81004: नित्यवीप्सयोः ==================== **Padacheda:** नित्यवीप्सयोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The whole word is अम्रेडित (repeated) when the sense is of 'always' and 'each'. Vasu English Translation ------------------------ The whole word is अम्रेडित (repeated) when the sense is of 'always' and 'each'. What words express 'always'? The finite verbs, and the Indeclinable words, formed by *krit* affixes. What 'always' is meant here? The word '*nitya*' here means 'again and again', and this idea of 'repetition' is the quality of an action. That action which the agent does principally, without cessation, is called "*nitya*". So that *nitya* refers to an action (See (3.4.22)). Thus पचति पचति 'he cooks continually'. जल्पति जल्पति 'he talks incessantly'. भुक्त्वा भुक्त्वा व्रजति or भोजं भोजं व्रजति 'each one, when he has eaten goes away.' See (3.4.22). लुनीहि लुनीहीत्येवायं लुनाति (See III.4.2). The affixes *ktva* and *namul* formed words and the Imperative mood express the idea of 'again and again', only when they are repeated. While the words formed with the affix यङ् (Intensive) express this idea by the inherent force of the affix, without repetition. Thus पुनः पुनः पचति = पापच्यते ॥ And when this intensive action is continually done, then this word also should be repeated; as पापच्यते पापच्यते ॥ In the above, examples have been given of *nitya*, as illustrated by finite verbs like पचति, Indeclinable *krit* words like भुक्त्वा, and like भोजं ॥ Now for वीप्सा ॥ In what words the वीप्सा is found ? It is found in nouns (सुप् formed words). As finite verbs (तिङ्) express *nitya*, so inflected nouns (सुप्) express *vipsa* or a distributive sense. What is meant by the word *vipsa*? It is the wish of the agent to pervade (*vyaptum* *ichchha*) an object through and through with a certain quality or action. That is, when many objects are wished to be pervaded by the speaker, with a particular attribute or action simultaneously, it is *vipsa*. Thus ग्रामो ग्रामो रमणीयः 'every village is beautiful'. So also जनपदो जनपदो रमणीयः पुरुषः पुरुषो निधनमुपैति ॥ When a finite verb is repeated owing to the idea of *nityata*; and we also wish to add to such a verb the affix denoting comparative or superlative degree, such affix must be added after the word has been repeated, as पचति पचतितराम् ॥ But in the case of a noun, which is repeated owing to *vipsa*, the whole superlative or comparative word should be repeated, as आढ्यतरमाढ्यतरमानय ॥ Bhashya ------- नित्यवीप्सयोः इह कस्मान्न भवति-हिमवान्, वाडवः,(2) पारियात्रः,(2) समुद्र इति। नित्ये द्वे भवतइति प्राप्नोति॥ नैषः दोषः-अयं नित्यशब्दोऽस्त्येव कूटस्थेष्वविचालिषु भावेषु वर्त्तते। तद्यथा-नित्या(1)। द्यौः नित्या पृथिवी नित्यमाकाशम् इति। अस्त्याभीक्ष्ण्ये वर्तते। तद्यथा - नित्यप्रहसितः नित्यप्रजल्पित इति। तद्य आभीक्ष्ण्ये वर्तते तस्येदं ग्रहणम्॥ अथ किमिदं वीप्सेति?॥ आप्नोतेरयं विपूर्वादिच्छायामर्थे सन् विधीयते॥ यद्येवं - चिकीर्षति जिहीर्षति इत्यत्रापि प्राप्नोति॥ नैष दोषः - नैवं विज्ञायते - वीप्सायामभिधेयायामिति?॥ कथं तर्हि?॥ कर्तृविशेषणमेतत्। (वीप्सतीति वीप्सः। (1)) वीप्सश्चेत्कर्त्ता(2) भवतीति। कः पुनर्वीप्सार्थः?। ॥ अनवयवाभिधानं वीप्सार्थः(1)॥ अनवयवेन द्रव्याणामभिधानमेव(2) वीप्सार्थः। ॥ अनवयवाभिधानं वीप्सार्थ इति चेज्जात्याख्यायां द्विर्वचनप्रसङ्गः॥ अनवयवाभिधानं वीप्सार्थ इति चेज्जात्याख्यायां द्विर्वचनं प्राप्नोति। व्रीहिः यवः (3) इति॥न वैकार्थत्वाज्जातेः॥ न वैष दोषः॥ किं कारणम्?॥ एकार्थत्वाज्जातेः। एकार्थो(4) हि जातिः। एकमर्थं प्रत्याययिष्यामीति जातिशब्दः प्रयुज्यते॥ अनेकार्थाश्रयत्वाच्च वीप्सायाः॥ अनेकार्थाश्रया च पुनर्वीप्सा। अनेकमर्थं संप्रत्याययिष्यामीति वीप्सा प्रयुज्यते। एकार्थत्वाज्जातेरनेकार्थाश्रयत्वाच्च(2) वीप्साया जात्याख्यायां द्विर्वचन न भविष्यति॥ निवर्त्तकत्वाद्वा॥ अथ वा नाऽनेन द्विर्वचनं निर्र्वत्यते(1)किं तर्हि?॥ अद्विर्वचनमनेन निर्वत्यते। यावन्तस्तेऽर्थास्तावतां शब्दानां प्रयोगः प्राप्नोति, तत्राऽनेन निवृत्तिः क्रियते-नित्यवीप्सयोरर्थयोर्द्वे एव शब्दरूपे प्रयोक्तव्ये नातिबहु प्रयोक्तव्यमिति॥ ॥ सर्वपदसगतिग्रहणानर्थक्यं(2) चार्थाभिधाने द्विर्वचनविधानात्॥ सर्वग्रहणं चानर्थकम्॥ किं कारणम्?॥ (अर्थाभिधाने(3) द्विर्वचनविधानात्)। सर्वस्यैव हि द्विर्वचनेनाऽर्थो गम्यते नावयवस्य॥ पदग्रहणं चानर्थकम्। पदस्यैव हि द्विर्वचनेनाऽर्थो गम्यते नावयवस्य। पदग्रहणं चानर्थकम्। पदस्यैव हि द्विर्वचनेनाऽर्थो गम्यते(4) नाऽपदस्य। सगतिग्रहणं चानर्थकम्। सगतिकस्यैव हि द्विर्वचनेनाऽर्थो गम्यते(4) नाऽगतिकस्य॥ किं पुनरिदं वीप्सायां सर्वमभिधीयते आहो स्विदेकम्?॥ कश्चाऽत्र विशेषः॥ वीप्सायां सर्वाभिधाने वचनाऽप्रसिद्धिः॥ वीप्सायां सर्वाऽभिधाने वचनं न सिध्यति-ग्रामो-ग्रामः जनपदो जनपदः (इति)॥ बहवस्तेऽर्थास्तत्र बहुषु बहुवचन मिति बहुवचनं प्राप्नोति॥ अस्तु तर्ह्येकम्॥ एकाऽभिधानेऽसर्वद्रव्यगतिः(1)॥ एकाऽभिधाने सर्वद्रव्यगतिर्न सिध्यति॥ अस्तु तर्हि सर्वाभिधानम्(2)॥ ननु चोक्तं-वीप्सायां सर्वाभिधाने वचनाऽप्रसिद्धिरिति॥ न वा पदार्थत्वात्॥ न वैष दोषः॥ किं कारणम्?॥ पदार्थत्वात्। पदस्याऽर्थो वीप्सा, सुबन्तं च(3) पदं, ङ्याप्प्रातिपदिकाच्चैकत्वादिष्वर्थेषु स्वादयो विधीयन्ते, न चैतत्प्रातिपदिकम्॥ यत्तर्हि प्रातिपदिकं दृषद्-दृषत् समित् समित्॥ एतदपि प्रत्ययलक्षणेन सुबन्तं न(4) प्रातिपदिकम्॥ अपर आह-॥ न वा पदार्थत्वात्॥ न वैष दोषः॥ किं कारणम्?॥ पदार्थत्वात्। पदास्याऽर्थो वीप्सा। सुबन्तं च(1) पदम्। ङ्याप्प्रातिपदिकाच्चैकत्वादिष्वर्थेषु स्वादयो विधीयन्ते न चैतत्प्रातिपदिकम्॥ यत्तर्हि प्रातिपदिकं दृषद्-दृषत् समित् समित् इति॥ एतदपि प्रत्ययलक्षणेन सुबन्तं न प्रातिपदिकम्॥ अथेह कथं भवितव्यं-पचति-पचतितरां तिष्ठति, आहो स्वित् पचतितरां-पचतितरां तिष्ठतीति?॥ पचतिपचतितरां तिष्ठतीति भवितव्यम्॥ कथम्?॥ द्विर्वचनं क्रियतामातिशायिक इति द्विर्वचनं भविष्यति विप्रतिषेधेन॥ इहापि तर्ह्यातिशायिकादि्द्वर्वचनं स्यात्-आढ्यतरमाढ्यतरमानयेति॥ अस्त्यत्र विशेषः-अन्तरङ्ग आतिशायिकः॥ काऽन्तरङ्गता?॥ ङ्याप्प्रातिपदिकादातिशायिकः, पदस्य द्विर्वचनम्॥ आतिशायिकोऽपि नाऽन्तरङ्गः॥ कथम्?॥ समर्थात्तद्धितोऽसावुत्पद्यते, सार्मथ्यं च सुबन्तेन। अथ वा स्पर्द्धायामातिशायिको विधीयते नं चाऽन्तरेण प्रतियोगिनं स्पर्धा गम्यते॥ एवं तर्हीह द्वावर्थौ वक्तव्यौ नित्यवीप्से चाऽतिशयश्च, न चैकस्य प्रयोक्तुरनेकमर्थं(1) युगपद्वक्तुं संभवोऽस्ति। तदेतत्प्रयोक्तर्यधीनं भवति, एतस्मिंश्च(2) प्रयोक्तर्यधीने क्व चित्का चित्प्रसृततरा गतिर्भवति। इह तावत्-पचतिपचतितरां तिष्ठतीत्येषा प्रसृततरा गतिर्यन्नित्यमुक्त्वाऽतिशय उच्यते। इहेदानीमाढ्यतरमाढ्यतरमानयेत्येषा प्रसृततरा गतिर्यदतिशयमुक्त्वा वीप्साद्विर्वचनमुच्यते॥ (नित्यवीप्सयोः)॥ Kashika ------- नित्ये चार्थे वीप्सायां च यद् वर्तते तस्य द्वे भवतः। केषु नित्यता? तिङ्षु नित्यताव्ययकृत्सु च। कुत एतत् ? आभीक्ष्ण्यमिह नित्यता। आभीक्ष्ण्यं च क्रियाधर्मः। यां क्रियां कर्ता प्राधान्येनानुपरमन् करोति तन् नित्यम्। पचतिप॒च॒ति॒ । जल्पतिज॒ल्प॒ति॒। भुक्त्वाभु॒क्त्वा॒ व्रजति। भोजंभो॒जं॒ व्रजति। लुनीहिलु॒नी॒हि॒ इत्येवायं लुनाति। क्त्वाणमुलोर्लोटश्च द्विर्वचनापेक्षायामेव पौनःपुन्यप्रकाशने शक्ति ः। यङ् तु तन्निरपेक्षः प्रकाशयति। पुनः पुनः पचति पापच्यत इति। यदा तु तत्र द्विर्वचनं तदा क्रियासमभिहारे पौनःपुन्यं द्रष्टव्यम् — पापच्यतेपा॒प॒च्य॒त॒ इति। अथ केषु वीप्सा ? सुप्सु वीप्सा। का पुनर्वीप्सा ? व्याप्तिविशेषविषया प्रयोक्तुरिच्छा वीप्सा। का पुनः सा ? नानावाचिनामधिकरणानां क्रियागुणाभ्यां युगपत् प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा। नानाभूतार्थवाचिनां शब्दानां यान्यधिकरणानि वाच्यानि तेषां क्रियागुणाभ्यां युगपत् प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा। ग्रामोग्रा॒मो॒ रमणीयः। जनपदोज॒न॒प॒दो॒ रमणीयः। पुरुषःपु॒रु॒षो॒ निधनमुपैति। यत् तिङन्तं नित्यतया प्रकर्षेण च युक्तं ततः कृतद्विर्वचनात् प्रकर्षप्रत्यय इष्यते — पचतिप॒च॒ति॒त॒रामिति। इह तु आढ्यतरमा॒ढ्य॒त॒र॒मानयेति प्रकष᐀्युक्तस्य वीप्सायोग इष्यते॥ Siddhanta Kaumudi ----------------- आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्विर्वचनं स्यात् । आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचति पचति । भुक्त्वा भुक्त्वा । वीप्सायाम् । वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः ॥ Laghu Siddhanta Kaumudi ----------------------- आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात्। आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकेषु च कृदन्तेषु च। स्मारं स्मारं नमति शिवम्। स्मृत्वा स्मृत्वा। पायम्पायम्। भोजम्भोजम्। श्रावं श्रावम्॥ Balamanorama ------------ **नित्यवीप्सयोः** - नित्यवीप्सयोः । नित्यशब्देन नित्यत्वं विवक्षितम् । तश्च आभीण्यमिति भाष्यम् । व्याप्तुमिच्छा वीप्सा=व्याप्तिप्रतिपादनेच्छा । सा च प्रयोक्तृधर्मः । व्याप्तिरेव तु शाब्दबोधविषय इति भाष्यस्वरसः । तथा चनित्यव्याप्त्या॑रित्येव सुवचनम् । व्याप्तिश्च कात्स्र्यन्येन संबन्धः, उपसर्गबलात् । पदस्येत्यधिकरिष्यमाणमिहापकृष्यते ।सर्वस्ये॑ति स्थानषष्ठी । 'द्वे' इति त्वादेशसमर्पकम् । तस्य च 'शब्दरूपे' इति विशेष्यमर्थाल्लभ्यते, शब्दानुशासनप्रस्तावात् । ते च शब्दरूपे स्वरूपतोऽतश्चान्तरतमे पदे इति स्थानेऽन्तरतमपरिभाषया लभ्यते । ततश्च पौनःपुन्ये कार्त्स्न्ये च गम्ये कृत्स्नावयवविशिष्टस्य पदस्याऽर्थतश्च शब्दतश्चान्तरतमे द्वे पदे भवत इति फलितम् । तदभिप्रेत्याह — आभीक्ष्ण्ये वीप्साया च द्योत्ये इति । द्योत्यं च द्योत्या च द्योत्यम् । तस्मिन्नित्यर्थः ।नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्या॑मिति नपुंसकैकशेषः । एकत्वं च नित्यवीप्से च प्रकृतिगम्ये । द्विर्वचनं तु द्योतकम् । सत्यपि प्रकृतेर्द्वित्वे द्विरुक्तयोः प्रकृत्यनतिरेकादिति बोध्यम् । द्विर्वचनं स्यादिति । द्वे पदे आदेशौ स्त इत्यर्थः । तत्रावयवयोः पदत्वं स्वतः सिद्धम् । समुदायस्य तु पदद्वयात्मकस्य स्थानिवत्त्वात्सुबन्तत्वम् । तेनअपचन्नपचन्नि॑त्यत्र ङमुट्,वृक्षान्वृक्षा॑नित्यत्रपदान्तस्ये॑ति णत्वनिषेधः, 'अग्रेऽग्रे' इत्यत्रएङः पदान्ता॑दिति पूर्वरूपं चेत्यादीन्यवयवानां पदकार्याणि सिध्यन्ति ।पुनःपुन॑रिति समुदायस्य स्थानिवत्त्वेन सुबन्तत्वाद्भावे ष्यञि, भवे ठञि च पौनः पुन्यम्, पौनःपुनिक इति च सिध्यति । 'द्वे उच्चारणे स्त' इत्याश्रयणे तु सर्वं पदं द्विरुच्चारयेदित्यर्थः फलितः स्यात् । ततश्च पुनरित्येकस्यैव द्विरुच्चार्यमाणस्य पुनःपुनरित्यादेशत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्त्या सुबन्तत्वविरहात्तद्दितोत्पत्तिर्न स्यात् । तस्मादादेशपक्ष एव श्रेयानित्यास्तां तावत् । आभीक्ष्ण्यं तिङन्तेष्विति । आक्षीक्ष्ण्यं-पौनः पुन्यम् । तच्चैह प्रधानभूतक्रियाया एव । क्रियाप्राधान्यं चाख्यातेष्वस्तीतिप्रशंसायां रूप॑विति सूत्रे भाष्ये स्पष्टम् । अव्ययकृत्स्वपि क्त्त्वातुमुन्नादिषु क्रियाप्राधान्यम्, 'अव्ययकृतो भावे' इत्युक्तेः तथा च तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च पौनःपुन्यनिमित्तकद्विर्वचनं नान्यत्रेत्यर्थः । तथैवोदाहरति — पचति पचति भुक्त्वा भुक्त्वेति । वीप्सायामिति । 'उदाह्यियते' इति शेषः । वृक्षं वृक्षमिति । कृत्स्नं वृक्षमित्यर्थः । अत्र प्रकृततद्वाटिकागतवृक्षकार्त्स्न्यंगम्यते, जगतीतलस्थितकृत्स्नवृक्षसेचनस्याऽशक्यत्वात् । सर्वशब्दस्य कार्त्स्न्यवाचित्वेऽपि न द्वित्वमित्यनुपदमेव 'यथास्वे' इत्यत्र वक्ष्यते । वृक्षं-वृक्षमित्यत्र कार्त्स्न्यावगमेऽपि प्रत्येकनिषठमेकत्वमेव भासते, नतु बहुत्वम्, अतो न बहुवचनम्,एकैकस्य प्राचा॑मिति लिङ्गाच्च ।सर्वस्ये॑त्यभावे वृक्षाभ्यामित्यादौ 'स्वादिषु' इति पदत्वमवलम्ब्य प्रकृतिभागमात्रस्य द्विर्वचनं स्यात् । कृते तु सर्वग्रहणे पदावयवत्वानाक्रान्तस्यैव कृत्स्नावयवोपेतस्य पदस्य द्वित्वमित्यर्थलाभान्न दोषः । पदस्येति किम् । वाक्यस्य मा भूत् । Tattvabodhini ------------- **नित्यवीप्सयोः** - नित्यवीप्सयोः । नित्यमिह पौनःपुन्यमित्याह -आभीक्ष्ण्य इति । द्योत्य इति ।नपुंसकमनुपुंसकेने॑त्येकशेषः, एकवद्भावश्च बोध्यः पदस्येति । तेन नित्यतायां विधीयमानं द्विर्वचनं धातुमात्रस्य न भवति । किं च क्रियासमभिहारे धातोर्विहितो यङन्तरङ्गः, पदस्योच्यमानं द्विर्वचनं तु बहिरङ्गमिति यङं न बाधते । अन्यथा हि पौनःपुन्यं भृशार्थश्च क्रियासमभिहार इति भृसार्थे सावकाशो[ऽयं]यङ् पौनःपुन्ये परेण द्विर्वचनेन बाध्येत । न च पदस्य द्विर्वचनाभ्युपगमे सगतिकस्य प्रपचति प्रपठतीत्यादेर्द्विर्वचनं न स्यादिति वाच्यं, वार्तिककारवचनात्तत्सिद्धेः । अत्र वदन्ति सगतिकस्य द्वित्वे ऐकपद्यं नास्त्येव, स्थानिनः पदत्वाऽभावेन आदेशेऽपि तस्य दौर्लभ्यात् । द्विःप्रयोगपक्षे तु प्रथमगतिं विहायाऽवशिष्टस्य पदत्वं प्राप्तं, तस्मिन् सत्यपि न क्षतिः । वस्तुतस्त्विह स्थाने द्विर्वचनपक्ष एव मुख्यः । स्थानिनः सुबन्तत्वेनादेशस्यापबि सुबन्तत्वात्सुबन्तात्तद्धित इति पक्षे समुदायात् ष्यज्ठञोः संभवेन पौनःपुन्यं पोनःपुनिक इति रूपसिद्धेः ।