81023: त्वामौ द्वितीयायाः
=========================
**Padacheda:** त्वामौ | S | 1 | 2 |
द्वितीयायाः | S | 6 | 1 |
Sutrartha
---------
****
Vasu English Summary
--------------------
For the Accusative -2nd case singular of युष्मद् and अस्मद् are substituted त्वा and मा respectively (when a word precedes and these substitutes are अनुदात्त).
Vasu English Translation
------------------------
For the Accusative -2nd case singular of युष्मद् and अस्मद् are substituted त्वा and मा respectively (when a word precedes and these substitutes are अनुदात्त).
The word एकवचनस्य is understood here. Thus ग्रामस्त्वा पश्यति, ग्रामो मा पश्यति ॥
Kashika
-------
एकवचनस्येति वर्तते। द्वितीयाया यदेकवचनं तदन्तयोर्युष्मदस्मदोर्यथासंख्यं त्वा मा इत्येतावादेशौ भवतः। ग्रामस्त्वा॒ पश्यति। ग्रामो मा॒ पश्यति॥
Siddhanta Kaumudi
-----------------
द्वितीयैकवचनान्तयोस्त्वा मा एतौ स्तः ॥ श्रीशस्त्वाऽवतु मा पीह दत्तात्ते मेपि शर्म सः । स्वामी ते मेपि स हरिः पातुवामपि नौ विभुः ॥ 1 ॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः । सोऽव्याद्वो नः शिवं वो नो दद्यात्सेव्योऽत्र वः स नः ॥ 2 ॥ पदात्परयोः किम् । वाक्यादौ माभूत् । त्वां पातु । मां पातु । अपादादौ किम् ॥ वेदैरशेषैः संवेद्योऽस्मान्कृष्णः सर्वदाऽवतु ॥ स्थग्रहणाच्छ्रूयमाणविभक्तिकयोरेव । नेह । इति युष्मत्पुत्रो ब्रवीति । इत्यस्मत्पुत्रो ब्रवीति ॥ (वार्तिकम्) । (वार्तिकम्) ॥ तेनेह न । ओदनं पच तव भविष्यति । इह तु स्यादेव । शालीनां ते ओदनं दास्यामीति । (वार्तिकम्) ॥ अन्वादेसे तु नित्यं स्युः । धाता ते भक्तोऽस्ति । धाता तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव ॥
Laghu Siddhanta Kaumudi
-----------------------
द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ स्तः॥
श्रीशस्तवाऽवतु मापीह दत्तात्ते मेऽपि शर्म सः।
स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः॥
सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः।
सोऽव्याद्वो नः शिवं वो नो दद्यात् सेव्योऽत्र वः स नः॥
**एकवाक्ये युष्मदस्मदादेशा वक्तव्याः** (वार्त्तिकम्) । एकतिङ् वाक्यम्। ओदनं पच तव भविष्यति। **एते वान्नावादयोऽनन्वादेशे वा वक्तव्याः** (वार्त्तिकम्)। अन्वादेशे तु नित्यं स्युः। धाता ते भक्तोऽस्ति, धाता तव भक्तोऽस्ति वा। तस्मै ते नम इत्येव॥ सुपात्, सुपाद्॥ सुपदौ॥
Balamanorama
