81051: गत्यर्थलोटा लृण्न चेत् कारकं सर्वान्यत् ============================================== **Padacheda:** गत्यर्थलोटा | S | 3 | 1 | लृट् | S | 1 | 1 | न | S | 0 | 0 | चेत् | S | 0 | 0 | कारकम् | S | 1 | 1 | सर्वान्यत् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The लृट् (I Future) retains its accent in connection with the Imperative of a verb denoting 'motion' ('to go', 'to come', 'to start' etc.) but only in that case, when the subject and object of both the verbs are not wholly different one from another. Vasu English Translation ------------------------ The लृट् (I Future) retains its accent in connection with the Imperative of a verb denoting 'motion' ('to go', 'to come', 'to start' etc.) but only in that case, when the subject and object of both the verbs are not wholly different one from another. Those verbs which have similar meaning with the word गति 'motion' are called गत्यर्थाः ॥ The Imperative of the गत्यर्थ verbal roots, is called गत्यर्थ-लोट् ॥ In connection with such an Imperative of verbs of 'motion', the First Future does not become *anudatta*, if the *karaka* is not all different. The sense is, with whatever case-relation (*karaka*), whether the Subject or Object, the Imperative is employed, with the same *karaka*, the First Future must be employed. In connection with the finite verb here, the word कारक denotes the Subject and Object only, and not any other *karaka*, such as Instrument, &c. Thus आ꣡ग॒च्छ॒ दे॒व॒द॒त्त॒ ग्रा꣡मं, द्रक्ष्य꣡स्येनम् 'Come *O* *Devadatta* to the village, thou shalt see it'. Here the subjects of both verbs आगच्छ and द्रक्ष्यसि are the same, and the objects of both verbs are also the same, namely ग्रामं and एनम् ॥ आ is a Preposition and is accented, गच्छ and देवदत्त both lose their accent by (7.1.19) and (7.1.28), ग्राम is first-acute being formed by the नित् affix मन् ॥ So also आगच्छ देवदत्त ग्रामं, ओदनं भोक्ष्यसे "Come, *O* *Devadatta* ! to the village, you will eat rice". Here the subjects of both verbs are the same, only the objects are different, and so the rule still applies. आहर देवदत्त शालीम्, यज्ञदत्त एतान् भोक्ष्यते꣡ ॥ Here the subjects are different, but the objects are the same; namely शालीम् ॥ Similarly उह्यन्तां देवदत्तेन शालयः, यज्ञदत्तेन भोक्ष्य꣡न्ते "Let the rice be carried by *Devadatta*, and let them be eaten by *Yajnadatta*." Why do we say 'verbs of motion'? Observe पच देवदत्त ओदनं, भो॒क्ष्य॒से॒ एनम् ॥ Why do we say 'After the Imperative'? Observe आगच्छेर्देवदत्त ग्रामं, द्र॒क्ष्य॒स्ये॒नम् ॥ Here the Potential mood is used. Why do we say the 'First Future'? Observe आगच्छ देवदत्त ग्रामं, पश्यसि एनम् ॥ Here the Present Tense is used. Why do we say 'if the *karaka* is not wholly different'? Observe आगच्छ देवदत्त ग्रामं, पिता ते ओदनं भो॒क्ष्य॒ते॒ ॥ उह्यन्तां देवदत्तेन शालयः, सक्तवस्तेन पा॒स्य॒न्ते॒ ॥ उह्यन्तां is the Imperative of वह् 'to carry'. Why do we use the word सर्व 'wholly'? Observe आगच्छ देवदत्त ग्रामं, त्वं च अहं च द्रक्ष्या꣡व एनम् ॥ Here also there is prohibition of *nighata* and the First Future retains its accent, for the subject of the Future is not wholly different from that of the Imperative. For here the subject of the Imperative is the subject also of the Future, though only partly, in conjunction with another. Moreover, the object here in both is the same. Had सर्व not been used in the *sutra*, where the sentence would have remained the same, there the rule would have applied, and not where the sentences became different. Bhashya ------- गत्यर्थलोटा लृण्न चेत्कारकं सर्वान्यत् ॥ लृटः प्रकृतिभावे कर्त्रन्यत्व उपसङ्ख्यानं कारकाऽन्यत्वात्॥ लृटः प्रकृतिभावे कर्त्तुर्यत्कारकमन्यत्तस्याऽन्यत्व(2) उपसङ्ख्यानं कर्त्तव्यम्। आगच्छ देवदत्त ग्राममोदनं भोक्ष्यसे॥ किं पुनः कारणं न सिध्यति?॥ कारकान्यत्वात्। न चेत्कारकं सर्वान्यदित्युच्यते सर्वान्यच्चाऽत्र कारकम्॥ किं पुनः कारणं सर्वान्यत्प्रतिषेधेनाश्रीयते न पुनरसर्वाऽन्यद्विधानेनाश्रीयेत(3)?॥ कर्त्ता चाऽत्राऽसर्वान्यस्ततः(1) कर्तृसामान्यात्सिद्धम्॥ कर्तृसामान्यात्सिद्धमिति चेत्तद्भेदेऽन्यसामान्ये प्रकृतिभावप्रसङ्गः ॥ कर्तृसामान्यात्सिद्धमिति चेत्तद्भेदे-कर्तृभेदे-अन्यस्मिन्कारकसामान्ये(3) प्रकृतिभावः प्राप्नोति। आहर देवदत्त शालीन्यज्ञदत्त एनान्भोक्ष्यते॥ एवं तर्हि-व्यक्तमेव पठितव्यं न चेत्कर्त्ता सर्वाऽन्य(4) इतीति॥ न चेत्कर्ता सर्वान्य इति चेदन्याऽभिधाने प्रतिषेधेमेके॥ न चेत्कर्त्ता सर्वान्य इति चेदन्याभिधाने प्रतिषेधमेके इच्छन्ति। उह्यन्तां देवदत्तेन शालयो यज्ञदत्तेन(5) भोक्ष्यन्ते इति प्राप्नोति। भोक्ष्यन्तइति चेष्यते॥ सिद्धं तु तिङोरेकद्रव्याऽभिधानात्॥ सिद्धमेतत्॥ कथम्?॥ तिङोरेकद्रव्याभिधानात्। यत्र तिङ्भ्यामेकं द्रव्यमभिधीयते(6)तत्रेति वक्तव्यम्॥ (गत्यर्थलोटा) Kashika ------- गमिना समानार्था गत्यर्थाः। गत्यर्थानां लोट् गत्यर्थलोट्। तेन गत्यर्थलोटा युक्तं लृडन्तं तिङन्तं नानुदात्तं भवति, न चेत् कारकं सर्वान्यद् भवति। यत्रैव कारके कर्तरि कर्मणि वा लोट्, तत्रैव यदि लृडपि भवतीत्यर्थः। कर्तृकर्मणी एवात्र तिङन्तवाच्ये कारकग्रहणेन गृह्येते, न करणादि कारकान्तरम्। आगच्छ देवदत्त ग्रामं द्॒रक्ष्यसि॑ एनम्। आगच्छ देवदत्त ग्राममोदनं भो॒क्ष्यसे॑। उह्यन्तां देवदत्तेन शालयः, तेनैव भो॒क्ष्यन्ते॑। उह्यन्तां देवदत्तेन शालयः, यज्ञदत्तेन भो॒क्ष्यन्ते॑। गत्यर्थग्रहणं किम् ? पच देवदत्तौदनं भो॒क्ष्य॒स॒ एनम्। लोटेति किम् ? आगच्छेर्देवदत्त ग्रामं द्॒रक्ष्य॒सि॒ एनम्। लृडिति किम् ? आगच्छ देवदत्त ग्रामं प॒श्य॒सि॒ एनम्। न चेत् कारकं सर्वान्यदिति किम्? आगच्छ देवदत्त ग्रामम्, पिता त ओदनं भो॒क्ष्य॒ते॒। उह्यन्तां देवदत्तेन शालयः, सक्तवस्तेन पा॒स्य॒न्ते॒। सर्वग्रहणं किम् ? आगच्छ देवदत्त ग्रामम्, त्वं चाहं च द्र॒क्ष्याव॑ एनमित्यत्रापि निघातप्रतिषेधो यथा स्यात्। लृडन्तवाच्ये हि सर्वस्मिन् कारके ऽन्यस्मिन् न भवितव्यम् , इह तु यत् लोडन्तस्य कारकं तत् चान्यत् च लृडन्तेनोच्यत इति॥ Siddhanta Kaumudi ----------------- गत्यर्थानां लोटा युक्तं तिङन्तं नानुदात्तं यत्रैव कारके लोट् तत्रैव लृडपि चेत् । आगच्छ देव ग्रामं द्रक्ष्यस्येनम् । उह्यन्तां देवदत्तेन शालयो रामेण बोक्ष्यन्ते । गत्यर्थे किम् । पच देव ओदनं भोक्ष्यसेऽन्नम् । लोटा किम् । आगच्छेर्देव ग्रामं द्रक्ष्यस्येनम् । लृट् किम् । आगच्छ देव ग्रामं पश्यस्येनम् । न चेदिति किम् । आगच्छ देव ग्रामं पिता ते ओदनं भोक्ष्यते । सर्वं किम् । आगच्छ देव ग्रामं त्वं चाहं च द्रक्ष्याव एनमित्यत्रापि निघातनिषेधो यथा स्यात् । यल्लोडन्तस्य कारकं तच्चान्यच्च लृडन्तेनोच्यते ॥ Padamanjari ----------- गमिना समानार्था गत्यर्था इति । अर्थप्रदर्शनमेतत्, गतिरर्थो येषामिति तु विग्रहः, गत्यर्थलोटा युक्तमिति योगः, पुनरर्थद्वारको निमितनिमितिभावः, लोडन्तवाच्यं हि निमितं लृडन्तवाच्यस्य । न चेत्कारकं सर्वंमन्यद्भवतीति । सर्वं चेत्कारकमन्यत्, तदा निघातप्रतिषेधो न भवतीति भावः । अत्र - लोडन्ते च लृडन्ते च यावत्किञ्चन कारकम् । कृह्यएत यदा तत्सर्वं वाच्यावाच्यविवेकतः ॥ तदेहापि तर्हि प्राप्नोति - 'वह ब्राह्मण शालींस्त्वं पितैतांस्तव भोक्ष्यते' इति ? यत्र हि सर्वं भिद्यते, तत्रैव न भवितव्यम्, यथा वृतावुपन्यस्तयोः प्रत्युदाहरणयोः । न चात्र भिद्यते सर्वमभेदाच्छालिकर्मणः । अथायमर्थः स्यात् - सर्वस्मिन्कारकेऽनन्यस्मिन्नघातप्रतिषेधः, न तु क्वचिदपि भिन्न इति तदेहापि न स्यात् - आगच्छ देवदत ग्राममोदनं भोक्ष्यस इति, भिद्यते ह्यत्र कर्म, तस्माद्व्याख्येयमेतत् ? तत्राह - यत्रैवेति । एवकारेण वाच्यव्यतिरिक्तस्य निरासः, न तु सर्वस्यानन्यत्वं विवक्षितम्, तत्स्पष्टीकृतम् । कर्तृकर्मणी एवेति । एतच्च प्रत्यासतेर्लभ्यते, प्रत्यासन्नं हि ततस्य, यतेनैवाभिधीयते । उदाहरणेषु प्रथमतृतीययोः सर्वमनन्यत् । द्रक्ष्यसीत्यस्य तु निघातप्रसङ्गश्चिन्त्यः; नानावाक्यत्वात्, द्वितीयचतुर्थयोर्वाच्यमात्रं वहेर्गुणभूतगमनाभिप्रायं गत्यर्थत्वम्, प्रापणार्थस्त्वयम् । तथा च - 'नीवह्यएर्हरतेश्चापि गत्यर्थानां तथैव च' । इति भेदेन गणनं कृतम् । ननु च शक्तिः कारकम्, सा च प्रतिक्रियं भिद्यते, तत्कथमिहाभिन्नं कारकम् ? शक्तिशक्तिमतोर्भेदस्याविवक्षितत्वाददोषः । आगच्छेरिति । लिङ्यं न लेट् । पश्यतीति । लडयं न लृट्, प्रत्युदाहरणयोः सर्वमन्यत् । कारकशब्देनापि सूत्रे कारकव्यक्तिरेवाश्रीयते, तेन कर्तृकर्मत्वाभेदेऽपि व्यक्तिभेदात् कारकभेदः - त्वं चाहं च द्रक्ष्याव इति । अक्रियमाणे सर्वग्रहणे यत्र वाच्यं न भिद्यते तत्रैव भवितव्यम्, इह च भिद्यते वाच्यम् - एकत्रैकम्, अपरत्र द्वयमिति निघातप्रतिषेधो न स्यात् । क्रियमाणे तु सर्वग्रहणे यथा सिध्यति, तथा दर्शयति - लृडन्तवाच्ये हीति ॥ Nyaas ----- `गमिना समानार्था गत्यर्थाः` इति। अर्थप्रदर्शनमेवैतत्। एवं तु विग्रहः कर्तव्यः -गतिरर्थो येषामिति। `गत्यर्थलोटा युक्तम्` इति। योगः पुननिमित्तनिमित्तरूपः। तयोर्निमित्तमिति भावः। `न चेत्कारकम्` इत्यादेरर्थं विस्पष्टीकर्त्तुमाह -`यत्रैव` इत्यादि। अनेन लोडन्तवाच्यं लृडन्तवाच्यार्थं यत्? कारकं तस्यैवानन्यत्वमाश्रितम्; न शब्दातन्तरवाच्यस्येति दर्शयति, एवच्च प्रत्यासत्तेर्लभ्यते। तिङन्तस्य हि तदेव प्रत्यासन्नं कारकं यत्? तेनैवाभिधीयते न शब्दान्तरेण; तेन शब्दान्तरवाच्ये भिद्यमानेऽपि भवत्येव भिधातप्रतिषेधः। `आगच्छ देवदत्त ग्रामं द्रक्ष्यस्येनम्` इति। आगच्छेति गत्यर्थलोट, द्रक्ष्यसीति लृडन्तम्; तयोश्चैकमेवात्र कारकं देवदत्तः कर्ता। `द्रक्ष्यसि` इति। **सृजिदृशोर्झल्यमकिति** (6.1.58) इत्यमागमः; व्रश्चादि सूत्रेण (8.2.36) षत्वम्, **षढोः कः सि** (8.2.41) इति कत्वम्। स्यप्रत्ययस्वरेण मध्योदात्तमेतत्। एवमुत्तरत्रापि यत्र निघातप्रतिषेधस्तत्र लृडन्तस्य मध्योदात्तता वेदितव्या। `आगच्छ देवदत्त ग्राममोदनं भोक्ष्यसे` इति। अत्रापि तदेवाभिन्नमुभयलकारवाच्यं कर्त्तुकारकम्। कर्म तु यद्यपि भिद्यते, तथाप#इ तच्छब्दान्तरवाच्यमिति सत्यपि त्भेदे भवत्येव निघातप्रतिषेधः। `उह्रन्तां देवदत्तेन