81005: परेर्वर्जने ================== **Padacheda:** परेः | S | 6 | 1 | वर्जने | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word परि is repeated when used in the sense of 'with the exception or exclusion of''. Vasu English Translation ------------------------ The word परि is repeated when used in the sense of 'with the exception or exclusion of''. As परि परि त्रिगर्त्तेभ्यो वृष्टो देवः (1.4.88) and (2.3.10) 'It rained round about (but with the exclusion of) *Trigarta*'. Similarly परि परि सौवीरेभ्यः, परि परि सर्वसेनेभ्यः ॥ Why do we say when meaning exclusion? Observe ओदनं परिषिञ्चति ॥ Vart:- Optionally परि, meaning 'exclusion', is repeated when it occurs not in a compound, as परि परि त्रिगर्त्तेभ्यः or परि त्रिगर्त्तेभ्यः ॥ In a compound, there is no repetition as परित्रिगर्त्तं वृष्टोदेवः, because the word परि has not the meaning of exclusion only here; in fact, the whole compound word denotes here the idea of exclusion, and not the word परि alone. The word परि is here a *Karmapravachaniya* (1.4.88), and governs the fifth case by (2.3.11). In परिषिञ्चति the word is an *upasarga*. Bhashya ------- परेर्वर्जने ॥ परेरसमासे॥ परेरसमासे इति वक्तव्यम्। इह मा भूत्परित्रिगर्तं वृष्टो देवः॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यं। (ठपरेर्वर्जन(1)ःइत्येव सिद्धम्॥)। परेर्वर्जनःइत्युच्यते न चाऽत्र परिर्वर्जने वर्तते॥ कस्तर्हि?॥ समासः। ॥ परेर्वर्जने वावचनम्॥ (परेर्वर्जने वावचनङ्कर्त्तव्यम्(1))। परेर्वर्जने वेति वक्तव्यम्। परि त्रिगर्तेभ्यो वृष्टो देवः। परि-परि त्रिगर्तेभ्यो वृष्टो देवः॥ (परेर्वर्जने) Kashika ------- परीत्येतस्य वर्जनेऽर्थे द्वे भवतः। परिप॒रि॒ त्रिगर्तेभ्यो वृष्टो देवः। परिप॒रि॒ सौवीरेभ्यः। परिप॒रि॒ सर्वसेनेभ्यः। वर्जनं परिहारः। वर्जन इति किम् ? ओदनं परिषिञ्चति॥ परेर्वर्जनेऽसमासे वेति वक्तव्यम्॥ परिप॒रि॒ त्रिगर्तभ्यो वृष्टो देवः, परि त्रिगर्तेभ्यः। समासे तु तेनैवोक्तत्वाद् वर्जनस्य नैव भवति — परित्रिगर्तं वृष्टो देव इति॥ Siddhanta Kaumudi ----------------- परि परि वङ्गेभ्यो वृष्टो देवः । वङ्गान्परिहृत्येत्यर्थः ॥ (वार्तिकम्) ॥ परि वङ्गेभ्यः ॥ Balamanorama ------------ **परेर्वर्जने** - परेर्वर्जने । वर्जने वर्तमानस्य परीत्यस्य द्वे स्त इत्यर्थः । परि परि वङ्गेभ्यो वृष्ट इति । 'पर्जन्य' इति शेषः । 'अपपरी वर्जने' इति परिः कर्मप्रवचनीयः ।पञ्चम्यपाङ्परिभि॑रिति पञ्चमी । 'परि हरेः संसारः' इत्यत्र तुपरेरसमासे इति वक्तव्य॑मिति वार्तिकान्नद्विर्वचनम् । Tattvabodhini ------------- **परेर्वर्जने** - परेर्वर्जने । अत्र वार्तिकं -॒परेर्वर्जनेऽसमासे॑ । नेह -परित्रिगर्तं वृष्टो देवः ।