------------
**त्वामौ द्वितीयायाः** - त्वामौ द्वितीयायाः । त्वाश्च माश्चेति विग्रहः । एकवचनस्येत्यनुवर्तते । तदाह-द्वितीयेत्यादिना ।अथ विभक्तिक्रमकॢप्तद्वितीयाचतुर्थीषष्ठीक्रमेण एकद्विबहुवचनक्रमेण चोदाहरति-श्रीश इत्यादि ।तत्रश्रीशस्त्वावतु मापीहे॑ति प्रथमः पादः । श्रिया ईशः==पतिः — विष्णुः, त्वा मा अपि पातु इत्यन्वयः । अत्र त्वां, मामिति द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ । दत्तात्ते मेऽपि शर्म स इति । स श्रीशः ते मेऽपि शर्म सुखं दत्तादित्यन्वयः । 'डु दाञ् दाने' आशिषि लोटि दत्तादिति रूपम् ।दद्या॑दिति क्वचित्पाठः । अत्र तुभ्यं मह्रमिति चतुर्थ्येकवचनान्तयोस्ते मे इत्यादेशौ । स्वामी ते मेऽपि स हरिरिति । अत्र तव मम इति षष्ठएकवचनान्तयोस्ते मे आदेशौ । पातु वामपि नौ विभुरिति । विभुः=सर्वव्यापको वां नौ अपि पातु इत्यन्वयः । अत्र युवामावाम् इति द्वितीयाद्विवचनयोर्वां नौ इत्यादेशौ । सुखं वां नौ ददात्वीश इति । 'नौ' इत्यनन्तरमपिशब्दोऽध्याहार्यः । अत् युवाभ्यामावाभ्याम् इति चतुर्थीद्विवचनान्तयोर्वांनावौ । पतिर्वामपि नौ हरिरिति । अत्र युवयोरावयोरिति षष्ठीद्विवचनान्तयोर्वांनावौ । सोऽव्याद्वो न इति । सः=हरि वः नः अपि अव्यात्=रक्षतादित्यर्थः । अत्र युष्मान् अस्मान् इति द्वितीयाबहुवचनान्तयोर्वस्नसौ । शिवं वो नो दद्यादिति । शिवमिति शुभमुच्यते । 'न' इत्यनन्तरम्अपी॑त्यध्याहार्यम् । अत्र युष्मभ्यम्, अस्मभ्यम् इति चतुर्थीबहुवचनान्तयोर्वस्नसौ । सेव्योऽत्र वः स न इति । स हरिः वः नः-अपि सेव्यः=भजनीयः इत्यर्थः ।कृत्यानां कर्तरि वा॑ इति षष्ठी । अत्र युष्माकम्, अस्माकम् इति षष्ठीबहुवचनान्तयोर्वस्नसौ । त्वां पातु मां पात्विति । अत्र युष्मदस्मोः पदात्परत्वाऽभावात्त्वामौ द्वितीयायाः॑ इति न भवतीत्यर्थः । अद्यप्यत्र अस्मच्छब्दस्य पात्विति पदात्परत्वमस्ति, तथापि भिन्नकालं वाक्यद्वयमिह विवक्षितमित्यदोषः । संवेद्योऽस्मानिति । अत्राऽस्मच्छब्दस्य पादादौ स्थितत्वान्नादेशः । यद्यप्यनुष्टुप्छन्दस्कोऽयं श्लोकः, तत्र एकैकः पाटोऽष्टाक्षर इति स्थितिः । तत्र सन्ध्यभावेअस्मान्कृष्णः सर्वदाऽवतु #इत्यस्य नवाक्षरत्वान्न पादत्वम् । कृते तु सन्धौ ओकारस्य परादित्वे सति अष्टाक्षरत्व व्याघातः । 'संवेद्य' इत्यस्य पदत्वाऽभावादस्मदः पदात्परत्वाऽभावश्च । पूर्वान्तत्वे तुस्मा॑नित्यस्य पादादिस्थितस्य नास्मच्छब्दरूपता, तथापि 'संवेद्यो' इत्येकादेशविशिष्टस्य पूर्वान्तत्वात्पदत्वम् ।