प्रातिपदिकात्तद्धितः॑इति पक्षाभ्युपगमेऽपि श्रूयमाणप्रत्ययान्तस्यैव प्रातिपदिकत्वनिषेधात्पुनरित्यस्य[एव] प्रातिपदिकत्वे[न] आदेशस्यापि प्रातिपदिकत्वात्पौनः पुन्यमित्यादि सिध्यत्येव । द्विःप्रयोगपक्षे त्वन्तरङ्गत्वादव्ययात्सुपो लुकि द्वित्वं प्रवर्तत इति समुदायस्य सुबन्तत्वाऽभावात् प्रातेपदिकत्वाऽभावाच्च ष्यञ्ञञौ नच भवतः । न चअर्थवदधातु॑रित्यादिना समुदायस्य प्रातिपदिकत्वेवे सोरुत्पत्तौ तस्य लुकि च सुबन्तत्वं प्रातिपदिकत्वं च संभवत्येवेति वाच्यम् ।यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति समासस्यैवे॑ति नियमेन प्रातिपदिकत्वस्याऽसंभवेन सुबन्तत्वस्याप्यसंभवात् । न च द्विःप्रयोगपक्षे स एव धातुः प्रत्ययश्च द्विःपठत इति समुदायस्यापि पदसंज्ञा प्रवर्तते इत्यधुनैवोक्तत्वात्पुनःपुनरिति समुदायस्य सुबन्तत्वमस्त्येवेति शङ्क्यम्, अन्तरङ्गत्वात्सोर्लुकि प्रकृतिभागस्य द्विर्वचने सति यस्मात्प्रत्ययो विहितस्तदादि तदन्तमिति विधीयमानायाः पदसंज्ञायाः समुदायस्य दुर्लभत्वात् । ततश्चैकपद्याऽभावेपुनःपुनर्जायमाना पुराणी॑ इत्यादाववग्रहोऽपि न सिध्येदिति । आभीक्ष्ण्यमिति । तद्धि क्रियानिष्ठधर्मः । तेन तद्द्योतनार्थं द्वित्वं क्रियाप्राधानानामेव न्याय्यम् । क्रियाप्राधान्यं चाख्यातेऽस्ति, कृद्वि शेषे चअव्ययकृतो भ#आवे॑इति वक्ष्यमाणत्वादिति भावः । केचित्तु क्रियाप्रधानानामेव द्वित्वे परिगृहीतसाधनाया एव क्रियायाः व्यवहारोपयोगित्वात्तदनभिधानाच्च धातुमात्रस्य द्वित्वं न भवति, किंतु तादृश क्रियाभिधायिनः पदस्यैव स्यादिति पदस्येत्यस्यापकर्षणाऽभावेऽपि न क्षतिरित्याहुः । तच्चिन्त्यम् । उक्तरीत्या नानाकारकविशिष्टक्रियासमर्थकस्य वाक्यस्यैव द्वित्वापत्तेः । किं च भावार्थकलकारान्तानामव्ययकृतां च भवदुक्तरीत्या द्वित्वं न स्यात् । ननु तत्र नित्यतावगत्यन्तरं पदान्तरैः साधनाकाङ्क्षा परिपूर्यत इति भूयते पक्त्वेत्यादिपदानां द्वित्वं स्यादेवेति चेत् । तर्हि तत्रैव धातुमात्रस्य द्वित्वं केन वार्यताम् । किं च तद्वदेव कर्तृकर्मलकारस्थलेऽपि धातिमात्रस्य द्वित्वं दुर्वारमिति पदस्येत्यपकर्षणमावश्यकमेवेति दिक् । वीप्सायामिति । व्याप्तुमिच्छा वीप्सा । व्याप्तिप्रतिपिपादयिषेति यावत् । सा च प्रयोक्तृधर्मः आबाधवत् ।गतगत॑इत्युक्ते प्रियस्य चिरगमनादिना पीडितो वाक्यं प्रयुङ्क्ते इति यथा प्रतीयते तथा वृक्षंवृक्षं सिञ्चितीत्यादावपि व्याप्त बुबोधयिषोरिदं वाक्यमित्यवगमात् । शाब्दबोधविषयस्तु व्याप्तिरेव । तथाचनित्यव्याप्त्यो॑रित्येव सूत्रयितुं शक्यम् । व्याप्तिरिह कार्त्स्न्यं, तच्चाधिकारिकम् ।सर्वे ब्राआहृणा आमन्त्रिताः ॑इत्यादौ यथा ।न हि जगतीतले विद्यमाना ब्राआहृणाः सर्वेऽपि केनतिदामन्त्रयितुं शक्यन्ते॑इति स्वग्रामस्थस्वजातीयब्राआहृणपरतया तत्र सङ्कोचो यद्यप्यभ्युपेयते तह्र्रत्राऽपि सकलवृक्षसेचनसामर्थ्यं कस्यापि मनुष्यस्य नास्तीति यत्र वाटिकादौ वृक्षसेचनार्थमधिकारस्तद्वाटिकास्थवृक्षाणामेव कार्त्स्न्यंवृक्षंवृक्षं॑सिञ्चती॑त्यादौ गम्यते इत्यभ्युपेयम् । यत्र तु सङ्कोचे कारणं नास्ति, तत्राऽसंकोच इष्ट एव,जातोजातो निधनमुपैती॑ति यथा । न चैवं वृक्षंवृक्षमित्यादौ बहुवचनप्रसङ्गः । बहूनां भानेऽपि बहुत्वसंख्यायास्तत्राऽभानात् । प्रत्येकनिष्ठमेकत्वमेव हि तत्र भासते इत्यादि मनोरमायां स्थितम् ।वृक्षंवृक्ष॑मिति समुदायस्य तु प्रातिपदिकत्वाभावाद्बहुवचनस्य प्रसङ्ग एव नास्ति । न चअर्थवदधातु॑रित्यनेन प्रातिपदिकत्वं शङ्क्यम् ।यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति [तर्हि] समासस्यैवे॑ति नियमात् । न चाष्टमिकं द्विर्वचनमादेशरूपमिति सङ्घातो न भवतीत्यपि शङ्क्यम्,द्वे॑ इति वचनादेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयेते इति प्रागुक्तत्वात् । नन्वेवमपिसरित्सरित्॒योषायोषे॑त्यादौ बहुवचनोत्पत्तिर्दुर्वारैव ।