वेति च वक्तव्यम् । तथा च अप हरेः परि हरेः संसार इति कारकेषूदाहृतम् ।परेर्वर्जने वावचनम् ।परिपरि वङ्गेभ्य इति॥अपपरी वर्जने॑इति कर्मप्रवचनीयसंज्ञायांपञ्चम्यपाङ्परिभि॑रिति पञ्चमी । Padamanjari ----------- परिपरि त्रिगर्तेभ्य इति । ठपपरी वर्जनेऽ इति कर्मप्रवचनीय संज्ञा,'पञ्चम्यपाङ्परिभिः' इति पञ्चमी । परिषिञ्चतीति । परिः सर्वतो भावे, ठुपसार्गात्सुनोतिऽ इत्यादिना षत्वम् । परेर्वर्जन इत्यादि ।'परेर्वर्जने' इत्यत्रा ठसम सेऽ इति वक्तव्यम्,'वा' इति च वक्तव्यम्, तेनासमास एव भवति, तत्रापि विसप्लेन । अन्यत्र तु नैव भवति, तदाह - समासे त्विति । तेनौवोक्तत्वादिति । ननु वाक्ये तावद्वर्जनं परेरेव द्योत्यम्, समासेऽपि परिः सन्निहितः, तत्किं समासस्य वर्जने शक्तिः कल्प्यते ? तत्राहुः -'जहत्स्वार्था वृत्तिः' इति पक्षे समास एव वर्ज्यमानोपसर्जने वर्जने वर्तते, अवयवौ त्वनर्थकाविति । यदा तु ठजहत्स्वार्था वृत्तिःऽ इति पक्षः, तदा वाक्ये केवले वर्जने परिर्वर्तत इति तत्रैव द्विर्वचनं भवति । समासे तु वर्ज्यमानार्थास्कन्दानान्न द्व्यर्थः परिः केवले वर्जने वर्तत इति द्विर्वचनाभावः ॥ Nyaas ----- `परि परि त्रिगर्तेभ्यः` इति। **अपपरी वर्जने** (1.4.88) इति परेः कर्मप्रवचनीयसंज्ञायां सत्याम्? **पञ्चम्यपाङ्परिभिः** (2.3.10) इति पञ्चमी। `परिषिञ्चति` इति। सर्वत्र सिञ्चतीत्यर्थः। `उपसर्गात्? सुनोति` (8.3.65) इत्यादिना षत्वम्। `परेर्वर्जनेऽसमासे वा` इत्यादि। परेर्वर्जनेऽर्थेऽसमासे विभाषा द्विर्वचनं भवतीत्येतदर्थरपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -`विभाषा वेषिटिचेष्ट्योः` (7.4.96) इत्यतो मण्डूकप्लुत्या विभाषाग्रहणमनुवर्तते, तेनासमासे द्विर्वचनं परेर्वर्जने विभाषा भवतीति। `असमासे` इति। वचनात्? समासे तु नित्यमेव द्विर्वचनेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह -`समासे तु` इत्यादि। यथा दध्नोपसिक्त ओदनो दध्योदन इतीहोपसिक्तशब्दः समासेऽन्तर्भूतः, तथा **अपपरिबहिरञ्चवः पञ्चम्या** (2.1.12) इति समासे कृते तत्र वर्जनम्। परिशब्दस्तु समासेऽनर्थक एव; तेन वर्जनेऽर्थे वर्तमानस्य द्विर्वचनमुच्यमानं समासे न भवति। अथापि परिशब्दो वर्जनेऽर्थेऽर्थवान्? स्यात्; एवमपि समासेनैव वर्जनार्थप्रत्यायितत्वान्नैव द्विर्वचनेन भवितव्यम्। `परित्रिगर्तम्` इति। समासादुत्पन्नस्य सोः `नाव्ययीभावादतोऽस्त्वपञ्चम्याः` (2.4.83) इत्यम्भावः॥ Prakriyasarvasvam ----------------- वर्जनार्थे कर्मप्रवचनीयस्य परेर्द्वे स्तः । वेति वाच्यम् । परि परि ग्रामात् सेना गता, परि ग्रामात् । समासे नेति वाच्यम् । परिग्रामं गता ॥ Vartika ------- परेर्वर्जने वा वचनम् । Sutra Prayogas -------------- * **परि-पर्युदधे** (भट्टिकाव्यम्): `परेर्वर्जने` इति द्विर्वचनम्।