81024: न चवाहाहैवयुक्ते ======================= **Padacheda:** न | S | 0 | 0 | चवाहाहैवयुक्ते | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- when there is in connection with the सर्वनाम any of these - 1. च 'and' 2. वा 'or' 3. ह 'Oh!' 4. अह 'wonderful' or 5. एव 'only'. Vasu English Translation ------------------------ when there is in connection with the सर्वनाम any of these - 1. च 'and' 2. वा 'or' 3. ह 'Oh!' 4. अह 'wonderful' or 5. एव 'only'. Thus ग्रामस्तव च स्वम्, ग्रामो मम च स्वम् ॥ युवयोश्च स्वम् । आवयोश्च स्वम् । युष्माकं च स्वम् । अस्माकं च स्वम् । ग्रामस्तुभ्यं च दीयते । ग्रामो मह्यं च दीयते। युवाभ्यां च दीयते । आवाभ्यां च दीयते । युष्मभ्यं च दीयते। अस्मभ्यं च दीयते । ग्रामस्त्वां च पश्यति । ग्रामो मां च पश्यति । युवां च पश्यति । आवां च पश्यति । युष्मांश्च पश्यति । अस्मांश्च पश्यति ॥ वा । ग्रामस्तव वा स्वम् । ग्रामो मम वा स्वम् । युवयोर्वा स्वम् । आवयोर्वा स्वम् । युस्माकं वा स्वम् । अस्माकं वा स्वम् । ग्रामस्तुभ्यं वा दीयते । ग्रामो मह्यं वा दीयते । युवाभ्यां वा दीयते । आवाभ्यां वा दीयते । युष्मभ्यं वा दीयते । अस्मभ्यं वा दीयते । ग्रामस्त्वां वा पश्यति । ग्रामो मां वा पश्यति । युवां वा पश्यति । आवां वा पश्यति । युष्मान् वा पश्यति । अस्मान्वा पश्यति । ह । ग्रामस्तव ह स्वम् । ग्रामो मम ह स्वम् । युवयोर्ह स्वम् । आवयोर्ह स्वम् । युष्माकं ह स्वम् । अस्माकं ह स्वम् । ग्रामस्तुभ्यं ह दीयते । ग्रामो मह्यं ह दीयते । युवाभ्यां ह दीयते । आवाभ्यां ह दीयते । युष्मभ्यं ह दीयते । अस्मभ्यं ह दीयते । ग्रामस्त्वां ह पश्यति । ग्रामो मां ह पश्यति । युवां ह पश्यति । आवां ह पश्यति । युष्मान्ह पश्यति । अस्मान्ह पश्यति । अह । ग्रामस्तवाह स्वम् । ग्रामो ममाह स्वम् । युवयोरह स्वम् । आवयोरह स्वम् । युष्माकमह स्वम् । अस्माकमह स्वम् । ग्रामस्तुभ्यमह दीयते । ग्रामोमह्यमह दीयते । युवाभ्यामह दीयते । आवाभ्यामह दीयते । युष्मभ्यमह दीयत । अस्मभ्यमह दीयते । ग्रामस्त्वामह पश्यति । ग्रामो मामह पश्यति । युवामह पश्यति । आवामह पश्यति । युष्मानह पश्यति । अस्मानह पश्यति । एव । ग्रामस्तवैव स्वम् । ग्रामो ममैव स्वम् । युवयोरेव स्वम् । आवयोरेव स्वम् । युष्माकमेव स्वम् । अस्माकमेव स्वम् । ग्रामस्तुभ्यमेव दीयते । ग्रामो मह्यमेव दीयते । युवाभ्यामेव दीयते । आवाभ्यामेव दीयते । युष्मभ्यमेव दीयते । अस्मभ्यमेव दीयते । ग्रामस्त्वामेव पश्यति । ग्रामो मामेव पश्यति । युवामेव पश्यति । आवामेव पश्यति । युष्मानेव पश्यति । अस्मानेव पश्यति । युक्तग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम् । युक्तयुक्ते प्रतिषेधो न भवति । ग्रामश्च ते स्वम् । नगरं च मे स्वम् । The word युक्त is employed in the *sutra* to indicate direct conjunction. There is, therefore, where the conjunction is not direct but intermediate the employment of the shorter forms. As ग्रामश्च ते स्वं, नगरं च मे स्वम् ॥ The particles च, वा, &c denote conjunction, 'separation' 'wonder' &c. Where the sense of 'conjunction.' 'separation' &c are inherent in the pronouns *yushmad* and *asmad*, and these particles are employed to manifest that sense, there the present *sutra* will apply its prohibition. Kashika ------- च वा ह अह एव एभिर्युक्ते युष्मदस्मदोर्वान्नावादयो न भवन्ति। पूर्वेण प्रकरणेन प्राप्ताः प्रतिषिध्यन्ते। ग्रामस्तव च स्वम्, ग्रामो मम च स्वम्, युवयोश्च स्वम्, आवयोश्च स्वम्, युष्माकं च स्वम्, अस्माकं च स्वम्। ग्रामस्तुभ्यं च दीयते, ग्रामो मह्यं च दीयते, युवाभ्यां च दीयते, आवाभ्यां च दीयते, युष्मभ्यं च दीयते, अस्मभ्यं च दीयते। ग्रामस्त्वां च पश्यति, ग्रामो मां च पश्यति, युवां च पश्यति, आवां च पश्यति, युष्मांश्च पश्यति, अस्मांश्च पश्यति। वा — ग्रामस्तव वा स्वम्, ग्रामो मम वा स्वम्, युवयोर्वा स्वम्, आवयोर्वा स्वम्, युष्माकं वा स्वम्, अस्माकं वा स्वम्। ग्रामस्तुभ्यं वा दीयते, ग्रामो मह्यं वा दीयते, युवाभ्यां वा दीयते, आवाभ्यां वा दीयते, युष्मभ्यं वा दीयते, अस्मभ्यं वा दीयते। ग्रामस्त्वां वा पश्यति, ग्रामो मां वा पश्यति, युवां वा पश्यति, आवां वा पश्यति, युष्मान् वा पश्यति, अस्मान् वा पश्यति। ह — ग्रामस्तव ह स्वम्, ग्रामो मम ह स्वम्, युवयोर्ह स्वम्, आवयोर्ह स्वम्, युष्माकं ह स्वम्, अस्माकं ह स्वम्। ग्रामस्तुभ्यं ह दीयते, ग्रामो मह्यं ह दीयते, युवाभ्यां ह दीयते, आवाभ्यां ह दीयते, युष्मभ्यं ह दीयते, अस्मभ्यं ह दीयते। ग्रामस्त्वां ह पश्यति, ग्रामो मां ह पश्यति, युवां ह पश्यति, आवां ह पश्यति, युष्मान् ह पश्यति, अस्मान् ह पश्यति। अह — ग्रामस्तवाह स्वम्, ग्रामो ममाह स्वम्, युवयोरह स्वम्, आवयोरह स्वम्, युष्माकमह स्वम्, अस्माकमह स्वम्। ग्रामस्तुभ्यमह दीयते, ग्रामो मह्यमह दीयते, युवाभ्यामह दीयते, आवाभ्यामह दीयते, युष्मभ्यमह दीयते, अस्मभ्यमह दीयते। ग्रामस्त्वामह पश्यति, ग्रामो मामह पश्यति, युवामह पश्यति, आवामह पश्यति, युष्मानह पश्यति, अस्मानह पश्यति। एव — ग्रामस्तवैव स्वम्, ग्रामो ममैव स्वम्, युवयोरेव स्वम्, आवयोरेव स्वम्, युष्माकमेव स्वम्, अस्माकमेव स्वम्। ग्रामस्तुभ्यमेव दीयते, ग्रामो मह्यमेव दीयते, युवाभ्यामेव दीयते, आवाभ्यामेव दीयते, युष्मभ्यमेव दीयते, अस्मभ्यमेव दीयते। ग्रामस्त्वामेव पश्यति, ग्रामो मामेव पश्यति, युवामेव पश्यति, आवामेव पश्यति, युष्मानेव पश्यति, अस्मानेव पश्यति। युक्तग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम्। युक्तयुक्ते प्रतिषेधो न भवति। ग्रामश्च ते स्वम्। नगरं च मे स्वम्॥ Siddhanta Kaumudi ----------------- चादिपञ्चकयोगे नैते आदेशाः स्युः । हरिस्त्वां मां च रक्षतु । कथं त्वां मां वा न रक्षेदित्यादि । युक्तग्रहणात्साक्षाद्योगेऽयं निषेधः । परम्परासंबन्धे तु आदेशः स्यादेव । हरो हरिश्च मे स्वामी ॥ Balamanorama ------------ **न चवाहाहैवयुक्ते** - न चवाहा । च इत्यव्ययं समुच्चये, वा इति विकल्पे, हा इत्यद्भुते, अह इति खेदे, एव इत्यवधारणे, एतेषां द्वन्द्वः युक्त इति भावे क्तः । तदाह — चादिपञ्चकयोगे इति । पञ्चानामन्यतमेन योगे इत्यर्थः । एते इति । वांनावादय इत्यर्थः ।युष्मदस्मदोः षष्ठी॑त्यादिसूत्रेभ्यस्तत्तदनुवृत्तेरिति भावः । इत्यादीति ।कृष्णो मम हा प्रसीदति॑ । अद्भुतमिदमित्यर्थः ।कृष्णो ममाऽह न प्रसीदति ॑ । अहेति खेदे । कृष्णो ममैव सेव्यः । ननु ' न चवाहाहैवैः' इत्येवास्तु, मास्तु युक्तग्रहणम् । 'वृद्धो यूना' इत्यादिवत्तृतीययैव तल्लाभादित्यत आह — युक्तग्रहणादिति । अत्र चाद्यर्थैः समुच्चयादिभिर्युष्मदस्मदर्थोः साक्षादन्वयस्तत्रैवायं निषेध इत्यर्थः । हरो हरिश्चेति । अत्र 'च' शब्दस्य हरिहरियोः साक्षादन्वयः । समुच्चितयोर्हरिहरियोः स्वामीत्यत्रान्वयः ।स्वामी॑त्यस्य मे इत्यनेनान्वयः । ततश्च चशब्दस्य अस्मच्छब्देन साक्षादन्वयाऽभावान्मेआदेशस्य निषेधो नेति भावः । Tattvabodhini ------------- **न चवाहाहैवयुक्ते** - युक्तग्रहणादिति । यत्र युष्मदस्मदर्थगतान् समुच्चयादींश्चादयो द्योतयन्ति तदा चादिभिः सहाऽर्थद्वारा युष्मदस्मदोः साक्षाद्योगः, तत्रैवायं निषेध इत्यर्थः । हरो हरिश्चेति । अत्रच॑शब्दो हरहरिगतसमुच्चयमाह । हरिहराभ्यां त्स्मदः सम्बन्धो, नतु समुच्चयेनेति न साक्षाद्योगः किंतु परम्परायोग इति न निषेध इति भावः । पश्यार्थैश्चाऽना । अकएव निपातनाद्भावेपघ्राघ्माधे॑डिति शः । दर्शनं पश्यः । तच्चेह ज्ञानमात्रम् ।अदर्शनं लोपः॑इत्यत्र यथा, न तु चाक्षुषज्ञानमेव,अनालोचने॑इति निषेधात् । Padamanjari ----------- चः समुच्चये, वा विकल्पे, ह अहेत्यद्भुते, ह खेदे च, एवोऽवधारणे । एभिर्युक्त इति । एभिर्योगे सतीत्यर्थः । यद्वा - एभिर्युक्ते युष्मदस्मदारर्थ इत्यर्थः । युक्तग्रहणमनर्थकम्, तृतीयानिर्द्देशत एव सिद्धम्, यथा'तुल्यार्थैरतुलोपमाभ्याम्' इत्यत्र ? इत्यत आह - युक्तग्रहणमिति । यदा युष्मदस्मदर्थगतान्समुच्चयादआआश्चादयो द्योतयन्ति, तदा तैस्तयोः साक्षाद्योगः; तत्रैवायं प्रतिषेधो यथा स्यात्, युक्तयुक्ते मा भूदित्येवमर्थ युक्तग्रहणमित्यर्थः । एतदेव युक्तग्रहणं लिङ्गम् - अत्र प्रकरणे युक्तयुक्तस्यापि ग्रहणमिति, तेनोतरः प्रतिषेधो युक्तयुक्तेषु भवति ॥ Nyaas ----- `एभिर्युक्ते` इति। **नपुंसके भावे क्तः** (3.3.114) एभिर्योग इत्यर्थः। अथ वा -`तयोरेव कृत्यक्त खलर्थाः` (3.4.70) इति कर्मणि क्तः। एभिर्युक्ते सम्बद्धे। कस्मिन्? युष्मच्छब्देऽस्मच्छब्दे च। यद्यपि तौ द्विर्वचनान्तौ प्रकृतौ, तथापीह प्रत्येकमभिसम्बन्धादेकवचनं कृतम्। `तव, मम` इति। **युष्मदस्मद्भ्यां ङसोऽश्** (7.1.27) , **तवममौ ङसि** (7.2.96) । `युवयोरावयोः` इति। **युवावौ द्विवचने** (7.2.92) । `युष्माकमस्माकम्` इति। **साम आकम्** (7.1.33) । `तुभ्यं मह्रम्` इति। `ङेप्रथमयोरम्` (7.1.28) इत्यम्, `तुभ्यमहौ ङयि` (7.2.95) । `धुष्मभ्यमस्मभ्यम्` इति। **भ्यसो भ्यम्** (7.1.30) । `त्वां माम्` इति। **त्वमावेकवचने** (7.2.97) इति त्वमादेशौ, **द्वितीयायां च** (7.2.87) इत्यात्त्वम्। `युष्मान्, अस्मान्` इति। `शसो न` (7.1.29) , `पूर्ववदात्त्वम्`। `युक्तग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम्` इति। साक्षादव्यवधानेन चादिभिर्योगः। तस्य प्रतिपत्तिर्यथा स्यादित्येवमर्थ युक्तग्रहणम्। कथं पुनर्युक्तग्रहणे साक्षाद्योगप्रतिपत्तिर्भवति? एवं मन्यते -अपरिसमाप्तत्वादस्य वाक्यस्य तृतीयानिर्देश एव युक्तग्रहणमध्याहरिष्यति, यथा -`तुल्यार्थे रतुलोपमाभ्याम्` (2.3.72) इत्यत्र। तस्माद्युक्तग्रहणं न कर्तव्यमेव? तत्? क्रियते साक्षाद्योगप्रतिपत्तिर्यथा स्यादिति। अन्यस्त्वाह -पदविधिरयम्, पदविधिश्च समर्थानामेव भवति, तत्र पदविधित्वादेव योगे लब्धे यद्युक्तग्रहणं क्रियते तत्? साक्षाद्योगप्रतिपत्तिर्यथा स्यादिति? एतच्चायुक्तम्; असामर्थ्येऽपि निघातादिकार्यं समानवाक्ये भवतीत्युक्तमेतत्। कदा पुनश्चादिभिः साक्षाद्युष्मदस्मदोर्योगः? यदा तदर्थगतान्? समुच्चयादीनर्थास्ते द्योतयन्ति। इहैते चादयः समुच्चयादिना द्योत्येनार्थेनार्थवन्तः, तत्र यदा युष्मदस्मदनुगतानेव समुच्चयादीन्? धर्मान्? द्योतयन्ति, तदा चादिभिः साक्षाद्युष्मदस्मदोर्योगः। यदा तु ग्रामादिसम्बन्ध्यन्तरगताः, तदा युक्तयोगः, न तु साक्षाद्योगः। तत्र युक्तयोगे प्रतिषेधो न भवति -ग्रामश्च ते स्वं नगरञ्च मे स्वमिति। तत्र ग्रामशब्दो नगरशब्दश्च चशब्देन युक्तः; तदर्थगस्तस्य समुच्चयस्य तेन द्योतनात्। युष्मदस्मच्छब्दौ तु ग्रामनगराभ्यां युक्तौ; तयोस्ताभ्यां स्वस्वामिकत्वसम्बन्धस्यार्थस्येह सम्भवात्। ननु च साक्षाद्योगप्रतिपत्त्यर्थं युक्तग्रहणम् -युक्तयुक्ते मा भूदित्येवमर्थं कथं क्रियते, न च चादियोगे प्रतिषेध उच्यमानो युक्तयुक्ते प्राप्नोति, न हि यश्चादिभिर्युक्तयुक्तेन योगः स चादियोगो भवति, तत्कसाक्षाद्योगप्रतिपत्त्यर्थेन युक्तग्रहणेन? एवं तह्र्रेतदेव युक्तग्रहणं ज्ञापयति -इह प्रतिषेधकाण्डे युक्तयुक्तेऽपि प्रतिषेधो भवतीति। तेनोत्तरसूत्रे यद्वक्ष्यते -`पस्यार्थैर्युक्तयुक्तेऽपि प्रतिषेधः` इति तदुपपन्नं भवति॥ Praudhamanorama --------------- **चादिपञ्चकेति।** पञ्चानां मध्येऽन्यतमेन योग इत्यर्थः॥ **युक्त इति।** 'नपुंसके भावे क्तः'॥ Prakriyasarvasvam ----------------- चादिपञ्चकयोगे वांनावादयो न स्युः ॥ आवयोर्युवयोश्चेशस्तत्र वा मम वा हरिः । तव हासौ मम ह स स्फुटं मामेव रक्षतु ॥ ६०६ ॥ अहशब्दच्छन्दसि । एभिः साक्षाद्योगेऽयं निषेधः । युक्तयुक्ते तु न निषेधः । हरिश्च मे स्वामी । अत्र हरेरेव चयोगः ॥