शालयो यज्ञदत्तेन भोक्ष्यन्ते` इति। अथात्र शालय इत्युभयलकारवाच्यमभिन्नं कर्मं कारकम्, कर्ता तु यद्यपि भिद्यते, तथापि स शब्दान्तरवाच्य इति तद्भेदेऽपि निघातप्रतिषेधो भवत्येव। `उह्रन्ताम्` इति। वहेः कर्मणि लोट्, आत्मनेपदम्, झस्यान्तादेशः, **सार्वधातुके यक्** (3.1.67) वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्, टेरेत्वम्? (3.4.79) , `आमेतः` (3.4.90) इत्याम्भावः। कथं पुनरिहाभिन्नं कारकम्, यावता शक्तिः कारकम्, सा च प्रतिक्रियं भिद्यत एव शक्तिशक्तिमतोर्भेदस्याविवक्षितत्वादेकं कारकं भविष्यतीत्यदोषः। `आगच्छेर्देवदत्त ग्रामं द्रक्ष्यस्यनम्` इति। अत्र गत्यर्थलिङा लृङन्तं युक्तम्, न गत्तयर्थलोटा। `आगच्छ देवदत्त ग्रामं पश्यस्येनम्` इति। अत्र गत्यर्थलोटा लङन्तं युक्तम्, न तु लुङन्तम्। `आगच्छ देवदत्त ग्रामं पिता त ओदनं भोक्ष्यते` इति। अत्र लोङन्तस्य देवदत्तः कर्ता, लृडन्तस्य तु पितेति भिद्यते कारकम्। `आगच्छ देवदत्त ग्रामं त्वं चाहं च` इत्यादि। यथा पूर्वोपन्यस्तेषु मूलोदाहरणेषु यल्लोडन्तस्य कर्त्त्रादि कारकं वाच्यं तन्मात्रमेव लृङन्तस्यापि, इह तु न तथा। अत्रापि [`तत्रापि -कांउ।पाठः] लोङन्तस्य देवदत्तो युष्मदर्थ एवप कर्ता वाच्यः, लृङन्तस्य तु स चास्मदर्थश्च; तत्रासति सर्वग्रहण इह निघातप्रतिषेधो न स्यात्। अत इहापि यथा स्यादित्येवमर्थं सर्वग्रहणम्। अथ सत्यपि सर्वग्रहणे निघातप्रतिषेधः कथमेवात्र भवति, यावाता भिद्यते लोङन्तवाच्यात्? कारकाल्लृङन्तवाच्यो योऽर्थः कारकं कर्तात? इत्यत आह -`लृङन्तवाच्ये हि` इत्यादि। सर्वग्रहणे सति लोडन्तवाच्यं यत्कारकं तस्माल्लृङन्तस्य यदि सर्वमन्यद्भवति, तथाप्येवं न निघातप्रतिषेधेन भवितव्यम्, अन्यथा तु सति भवत्येव। यदि हि यत्रापि लोङन्तस्य किञ्चित्? तदेव कारकं वाच्यम्, लृङन्तस्य किञ्चित्? ततोऽन्यत्रापि निघातप्रतिषेधो न स्यात्, सर्वग्रहणमनर्थकं स्यात्। तस्मात् सर्वग्रहणाद्भवत्येवात्र निघातप्रतिषेधः। तत्रैवं स्यात् -अस्मिन्नप्युदाहरणे लृङन्तस्य वाच्यं यत्? कारकमन्यदेव तल्लोङन्तवाच्यात्। अतः सत्यपि सर्वग्रहणे न भवितव्यं निघातप्रतिषेधेण? इत्यत आह -`इह तु` इत्यादि। गतार्थम्॥ Prakriyasarvasvam ----------------- गत्यर्थलोटा सहितं लृडन्तं न निहन्यते । सर्वमन्यत्र चेदत्र कारकं स्याद् द्वयोस्तिङोः ॥ ९०८ ॥ कारकोक्त्यात्र गृह्येते संभवात्कर्तृकर्मणी । आगच्छ कृष्णाटवीं त्वं तत्र गाः पालयिष्यसि ॥ ९०९ ॥ उह्यतां भवता क्षीरं त्वयैवैतत् तु पास्यते । सर्वान्यत्वे याहि कृष्ण पिता ते भोक्ष्यते घृतम् ॥ ९१० ॥ सर्वग्रहादेकमात्रे त्वन्यस्मिन्न निहन्यते । आगच्छ कृष्ण त्वं चाहं चापि रंस्यावहे वने ॥ ९११ ॥