81027: तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ========================================== **Padacheda:** तिङः | S | 5 | 1 | गोत्रादीनि | S | 1 | 3 | कुत्सनाभीक्ष्ण्ययोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The words गोत्र etc. become unaccented after a finite verb when a contempt or a repetition in intended. Vasu English Translation ------------------------ The words गोत्र etc. become unaccented after a finite verb when a contempt or a repetition in intended. Thus पचति गो॒त्र॒म्, जल्पति गो॒त्र॒म्, when contempt is meant. Here पचति गोत्रं means 'he proclaims his *Gotra* &c, so that he may get food &c'. पचति is from the root पचि व्यक्तिकरणे 'to make evident' (*Bhuadi* 184). Similarly जल्पति गोत्रम् "he repeatedly utters, his descent &c, in order to get married &c". Where contempt is not meant, it has the force of repetition, i.e. he repeatedly utters his *Gotra* as one is bound to do, in marriage-rites &c. And पचति पचति गो॒त्र॒म्, जल्पति जल्पति गो॒त्र॒म् when repetition or intensity is denoted. Similarly पचति ब्रुवम्, पचति पचति ब्रुवम् ॥ The word ब्रुवं is a noun derived from the root ब्रू by the affix कन्, the वच् substitution for ब्रू has not taken place, as an anomaly. 1 गोत्र, 2 ब्रुव, 3 प्रवचन, 4 प्रहसन, 5 प्रकथन, 6 प्रत्ययन, 7 प्रपञ्च, 8 प्राय, 9 न्याय, 10 प्रचक्षण, 11 विचक्षण, 12 अवचक्षण, 13 स्वाध्याय, 14 भूयिष्ठ, 15 वा नाम (नाम वा) 16 प्रदशन, 17 प्रयजन. The word नाम optionally becomes *anudatta* : in the alternative, it is first-acute. Thus पचति ना॒म॒ or पचति ना꣡म ॥ Why do we say 'after a finite verb'? Observe कुत्सितं गोत्रम् ॥ Why do we say "*Gotra* and the rest"? Observe पचति पापम् ॥ Here पापं is an adverb. Why do we say 'when contempt or repetition is meant'? Observe खनति गोत्रं समेत्य कूपं ॥ "He digs a well having assembled the *Gotra*". The words 'contempt and repetition' in the text qualify the whole sentence or *sutra*, and not the word गोत्रादि nor the word अनुदात्त understood. For we find that wherever the word गोत्रादि is used in this Chapter, it always implies the sense of 'contempt or repetition'. Thus the word गोत्रादि is used in (8.1.57) and there also the sense is of contempt and repetition. Bhashya ------- तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः किमिदं तिङो गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणं-कुत्सनाभीक्ष्ण्ययोरर्थयोर्गोत्रादीनि भवन्ति तिङः पराण्यनुदात्तानीति, आहो स्विदनुदात्तविशेषणं-तिङः पराणि गोत्रादीनि कुत्सनाभीक्ष्ण्ययोरर्थयोरनुदात्तानि भवन्तीति?॥ तिङो गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणम्॥ तिङो गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणं क्रियते॥(किं प्रयोजनम्?(1))॥ पाठविशेषणम्। पाठो विशेष्यते॥ अनुदात्तविशेषणे ह्यन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणम्॥ अनुदात्तविशेषणे हि सत्यन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणं कर्तव्यं स्यात्-चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेरिति। कुत्सनाभीक्ष्ण्ययोरिति वक्तव्यं स्यात्॥