स्मानित्यस्य तु एकदेशविकृतन्यायेन द्वितीयान्तास्मच्छब्दरूपत्वम् । वस्स्तुतस्तु ओकारस्य पूर्वान्तत्वात्संवेद्यो इत्यस्य पदत्वम्, स्मानित्यादेरष्टाक्षरत्वं च । परादित्वाच्चास्मच्छब्दरूपता ।उभयत आश्रयणे नान्तादिव॑दिति तु नास्तीतीण्धातौ निरूपयिष्यामः । केचित्तुअपदादौ किं, युष्मान् रक्षतु गोविन्दोऽस्मान् कृष्णस्सर्वदावतु॑ इति प्रत्युदाहरन्ति । तन्नि, युष्मानित्यस्य पदात्परत्वाऽभावादेवाऽप्राप्तेः । अस्मानित्यस्य तु पदात्परत्वेऽपि समानवाक्यस्थपदात्परत्वाऽभावात् । ननुयुष्मदस्मदोः षष्ठीचतुर्थीद्वितीयान्तयोः॑ इत्येव सूत्र्यतां, कि स्थग्रहणेन । स्थग्रहणे ।ञपि कथञ्चित्तस्यैवार्थस्य लामादित्यत आह — हासीरिति गम्यते । ततश्च षष्ठीचतुर्थीद्वितीयास्तिष्ठतः=न परित्यजत इति व्युत्पत्तिर्विवक्षिता । षष्ठआदिविभक्तीरपरित्यजतोरित्यर्थः । अलुप्तषष्ठआदिविभक्तिविशिष्ठयोरिति फलतीति भावः । इति युष्मत्पुत्र इति । पदात्परत्वं सम्पादयितुम् 'इति' शब्दः । युवयोर्युष्माकं वा पुत्रः, आवयोरस्माकं वा पुत्र इति विग्रहः । अत्र विभक्तेर्लुका लुप्तत्वात्श्रूयमाणविभक्तिकत्वाऽभावान्नादेशप्रवृत्तिः । तव पुत्रो मम पुत्र इति विग्रहस्तु न,प्रत्ययोत्तरपदयोश्चे॑ति तत्र त्वमादेशयोर्वक्ष्यमाणत्वात् । समानवाक्ये #इति । निमित्तनिमित्तिनोरेकवाक्यस्थत्वे इत्यर्थः । निघातशब्दोऽनुदात्तवाची । एकतिङिति । तिङित्यनेन तिङन्तं विवक्षितम् । एकस्तिङ् यस्येति विग्रहः । इदं च वाक्यलक्षणमेतच्चास्त्रोपयोग्येव । तेनपश्य मृगो धावती॑त्यादौ नाऽव्याप्तिरिति समर्थसूत्रे भाष्पे स्पष्टम् । ओदनमिति.॒ओदनं पचे॑त्येकं वाक्यम् ।तव भविष्यती॑त्यपरं वाक्यम् । ततश्च तवेति युष्मच्छब्दस्य भिन्नवाक्यस्थात्पदात्परत्वाऽभावान्नादेश इति भावः । शालीनामिति । व्रीहीणामित्यर्थः । प्रकृतिविकारभावे षष्ठी ।एते वांनावादय इति । इदंच 'सपूर्वायाः' इति सूत्रे भाष्ये स्थितम् । धातेति । महादेवं प्रति वचनमेतत्अन्वादेशे तु नित्य॑मित्यस्योदाहरणमाह — तस्यमै ते नम इत्येवेति । अत्रयोऽग्निर्हव्यवाट् य इन्द्रो वज्रबाहुः॑ इत्यादिपूर्ववाक्यं द्रष्टव्यम् । एवंच किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं बोधयितुं पुनरूपादानादन्वादेशोऽयमिति तत्र नित्य एवादेश इति भावः ।
Tattvabodhini
-------------