सरि॑दिति स्थानिनः प्रातिपदिकत्वसंभवने तदादेशस्यापि सरित्सरिदित्यादेः स्थानिवद्भावेन प्रातिपदिकत्संभवादिति चेत् । अत्राहुः — — अन्तरङ्गैकसङ्ख्यावरुद्धो । द्विरुक्तार्थः सङ्ख्यान्तरे निराकाङ्क्ष एव । न हि वस्तुगत्या बहुत्वमस्तीत्येतावतैव तस्य शाब्दबोध आपादयितुं शक्यते । असत्त्वार्थकेष्वपि तदापत्तेः । न हि शयनबाहुल्याभिप्रायेण [॒देवदत्तेन]शय्यन्ते॑इति भावे कश्चित्प्रयुङ्क्ते । तत्राऽयोग्यं तदिति चेत् । समं प्रकृतेऽपि । अत्र च लिङ्गम्एकैकस्य प्राचा॑मिति निर्देश इति । Padamanjari ----------- नित्ये चार्थे वीप्सायां च यद्वर्तते इति । अनेन सप्तमीयमर्थनिर्देशार्थेति दर्शयति । प्रयोक्तृधर्मभूता वीप्सा, न च सा ग्रामादिशब्दैरभिधीयते । पचतिपचतीत्यत्रापि वस्तुतो यन्नित्यं न ततिङ्न्तेनाभिधीयते । नित्यत्वं तु द्विर्वचनद्योत्यम् । तस्मादयमत्रार्थः - नित्यत्वे द्योत्यत्वेन विषयभूते, वीप्सायां व द्योत्यत्वेन विषयभूतायामिति । एषैव च तत्र वृत्तिः, शब्दस्य यद्वता तद्विषयता । यदि पुनरेषा षष्ठी स्यात्सव्रूपविधिः प्रसज्येत, ततश्च'नित्यं क्रीडाजीविकयोः' ,'पादशतस्य संख्यादेर्वीप्सायाम्' इत्यादिनिर्देशो नोपपद्यते । यदि तु'नित्यार्थविषयः शब्दो नित्यः' इत्युच्येत, वीप्सार्थविषयश्च वीप्सेति; तदा षष्ठ।लमप्यदोषः ? गौणत्वप्रसङ्गातदनाश्रितम् । नित्यशब्दोऽयं सर्वकालावस्थायिनो य आत्माकाशादयः, येषामुत्पत्तिविनाशौ प्रयोक्तृभिर्नोपलभ्येते, तेष्वपि प्रयुज्यमानो दृश्यते - नित्य आत्मा, नित्य आकाशः, नित्या द्यौरिति; आभीक्ष्ण्येऽपि - नित्यं प्रहसितः, नित्यं प्रजल्पित इति । तत्राविशेषादुभयोरपि ग्रहणादाकाशादिशब्दानामपि द्विर्वचनप्रसङ्ग इति मन्यमानः पृच्छति -केषु नित्यतेति । अथ वा - नित्यशब्दस्य कूटस्थलक्षण एव मुख्योऽर्थः, शब्दान्तरसन्निध्यनपेक्षणात् । आभीक्ष्ण्यं तु क्रियापदप्रयोगसमधिगम्यं गौणोऽर्थः; अविच्छेदोपलब्धिसामान्यमाश्रित्य तत्र प्रयोगात् । ततश्च'गौणमुख्ययोर्मुख्ये सम्प्रत्ययः' इति कूटस्थवाचिनामेव द्विर्वचनप्रसङ्ग इति मन्यमान आह - केषु नित्यतेति । इतरोऽपि विदिताभिप्राय आह - तिङ्क्ष्विति । अविशेषमेव मन्यमानः पृच्छति - कुत इति । आभीक्ष्ण्यमिहेति । अयमभिप्रायः - कूटस्थवचनग्रहणे तिङ्न्तानि न संगृहीतानिस्युः, आभीक्ष्ण्यलक्षणे तु नित्यत्वे गृह्यमाणे तल्लक्षणं द्विर्वचनं तिङ्न्तानाम्, वीप्सालक्षणं तु सुबन्तानामित्युभयानुग्रहो भवति । गौणोऽपि चार्थो लक्ष्यदर्शनवशादिहाश्रीयते - यथा'शीतोष्णाभ्यां कारिणि' , पार्श्वेनान्विच्छतीत्यादौ । उभ्यविधेऽपि नित्यत्वे गृह्यमाणे तद्वाचिनां सुबन्तानां स्वार्थ एव द्विर्वचनं स्यात्, न चैवं लोके प्रयोगोऽस्ति - आत्मात्मेति । एवं ह्युक्ते वीप्सा प्रतीयते, न तु स्वार्थः । तस्मादाभीक्ष्ण्यस्यैव ग्रहणमिति भवत्याभीक्ष्ण्यमिह नित्यता । सा च तिङ्क्ष्वव्ययकृत्सु चेति । एतत्कुतसत्यम् ? इत्याह -आभीक्ष्ण्यं च क्रियाधर्म इति । पौनः पुन्यमुआभीक्ष्ण्यम् । तच्च साध्यरूपायाः क्रियाया एव सम्भवति, तज्जातीयस्य तु पुनः करणं घटादिष्वपि रूम्भवति; तथापि क्रियाविषयैव पुनः क्रियत इति प्रतीतिः । तद्वचनाश्च पुनः पुनः, आभीक्ष्ण्यम्, नित्यमित्यादयः शब्दाः, यथा युगपत्पृथगित्यादयः शब्दाः क्रियाविषयाः, तद्वत् । क्रिया च तङ्क्ष्विव्यवकृत्सु चाभिधीयते, पाचकादिषु तु साधनं प्रधानम् । पाकादिष्वपि तु सिद्धता प्रधानम्, न क्रिया । कीदृशी पुनः सा क्रिया यस्या आभीक्ष्ण्यं धर्मः ? इत्याह - यां क्रियामिति । तन्नित्यमिति । नित्यशब्दस्य नपुंसकलिङ्गत्वातद्वृत्ति तच्छब्दस्यापि नपुंसकत्वम्, यथा - अणौ यत्कर्म णौ चेत्स कर्तेत्यत्र पुंस्त्वम् । लुनीहिलुनीहीति । क्रियासमभिहारे लोटुअ । यद्यपि तिङ्न्तस्य दर्शितमुदाहरणं तथाप्यस्त्यत्र वक्तव्यमिति पुनरुपन्यासः, तद्दर्शयति - कत्वाणमुलोर्लोटश्चेति ।'समानकर्तृकयोः' इत्यादिनार्थान्तरेऽपि क्त्वाणमुलौ विहितौ, लोडपि विध्यादावर्थान्तरे विहित इति सामान्यशब्दत्वात् द्विर्वचनापेक्षा एव पौनः पुन्यं प्रकाशयन्ति । यङ् तु तन्निरपेक्ष इति । स हि क्रियासमभिहारं न व्यभिचरति, तत्किं तस्य तद्द्योतने द्विर्वचनापेक्षया ! ननु यङ्न्तस्यापि कदाचिद् द्विर्वचनमिष्यते, तत्कथम् ? इत्याह - यदा त्विति । द्विविधो हि क्रियायाः समभिहारः - पौनः पुन्यम्, भृशार्थश्च । तत्र यदा द्विर्वचनं भवति, तदा भृशार्थे यङ्, तस्यैव पौनः पुन्यं द्योतयितुं द्विर्वचनम्, तस्य यङऽद्योतितत्वादित्यर्थः । वृतौ च सामान्यशब्दस्यापि क्रिया समभिहारशब्दस्य भृशार्थलक्षणे क्रियासमभिहारे वृत्तिविज्ञेया । पापच्यत इति । सकला अवयवक्रियाः स्वयमेव सम्पादयन् पुनः पुनः पचतीत्यर्थः । लोडपि भवति - पापच्यस्व पापच्यस्वेत्येवायं पापच्यत इति । अथ नित्यतायां द्विर्वचनमुच्यमानं धातुमात्रस्य कस्मान्न भवति, स हि क्रियावचनः ? उच्यते; परिगृहीतसाधना क्रिया व्यवहारोपयोगिनी भवति, तदभिधानाच्च धातुमात्रस्य द्विर्वचनाभावः । पदाधिकारो वाश्रयणीयः । अनेनैवाभिप्रायेण पूर्वमुक्तम् - ठथ पदस्येत्येव कस्मान्नोच्यतेऽ इति, अस्मिन्पक्षे सगतिकस्य द्विर्वचनं वक्तव्यमेव । एतेनैतदपि