81062: चाहलोप एवेत्यवधारणम् =========================== **Padacheda:** चाहलोप | S | 7 | 1 | एव | S | 0 | 0 | इति | S | 0 | 0 | अवधारणम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When च and अह are elided, the first finite verb still retains its accent when एव with the force of limitation, takes their place. Vasu English Translation ------------------------ When च and अह are elided, the first finite verb still retains its accent when एव with the force of limitation, takes their place. When does this लोप take place ? Where the sense of च or अह is connoted by the sentence, but these words are not directly employed, there is then the elision of च and अह ॥ There the force of च is that of aggregation (समुच्चय), and of अह is that of 'only' (केवल). The च is elided when the agent is the same, and अह is elided when the agents are several. Thus where च is elided:- देवदत्त एव ग्रामं ग꣡च्छतु, देवदत्त एवारण्यं गच्छतु = ग्रामं चारण्यं च गच्छतु ॥ So where अह is elided: as:- देवदत्त एव ग्रामं ग꣡च्छतु, यज्ञदत्त एव अरण्यं गच्छतु = ग्रामं केवलं, अरण्यं केवलं ॥ Why do we say अवधारणं 'when limitation is meant'? See देवदत्तः क्वेव भोक्ष्यते, देवदत्तः क्वेव वाध्येष्यते ॥ The word एव here has the sense of 'never' 'an impossibility'. The first sentence means न क्वचिद् भोक्ष्यते ॥ क्व + एव = क्वेव by पररूप (6.1.94) *Vartika*)). Kashika ------- चलोपेऽहलोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति, एवेत्येतत् चेदवधारणार्थं प्रयुज्यते। क्व चास्य लोपः? यत्र गम्यते चार्थो न च प्रयुज्यते, तत्र लोपः। तत्र चशब्दः समुच्चयार्थः, अहशब्दः केवलार्थ इति समानकर्तृके चलोपः, नानाकर्तृकेऽहलोपः। चलोपे — देवदत्त एव ग्रामं गच्छ॑तु, स देवदत्त एवारण्यं ग॒च्छ॒तु॒। ग्रामं चारण्यं च गच्छत्वित्यर्थः। अहलोपे — देवदत्त एव ग्रामं गच्छ॑तु, यज्ञदत्त एवारण्यं ग॒च्छ॒तु॒। ग्रामं केवलम्, अरण्यं केवलमित्यर्थः। अवधारणमिति किम्? देवदत्तः क्वेव भो॒क्ष्य॒ते॒। अनवक्ऌप्तावयमेवशब्दः। न क्वचिद् भोक्ष्यत इत्यर्थः। **एवे चानियोगे** (६.१.९४ वा०) इति पररूपम्॥ Siddhanta Kaumudi ----------------- च अह एतयोर्लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता देव एव ग्रामं गच्छतु । देव एवारण्यं गच्छतु । ग्रामरण्यं च गच्छत्वित्यर्थः । देव एवं ग्रामं गच्छतु । राम एवारण्यं गच्छतु । ग्रामं केवलमरण्यं केवलं गच्छत्वित्यर्थं । इहाहलोपः । स च केवलार्थः । अवधारणं किम् । देव क्वेव भोक्ष्यसे । न क्विचिदित्यर्थः । अनवकॢप्तावेव ॥ Padamanjari ----------- उदाहरणे चलोपं दर्शयति - ग्रामं चेति । एवमहलोपेऽपि द्रष्टव्यम् । तत्र प्रथमे ग्राम कर्मकस्यारण्यकर्मकस्य च देवदत एव कर्तेति समानकर्तृकत्वम्, द्वितीये तु विपर्ययान्नानाकर्तृकता द्रष्टव्या । अनवकॢप्तिः उ असम्भवनम् । यो हि देवदतस्य भोजनं क्वचिदपि न सम्भावयति, स एवं प्रयुङ्क्ते - क्वेव भोक्ष्यस इति । ठेवे चानियोगेऽ इति पररूपत्वम् । क्वचितु वृतावेवैतत् पठ।ल्ते ॥ Nyaas ----- `क्व चास्य लोपः` इति। **लोपे विभाषा** (8.1.45) इत्यत्र योऽभिप्राय प्रष्टुरुक्तः स इहापि वेदितव्यः। `यत्रार्थो गम्यते` इत्यादि। अत्रापि यस्तत्राभिप्राय इतरस्याभिहितः स एव द्रष्टव्यः। कः पुनरर्थस्तयोः प्रयुक्तयोरपि गम्यते? इत्याह -`तत्र` इत्यादि। क्य पुनर्दिषये चलोपः? क्व वाहलोपः? इत्याह -`समानकर्त्तृके` इत्यादि। यस्मिन्? व्यापारविशेषे समास एकः कर्ता स समानकर्तकः। `समानकर्त्तृके चलोपः, नानकर्त्तृकेऽहलोपः` इति। नाना कर्ता यस्मिन्? स नानाकर्त्तुकः।`देवदत्त एव ग्रामं गच्छतु, स देवदत्त एवारण्यं गच्छतु` इति। अत्र ग्रामकर्मकमरण्यकर्मकञ्च गमनं यत्? तस्य देवदत्त एव कर्तति तत्? समानकर्तृकम्। चार्थं च दर्शयितुमाह -`ग्रामं च` इत्यादि। अत्र हि देवदत्त एवारण्यं गच्छतु देवदत्त एव ग्रामं गच्छत्विति देवदत्तस्यैव नियोज्यस्य गन्तुग्र्राम एव गन्तव्यतयोपदिश्यते, यज्ञदत्तस्य त्वरण्यमेव केवलम्। तेनासत्यप्यहशब्दस्य प्रयोगे तदर्थो गम्यते -ग्रामं केवलं देवदत्तो गच्छतु, अरण्यं केवलं यज्ञदत्तो गच्छत्विति। `अनवकॢप्तौ` इति। असम्भावनायामित्यर्थः। यो हि देवदत्तस्य भोजनं न क्वचित्सम्भावयति स एव प्रयुङक्ते -देवदत्त तदेव भोक्ष्यसे` इति। पररूपत्वम्॥ Prakriyasarvasvam ----------------- अवधारणार्थेवशब्दप्रयोगे सति चाहलोप आद्यस्तिङ् न निहन्यते । समुच्चय- एवलार्थो चाहौ । हरिरिव व्रजं यातु हरिरिव वनं यातु । व्रजं च वनं चेत्यर्थः । चहलोपे—हरिरेव वनं यातु राम एवारामं यातु । वनं केवलं हरिः । रामः केवलमाराममित्यर्थः । अर्थयोगेऽप्यप्रयोगो लोपः । अवधारणादन्यत्र क्वेव भोक्ष्यते । (वा) इति पररूपम् ।