**त्वामौ द्वितीयायाः** - उक्तानादेशान्वचनक्रमेणोदाहरति — श्रीश इत्यादिना । स्मी ते मेऽपीति ।स्वामीआराधिपती॑ति षष्ठीसप्तम्योर्विधानादिह षष्ठी । द्विवचनान्तयोरुदाहरणमाह — पातु वामित्यादिना । बहुवचनान्तयोस्तु — सोऽव्याव्दोन इत्यदि । सेव्योऽत्र वः स न इति ।अर्हे कृत्यतृचश्चे॑ति ण्यत् ।कृत्यानाम कर्तरि वे॑ति षष्ठी । वेदैरशेषैरिति.॒युष्मान् रक्षतु गोविन्दः॑इति प्राचः पाठस्तूपेक्षितः,युष्मा॑नित्यस्य पदात्परत्वाऽभावादेवाऽप्राप्तेः ।अस्मा॑नित्यस्य तु पदात्परत्वेऽपि समानवाक्यस्थपदात्परत्वाऽभावात् । ननुयुष्मदस्मदोः षष्ठीचतुर्थीद्वितीयाना॑मिति सूत्र्यतां, विशेषणेन तदन्तविधौ षष्ठआद्यन्तयोर्युष्मदस्मदोः पर्यवस्यति । न च॒स्थ॑ग्रहणाऽभावे युष्मदस्मदोः सम्बन्धिनीनां षष्ठीचतुर्थीद्वितियानां वानावावित्यर्थः स्यादिति वाच्यं,सर्वस्य पदस्ये॑त्यनुवर्तनादतो व्याचष्टेस्थग्रहणादिति । तिष्ठतिरिहाऽहानौ वर्तते । यथासमये तिष्ठ सुग्रीवे॑ति । समयं मा हासीरिति गम्यते । तेन षष्ठयादीनविजहतोरेव युष्मदस्मदोरादेशा इत्यर्थः । इतियुष्मत्पुत्र इति । युवयोः पुत्रो युष्माकं पुत्र इति वा विग्रहः, न तु तव पुत्रं इति । तथा हि सतित्वत्पुत्र॑इत्येव स्यात् । एवमस्मत्पुत्र इत्यत्राप्यूह्रम् । पदात्परत्वं संपादयितुम् — इतिशब्दः । ननु राज्ञोः पुरुषो राज्ञां पुरुष इति विग्रहेराजपुरुष॑इति नेष्यत इति सुद्धान्तविरोधाद्युष्मत्पुत्रोऽस्मत्पुत्र इत्यत्र युवयोर्युष्माकमित्यादिविग्रहो नसंभवतीति चेदत्राहुः — यत्र वृत्तौ सङ्ख्यविशेषबोधकं प्रमाणं नास्ति तत्रैवैकत्वसङ्ख्याऽऽश्रूयते, यथाराजपुरुष॑इति । न हिराजपुरुष॑इत्यत्र विभक्तौ निवृत्तायां राजपदार्थे द्वित्वादिप्रत्यायकं किंचिदस्ति । यत्र पुनः सङ्ख्याभेदगमकमर्थप्रकरणाद्यस्ति, भवति तत्र द्विवचनबहुवचनयोरपि वृत्तिः । प्रकृते त्वेकवचनान्तेव विग्रहे प्रत्ययोत्तरपदयोश्चे॒ति त्वमागेशप्रसङ्गादर्थाद्द्विवचनबहुवचनान्तेनेति विग्रहे वृत्तिर्भविष्यतीति । अर्थः -अर्थाद्यथा, — मुद्गैः क्रीतो मौद्गिकः । न ह्रेकेन मुद्गेन द्वाभ्यां वा मुद्गाभ्यां क्रयणं संभवति । प्रकरणाद्यथा॒भवाद्गिरामवसरप्रदानाय वचांसि नः॑ । भवतोरिगिरामिति तत्र ह्रर्थः । समानवाक्य इति ।देवदत्त अस्त्ययं दण्डो, देवदत्त हराऽनेने॑त्यत्रदण्ड॑इत्येतत्पूर्ववाक्यस्थमिति समानवाक्यस्थत्वाऽभावादामन्त्रितनिघातो न भवति । एकातिङिति । एकं तिङन्तं यत्रेत#इ बहुव्रीहिः । ननु ओदनस्त्वया पक्तव्यस्तव भविष्यतीत्यत्रातिप्रसङ्गः, पक्तव्योऽस्तीत्यध्याहारेण भिन्नवाक्यतासमर्थनेऽपि पश्य मृगो धावतीत्यादावेकवाक्यत्वव्यवहारो न स्यात् ।सत्यम् । प्रकृतोपयोगित्वेनेदमुक्तं ।