81067: पूजनात् पूजितमनुदात्तं काष्ठादिभ्यः ========================================== **Padacheda:** पूजनात् | S | 5 | 1 | पूजितम् | S | 1 | 1 | अनुदात्तम् | S | 1 | 1 | काष्ठादिभ्यः | S | 5 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- After a word denoting praise belonging to काष्ठादि class the word whose praise is denoted, becomes अनुदात्त । Vasu English Translation ------------------------ After a word denoting praise belonging to काष्ठादि class the word whose praise is denoted, becomes अनुदात्त । This refers to compounds, the first members of which are praise-denoting words. The word काष्ठादिभ्यः, is added to the *sutra* from a *Vartika*. Thus काष्ठाध्यापकः, काष्ठाभिरूपकः, दारुणाध्यापकः, दारुणाभिरूपकः ॥ अमातापुत्र, अमातापुत्राध्यापकः । अमातापुत्राभिरूपक । अयुताध्यापकः । अयुताभिरूपकः । अद्भुत । अद्भुताध्यापकः । अनुक्त । अनुक्ताध्यापकः । भृश । भृशाध्यापकः । घोर । घोराध्यापकः । सुखः । सुखाध्यापकः । परम । परमाध्यापकः । सु । स्वध्यापकः । अति । अत्यध्यापकः । द्यौः । द्यौरध्यापकः । द्यौरभिरूपकः । स्वध्यापकः । अपुत्र । अपुत्राध्यापकः । कल्याण । कल्याणाध्यापकः ॥ Vart:- The final म् should be elided in forming these words. The word दारुणं is an adverb, and therefore in the accusative case, like ग्रामं गतः ॥ In such a case, there can be no compounding: hence the elision of म् is taught. This is the opinion of *Vartika*-*kara* *Katyayana*. According to *Kasika*, there is compounding under मयूरव्यंसकादि rule, and so म् is elided by the general rule of *samasa*. This becoming of अनुदात्त takes place in the compound, and after composition. In fact, it is an exception to the general rule by which a compound is finally acute (6.1.223) But there is no elision in दारुणमध्यापकः &c. and there is no loss of accent also of the second word. By the *Vartika* 'मलोपश्च', this further fact is also denoted, where the case-affix is not employed and so the म् is not heard, there the second member becomes *anudatta*. When there is no compounding, there is no elision of म् as दारुणमधीते, दारुणमध्यापकः ॥ Though the word पूजन would have implied its correlative term पूजित, the specific mention of पूजित in the aphorism indicates, that the word denoting पूजित should follow immediately after the word denoting पूजन ॥ In fact, this peculiar construction of the *sutra*, is a *jnapaka* of the existence of the following rule :- इह प्रकरणे पञ्चमी निर्देशेऽपि नामन्तर्यमाश्रीयते "In this subdivision or context, though a word may be exhibited in the Ablative case, it does not follow that there should be consecutiveness between the Ablative and the word indicated by it". This has been illustrated in the previous rule of यद्वृत्तान् नित्यम्, in explaning forms like यद्रयङ् वायुर्वाति &c. Though the *anuvritti* of '*anudatta*' was current, the express employment of this term in the *sutra* indicates that the prohibition (of *anudatta*) which also was current, now ceases. On this subject, the following extract from the Commentary on *Siddhanta*-*Kaumudi*, will give the view of later Grammarians :- The words काष्ठ &c, are all synonyms of अद्भुत, meaning wonderful, prodigious: and are words denoting praise. This is an aphorism appertaining to *samasa* subject. In the examples the compounding takes place under the rule of *Mayura* *vyansakadi*. Vart:- The elision of म् should be mentioned. दारुणम् + अध्यापकः, in making the compound of these two words, the elision of the case affix, in, this case म, is natural. The *vartika*, therefore, teaches nothing new, but only repeats this general rule in a particular form. This is the opinion of the authors of *Kasika*. But according to *Kayyata*, the commentator on the Great *Bhashya*, this aphorism is not a *samasa* rule: and the words दारुणम् &c, are adverbs not admitting of *samasa*; and so the rule applies to these words when they are not compounded. There is no authority for holding these to be compounds under the *Mayuravyansakadi* class. *Haradatta* also says, had this been intended to be a *samasa* rule, the word समासे would have been used in the *sutra* and this is valid. There is no *adhikara* of *samasa* here, that could have caused *samasa* and in this view, the *vartika* मलोपश्च also becomes effective: had it been a *samasa* rule, the *vartika* would have been redundant. 1 काष्ठ, 2 दारुण, 3 अमातापुत्र, 4 देश, 5 अनाज्ञात, 6 अनुज्ञात, 7 अपुत्र, 8 अयुत, 9 अद्भुत, 10 अनुक्त, 11 भृश, 12 घोर, 13 सुख्य, 14 परम, 15 सु, 16 अति, 17 कल्याण Bhashya ------- पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः(4) ॥पूजितस्याऽनुदात्तत्वे काष्ठादिग्रहणम्॥ पूजितस्यानुदात्तत्वे काष्ठादिग्रहणं कर्तव्यम्। काष्ठादिभ्यः पूजनादिति वक्तव्यम्॥ इह मा भूत्-शोभनोऽध्यापकः। ॥ मलोपवचनं च॥ मलोपश्च वक्तव्यः। दारुणाध्यापकः(1)। दारुणाभिरूपः(2)॥ (पूजनात्पूजितमनुदात्तम्)। Kashika ------- पूजनवचनेभ्यः काष्ठादिभ्य उत्तरपदं पूजितमनुदात्तं भवति। काष्ठ — काष्ठाध्यापकः। काष्ठाभिरूपकः। दारुण — दारुणाध्यापकः। दारुणाभिरूपकः। अमातापुत्र — अमातापुत्राध्यापकः। अयुत — अयुताभिरूपकः। अयुताध्यापकः। अद्भुत — अद्भुताध्यापकः। अनुक्त — अनुक्ताध्यापकः। भृश — भृशाध्यापकः। घोर — घोराध्यापकः। परम — परमाध्यापकः। सु — स्वध्यापकः। अति — अत्यध्यापकः॥ मलोपश्च॥ इति वार्त्तिककारमतम्। मयूरव्यंसकादित्वात् समासः। समासे चैतदनुदात्तत्वम्। समासान्तोदात्तत्वापवाद इष्यते। दारुणमध्यापक इत्येवमादिषु न भवति। मलोपश्चेत्यनेनाप्ययमेव विषय आख्यायते। यत्र विभक्तेरभावाद् मकारो न श्रूयते, तत्रानुदात्तत्वमिति। असमासे हि मलोपो नैवेष्यते। दारुणमधीते दारुणमध्यापक इति। पूजनादित्येव पूजितपरिग्रहे सिद्धे पूजितग्रहणमनन्तरपूजितप्रतिपत्त्यर्थम्। एतदेव ज्ञापकमिह प्रकरणे पञ्चमीनिर्देशेऽपि नानन्तर्यमाश्रीयत इति। तथा च **यद्वृत्तान्नित्यम्** (८.१.६६) इत्यत्रोदाहृतम्। अनुदात्तमिति वर्तमाने पुनरनुदात्तग्रहणं प्रतिषेधनिवृत्त्यर्थम्॥ Siddhanta Kaumudi ----------------- पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् । काष्ठाध्यापकः । (वार्तिकम्) ॥ दारुणाध्यापकः । अज्ञाताध्यापकः । समासान्तोदात्तत्वापवादः । एतत्समासे इष्यते । नेह । दारुणमध्यापक इति वृत्तिमतम् । पूजनादित्येव पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजितलाभार्थम् । एतदेव ज्ञापकमत्र प्रकरणे पञ्चमी निर्देशेऽपि नानन्तर्यमाश्रीयत इति ॥ Padamanjari ----------- 'काष्ठादिभ्यः' इति वार्तिके दृष्ट्ंअ सूत्रावयवत्वेन पठितत्वातदनुरोधेन पूजनादित्येकवचनं बहुवचनस्थान इति व्याचष्टे - पूजनेभ्यः काष्ठादिभ्य इति । उतरपदमिति । उतरसूत्रे तिङ्ग्रहणादस्य च सूत्रस्य समासविषयत्वात्सुबन्तमिति द्रष्टव्यम् । काष्ठादयश्चैतेऽद्भुतपर्यायाः पूजनवचना भवन्ति, तत्र येषां वृत्तिविषय एवाद्भुतपर्यायत्वममातापुत्रादीनां तेप्वन्यपदेन विग्रहः । काष्ठाध्यापक इति क्रियाविशेषणम् । काष्ठशब्दो द्वितीयान्तः समस्यते । कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणेपु न भवति, धात्वर्थं प्रति यत्कर्म तत्रैव षष्ठीः, कर्तृपदेन साहचर्यात् । यो हि धात्वर्थं प्रति कर्ता तत्र षष्ठी, तत्साहचर्यात् कर्मापि तादृशमेव गृह्यते । विशेषणं तु धात्वर्थेन समानाधिकरणत्वान्न तं प्रति कर्म । सर्वथा क्रियाविशेषणान्न षष्ठी भवति, अत एव मलोप इति वक्ष्यते । षष्ठ।लं सत्यां मकाराभावादनुपपन्नमेततस्यात् । कथं पुनः कर्तृप्रधाने कृदन्ते गुणभूतायाः क्रियाया विशेषणेन सम्बन्धः, साधनसम्बन्धवदुपपद्यते; तद्यथा - ग्रामं गत इत्यादौ गुणभूताया अपि क्रियायाः साधनेन योगः, तथा विशेषणेनापि नानुपपन्नः । काष्ठाभिरूपक इति । आभिरूप्यं काष्ठेन विशेष्यत इति नपुंसकप्रथमान्तस्य समासः । एवं सर्वत्र प्रवृत्तिनिमितमात्रेण काष्ठादीनामन्वयाद् द्रव्यवाचिभिः सामानाधिकरण्याभावात् मयूरव्यंसकादित्वमाश्रितम् । समासे चेत्यादि । चकारोऽवधारणे, यदि समासे एवैतदिष्यते, कथं वार्तिककारेणोक्तम् - पूजितस्यानुदातत्वे काष्ठादिग्रहणं मलोपश्चेति; न हि समासे तेषामन्त्यो मकारः सम्भवति, विभक्तेर्लुप्तत्वात् ? इत्यत आह - मलोपश्चेत्यनेनापीति । कथं पुरथं विषयोऽनेनाख्यायते ? अत आह - यत्रेति । समासे हि विभक्तेरभावान्मकारो न श्रूयते अयमेव लोप इति । किं पुनः कारणमेवं काशकुशावलम्बनेन वातिकं व्याख्यायते ? अत आह - असमासे हीति । अन्ये त्वाहुः - यदि समास एवैतदभिमतमभविष्यत्'समासे' इत्येवावक्ष्यत्; मलोपवचनातु वाक्यविषयमेवैतत् । दारुणमध्यापक इत्यादिकं तु रूपं यदीष्यते विकल्पेन मलोपो वक्तव्य इति । पूजनादित्येव पूजितपरिग्रहे सिद्ध इति । पूजनस्य पूजतापेक्षत्वादिति भावः । अनन्तरपूजितप्रतिपत्यर्थमिति ।'पूजनात्पूजितम्' इति सूत्रे सामान्यगतमानन्तर्य विशेषाणां विज्ञायत इति भावः । कथं पुनः पञ्चमीनिर्देशे व्यवहितस्य प्रसङ्गः ? इत्याह - एतदेवेति । ज्ञापनस्य प्रयोजनमाह - तथा चेति । अनुदात इति वर्तमान इत्यादि । प्रकृतं ह्यनुदातग्रहणम्'न लुट्' इत्यादिना प्रतिषेधेन सम्बद्धम्, अतस्तदनुवृतौ प्रतिषेधोऽप्यनुवर्तेत । तत्र यद्यप्यस्य योगस्य समासविषयत्वातादृशो विषयो न सम्भवति, यत्रामन्त्रितादौ निघातः प्रतिषिध्यते; तथापि'कुत्सने च सुपि' इत्यादौ उतरत्र प्रतिषेध एव स्यात् । तस्मातन्निवृत्यर्थं पुनरनुदातग्रहणम् ॥ Nyaas ----- `पूजनात्` इति। सुपां सुपो भवन्तीति (7.1.39।