अनुदात्तग्रहणं वा॥ अथ वा यान्यनुदात्तानीति वक्तव्यं स्यात्। तस्मात्सुष्ठूच्यते-तिङो गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणमनुदात्तविशेषणेह्यन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणमनुदात्तग्रहणं वेति॥ Kashika ------- तिङन्तात् पदात् पराणि गोत्रादीनि कुत्सन आभीक्ष्ण्ये चार्थे वर्तमानान्यनुदात्तानि भवन्ति। पचति गो॒त्र्ाम्। जल्पति गो॒त्र्ाम्। आभीक्ष्ण्ये — पचतिपचति गो॒त्र्ाम्। जल्पतिजल्पति गो॒त्र्ाम्। ब्रुवः — पचति ब्रु॒व॒म्। जल्पति ब्रु॒व॒म्। पचतिपचति ब्रु॒व॒म्। जल्पतिजल्पति ब्रु॒व॒म्। ब्रुव इति ब्रुवः कन् निपातनाद् वच्यादेशाभावश्च॥ गोत्र। ब्रुव। प्रवचन। प्रहसन। प्रकथन। प्रत्ययन। प्रचक्षण। प्राय। विचक्षण। अवचक्षण। स्वाध्याय। भूयिष्ठ। वा नाम (ग० सू० १८१)। नामेत्येतद् वा निहन्यते। पक्ष आद्युदात्तमेव भवति। पचति ना॒म॒, पचति नाम॑। तिङ इति किम् ? कुत्सितं गोत्र॑म्। गोत्रादीनीति किम् ? पचति पा॒पम्। कुत्सनाभीक्ष्ण्ययोरिति किम् ? खनति गोत्रं॑ समेत्य कूपम्। कुत्सनाभीक्ष्ण्यग्रहणं च पाठविशेषणं द्रष्टव्यम्। तेनान्यत्र (८.१.५७) अपि गोत्रादिग्रहणेन कुत्सनाभीक्ष्ण्ययोरेव कार्यं भवति॥ Siddhanta Kaumudi ----------------- तिङन्तात्पदाद्गोत्रादीन्यनुदात्तान्येतयोः । पचति गोत्रम् । पचतिपचति गोत्रम् । एवं प्रवचनप्रहसनप्रकथनप्रत्यायनादयः । कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणम् । तेनान्यत्रापि गोत्रादिग्रहणे कुत्सनादावेव कार्यं ज्ञेयम् । गोत्रादीनि किम् । पचति पापम् । कुत्सेति किम् । खनति गोत्रम् । समेत्य कूपम् ॥ Padamanjari ----------- पचति गोत्रमिति । पचिर्व्यक्तीभावे, यथा - लोकपक्तिरिति, भोजनाद्यर्थं गोत्रं ख्यापयतीत्यर्थः, एवं हि कुत्सा भवति । पचतिपचति गोत्रमिति । विवाहादिविषये पुनः पुनर्गोत्रं ख्यापयतीत्यर्थः । तत्र कुत्साया अभावादाभीक्ष्ण्यग्रहणम् ।'नित्यवीप्सयोः' इति द्विर्वचनम् । ब्रुवशब्दः कुत्सितवचनः, अत एवास्याभीक्ष्ण्ये पृथगुदाहरणं प्रदर्शितम् । पचति प्रवचनमित्यादावात्मप्रशंसया कुत्सा । प्रवचनमुअध्यापनम् ।'वा नाम' इति गणसूत्रं व्याचष्टे - नामेत्येतदिति । पचति पापमिति । पापमिति क्रियाविशेषणम् । खनति गोत्रं समेत्य कूपमिति । गोत्रं कुलं समुदितं भूत्वा कूपं खनतीत्यर्थः । किमिदं कुत्सनाऽऽभीक्ष्ण्यग्रहणं गोत्रादीनां पाठविशेषणम् - एतयोरर्थयोर्गोत्रादीनि भवन्ति, तानि च तिङ्ः पराण्यनुदातानि भवन्तीति ? आहोस्विदनुदातविशेषणम् - तिङ्ः पराणि गोत्रादीनि अनुदातानि भवन्त्येतयोरर्थयोरिति ? अस्मिन्विवादे निर्णयमाह - कुत्सनाभीक्ष्ण्यग्रहणं चेति । पठ।ल्त इति पाठः, सन्निवेशविशेषः । तस्य विशेषणं वेदितव्यम् । अयं चार्थो योगविभागाल्लभ्यते,'तिङे गोत्रादीनि' इत्येको योगोऽनुदातविधानार्थः,'कुत्सनाभीक्ष्ण्ययोः' इति द्वितीयो योगः, गोत्रादीनीत्येव, परिभाषेयम् । इह शास्त्रे गोत्रादीनि कुत्सनाभीक्ष्ण्यविषयाण्येव ग्राह्याणीति, तेन किं सिद्धंभवति ? इत्यत आह - तेनेति । अन्यत्रापीति ।'चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः' ,'कुत्सने च गोत्रादौ' इत्यत्र ॥ Nyaas ----- यथायथमुदात्तादिषु प्राप्तेष्विदमारभ्यते। `पचति गोत्रम्` इति। यः स्वपुरुषकारेण जोविकां कल्पयितु मशक्तो गोत्रखकककक्यापनेन तां कल्पयति स एवमुच्यते। `पचति` इति। व्यक्तीकरीतीत्यर्थः। `पचि व्यक्तीकरणं` (धातुपाठः-174) `पचतिपचति गोत्रम्` इति। नित्येऽर्थे द्विर्वचनम्। यस्त्वाभीक्षण्येन गोत्रं ख्यापयति स एव मुच्यते। `वाच्यादेशाभावश्च` इति। `ब्राउवो वचिः` (2.4.53) इति वच्यादेशः प्राप्नोति, तस्याभावो निपातनादव। `विचक्षण` इति। अत्रापि `चक्षिङः ख्याञ` (2.4.54) इति प्राप्तस्य ख्याञादेशस्याभावो निपानादेव वेदितव्यः। `नामेत्येतदवा निहन्यते` इति। विभाषाग्रहणस्यानुवृत्तेः। न च तदनुवृत्तावतिप्रसङ्गो भवति; व्यवस्थित विभाषाविज्ञानात्। `पक्षे आद्युदात्तमेव भवति` इति। `नब्विषयस्यानिसन्तस्य` (फि।सू।2।26) इति नामशब्दस्याद्युदात्तत्वात्। `कुत्सितं गोत्रम्` इति। `गुङ्? अव्यक्ते शब्दे` (धातुपाठः-949) इत्यस्मादौणादिके ष्ट्रनि विहिते गोत्रमिति भवति। तस्मान्नित्स्वरेण गोत्रशब्दोऽत्राद्युद्त्तः। `पचति पापम्` इति। पापश्ब्दः कुत्सने वर्तते, सिङन्ताच्च परो भवति, न तु गोत्रादिरिति न निहन्यते। इह कुत्सनाभिक्ष्ण्यग्रहणे, एतदनुदात्तविशेषणं वा स्यात् -तिङः पराणि गोत्रादीन्यनुदात्तानि भवन्ति कुत्सनाभीक्ष्ण्ययोरिति, उत गोत्रादीनां पाठविशेषणं वा स्यात् -एतयोरर्थयोर्गोत्रादीनि भवन्ति, तानि च तिङः पराण्यनुदात्तानि भवन्तीति? अनयोरर्थयोर्गोत्रादिव्यपदेशमासादयन्तीति योऽसौ तेषां प्रातिपदिकेषु विशिष्टानुपूर्वीकः पाठः, स एव तयोरर्थयोवंर्तमानानां भवतीति यावत्। तत्र पूर्वस्मिन्? पक्षे `चनचिदिवगोत्रादितद्धिताम्रेडितेध्वगतेः` (8.1.57) इत्यत्र **कुत्सने च सुप्यगोत्रादौ** (8.1.69) इत्यत्र च कुत्सनाभीक्ष्ण्ययोरपि वर्तमानानं कार्यं प्राप्नोति; विशेषानुपादानात्। इतरस्मस्तु पक्षे न भवत्येष दोषः। यानि हि न कुत्सनाभीक्ष्ण्ययोर्वर्तन्ते तेषां गोत्रादिव्यपदेश एव नास्ति; कुत्सनाभीक्ष्ण्यवृत्तीनामेव गणे पठितत्वात्। एतत्? सर्वं चेतसि कृत्वाऽऽह -`कुत्सनाभीक्ष्ण्यग्रहणं च` इत्यादि। पठत इति पाठः, सन्निवेशविशेषः। सद्विशेषणमेव तद्वेवितव्यम्। तेन किमिष्टं भवतीत्याह -`तेन` इत्यादि। कथं पुनरेकेन यत्नेन गोत्रादीनां पाठश्च शक्यो विशेषयितुमनुदात्तत्वञ्चैषां विधातुम्? एवं मन्यते -योगविभागः कर्तव्यः, तिङः पराणि गोत्रादीन्यनुदात्तानि भवन्ति; ततः `कुत्सनाभीक्ष्ण्ययोः`, गोत्रादीनीत्येव। न चात्र द्वितीयेयोगे विधेयमन्यदस्तीति गोत्रादीन्येव कुत्सनाभीक्ष्ण्यग्रहणेन विशिष्यन्ते। अथ वा -उभयथा सूत्रमाचार्येण शिष्याः प्रतिपादिताः, उभयञ्चैतत्? प्रमाणम्, अत उभयं ग्रहीष्यन्तीति। वृत्तिग्रन्थस्तु तिङन्तात्? पदादुत्तराणि गोत्रादीनीत्यादिको वाक्यभेदेनैव नेयः -गोत्रादीनि कुत्सने चामीक्ष्ण्ये च भवन्ति, तान्येव तिङन्तात्? पदादुत्तराण्यनुदात्तानि भवन्तीति। ननु च गोत्रादयः शब्दा गोत्रादावेवानर्थान्तरे वर्तन्ते, ते कथं कुत्सनाभीक्ष्ण्ययोर्वर्तरन्? तमेव स्वार्थं यदा तु कुत्सनाभीक्ष्ण्यविशिष्टमाचक्षते तदा तयोर्वर्तन्त इत्यदोषः॥ Prakriyasarvasvam ----------------- (तिङो) गोत्र ब्रुवप्रवचनप्रकथनप्रसह¹नप्रत्यायनप्रवक्षणविचक्ष²णावचक्षण स्वाध्यायभूयिष्ठानि (स. ८-३-१९९) तिङन्तात् पराण्येतानि कुत्साभीक्ष्ण्ययोरर्थ- योर्निहन्यन्ते । (प?व) चति गोत्रमन्नलिप्सुः । (पःव) चिव्यक्तीकरणे । अन्नालाभार्थं स्वगोत्रं प्रकाशयतीति निन्दा । एवं स्तौति गोत्रम् । आभीक्ष्ण्ये - स्तौतिस्तौति गोत्रं भक्तस्य । जल्पति ब्रुवम् । अत्र निन्दायामेव । वचति प्रवचनमित्यादावात्मप्रशंसया निन्दा । वा नाम' (वा.) । वचति नाम । पक्षे 'नब्विषयस्य -' (फि. २६) इत्याद्युदात्तम् । सर्वत्र गोत्रादिग्रहणेकुत्साभीक्ष्ण्ययो (रनयो ?) रेव कार्यं स्यादिति वृत्तिः ।