पश्य मृग॑इत्यादौ तुअर्थैकत्वादेकं वाक्यं साकाङ्क्षञ्चेद्विभागे स्या॑दिति शास्त्रान्तरप्रसिद्धमेवेत्येक । अन्ये तु — — ॒अख्यातं सविशेषणं वाक्य॑मिति वार्तिककारवचनपर्यालोचनयाएकति॑ङित्यत्र तिङन्तं विशेष्यसमर्तकं विवक्षितं, ततश्चपश्य मृगो धावती॑त्यत्र तिङन्तद्वये सत्यपि पश्येत्यस्यैव विशेष्यसमर्पकत्वान्नोक्तदोष इत्याहुः । एकशब्दः समानवचनो न तु सङ्ख्यावाची । बहुव्रीहिश्चायम् । तेनब्राऊहि ब्राऊहि देवदत्ते॑त्यत्रवाक्यत्वादामश्चितनिघातः सिध्यतीति समर्थसूत्रे कैयटः ।युष्मदस्मदोर्विभाषा अनन्वादेशे॑इति वार्तिकमर्थतः पठति एते वांनावादय इत । यद्यपिसपूर्वायाः प्रथमाया विभाषे॑त्यत्रैतत्पठते तथाप्यविशेषेण विकल्पोऽयं विधीयते इत्याशयेन सपूर्वत्वाऽभावेऽपि विकल्पमुदाहरति — धाता ते भक्त इति । अन्वादेशे तु नित्यमुदाहरति — तस्मै ते नम इत्येवेति ।तुल्यार्थै॑रित्यादिवन्न चवाहाहैवैरिति तृतीयानिर्देशेनाऽपि युक्तार्थलाभेयुक्त॑ग्रहणमनर्थकमित्यत आह —
Nyaas
-----
त्वामौ द्वितीयायाः। त्वाश्च माश्चेति विग्रहः। एकवचनस्येत्यनुवर्तते। तदाह-द्वितीयेत्यादिना।अथ विभक्तिक्रमकॢप्तद्वितीयाचतुर्थीषष्ठीक्रमेण एकद्विबहुवचनक्रमेण चोदाहरति-श्रीश इत्यादि। `तत्र `श्रीशस्त्वावतु मापीहे`ति प्रथमः पादः। श्रिया ईशः==पतिः -विष्णुः, त्वा मा अपि पातु इत्यन्वयः। अत्र त्वां, मामिति द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ। दत्तात्ते मेऽपि शर्म स इति। स श्रीशः ते मेऽपि शर्म सुखं दत्तादित्यन्वयः। `डु दाञ् दाने` आशिषि लोटि दत्तादिति रूपम्। `दद्या`दिति क्वचित्पाठः। अत्र तुभ्यं मह्रमिति चतुर्थ्येकवचनान्तयोस्ते मे इत्यादेशौ। स्वामी ते मेऽपि स हरिरिति। अत्र तव मम इति षष्ठएकवचनान्तयोस्ते मे आदेशौ। पातु वामपि नौ विभुरिति। विभुः=सर्वव्यापको वां नौ अपि पातु इत्यन्वयः। अत्र युवामावाम् इति द्वितीयाद्विवचनयोर्वां नौ इत्यादेशौ। सुखं वां नौ ददात्वीश इति। `नौ` इत्यनन्तरमपिशब्दोऽध्याहार्यः। अत् युवाभ्यामावाभ्याम् इति चतुर्थीद्विवचनान्तयोर्वांनावौ। पतिर्वामपि नौ हरिरिति। अत्र युवयोरावयोरिति षष्ठीद्विवचनान्तयोर्वांनावौ। सोऽव्याद्वो न इति। सः=हरि वः नः अपि अव्यात्=रक्षतादित्यर्थः। अत्र युष्मान् अस्मान् इति द्वितीयाबहुवचनान्तयोर्वस्नसौ। शिवं वो नो दद्यादिति। शिवमिति शुभमुच्यते। `न` इत्यनन्तरम् `अपी`त्यध्याहार्यम्। अत्र युष्मभ्यम्, अस्मभ्यम् इति चतुर्थीबहुवचनान्तयोर्वस्नसौ। सेव्योऽत्र वः स न इति। स हरिः वः नः-अपि सेव्यः=भजनीयः इत्यर्थः। `कृत्यानां कर्तरि वा` इति षष्ठी। अत्र युष्माकम्, अस्माकम् इति षष्ठीबहुवचनान्तयोर्वस्नसौ। त्वां