81028: तिङ्ङतिङः ================ **Padacheda:** तिङ् | S | 1 | 1 | अतिङः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A finite verb is unaccented when a word precedes it which is not a finite verb. Vasu English Translation ------------------------ A finite verb is unaccented when a word precedes it which is not a finite verb. Thus देवदत्तः प॒च॒ति॒ ॥ Why do we say "a finite verb"? Observe नीलमुत्पलम्, शुक्लं वस्त्रम् ॥ Why do we say 'when the preceding word is not a finite verb'? Observe भवति प꣡चति 'the act of cooking exists' = पाक क्रिया भवति ॥ Here the word भवति is a finite verb, therefore the verb *pachati* does not lose its accent. So also तरनिरिज् ज॒य॒ति॒, क्षो꣡ति, पु꣡ष्यति 'successful he conquers, rules, thrives', अस्म꣡भ्यां जे॒षि॒ यो꣡त्सिच "for us conquer and fight". The word अतिङः is in one sense redundant, because in one simple sentence, two finite verbs cannot be employed; one sentence consists of one finite verb only. But the very fact of this *sutra* indicates that the condition of समानवाक्य does not apply to this *sutra*; so that the two words need not be portions of the same sentence, for the application of this *nighata*: as we have already explained in (8.1.19). Other examples are: are अग्निमी॒डे॒ पुरोहितं (*Rig* *Veda*. 1.1. 1). स इद्देवेषु꣡ ग॒च्छ॒ति॒ (*Rig* *Veda*. I.I.4), अग्ने꣡ सूपायनो꣡ भ॒व॒ (*Rig* *Veda*. V. 1.1), य꣡जमानस्य प꣡शून् पा॒हि॒ ॥ Bhashya ------- तिङ्ङतिङः अतिङ इति किमर्थम्?॥ पचति करोति॥ अतिङ्वचनमनर्थकं समानवाक्याधिकारात्॥ अतिङ्वचनमनर्थकम्॥ किं कारणम्?॥ समानवाक्याधिकारात्। समानवाक्य इति वर्त्तते, न च समानवाक्ये द्वे तिङन्ते स्तः॥ (तिङ्ङतिङः)॥ Kashika ------- तिङन्तं पदमतिङन्तात् पदात् परमनुदात्तं भवति। देवदत्तः प॒च॒ति॒। यज्ञदत्तः प॒च॒ति॒। तिङिति किम् ? नीलम् उत्प॑लम् । शुक्लं वस्त्र॑म्। अतिङ इति किम् ? भवति पच॑ति॥ Siddhanta Kaumudi ----------------- अतिङन्तात्पदात्परं तिङन्तं निहन्यते । अग्निमीळे (अ॒ग्निमी॑ळे) ॥ Padamanjari ----------- भवति पचतीति । पचतीत्येतद्भवति, पाकक्रिया भवतीत्यर्थः । तत्र साध्यसाधनभावेन द्वयोः क्रिययोरन्वयादस्ति सामर्थ्यम् । यथोक्तम् - पच्यादिक्रिया भवतिक्रियायाः कर्त्र्यो भवन्तीति । तत्र पाकस्य स्वसाधनानि प्रति साध्यस्यापि भवनं प्रति सिद्धत्वम् । यथाह भर्तृहरिः - 'तत्र यं प्रति साध्यत्वमसिद्धं तं प्रति क्रिया । सिद्धा तु यस्मिन्साध्यत्वं न तमेव पुनः प्रति' ॥ इति । अस्त्येतत् ? किम् ! तर्हि अतिङ्ग्रहणमनर्थकम्; समानवाक्याधिकारात्,'समानवाक्ये' इति वर्तते, न चैकस्मिन्वाक्ये तिङ्न्तद्वयमस्ति, तदुक्तं पुरस्तात् । सूत्रकारेण तु समानवाक्याधिकारो न कृत इत्यतिङ्ग्रहणमकारि ॥ Nyaas ----- `नीलमुत्पलम्` इति। उत्पलमित्येतत्? `नव्विषयस्यानिसन्तस्य` (फि।सू।2।26) इत्याद्युदात्तं भवति। `भवति पचति` इति। पचतिक्रिया भवतीत्ययमस्यार्थः। पचतिशब्दे शप्तिपावनुदात्तौ, अकारो धातुस्वरेणोदात्तः, **उदात्तादनुदात्तस्य स्वरितः** (8.4.66) इति शबकारः स्वरितः। ननु च समासवाक्ये निघातादय उच्यन्ते, इदञ्च वाक्यमेव न भवति, तत्? किमेतन्निवृत्त्यर्थेनातिङग्रहणेन? किं पुनः कारणमेतद्वाक्यं न भवति? अख्यातं साव्ययकारकविशेषणं वाक्यम्` इत्यत्र वाक्यलक्षण एकत्वस्य विवक्षितत्वात्, इह चाख्यातस्य द्वित्वात्? नैष दोधः; अत्राप्याख्यातं यदकारकं तद्विवक्षितम्। तच्चास्मिन्नेकमेव भवतिशब्दः, पचतीत्येतत्तु कारकम्। तथा हि भाष्ये उक्तम् -`पचत्यादयः क्रियाः [`क्रियाः भवन्ति` नास्ति का। मुद्रिते] भवन्ति, क्रियायाः कर्त्र्यो भवन्ति` इति। यदपीदमुक्तम् -`एकतिङ्? पदसमूहो वाक्यम्` इति, अत्रापि प्रधानं यत्? तिङ्? तदधिकृत्यैकतिङित्युक्तम्। अत्र चैकमेव तिङन्तं प्रधानम्। यद्येतत्, किं तर्हि अत्र तिङन्तं तत्? भवतीति। पचतीत्येतत्? पुनः साधनत्वादप्रधानम्॥ Prakriyasarvasvam ----------------- अतिङन्तात्परं तिङन्तं निहन्यते । अग्निमीळे । तिङः परत्वे तु न । यक्षियासि च वायुम् ।