निरस्तम् - भृशार्थे सावकाशो यङ् पौनः पुन्ये परेण द्विर्वचनेन बाध्यत इति । कथमिदं निरस्तम् ? पदस्य द्विर्वचनं धातोर्यङ्, तत्रान्तरङ्गस्य न युक्तो बाध इत् व्याख्यातम् । नित्यं वीप्सां व्याख्यास्यन् विषयं तावत्पृच्छति - अथेति । सुप्सु वीप्सेति । सुपामेव तदभिव्यक्तौ समर्थत्वात् । एवं विषयमुक्त्वा स्वरूपं पृच्छति - का पुनरिति । यदि सामान्येन व्याप्तुमिच्छा वीप्सा, तदा चिकीर्षतीत्यादौ द्विर्वचनप्रसङ्गः; करोत्यादिक्रियाभिः कटादीनां या व्याप्तुमिच्छा तद्विचित्वात् । इतरो'योगरूढिर्वीप्साशब्दः' इत्यभिप्रायेणाह - व्याप्तिविशेषविषयेति । प्रयोक्तुरिच्छेति । अनेन नाभिधेया वीप्सा गृह्यते - वीप्सावाचिनो द्वे भवत इति, किं तर्हि ? प्रयोक्तृधर्मः, आबाधवत् । गतगत इत्युक्ते प्रियस्य चिरगमनादिना पीडितो वाक्यं प्रयुङ्क्त इति प्रतीयते, तेन चिकीर्षतीत्यादौ द्विर्वचनं भवतीति दर्शयति । व्याप्तिविशेषविपयेत्युक्तम्, स तु विशेषो नाद्याप्यभिहितद इति पुनः पृच्छति - का पुनरसाविति । नानावाचिनामित्यादि । पूर्ववृत्तिषु पठितं वीप्सालक्षणम्, तद् व्याचष्टे - नानाभूतार्थवाचिनामिति । तत्र नानावाचिनामिति वचनाज्जातिवाचिनां द्विर्वचनं न भवति - ब्राह्मणो न हन्तव्यः, सम्पन्नो व्रीहिरिति । नहि जातिशब्दा नानाभूतार्थवाचिनः; जातेरेकत्वात् । युगपद्ग्रहणात्क्रमविवक्षायां द्विर्वचनाभावः, यथा - अस्मिन्वनेऽयं वृक्षः शोभनोऽयं वृक्षः शोभन इति क्रमेण शोभनत्वप्रतिपादने बहूनामपि शब्दानां प्रयोगो भवति, तथैकशेषोऽपि न भवति - अस्मिन्वने वृक्षाः शोभना इति; नानावाचित्वाभावात् । पृथगर्थपर्यवसायित्वं हि नानावाचित्वम्, न चैकशेषे तदस्ति । अत एव तत्र न प्रत्येकं विधेयसम्बन्धो नियमेन प्रतीयते । न'हि ब्राह्मणेभ्यः शतं देयम्' इत्युक्ते नियमेन प्रत्येकं शतं देयं भवति । ब्राह्मणाय ब्राह्मणाय शतं देयमित्युक्ते प्रत्येकं शतं दीयते, तत्करय हेतोः ? पृथगर्थपर्यवसायितया पृथग्देयस्य सम्बन्धात् । यदा च पृथगर्थपर्थवसायिता, तदा यावन्तोऽर्था अभिधित्सिताः, तावन्तः शब्दाः पृथगेकैकपर्यवसायिनः प्रसक्ताः, तेषामनेन निवृत्तिः क्रियते - वीप्सायां द्वे एव प्रयोक्तव्ये, न तु बहु प्रयोक्तव्यमिति । कथं तहि निवृतानामर्थः प्रतीयते, यावता प्रत्येकपर्यवसायित्वे द्वयोरेव प्रतीतिः स्यात् ? उच्यते - एकशेषे यथान्येषामर्थः शिष्टेन गम्यते । तद्वदत्र विशेषेऽपि शिष्टाभ्यामितरार्थधीः ॥ यथैव हि वृक्षौ वृक्षा इत्येकशेषविषये शिष्यमाणमेव निवृतानामप्यर्थमाह, तथेहापि शिष्यमाणे द्वे एव विवक्षितानर्थानबिधास्यतः । न च बहुवचनप्रसङ्गः; परिगृहीतैकत्वानां बहूनामभिधानात्; अन्यथा प्रतेयकसम्बन्धस्याप्रतीतेः द्विर्वचनादुतरकालं सत्यामपि बहुत्वावगतावप्रातिपदिकत्वाद्वहुवचनाभावः, यथा - पश्य मृगो धावतीति सत्यपि दर्शनक्रियापेक्षे कर्मत्वे द्वितीयाभावः । एकैकमित्यत्र तु सत्यपि बहुव्रीहिवद्भावेन प्रातिपदिकत्वं परिगृहीतैकत्वस्यैकारथस्य वीप्सायोगादन्तरङ्गत्वादेकवचनं भवति, न बहुवचनम् ; बहुत्वप्रतीतेर्बहिरङ्गत्वात् । अस्यैवार्यस्य ठेकैकस्य प्राचाम्ऽ इति निर्देशो लिङ्गमित्यलमियता । तदयमत्रार्थः - नानाभूतार्थवाचिनां यान्यधिकरणानि वाच्यानि तेषां सहविवक्षितानां पृथक् संख्यायुक्तानां प्रत्येकं क्रियया गुणेन वा व्याप्तुमिच्छा वीप्सेति । क्रियागुणग्रहणं द्रव्यस्याप्युपलक्षणम् । ग्रामेग्रामे पानीयमिति । द्रव्यव्याप्तेरुदाहरणम् । पुरुषः पुरुषो निधनमुपैतीति । निधनमुमरणम् । जातस्य हि ध्रुवो मृत्युरित्यर्थः । अपर आह - साम्नां भक्तिविशेषःउनिधनम्, सर्व एव ऋत्विजो निधनमुपयन्तीत्यर्थ इति । यतिङ्न्तमित्यादि । अत्र विप्रतिषेधो हेतुः, द्विर्वचनस्यावकाशो यत्र नित्यता विवक्षिता, न प्रकर्षः - पचतिपचतीति, प्रकर्षप्रत्ययस्यावकाशो यत्र प्रकर्ष एव विवक्ष्यते, न नित्यिता - पचतितरामिति; उभयविवक्षायामुभयप्रसंगे परत्वाद् द्विर्वचनम्, ततः पुनः प्रसङ्गविज्ञानात्प्रकर्षप्रत्ययः । यद्वा - प्रतियोग्यपेक्षः प्रकर्षो बहिरङ्गः, पौनःपुन्यमन्तरङ्गमिति पूर्वं द्विर्वचनम् । इह त्वित्यादि । इष्टिरेवेयम् । यद्वा - प्रकर्षयुक्ता एवाढ्यदय आनयनक्रियायामुपयुज्यन्त इति लघुप्रकर्षा एव वीप्स्यन्ते । किञ्च - कृतद्विर्वचनातरपि सत्याढ्यतरमिति भवितव्यम्, तथा च प्रकर्षार्थो गम्येत, न वीप्सेति पूर्वं प्रकर्षयोगः ॥ Nyaas ----- `नित्ये चार्थे वीप्सायाञ्च` इति। अनेन `नित्यदीप्सयोः` इति सप्तमीयमर्थनिर्देशार्था, न तु षष्ठीयमिति दर्शयति। यदि ह्रेषा षष्ठी स्यात्, तदा स्वरूविधिः प्रसज्येत, ततश्च `नित्यं क्रोडाजीविकयोः` (2.2.17) इति, `पादशतस्य संक्यादेर्वीप्सायाम्` (5.4.1) इत्यादिनिर्देशो नोपपद्यते। इह नित्यशब्दोऽयं सर्वकालभादिनो य आत्माकाशादयः, यषामुत्पत्तिविनाशौ प्रयोक्तृभिर्नोपलभ्येते, तेष्वपि प्रयुज्यमानो लोके दृश्यते -नित्य आत्मा, नित्यमाकाशम्, नित्या द्यौरिति। आभीक्ष्ण्येऽपि -नित्यं प्रहसितः, नित्यं प्रजल्पित इति। तत्र यदीह सामान्येन तत्र नाम नित्यताऽभिधेयभावेन वर्तते तस्य नित्यार्थवाचिनो ग्रहणं स्यात्, आत्माकाशादिशब्दानामपि द्विर्वचनं प्रसज्येत -इत्येनेनाभिप्रायेणाह -`केषु नित्यता` इति। इतरो विदिताभिप्राय आह -`तिङ्क्षु नित्यताऽव्ययकृत्सुण` इति। अव्ययानि च तानि कृन्ति चेति कर्मधारयः। यद्यप्यात्माकाशादिशब्देष्वपि सर्वकालभावित्वलक्षणा नित्यताऽभिधेयभावेन वर्तते, तथापीह भावप्रधानेषु तिङ्क्ष्वव्ययकृत्सु चाभीक्ष्ण्यलक्षणा या नित्यता सैवाश्रीयते। अतोऽतिप्रसङ्गो न भवतीति भावः। ननु च नित्यशब्दोऽयं सामान्यवचनः। न च सामान्यशब्दाः प्रकरणादिकमन्तरेण विशेषेऽवस्थातुमुत्सहन्ते। न चेह तथाविधं किञ्चित्? प्रकरणादिकमस्ति, यतो विशेषेऽवस्थानं स्यात्, तत्कुतो नित्यताविशेषपरिग्रहो लभ्यते? इति मन्यमान आह -`कुत एतत्` इति। आभीक्ष्ण्यमिह नित्यतेत्याश्रीयत इति शेषः। व्याप्तेराभीक्ष्ण्यवचनस्य नित्यशब्दस्य ग्रहणादिहाभीक्ष्ण्यलक्षणा नित्यताऽऽश्रीयते, पदस्य हि द्विर्वचनमुच्यते। तच्च पदं सुबन्तं तिङन्तं च, तत्र सुप्सु दीप्सेति वक्ष्यति। यदि च नित्यशब्दोऽयं कूटस्थवचनो गृह्रते, ततश्च कूटस्थमिति सुबन्तेष्वभिधेयभावेन वर्तत इति सुबन्थानामेव द्विर्वचनं स्यात्, न तिङन्तानाम्, नाप्यव्ययकृताम्। आभीक्ष्ण्यवचनस्य तु नित्यशब्दस्य ग्रहणे सति नित्यलक्षणद्विर्वचनमाख्यातानामव्यकृतां च भवति। वीप्सालक्षणञ्चान्येषामिति सर्व पदजातमनुगृहीतं भवति। तस्माद्वयाप्तेराभीक्षण्यवचनस्य नित्यशब्दस्य ग्रहणादिह `आभीक्ष्ण्यं नित्यता` इत्युपपन्नं भवति। `आभीक्ष्ण्यमिह नित्यता` (इति)। सा च तिङ्क्ष्वव्ययकृत्सु चेति। कुत एतत्? इत्याह -`आभीक्ष्ण्यं च` इत्यादि। आभीक्ष्ण्यं हि पुनः पुनः प्रवृत्तिः। तच्च साध्यरूपायाः क्रियाया एव सम्भवतीति तस्या एव धर्मः, न तु द्रव्यस्य; तस्य सिद्धरूपस्यैव सुबन्तेनाभिधानात्। सा च क्रिया तिङन्तादिभिरेवाभिधीयत इति तेष्वेव नित्यता। कीदृशी पुनः सा क्रिया? आभीक्ष्ण्यलक्षणेन या नित्यत्वेन योगान्नित्यशब्देनोच्यते, इत्याह -`याम्` इत्यादि। `अनुपरमन्` इति। `विरतिमकुर्वन्` इत्यर्थः। `तन्नित्यम्` इति। तत क्रियारूपं वस्तु नित्यमित्यर्थः। `प्राधान्येन` इति। यदुद्दिश्य क्रियाप्रवृत्तिस्तत्? प्रधानम्, तस्य भावस्तथा। यद्यपि ग्रामं गन्तुमिच्छन्? वृक्षमूलोपसर्वणं पुनः पुनः करोति, तथापि न तन्नित्यमिति। एतदुक्तं भवति -न ह्रसौ प्राधान्येन तत्करोति; तदुद्दिश्याप्रवृत्तेः। तेन ग्रामं गच्छन्? वृक्षमूलान्युपसर्पतीत्यत्र सत्यप्यामभीक्षण्ये द्विर्वचनं न भवति। `यां क्रियाम्` इत्यनेन हि क्रिया धर्मिणी दर्शिता। `अनुपरमन्? करोति` इत्यनेनापि तस्या आभीक्षण्यं धर्मः। `पचतिपचति` इति। तिङन्तस्योदाहरणम्। `भुक्त्वाभुक्त्वा, भोजंभोजम्` इति। अत्र `आभीक्षण्ये णमुल्च` (3.4.22) इति क्त्वाणमुलौ। `लुनीहिलुनीहि` इति। `क्रियासमभिहारे` (3.4.2) इत्यादिना लोट्, तस्य हिरादेशः, `लोट्धर्माणौ हिस्वो भवतः` इति (3.4.2) तत्रोक्तम्, तेन विकरणम्, [`विकरणः` -प्रांउ।पाठः] `ईहल्यघोः` (6.4.113) इतीत्वम्। एतानि त्रीण्यव्ययकृतामुदाहरणानि। एषां क्त्वादीनां **कृदतिङ्** (3.1.93) इति कृत्संज्ञा। अव्ययसंज्ञा तु क्त्वाप्रत्ययस्य **क्त्वातोसुन्कसुनः** (1.1.40) इति। णमुलस्तु **कृन्मेजन्तः** (1.1.39) इति। लोटस्तु स्वरादिष्वाभीक्षण्यस्य पाठात्। ननु चैते क्त्वाणमृल्लोटश्चाभीक्ष्ण्य एव विधीयन्ते, तत्र यथा पापच्यत इति क्रियासमभिहारे विधीयमानेन यङा पौनःपुन्यस्य प्रकाशितत्वाद्द्विर्वचनं न भवति, तथा कत्वादिभिरपि तस्य प्रकाशितत्वान्न भवितव्यम्। अथ प्रकाशितेऽपि तस्मिस्तु तद्भवति, पापच्यत इत्यत्रापि स्यात्? इत्यत आह -`कत्वाणमुलोः` इत्यादि। भिन्ना हि भावानां शक्तयः। तथा हि -यामेव क्रियां भारोद्बहनादिकां कश्चित्? सहायसापेक्षः करोति, तामेवान्यः सहायनिरपेक्षः, तस्माद्यद्यपि चाभीक्ष्ण्ये क्त्वा णमुल्लोट्? च विधीयते, तथापि तैर्नैवाभीक्ष्ण्यभिव्यक्तं भवति। द्विर्वचनसापेक्षाणामेव तेषां पौनःपुन्यप्रकाशने शक्तिः, न केवलानाम्। तेन भवत्येव तदन्तस्य द्विर्वचनम्; यङन्तु द्विर्वचननिरपेक्षस्यापि पौनःपुन्याभिव्यक्तौ सामर्थ्ययमस्तीति तेनैवाभीक्षण्यस्य द्योतितत्वात्? पापण्यत इत्यत्र