पातु मां पात्विति। अत्र युष्मदस्मोः पदात्परत्वाऽभावात् `त्वामौ द्वितीयायाः` इति न भवतीत्यर्थः। अद्यप्यत्र अस्मच्छब्दस्य पात्विति पदात्परत्वमस्ति, तथापि भिन्नकालं वाक्यद्वयमिह विवक्षितमित्यदोषः। संवेद्योऽस्मानिति। अत्राऽस्मच्छब्दस्य पादादौ स्थितत्वान्नादेशः। यद्यप्यनुष्टुप्छन्दस्कोऽयं श्लोकः, तत्र एकैकः पाटोऽष्टाक्षर इति स्थितिः। तत्र सन्ध्यभावे `अस्मान्कृष्णः सर्वदाऽवतु #इत्यस्य नवाक्षरत्वान्न पादत्वम्। कृते तु सन्धौ ओकारस्य परादित्वे सति अष्टाक्षरत्व व्याघातः। `संवेद्य` इत्यस्य पदत्वाऽभावादस्मदः पदात्परत्वाऽभावश्च। पूर्वान्तत्वे तु `स्मा`नित्यस्य पादादिस्थितस्य नास्मच्छब्दरूपता, तथापि `संवेद्यो` इत्येकादेशविशिष्टस्य पूर्वान्तत्वात्पदत्वम्। `स्मानित्यस्य तु एकदेशविकृतन्यायेन द्वितीयान्तास्मच्छब्दरूपत्वम्। वस्स्तुतस्तु ओकारस्य पूर्वान्तत्वात्संवेद्यो इत्यस्य पदत्वम्, स्मानित्यादेरष्टाक्षरत्वं च। परादित्वाच्चास्मच्छब्दरूपता। `उभयत आश्रयणे नान्तादिव`दिति तु नास्तीतीण्धातौ निरूपयिष्यामः। केचित्तु `अपदादौ किं, युष्मान् रक्षतु गोविन्दोऽस्मान् कृष्णस्सर्वदावतु` इति प्रत्युदाहरन्ति। तन्नि, युष्मानित्यस्य पदात्परत्वाऽभावादेवाऽप्राप्तेः। अस्मानित्यस्य तु पदात्परत्वेऽपि समानवाक्यस्थपदात्परत्वाऽभावात्। ननु `युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयान्तयोः` इत्येव सूत्र्यतां, कि स्थग्रहणेन। स्थग्रहणे।ञपि कथञ्चित्तस्यैवार्थस्य लामादित्यत आह -हासीरिति गम्यते। ततश्च षष्ठीचतुर्थीद्वितीयास्तिष्ठतः=न परित्यजत इति व्युत्पत्तिर्विवक्षिता। षष्ठआदिविभक्तीरपरित्यजतोरित्यर्थः। अलुप्तषष्ठआदिविभक्तिविशिष्ठयोरिति फलतीति भावः। इति युष्मत्पुत्र इति। पदात्परत्वं सम्पादयितुम् `इति` शब्दः। युवयोर्युष्माकं वा पुत्रः, आवयोरस्माकं वा पुत्र इति विग्रहः। अत्र विभक्तेर्लुका लुप्तत्वात्श्रूयमाणविभक्तिकत्वाऽभावान्नादेशप्रवृत्तिः। तव पुत्रो मम पुत्र इति विग्रहस्तु न, `प्रत्ययोत्तरपदयोश्चे`ति तत्र त्वमादेशयोर्वक्ष्यमाणत्वात्। समानवाक्ये #इति। निमित्तनिमित्तिनोरेकवाक्यस्थत्वे इत्यर्थः। निघातशब्दोऽनुदात्तवाची। एकतिङिति। तिङित्यनेन तिङन्तं विवक्षितम्। एकस्तिङ् यस्येति विग्रहः। इदं च वाक्यलक्षणमेतच्चास्त्रोपयोग्येव। तेन `पश्य मृगो धावती`त्यादौ नाऽव्याप्तिरिति समर्थसूत्रे भाष्पे स्पष्टम्। ओदनमिति।`ओदनं पचे`त्येकं वाक्यम्। `तव भविष्यती`त्यपरं वाक्यम्। ततश्च तवेति युष्मच्छब्दस्य भिन्नवाक्यस्थात्पदात्परत्वाऽभावान्नादेश इति भावः। शालीनामिति। व्रीहीणामित्यर्थः। प्रकृतिविकारभावे षष्ठी।