81009: एकं बहुव्रीहिवत् ======================= **Padacheda:** एकम् | S | 1 | 1 | बहुव्रीहिवत् | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- When एक is repeated, it is treated like a member of a बहुव्रीहि समास । Vasu English Translation ------------------------ When एक is repeated, it is treated like a member of a बहुव्रीहि समास । The making it a *Bahuvrihi* is for the sake of eliding the case-affix, and treating the word as a masculine, even when it refers to a feminine. Thus ए꣡कैकमक्षरं पठति (not एकमेकम्), ए꣡कैकयाहुत्या जुहोति (not एकयैकया). The accent is regulated by (6.2.1). the case-affix is elided by (2.4.71), and masculinising by (6.3.34). This double word एकैक should not however be treated like a *Bahuvrihi* for the purposes of the application of the following three rules, (1) The *sutra* (1.1.29) by which pronouns are not declined as pronouns when members of a *Bahuvrihi* compound. The word एकैक however is declined like a Pronoun, as एकैकस्मै ॥ For *sutra* (1.1.29) applies to a compound which is really a *Bahuvrihi*, and not to a word-form which is treated like a *Bahuvrihi*. The repetition of the word *Bahuvrihi* in that *sutra*, though its *anuvritti* was understood from the preceding one; indicates this. (2) The application of the rule of accent. Thus by the following *sutra*, a word is repeated when a mental pain or affliction over something is expressed. Thus न न करोति, सुसुजागर्ति ॥ This double-word is treated like a *Bahuvrihi*, but not for the purposes of accent. For by (6.2.172) a *Bahuvrihi* preceded by न or सु gets acute on the final, but not so नन or सुसु ॥ Here four rules of accent present themselves Ist (6.1.223) ordaining acute on the final, 2nd (6.2.1) the first member retaining its accent, 3rd (6.2.172) already mentioned, 4th (8.1.3) by which the second member becomes *anudatta*. The rule (6.2.1) however regulates the accent, in supersession of the other three. (3) The third rule which does not apply to this *Bahuvrihi*-*vat* एकैक is the rule of *samasanta* affixing. Thus ऋक् ॠक्, पूः पूः (doubled by (8.1.10)) do not get the *samasanta* affix अ by (5.4.74). Bhashya ------- एकं बहुव्रीहिवत् इह कस्माद्बहुव्रीहिवद्भावो न भवति-एक इति?॥ एकस्य द्विर्वचनसम्बन्धेन(3) बहुव्रीहिवद्भाव उच्यते न चाऽत्र द्विर्वचनं पश्यामः॥ एकस्य द्विर्वचनसंबन्धेनेति चेदर्थनिर्देशः(1)॥ एकस्य द्विर्वचनसंबन्धेनेति चेदर्थनिर्देशः कर्तव्यः। द्विर्वचनसंबन्धेनेति चेदर्थनिर्देशः कर्तव्यः। द्विर्वचनमपि ह्यत्र कस्मान्न भवति तस्माद्वाच्यम्-अस्मिन्नर्थे द्वे भवतो बहुव्रीहिवच्चेति॥ न वा वीप्साधिकारात्॥ न वा वक्तव्यम्॥ किं कारणम्?॥ वीप्साधिकारात्। नित्यवीप्सयोरिति वर्तते॥ अथ बहुव्रीहिवत्त्वे किं प्रयोजनम्?॥ बहुव्रीहिवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावौ॥ (बहुव्रीहिवत्त्वे सुब्लोपपुंवद्भावौ प्रयोजनम्(2))। सुब्लोपः- एकैकम्(1)। पुंवद्भावः-गतगता॥ यद्येवम्-॥ सर्वनामस्वरसमासान्तेषु दोषः॥ सर्वनामस्वरसमासान्तेषु दोषो भवति। (सर्वनाम-)सर्वनामविधौ दोषो भवति-एकैकस्मै। न बहुव्रीहाविति प्रतिषेधः प्राप्नोति। सर्वनाम। स्वर-नन(2) सुसु। नञ्ञ्सुभ्यामित्येष स्वरः प्राप्नोति। स्वर॥ समासान्त ऋगृक्। पूः पूः। ऋक्पूरब्धूःपथामानक्षे इति समासान्तः प्राप्नोति॥ सर्वनामविधौ तावन्न दोषः। उक्तं तत्र बहुव्रीहिग्रहणस्य प्रयोजनम्-बहुव्रीहिरेव यो बहुव्रीहिस्तत्र प्रतिषेधो यथा स्याद्बहुव्रीहिवद्भावेन यो बहुव्रीहिस्तत्र मा भूदिति। स्वरसमासान्तयोरपि-प्रकृतं समासग्रहणमनुवर्तते, तेन(1) बहुव्रीहिं विशेषयिष्यामः-समासो यो बहुव्रीहि(2)रिति॥ Kashika ------- एकमित्येतत् शब्दरूपं द्विरुक्तं बहुव्रीहिवद् भवति। बहुव्रीहिवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावौ। एकै॑कमक्षरं पठति। एक॑ैकयाहुत्या जुहोति। सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्ताः समासाधिकारविहिते बहुव्रीहौ विज्ञायन्ते। तेनातिदेशिके बहुव्रीहौ न भवन्ति। एकै॑कस्मै। **न बहुव्रीहौ** (१.१.२९) इति प्रतिषेधो न भवति, बहुव्रीहिरेव यो बहुव्रीहिरिति विज्ञानात्। नन॑, सुसु॑। **नञ्सुभ्याम्** (६.२.१७२) इत्यन्तोदात्तत्वं न भवति। ऋग्ऋक्, पूःपूः। **ऋक्पूः०** (५.४.७४) इति समासान्तो न भवति॥ Siddhanta Kaumudi ----------------- द्विरुक्तः एकशब्दो बहुव्रीहिवत्स्यात् । तेन सुब्लोपपुंवद्भावौ । एकैकमक्षरम् । इह द्वयोरपि सुपोर्लुकि कृते बहुव्रीहिवद्भावादेव प्रातिपदिकत्वात्समुदायात्सुप् । एकैकया आहुत्या । इह पूर्वभागे पुंवद्भावादवग्रहे विशेषः । 'न बहुव्रीहौ' (SK222) इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । तेनातिदिष्टबहुव्रीहौ सर्वनामतास्त्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत् । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विग्रहे निषेधकं न तु बहुव्रीहावितीहातिदेशशङ्कैव नास्ति । एकैकस्मै देहि ॥ Balamanorama ------------ **एकं बहुव्रीहिवत्** - एकं बहुव्रीहिवत् । द्विरुक्त इति । द्विर्वचनं प्राप्त इत्यर्थः । एतच्च प्रकरणाल्लभ्यते,वीप्सामात्रविषयमिद॑मिति भाष्याच्च । तेनेति । बहुव्रीहिवत्त्वेन सुब्लोपपुंवद्भावौ सिध्यत इत्यर्थः । तत्र सुब्लोपमुदाहरति-एकैकमिति । इहेति ।