ्ग्रहणे परमनुदात्तवद् भवतीति गतिनिघातो नैव सिध्यति। अथ तरबन्तस्य गतिसमासः? एवमपि सतिशिष्टत्वादाम एव स्वरे सति गतेः **अनुदात्तं पदमेकवर्जम्**(६.१.१५८) इत्येवानुदात्तत्वं सिद्धम्। येषां **गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् सुबुत्पत्तेः** इत्यनेन वचनेन कृदन्तेनैव प्राक् सुबुत्पत्तेः समासो भवति नान्येनेति दर्शनम्, तेषामेवंविधे विषये समासेन नैव भवितव्यमिति। पृथक्स्वरप्रवृत्तौ सत्यामनेन निघातेन प्रयोजनमस्ति। तदर्थं यत्नः कर्तव्यः। उदात्तवतीति किम्? प्रप॑चति। प्रक॑रोति॥ Siddhanta Kaumudi ----------------- गतिरनुदात्तः । यत्प्रपचति । तिङ्ग्रहणमुदात्तवतः परिमाणार्थम् । अन्यथा हि यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिस्तत्र धातावेवोदात्तवति स्यात् प्रत्यये न स्यात् । उदात्तवति किम् । प्रपचति ॥ इति तिङन्तस्वराः ॥ अथ वैदिकवाक्येषु स्वरसञ्चारप्रकारः कथ्यते- 'अग्निमीळे' इति प्रथमर्क् । तत्राग्निशब्दोऽव्युत्पत्तिपक्षे 'फिष..' (फिट् १) इत्यनोदात्त इति माधवः । वस्तुतस्तु घृतादित्वात् । व्युत्पत्तौ तु निप्रत्ययस्वरेण । अम्सुप्त्वादनुदात्तः । अमि पूर्वः (SK194) इत्येकादेशस्तु एकादेश उदात्तेन (SK3658) इत्युदात्तः । ईळे । तिङ्ङततिङः (SK3135) इति निघातः । संहितायां तु उदात्तादनुदात्तस्य (SK3660) इतीकारः स्वरितः । स्वरितात्संहितायाम् (SK3668) इति 'ळ' इत्यस्य प्रचयापरपर्याया एकश्रुतिः । पुरःशब्दोऽन्तोदात्तः 'पूर्वाधरावराणाम्-' (SK1975) इत्यसिप्रत्ययस्वरात् । हितशब्दोऽपि धाञो निष्ठायाम् दधातेर्हिः (SK3076) इति ह्यादेशे प्रत्ययस्वरेणान्तोदात्तः । पुरोऽव्ययम् (SK768) इति गतिसंज्ञायां कुगति- (SK761) इति समासे समासान्तोदत्ते तत्पुरुषे तुल्यार्थ- (SK3736) इत्यव्ययपूर्वपदप्रकृतिस्वरे गतिकारकोपपदात्कृत् (SK3873) इति कृदुत्तरपदप्रकृतिस्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्देन प्राप्ते गतिरनन्तरः (SK3783) इति पूर्वपदप्रकृतिस्वरः । पुरःशब्दोकारस्य संहितायां प्रचये प्राप्ते उदात्तस्वरितपरस्य सन्नतरः (SK3669) इत्यनुदात्ततरः । यज्ञस्य । नडः प्रत्ययस्वरः । विभक्तेः सुप्त्वादनुदात्तत्वे स्वरितत्वम् । देवम् । पचाद्यच् । फिट्स्वरेण प्रत्ययस्वरेण चित्स्वरेण वान्तोदात्तः । ऋत्विक्छब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । होतृशब्दस्तृन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । रत्नशब्दो नब्विषयस्य (फिट् २६) इत्याद्युदात्तः । रत्नानि दधातीति रत्नधाः । समासस्वरेण कृदुत्तरपदप्रकृतिस्वरेण वान्तोदात्तः । तमपः पित्त्वादनुदत्तत्वे स्वरितप्रचयावित्यादि यथाशास्त्रमुन्नेयम् । । इति स्वरप्रकरणम् । इत्थं वैदिकशब्दानां दिङ्मात्रमिह दर्शितम् । तदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः ॥ Prakriyasarvasvam ----------------- उदात्तवति तिङन्ते परे गतिर्निहन्यते । धियो यो नः प्रचोदयात् । इति तत्पुरुषस्वरः ॥ Sutra Prayogas -------------- * **कुतोऽधियास्यसि** (भट्टिकाव्यम्): `तेन तिङि चोदात्त- वति` इति निघाताभावः। * **अधिकर्ता** (भट्टिकाव्यम्): `तिङि चोदात्तवति` इति निधाताभावो द्रष्टव्यः।