एते वांनावादय इति। इदंच `सपूर्वायाः` इति सूत्रे भाष्ये स्थितम्। धातेति। महादेवं प्रति वचनमेतत् `अन्वादेशे तु नित्य`मित्यस्योदाहरणमाह -तस्यमै ते नम इत्येवेति। अत्र `योऽग्निर्हव्यवाट् य इन्द्रो वज्रबाहुः` इत्यादिपूर्ववाक्यं द्रष्टव्यम्। एवंच किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं बोधयितुं पुनरूपादानादन्वादेशोऽयमिति तत्र नित्य एवादेश इति भावः।
Praudhamanorama
---------------
**वेदैरशेषैरिति।** युष्मान् रक्षतु गोविन्दोऽस्मान् कृष्णः सर्वदाऽवतु। इति तु प्राचः पाठस्त्यक्तः, अस्मानित्यस्य समानवाक्यस्थत्वाभावादेवाऽप्राप्तेः। **स्थग्रहणादिति।** तिष्ठतिरिहाऽहानौ वर्तते। यथा- समये तिष्ठ सुग्रीवेति, समयं मा हासीरिति गम्यते। तेन षष्ठ्यादीनजहतोरेवादेशा इत्यर्थः। **इति युष्मत्पुत्र इति।** युवयोर्युष्माकं वा पुत्र इति विग्रहः। पदात् परत्वं सम्पादयितुमिति शब्दः। प्राचा तु नासौ प्रयुक्तः। तत्र पदात् परत्वाभावादेवादेशो न भविष्यतीति किं स्थग्रहणेन॥
Prakriyasarvasvam
-----------------
तादृशोरनयोर्द्वितीयैकवचनान्तयोः त्वा मा इति स्तः । कृष्णस्त्वावतु मापीह दद्या ते मेऽपि शर्म सः । स्वामी ते मेऽपि स हरिः पातु वां नावपि प्रभुः ॥ ६०१ ॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नो हरिः । पातु वो नो मुकुन्दोऽसौ सुखं वो नो ददात्वयम् ॥ त्राता वो नः स कंसारिरित्येतेषामुदाहृतिः । ६०२ ॥ स्थग्रहाद् विभक्तिलोपे न । युवयोः पुत्रः युष्मत्पुत्रः । अत्र वां पुत्र इति न । पदात् परयोरित्युक्तेरादावेव न । त्वां पातु । पादादावपि नो शौरिरस्माकं कुलदैवतम् । वाक्यादावपि नैवेष्टं हे कृष्ण जय मामव ॥ ६०३ ॥ अत्र मावेति मादेशाभावः ॥
Sudha
-----
त्वामाविति । त्वाश्च माश्चेति विग्रहः । एकवचनस्येत्यनुवर्तते । तदाह - द्वितीयेत्यादिना । श्रीशस्त्वावतु मापीहेति । श्रीशः-विष्णुः, त्वा-त्वाम्, मा अपि-मामपि, पातु – रक्षतु । अत्र त्वाम्, माम् इति द्वितीयैकवचनान्तयोः स्थाने **त्वामौ द्वितीयायाः**(8.1.23) इति त्वामावादेशौ स्तः । दत्तात्ते मेऽपि शर्म सः । सः-श्रीशः, ते-तुभ्यम्, मे-मह्यम्, अपि शर्म-सुखम्, दत्तात्-ददातु । अत्र चतुर्थ्येकवचनान्तयोः तुभ्यम् मह्यम्, अनयोः स्थाने **तेमयावेकवचनस्य**(8.1.22) इति ते मे आदेशौ । स्वामी ते मेऽपि स हरिः । सः हरिः ते-तव, मे-मम स्वामी-प्रभुरित्यर्थः । अत्र तव मम इति षष्ठ्येकवचनान्तयोः