एकैक॑मित्यत्र एकमित्यस्य द्विर्वचने सति, एकमेकमिति स्थिते सुपो लुकि, समुदायात्सुबित्यन्वयः । ननुयत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैवे॑ति नियमेन समुदायस्य प्रातिपदिकत्वाऽभावात्कथमिह सुपो लुक्, कथं वा समुदायात्सुबित्यत आह — बहुव्रीहिवद्भावादेव प्रातिपदिकत्वादिति । एतच्चसुपोर्लुकी॑त्यत्र,समुदायात्सु॑बित्यत्र च मध्यमणिन्यायेनान्वेति । अथ पुंवत्त्वेऽप्युदाहरति — एकैकयाऽऽहुत्येति ।एकये॑त्यस्य द्विर्वचने सति एकया — एकयेति स्थिते,बहुव्रीहिवत्त्वेन समुदायस्य प्रातिपदिकत्वात्सुपोर्लुकि, पूर्वखण्डस्य पुंवत्त्वे कृते, समुदायात्पुनस्तृतीयोत्पत्तौ, एकैकयेति रूपम् । बहुव्रीहिवत्त्वाऽभावे तु इह समुदायस्य प्रातिपदिकत्वा.ञभावात्सुपोर्लुक्, पूर्वखण्डस्य पुंवत्त्वं च न स्यात्, उत्तरपदपरकत्वाऽभावात्, समासचरमावयवस्यैव उत्तरपदत्वादिति भावः ।एक#ऐका॑मित्यत्र उत्तरखण्डस्यसर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्त्वं बहुव्रीहिवत्त्वे सत्यपि न प्रवृत्तिमर्हति, पूर्वस्यैवेदं 'भस्त्रैषाद्वे' ति लिङ्गादित्युक्तत्वादिति । बोध्यम् । ननु सुपोर्लुकि पूर्वखण्डस्य एकाशब्दस्य पुंवत्त्वे सत्यसति वा वृद्धौ एकैकयेति सिध्यत्येवेत्यत आह — इह पूर्वभागे इति । अवग्रहे इति । समस्तपदस्य द्विधा करणे पूर्वखण्डोऽवग्रहः ।तस्य पूर्वोऽवग्रहः॑ इति प्रातिशाख्यम् । 'एकैकयेत्येक-एकया' इतीष्यते पूर्वखण्डस्य पुवत्त्वम् । बहुव्रीहिवत्त्वाऽभावे तु एकैकयेत्येका-एकयेति स्यादिति भावः । तैत्तिरीयास्तु 'एकैकयेत्येका एकया' इत्येवाऽवगृह्णन्ति ।एकं समासव॑दित्येव सिद्धे बहुव्रीहिग्रहणंबहुव्रीहौ प्रकृत्यापूर्वपद॑मिति स्वरार्थम् । ननु बहुव्रीहिवत्त्वे सति 'न बहिव्रीहौ' इति सर्वनामत्वनिषेधादेकैकस्यैदेहीत्यादौ कथं सर्वनामकार्यमित्यर्थ आह — न बहुव्रीहावित्यत्रेति ।विभाषा दिक्समासे बहुव्रीहौ॑ इत्यतो बहुव्रीहिग्रहणानुवृत्त्यैव सिद्धे न बहुव्रीहौ॑ इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । अतो बहुव्रीहिवदित्यतिदिष्टबहुव्रीहौ सर्वनामत्वनिषेधो नेत्यर्थः । तदाह — त#एनेति । तदेवं प्राचीनोक्तं परिहारमुक्त्वा सिद्धान्तिमतेनाह — वस्तुतस्त्विति । एतदिति । 'न बहुव्रीहौ' इति सूत्रमित्यर्थः । एवं च बहुव्रीहावपि सर्वंनामत्वस्य भाष्यसंमततया बहुव्रीहिवत्त्वातिदेशे सत्यपि सर्वनामत्वं निर्बाधमिति भावः । सूत्रमतेऽपीति ।