वा) बहुवचनस्य स्थान एकवचनम्, अत एवाह -`पूजनवचनेभ्यः` इति। `उत्तरपदम्` इति। सुबन्तं वेदितव्यम्। ननु तिङिति वर्तते? सत्यमेतत्; उत्तरत्र (8.1.68) तिङिति वचनादिह सुबन्तस्य ग्रहणं विज्ञायते। अपि च वक्ष्यत्येतत् -इहैव समासे चैतदनुदात्तत्वमिति। समासश्च काष्ठादीनां सुबन्तेनैव सम्भवति, न तिङन्तेनेति युक्तमिह सुबन्तस्यैव पदस्य गरहणम्। सर्व एते काष्ठादयोऽद्भुतपर्यायाः पूजनवचना भवन्ति। अद्भुतं योऽधीते स काष्ठाध्यायक इत्युच्यते। एवं दारुणादिषु वेदितव्यम्। इह सर्व एवैते काष्ठादयः क्रियाविशेषणभूताः समस्यन्ते, न च क्रियाविशेषणानां समासः क्वचिद्विहितः, तत्कथमत्र समासः? इत्याह -`मयूरव्यंसकादित्वात्? समासः` इति। `समासे चैतत्` इत्यादि। चकारोऽवधारणार्थः। समास एवेत्यर्थः। कथं पुनः समास एवैतल्लभ्यते? **चादिलोपे विभाषा** (8.1.63) इत्यतो मण्डूकप्लुतिन्यायेन विभाषाग्रहणानुवृत्तेः। सा व्यवस्थितविभाषेति विज्ञानाच्च। यद्येवम्, कथं वार्त्तिककारेणोक्तम् -मलोपश्चेति, काष्ठादिषु हि योऽकारान्तास्तेषां विभक्तेरम्भावे कृते मकारः सम्भवति, समासे चैतदनुदात्तत्वेन भवितव्यम्, तत्र विभक्तेरभावान्मकारो न सम्भवतीति मलोपवचनमयुक्तं स्यात्? इत्यत आह -`मलोपश्चेत्यनेनापि` इत्यादि। एवमस्माभिरनुदात्तत्वस्य विषय आख्यातः। मलोप श्चेत्यनेनापि स एवाख्यायते; यस्मात्? समासे मलोपो न भवति; विभक्तेर्लुप्तत्वात्। असमासे विभक्तेरम्भावे कृते मकारस्य श्रवणमेव भवति, न तु लोपः। अथासमासे मलोपार्थमित्येतदुक्तमित्येव कस्मान्न विज्ञायते? इत्याह -`असमासे[`अथासमासे` - कांउ।पाठः] हि इत्यादि।अथ पूजितग्रहणं किमर्थम्, यावता पूजनशब्दोऽयं पूजितापेक्षत्वात्? सम्बन्धिशब्दः, तेन सम्बन्धिशब्दत्वात्? पूजितमर्थादुपस्थापयति, तन्त्रान्तरेणापि पूजितग्रहणं पूजितस्यैव परिग्रहो भविष्यति? इत्यत आह -`पूजनादेव` इत्यादि। पूजनग्रहणादेव पूजितग्रहणे लब्धे पूजितग्रहणं यत्? क्रियते तस्यैतत्? प्रयोजनम् -विशिष्टस्याव्यवहितस्य प्रत्यासन्नस्य ग्रहणं यथा स्यादित्येवमर्थम्। तेनोत्तरसूत्रे (8.1.68) यत्? काष्ठं देवदत्तः पचतीत्यत्र व्यवहितस्य न भविष्यति। ननु पञ्चमीनिर्देशादेव व्यवहितस्य न भविष्यति? इत्यत आह -`एतदेव` इत्यादि। यादृशमिदं ज्ञापकं तदनुरूपम्? `यद्वृत्तान्नित्यम्` (8.1.66) इत्यत्र यत्कामास्ते जुहुमः, यद्रङ्? वायुर्वातीत्येवमाद्युदाहृत मित्यर्थः। एतेन ज्ञापनस्य प्रयोजनं दर्शितम्। अथानुदात्तग्रहणं किमर्थम्, यावता **अनुदात्तं सर्वमपादादौ** (8.1.18) इत्यतोऽनुदात्तग्रहणमनुवर्तत [`अनुवर्तेत इत्याह` - कांउ।पाठः] एव? इत्याह -`अनुदात्त इति वर्तमाने` [`अनुदात्तमिति` -काशिका] इत्यादि। तद्ध्यनुदात्तग्रहणं `न लुट्` (8.1.29) इति प्रतिषेधेन सम्बद्धम्, अतस्तदनुवृत्तौ सोऽप्यनुवर्तते। तथा च सति यस्यामन्त्रितादेः पूजितस्य निघातप्राप्तिरस्ति तस्यायं काष्ठादिभ्यः परस्य निघातप्रतिषेधो विज्ञायेत। तस्मात्? प्रतिषेधनिवृत्त्यर्थमन्यदिहानुदात्तग्रहणं क्रियते॥ Prakriyasarvasvam ----------------- पूजनार्थेभ्यः काष्ठादिभ्यः परं पूजितं सर्वमनुदात्तं स्यात् । काष्ठदारुणाऽ- माताऽपु (त्रे ? त्र) वेशानाज्ञातायुताद्भुतभृशघोरपरमस्वतिभ्यः (स. ८-३-२४१) काष्ठाध्यायकाः । काष्ठं यथा तथा धीयत इति क्रियाविशेषणान्येतानि । मयूर- व्यंसकादिः समासः । काष्ठाभिरूपक इत्यादावभिरू (प्य ? प्यं) काष्ठेन विशेष्यत इति हरः । सर्वत्र क्रियाविशेषणत्वं योज्यमिति । उदात्तवता तिङा गतेः समासे ।