स्थाने **तेमयावेकवचनस्य**(8.1.22) इति ते मे आदेशः । पातु वामपि नौ विभुः । विभुः-सर्वव्यापको हरिः, वाम्-युवाम्, नौ-आवाम् अपि पातु-रक्षतु, इत्यर्थः । अत्र युवाम्, आवाम् इति द्वितीयाद्विवचनयोः स्थाने **युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ**(8.1.20) इति वां नौ आदेशौ भवतः । सुखं वां नौ ददात्वीशः । 'ईशः वां-युवाभ्याम्, नौ-आवाभ्याम्, सुखं ददातु' इत्यर्थः । अत्र युवाभ्याम्, आवाभ्याम्, इति चतुर्थीद्विवचनान्तयोः स्थाने **युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ**(8.1.20) इति वां नौ इत्यादेशौ स्तः । पतिर्वामपि नौ हरिः । हरिः वाम्-युवयोः, नावपि-आवयोरपि, पतिः स्वामीत्यर्थः । अत्र युवयोः, आवयोः इति षष्ठीद्विवचनान्तयोः स्थाने **युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ**(8.1.20) इति वां नावौ इत्यादेशौ स्तः । सोऽव्याद्वो न इति । सः वः-युष्मान् नः-अस्मान्, अव्या रक्षत्वित्यर्थः । अत्र-युष्मान् अस्मान् इति बहुत्वविशिष्टद्वितीयान्तयोः स्थाने **बहुवचनस्य वस्नसौ**(8.1.21) इति 'वस्नसौ' स्तः । शिवं वो न इति । सः वः-युष्मभ्यम्, नः-अस्मभ्यम्, शिवं-कल्याणं, दद्यात् । अत्र 'युष्मभ्यम्', 'अस्मभ्यम्' इति चतुर्थीबहुवचनान्तयोः स्थाने **बहुवचनस्य वस्नसौ**(8.1.21) इति वस्नसौ स्तः । सेव्योऽत्र वः स नः इति । अत्र-संसारे, सः-हरिः, वः-युष्माकम्, नः-अस्माकम्, सेव्यः-भजनीयः । अत्र युष्माकम् अस्माकम् इतिषष्ठीबहुवचनान्तयोः स्थाने **बहुवचनस्य वस्नसौ**(8.1.21) इति वस्नसो स्तः । एकवाक्ये इति । निमित्तनिमित्तिनोरेकवाक्यस्थत्वे इत्यर्थः । एकतिङिति । तिङित्यनेन तिङन्तं विवक्षितम् । अस्माकम्, एकः तिङ् यस्येति विग्रहः । धाता ते भक्तोऽस्तीति । अत्र इत्यनेन तव स्थाने ते आदेशो विहितः । यत्र ते आदेशो न भवति तत्र धाता तव भक्तोऽस्तीति भवत्येव । तस्मै ते नमः इत्येवेति । अत्र अन्वादेशत्वान्नित्य आदेशो जायते । सुपात्, सुपाद । शोभनौ पादौ यस्य इति विग्रहः । सुपाद् + सु इत्यत्र अनुबन्धलोपे **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति सस्य लोपे **वाऽवसाने**(8.4.56) इति दस्य तत्वे च कृते 'सुपात्' इति । चर्त्वाभावपक्षे - 'सुपाद्' इति ।
Sutra Prayogas
--------------
* **त्वा** (किरातार्जुनीयम्): `त्वामौ द्वितीयायाः` इति त्वादेशः।
* **त्वा** (शिशुपालवधम्): `त्वामौ द्वितीयायाः` इति त्वादेशः।
* **त्वा** (भट्टिकाव्यम्): `त्वा-मौ द्वितीया- याः` इत्याष्टमिकलक्षणेन त्वादेशः।