उपसर्जनत्वादेव बहुव्रीहौ सर्वनामत्वनिषेधेसिद्धे ' नबहुव्रीहौ' इति बहुव्रीह्रर्थके अलौकिकविग्रहवाक्ये एव समासात्प्राक्सर्वनामत्वं निषिध्यत इति प्रागेवोक्तम् । तस्मादिह बहुव्रीह्रतिदेशप्रयुक्तसर्वनामकार्याऽभावशङ्कैव नास्तीत्यर्थः । एकैकस्मै देहीति । इह द्वयोरपि सुपोर्लुकि पुनः सर्वादिपठितैकशब्दान्ततया सर्वनामत्वात्समैभाव इति भावः । Tattvabodhini ------------- **एकं बहुव्रीहिवत्** - एकं बहुव्रीहिवत् । द्वे इत्यनुवर्तते । तच्चानुवाद्यसमर्पकं, तदाह -द्विरुक्त इति । तेनेति । यद्यप्येतौ बहुव्रीहौ विशिष्य न विहितौ , तथापि तत्र दृष्टवित्येतावतैवातिदिश्येते इति भावः । सुब्लोपपुंवद्भावाविति । पूर्वपदप्रकृतिस्वरश्च बोध्यः । समुदायात्सुबिति । तच्चैकवचनमेवेति, अन्तरङ्गैकसङ्ख्यावरुद्धो द्विरुक्तार्थः सङ्ख्यान्तरे निराकाङ्क्ष इतिप्रागेवोक्तत्वात् । पूर्वभाग इति । नतूत्तरभागेऽपि । तथाहि द्विधाऽत्र पुंवद्भावःसर्वनाम्नो वृत्तिमात्रे॑इति वा,स्त्रियाः पुंव॑दिति वा । तत्राद्यः पूर्वभागस्यैव,भस्त्रैषे॑ति ज्ञापकादित्युक्तम् । द्वितीयस्तु समानाधिकरणे परे विधीयते, न चोत्तरबागस्य समानादिकरणपरत्वमस्तीति भावः । अवग्रहे विशेषैति ।एकैकयेत्येकएकये॑ति भवतीत्यर्थः । एकैकस्मै इति । ननु सुब्लोपपुंवद्भावाविव बहुव्रीहौ सर्वनामसंज्ञाऽभावोऽपि दृष्ट इत्ययमपि बहुव्रीहिवद्भावेनातिदिश्यताम्, तथाच स्मायादेशोऽत्र दुर्लभ इति चेत् । अत्राहुः — — सुब्लोपपुंवद्भावाविव सर्वनामसंज्ञाऽभावः शास्त्रेण न दृष्ट । किं तु बहुव्रीहेर्गौणत्वात्सर्ववाचकत्वं न संभवतीति तदभावो दृष्ट इति नायमतिदिश्यते ।न बहुव्रीहौ॑इति शास्त्र#ं त्वलौकिकवाक्ये निषेधकं , नतु बहुव्रीहावित्युक्तत्वादिति । Padamanjari ----------- अत्र यदि केवलो बहुव्रीहिवद्भावोऽनिर्दिष्टविषयोऽनेन विधीयते, ततश्चेहापि प्राप्नोति - एक इति, ततश्च सुब्लुक्, स्यात् । अस्तु, बहुव्रीहिवद्भावादपरः सुः प्रभविष्यति ? नैव चात्र सुब्लुक् प्राप्नोति, एक इत्यस्य प्रत्ययान्तत्वेनाप्रातिपदिकत्वात् ।'कृतिद्धितसमासाश्च' इत्यत्र च समासग्रहणं नियमार्थम्, न विध्यर्थमिति तेनापि नास्ति प्रातिपदिकत्वम् । इह तर्ह्येकेति पुंवद्भावः प्राप्नोति ? स्यादेवतन् -'द्वे' इत्यधिकाराद् द्विर्वचनसन्नियोगेन विधीयमानो बहुव्रीहिवद्भावस्तदभावादिह न भवतीति । अथ तदपि द्विर्वचनं तेन विधीयमानमत्र कस्मान्न भवति ? तस्माद्वक्तव्योऽस्य विषयः । अत आह - एकमित्येतच्छब्दरूपं द्विरुक्तमिति । सत्यम्;'द्वे' इत्यनुवर्तते, न च तेन द्विर्वचनं विधीयते, किं तर्हि ? अन्येन विहितनूद्य तत्र बहुव्रीहिवद्भावो विधीयते । क्व चान्येन द्विर्वचनं विहितम् ? वीप्सायाम् । यदि पुनर्वीप्साग्रहणमनुवर्त्य तत्र बहुव्रीहिवद्भावो विधीयेत ? नैवं शक्यम्; बहुव्रीहिवद्भावेन द्विर्वचनं बाध्यते । अथ यदि वीप्सायां द्वे इत्येवमुभयमनुवर्त्य द्विर्वचनं बहुव्रीहिवद्भावः - इत्युभयमनेन विधीयते, न दोषो भवति । वःतिकारस्तु किमनया वीप्साग्रहणानुवृत्येति'द्वे' इत्येवान्ववीवृतत् । सुब्लोपपुंवद्भावाविति । यद्यप्येतौ बहुव्रीहाविति नोच्येते, तथापि तत्र दृष्टावित्येतयोरतिदेशः । क्वचितु वृतावेवायमर्थः पठ।