81035: छन्दस्यनेकमपि साकाङ्क्षम् ================================ **Padacheda:** छन्दसि | S | 7 | 1 | अनेकम् | S | 1 | 1 | अपि | S | 0 | 0 | साकाङ्क्षम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas), the finite verb retains its accent (but not always) in connection with हि when it stands in correlation to another verb, even more than one. Vasu English Translation ------------------------ In the छन्दस् (Vedas), the finite verb retains its accent (but not always) in connection with हि when it stands in correlation to another verb, even more than one. That is sometimes one verb, sometimes more than one verb retain their accent. Thus of more than one verb, we have the following example :- अनृतं हि मत्तो व꣡दति । पाप्मा एनं वि पु꣡नाति 'Because the drunkard tells falsehood, therefore sin will make him impure: i. e. he does incur sin'. Here both verbs वदति and विपुनाति retain their accent: and हि has the force of यत् 'because'. According to *Kaiyyata* the meaning of this sentence is यस्मान् मत्तोऽनृतं वदति, तस्मादनृतवदन दोषेण न युज्यते i. e. a drunkard does not incur the sin of telling a falsehood, because he is not in his senses. See *Maitr*. *Sanhita* I.II.6. As regards one verb in a correlated sentence retaining its accent and the other losing it, we have:- अग्निर्हि पूर्वमुद꣡जयत् तमिन्द्रोऽमूद॒ज॒यत् ॥ Here the first retains its accent and the second not. The force of हि is to denote here cause and its effect. So also:- अजा ह्यग्नेर꣡जनिष्ट गर्भात् (or गर्भम्), सा वा अ॒प॒श्य॒त्॒ जनितारमग्रे (*Taittariya* *Samhita* IV. 2.10, 4). The word अजनिष्ट is first acute, the augment अट् having the accent; while अपश्यत् is all *anudatta*. Bhashya ------- छन्दस्यनेकमपि साकाङ्क्षमनेक(1)मिति किमुदाहरणम्?॥ यदाह्यसौ मत्तो भवति अथ यत्तपति॥ नैतदस्ति। एकमत्र(2) हियुक्तमपरं यद्युक्तन्तत उभयोरप्यनिघातः॥ इदं तर्हि अनृतं हि मत्तो वदति पाप्मा एनं विपुनाति(3)॥ एकं खल्वपि अग्निर्हि पूर्वमुदजयत्तमिन्द्रोऽनूदजयदिति॥ (छन्दस्यनेकमपि साकाङ्क्षम्)॥ Kashika ------- हि चेति वर्तते। छन्दसि विषये हियुक्तं तिङन्तं साकाङ्क्षमनेकमपि नानुदात्तं भवति, एकमपि। कदाचिदेकं कदाचिदनेकमित्यर्थः। तत्रानेकं तावत् — अनृतं हि मत्तो वद॑ति, पाप्मा एनं विपुनाति॑। तिङन्तद्वयमप्येतद् न निहन्यते। एकं खल्वपि — अग्निर्हि पूर्वमुदज॑यत्, तमिन्द्रोऽनू॒द॒ज॒य॒त्। तिङन्तद्वयमपि हिशब्दयुक्तमेतत्। तत्रैकमुदजयदित्याद्युदात्तम् अपरमनुदात्तम्। अ॒जा ह्य॑ग्नेरज॑निष्ट॒ गर्भा॒त् सा वा अ॑पश्यज्जनि॒तार॒मग्॑रे (तै० सं० ४.२.१०.४)। अजनिष्टेत्याद्युदात्तम्, अपश्यदित्यनुदात्तम्॥ Siddhanta Kaumudi ----------------- हीत्यनेन युक्तं साकाङ्क्षमनेकमपि नानुदात्तम् । अनृतं हि मत्तो वदति पाप्मा चैनं युनाति । तिङन्तद्वयमपि न निहन्यते ॥ Padamanjari ----------- अत्र हेतुहेतुमद्भावस्य द्योतको हिरित्यनेकमपि तिङ्न्तं हियुक्तं भवति । तत्र पूर्वेण सर्वस्य निघातप्रतिषेधे प्राप्ते क्वचिदनेकस्य क्वचिदेकस्य यथा स्यादिति वचनम् । तदाह - कदाचिदिति । तत्र च्छन्दसि दृष्टानुविधानाद्यथाप्रयोगं व्यवस्था । अनृतं हीति । पाप्मा उ मद उच्यते । यस्मादसौ मतोऽनृतं वदति तस्मादनृतवदनदोषेण युज्यत इत्यर्थः । उदजयदित्याद्यौदातमिति । अत्राजयदित्याद्यौदातमित्यर्थः । अजनिष्ट गर्भमिति अन्तर्भावितण्यर्थत्वाज्जनेरत्र सकर्मकत्वम् ॥