ल्ते । एकैकमिति । एकमित्यस्य द्विर्वचने द्वयोरपि सुपोर्लुकि सति पुनर्बहुव्रीहिवद्भावादेव सुप् । एकैकयेति । टाबन्तातृतीया, तदन्तस्य द्विर्वचनम्, सुब्लुकि पुंवद्भावेन पूर्वभागे टापो निवृत्तिः । कः पुनरत्र टापो निवृतौ सत्यामसत्यां वा विशेषः । ? अवग्रहेऽस्ति विशेषः - ऐकैकयेत्येक - एकयेति भवति । उतरत्र च गतगतेत्यादौ पुंवद्भावस्य प्रयोजनम् । ननु यदि यच्च यावच्च बहुव्रीहौ दृष्ट्ंअ कार्य तस्य सर्वस्यातिदेशः; सर्वनामसंज्ञाप्रतिषेधः, स्वरः, समासान्त इत्येते विधयः प्राप्नुवन्ति ? अत आह - सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्ता इति । न बहुव्रीहाविति प्रतिषेधो न भवतीति । तत्र हि'विभाषा दिक्समासे बहुव्रीहौ' इत्यतः'बहुव्रीहौ' इत्यनुवर्तमाने पुनर्वहुव्रीहिग्रहणम् - बहुव्रीहिरेव यो बहुव्रीहिस्तत्र यथा स्याद्, बहुव्रीहिवद्भावेन यो बहुव्रीहिस्तत्र मा भूदिति । तेन संज्ञाप्रतिषेधस्तावत्समासाधिकारे बहुव्रीहौ विज्ञायते । नन, सुसु इति । ठाबाधे चऽ इति द्विर्वचनम् । नन करोति, सुसु जागर्तीत्यादिवाक्यैकदेश उदाहृतः । नञ्सुभ्यामित्यन्तोदातत्वं न भवतीति । तत्र हि'वनं समासे' इत्यतः सिंहावलोकितन्यायेन'समासे' इति सम्बध्यते,'बहुव्रीहाविदमेततद्भ्यः' इत्यतः'बहुव्रीहौ' इति च । तत्र बहुव्रीहेः समासत्वाव्यभिचारे पुनः समास इति विशेषणं समासाधिकारविहितबहुव्रीहिपरिग्रहार्थण् । अथात्र'नञ्सुभ्याम्' इत्यन्तोदातत्वे सति कः स्वरो भवति ? अत्र हि चत्वारः स्वराः प्राप्नुवन्ति - समासान्तोदातत्वं च । तत्र'नञ्सुभ्याम्' इत्ययं स्वरो न भवतीत्युक्तम् । आम्रेडितानुदातत्वमपि न भवति, किं कारणम् ? कार्यातिदेशे तावदिदमेव कार्याणां विधायकमिति परत्वादाम्रेडितानुदातत्वं बहुव्रीहिस्वरेण बाध्यते । शास्त्रातिदेशेऽपि विरुद्धस्य स्वाश्रयस्यातिदेशेन निवर्तनान्नैवाम्रेडितानुदातत्वं भवति,'बहुव्रीहौ प्रकृत्या' इत्यत्र च न समासग्रहणमनुवर्तते, तेन बहुव्रीहिवद्भावात्पूर्वपदप्रकृतिस्वरो भवन् समासान्तोदातत्वं बाधते । ऋगृगिति । ठाबाधे चऽ इति द्विर्वचनम् । ऋक्पूरिति समासान्तो न भवतीति । तत्र हि'समासाच्च तद्विषयात्' इत्यतः'समासात्' इत्यनुवर्तमाने पुनः समासग्रहणं समासाधिकारे विहितो यः समासस्तत्परिग्रहार्थम् । तेनातिदेशिके समासे समासान्तो न भवतीति । एवमेते संज्ञाप्रतिषेधादयः समासाधिकारविहिते बहुव्रीहौ विज्ञायन्ते । वार्तिककारस्तु सर्वमेवैतद्वाचनिकं मन्यते, यदाह -'सर्वनामस्वरसमासान्तेषु दोषः' इति । अथ ननेत्यत्र बहुव्रीहिवद्भावान्नलोपः कस्मान्न भवति ? उच्यते; ठुतरपदेऽ इति वर्तते, नञ इति च कार्यिणो निर्देशः, तत्र साक्षाच्छिष्टेन कार्यित्वेन नञो निमितभावो बाध्यते, यथा - मद्रहृदो भद्रहृद इत्यत्र रेफस्य ठचो रहाभ्यां द्वेऽ इति द्विर्वचनप्रसङ्गे उक्तम् -'नेमौ रहौ कार्यिणौ, किं तहि ? निमितमिमौ द्विर्वचनस्य' इति । अयं तु परिहारः पूर्वत्रापि यथासम्भवं द्रष्टव्यः ॥ Nyaas ----- यद्यविशेषेणैकशब्दस्य बहुव्रीहिवद्भावो विधीयते, तदैकमित्यत्रापि स्यादिति मन्यमानोऽतिप्रसङ्गं परिजिहीर्षुराह -`एकमित्येतद्द्विरुक्तं बहुव्रीहिवद्भावो भवति` इति। कथं पुनर्द्विरुक्तमित्येव विशेषो लभ्यते, यावता नायं सूत्रोपात्तः? एवं मन्यते -वीप्साऽनुवर्तते, [`वीप्सामनुवर्तते` -प्रांउ।पाठः] वीप्सायाञ्च पूर्वमेव द्विर्वचनं विहितम्। न च तदेकशब्दस्यानेन बहुव्रीहिवद्भावेन बाध्यते; अन्यथा हि `एकैकस्य प्राचाम्` (8.2.86) इति निर्देशो नोपपद्येत। तस्माद्वीप्साग्रहणानुवृत्तेर्द्विरुक्तस्यैकशब्दस्यायं बहुव्रीहवद्भावो विज्ञायत इति। किं पुनर्बहुव्रीहिवद्भावे प्रयोजनमित्याह -`बहुव्रीहिवत्त्वे` इत्यादि। यद्यपि सुब्लृक्पुंवद्भावौ बहुव्रीहावित्येवं नोच्येते, तथाप्येतौ तत्र दृष्टावित्यस्मिन्नतिदेशे तयोः प्रवृत्तिः प्रयोजनम्। `एकैकम्` इति। वीप्सायां द्विर्वचने कृते यता चित्रगुरित्यादौ बहुव्रीहौ **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुग्भवति, तथेहाप्यतिदेशेन। अतिदेशेनैव समासे प्रातिपदिकत्वात्? सुः, `अतोऽम्` (7.1.24) इत्यम्भावः। `एकैकया` इति। पूर्ववद्विभक्देर्लुक्, `स्त्रियाः पुंक्त्` (6.3.33) इत्यादिना यथा दर्शनीयभार्य इत्यत्र बहुव्रीहौ पुंवद्बावो भवति, तथेहाप्यतिदेशेन, तृतीयैकवचनम्, **आङि चापः** (7.3.105) इत्येत्तवम्, अयादेशः। ननु चासत्यपि पुंवद्भावे **वृद्धिरेचि** (6.1.88) इति वृद्धावपि कृतायामेतत्? सिध्यत्येव? यद्यप्येतत्? सिध्यति, तथापि गतगतेत्येतत्? **आबाधे च** (8.1.10) इति द्विर्वचने कृते न सिध्यति। तस्मादुत्तरसूत्रे पुंवद्भावो बहुव्रीहिवदित्यस्यातिदेशस्यैव प्रयोजनत्वेनोच्यते। एकैकयेत्येतत्तु `एकमित्येष नपुंसकलिङ्गेन निर्देशोऽन्त्रम्` इत्येतत्सूचयितुमुक्तम्। अतन्त्रत्वं तु सूत्रे लिङ्गनिर्देशस्य `अर्धं नपुंसकम्` (2.2.2) इत्यत्र नपुंसकग्रहणेन ज्ञापितम्। यदि सौत्रो निर्देशस्तन्त्रमभविष्यत्, अर्धमित्यत्र तत एव निर्देशाल्लिङ्गविशेषे सिद्धे नपुंसकमिति नावक्ष्यत्। अथ पूर्वपदप्रकृतिस्वरत्वमपि प्रयोजनं कस्मान्नोच्येत? विशेषाभावा। परस्य निघाते कृते पूर्वपदप्रकृतिस्वर एव भविष्यति। यदि तर्हि बहुव्रीहौ यद्वृष्टं तदतिदिश्यते, सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्तानामप्यतिदेशः प्राप्नोति? इत्यत आह -`सर्वनामसंज्ञा` इत्यादि। कथं पुनरेते सर्वनामसंज्ञाप्रतिषेधादयः समासाधिकारे विहिते बहुव्रीहौ शक्या विज्ञातुम्? उच्यते; सर्वनामसंज्ञाप्रतिषेधस्तावत्? `बहुव्रीहौ` (1.1.29) इत्यनुवर्तमाने पुनर्बहुव्रीहि (1.1.28) ग्रहणाच्च शक्यते विज्ञातुम्। तस्य ह्रतत्? प्रयोजनमुक्तम् -बहुव्रीहेरेव यो बहुव्रीहिस्तत्र प्रतिषेधो यथा स्यात्, बहुव्रीहिवद्भावेन यो बहुव्रीहिस्ततर मा भूदिति। एवञ्चार्थात्? समासाधिकारविहित एव बहुव्रीहौ प्रतिषेधो विज्ञायते। न हि ततोऽन्यो बहुव्रीहिरेव बहुव्रीहीर्भवति; `एकैकस्मै` इत्यादेर्बहुव्रीहिवद्भावेन बहुव्रीहिवत्त्वात्। **नञ्सुभ्याम्** (6.2.172) इत्यनेनापि `बहुव्रीहाविदमेतत्तद्भ्यः (6.2.162) इत्यतो बहुव्रीहिग्रहणेऽनुवर्तमाने नञ्सुम्यां परस्य बहुव्रीहावन्तोदात्तत्वं विधीयते, न तु तयोरपि; यस्मात्? सुनञादिह निमित्तत्वेनोपात्तौ। न च निमित्तयोः कार्यित्वं युक्तम्। यथीक्तम् - `नेमौ [`हयवरट्` (मा।सू।5) इत्येतस्मिन्? सूत्रे भाष्यकारेण] रहौ कार्यिणौ, किं तर्हि? न#इमित्तमिमौ द्विर्वचनस्य` इति। तस्माद्यत्र बहुव्रीहौ नञ्सूभां सुनञोरेव परभूतत्वात्? **आबाधे च** (8.1.10) इति द्विर्वचनम्, बहुव्रीहिवद्भावश्च। अथ वा स्वरविधौ **समासस्य** (6.1.223) इत्यतः समातग्रहणमनुवर्तते, तेन च बहुव्रीहि विशेषयिष्यामः -समासो यो बहुव्रीहिरिति। ननु च नन, सुस्वित्यतावपि समासावेव, अस्ति ह्रनयोरेव बहुव्रीहिवद्भावेनोत्पादिता समाससंज्ञा, ततश्च विशिष्यमाणऽपि समासग्रहणे न बहुव्रीहौ स्वरः प्राप्नोतीत्येव? नैव दोषः; विशिष्यते हि समासग्रहणेन बहुव्रीहिः, न कश्चिदसमासो बहुव्रीहिरस्ति, तत्र विशेषणसामर्थ्यावतिदेशद्बारेम यस्य समाससंज्ञा तस्य न भवति। स च समासाधिकारे विहितो बहुव्रीहिरिति विज्ञायते। ननु च समासग्रहणेन बहुव्रीहौ विशिष्यमाणे विशेषणसामर्थ्याद्विशिष्टस्य बहुव्रीहेरिवं ग्रहणमित्येतादन्मात्रं निश्चीयते, तत्र तु विशिष्टे बहुव्रीहौ सन्देह एव? उच्यते; भवति व्याख्यानतो विशेषप्रतिपत्तिः, न हि सन्देहादलक्षण(व्या।पा।75)मित्यदोषः, समासान्तविधावपि `समासाच्च तद्विषयात्` (5.3.106) इत्यतः समासग्रहणमनुवर्तते। तत्र समासाधिकारादेव समासान्तत्वे वक्ष्यमाणानां प्रत्ययानां सिद्धे समासग्रहणानुव#ऋत्तिविशिष्टे समासे समासान्तत्वं यथा स्वादित्येवमर्थं विज्ञायते। स पुनर्विशिष्टः समासो यः समासाधिकारे विहितः स एव व्याख्यानाद्वेदितव्यः। अथ ननेत्यत्र **नलोपो नञः** (6.3.73) इति नलोपः कस्मान्न भवति, अस्ति तस्यापि बहुव्रीहौ दर्शनम्? नैष दीषः; `नलोपो नञः` इत्यत्र हि उत्तरवदाधिकारोऽनुवर्तते -उत्तरपदे नलोपो विधीयते। नञ्? च कार्यित्वेनोपात्तः, कार्यिणश्चेह निमित्तभावो नोपपद्यत इति नञोऽन्यस्मिन्नुत्तरपदे लोपेन भवितव्यम्, यथा -अब्राआहृण इति, न तु तस्मिन्नेवेति कुतो नकारलोपस्य प्रसङ्गः॥ Prakriyasarvasvam ----------------- वीप्सायां द्विरुक्त एकशब्दो बहुव्रीहिवत् स्यात् । तेन सुब्-लुक् । एकैकं पठति । अतिदिष्टबहुव्रीहेः 'न बहुव्रीहौ' (१-१-२९) इति सर्वनामनिषेधो न । एकैकस्मै ॥