न भवति। आभीक्ष्ण्यप्रकाशनाय हि द्विर्वचनमुच्यते, एतच्च यङैव प्रकाशितमिति किं द्विर्वचनेनननु च यङन्तस्यापि क्वचिद्द्विर्वचनमिष्यत एव, तच्च यङो द्विर्वचननिरपेक्षस्य यौनःपुन्यप्रकाशने शक्तौ सत्यां न सिद्ध्यति? इत्याह -`यदा तु` इत्यादि। द्विप्रकारः क्रियासमभिहारः पौनःपुन्यम्, भृशार्थश्च। तत्र यदा यङन्तेन द्विर्वचनं भवति तदा भृशार्थे यङ्। द्विर्वचनं तु नस्यैव भृशार्थस्य धर्मे पौनापुन्ये, न हि तद्यङा प्रकाशितम्; तस्य भृशार्थे विदितत्वादित्यभिप्रायः। `क्रियासमभिहारे पौनःपुन्यं द्रष्टव्यम्। इति। अत्र यद्यपि क्रियासमभिहारशब्दः सामान्यः, तथापि सामर्थ्यादभृशार्थलक्षणा एव क्रियासमभिहारे तस्य वृत्तिर्विज्ञायते, न हि पौनःपुन्येऽन्यस्य पौनःपुन्यस्य सम्भवोऽस्ति। अथ कथं पौनःपुन्ये यङ्? भवति? कथं च न स्यात्? द्विर्वचनेनापदादेन बाधितत्वात्। यङः कोऽवकाश इति चेत्? भृशार्थ एव? नैष दोषः; पदस्य हि द्विर्वचनमुच्यते, धातोश्च यङ्। तथा कार्यिणोरतिभेदात्? कुतो बाधा`नित्यवीप्सयोः` इत्युक्तम्, तत्र नित्यता तिङ्क्ष्वव्ययकृत्सु चेत्युक्तम्। वीप्सा तु न विज्ञायते -क्वाभिधेयभावेन वर्तते? इति, अतस्तत्परिज्ञानार्थं पृच्छते -`अथ केषु वीप्सा` इति। इतरो विदिताभिप्राय आह -`सुप्सु वीप्सा` इति। सुपामेव तदभिवयक्तौ सामर्थ्यात्। यदि सामान्येन व्याप्तुमिच्छा वीप्सा तदा चिकीर्षाशब्दस्यापि द्विर्वचनं प्राप्नोति, तस्य करोतिक्रियया कटादेव्र्याप्तुमिच्छा तत्र वृत्तिरिति मन्यमान आह -`का पुनर्वीप्सा` इति। `व्याप्तिविशेषविषया` इत्यादि। नानादाचिनामधिकरणानां क्रियादिसम्बन्धेन युगपद्व्याप्तिव्र्याप्तिविशेषः, स विषयो यस्या इच्छायाः सा तथोक्ता। सैवंविधा `प्रयोक्तुरिच्छा वीप्सा`। प्रयोक्तुरित्यनेन प्रयोक्तृधर्मो वीप्सा, नाभिधेयधर्म इति दर्शयति। कथं पुनव्र्याप्तिविशेषविषयेत्येष विशेषो लभ्यते? विशब्दप्रयोगात्। यदि ह्रविशेषेण व्याप्तुमिच्छां दीप्साऽभिमता स्यात्, `नित्येप्सयोः` इत्येवं ब्राऊयात्। `व्याप्तिविशेषविषया प्रयोक्तुरिच्छा वीप्सा` इत्युक्तम्, स तु विशेषोऽनिर्दिष्टस्वरूपत्वान्न विज्ञायते, तदज्ञानच्च तद्विशिष्टा वीप्सापि न ज्ञायत इत्यतः पृच्छति -`का पुनः सा` इति। `नानावाचिनाम्` इत्यादि। नानावाचिनाम्, अधिकरणानामिति -व्यधिकरणे षष्ठ्यौ। नाना=पृथग्भूताः, तान्? वक्तुं शीलं येषां शब्दानां ते नानावाचिनः। तत्सम्बन्धिनामधिकरणानां वाच्यानामित्यर्थः। `क्रियागुणाभ्याम्` इति। करणे तीया। `युगपत्` इति। एककालम्। `प्रयोक्तुः` इति। वक्तुः। यो द्विर्वचनं प्रयुङक्ते तस्य। `व्याप्तुम्` इति। सम्बन्धविशेषेणाप्तुम्। साकल्येन सम्बन्धुमित्यर्थः। `इच्छा` इति। अभिलाषः। `वीप्सा` इति। प्रादिसमासः -विशिष्टा ईप्सा वीप्सा। `नानाभूतार्थवाचिनाम्` इत्यादिना अनन्तरेक्तं वाक्यं विवृणोति। यत एवंविधा वीप्सा, तेन चिकीर्षेत्यत्र द्विर्वचनं न भवति। चिकीर्षा हि कर्त्तुरिच्छा, न प्रयोक्तुः। यतश्चैवंविधा वीप्सा, तेन जातिवाचिनामपि द्विर्वचनं न भवति -निष्पन्नो यव इति। न हि जातिशब्दा नानाभूतार्थवाचिनः। यदा तु क्रमेण व्याप्तुमिच्छा तदापि न भवति -अयं ग्रामो रमणीयः, अयञ्च ग्रामो रमणोय इति। द्वन्द्वैकशेषयोरपि न भवति -अस्मिन्वने शोभना धवखदिरपलाशाः, अस्मिन्वने शोभना वृक्षा इति। अशेषविशेषव्याप्तावनभिमतायामप्येवं प्रयोगः क्रियत इति सर्वविशेषाभिधानं [`सर्वविशेषाविधानं` -कांउ। पाठः] न भवति, अतः प्रयोक्तुरप्यशेषान्? विशेषान्? व्याप्तुमिच्छा न जायते। बाहुल्येन तु शोभनत्वमाश्रित्येवं वाक्यं प्रयोक्ता प्रयुङक्ते -ग्रामो ग्रामो रमणीय इति। अत्र हि दिन्देशादिभेदेन भिन्नानां ग्रामाणां रमणीयत्वेन गुणेन प्रयोक्तुर्युगपद्व्याप्तुमिच्छा दीप्सा। `जनपदो जनपदः` इति। अत्रापि जनपदानाम्। `पुरुषः पुरुषे निषनमुपैति` इति। अत्र पुरुषाणां निधनक्रियया। निधनम् -विनाश इत्यर्थः। क्रियागुणग्रहणमुपलक्षणार्थम्। द्रव्येणापि नानावाचिनामधिकरणानां युगपद्व्याप्तुं प्रयोक्तुर्येच्छा सा वोप्सैव। तेन ग्रामे ग्रामे पानीयमित्यत्रापि द्विरवचनं सिद्धं भवति। यस्तु `द्रव्यस्य द्रव्यान्तेण सह सम्बन्धो न भवति, सिद्धरूपत्वात्` इत्याह, तस्य यदुक्तम् -क्रियागुणद्रव्यैः साकल्येन कालाध्वनोः सम्बन्धोऽत्यन्तसंयोगः` इति, तद्वचनं व्याहन्यते; ग्रामे ग्रामे पानीयमित्ययं च शिष्टप्रयोगो नोपपद्यते। अथ कथं ग्रामशब्दोऽयं वीप्सायां वर्तते, यावता न तस्या वीप्साः-भिधेया, किं तर्हि? जनाकीर्मो भूखण्डः? सत्यमेतत्; यद्येवम्, तथापि द्विर्वचनप्रतिपत्तिद्बारेण तस्या द्योतितत्वात्? स तस्यां वर्तत इत्युच्यते। ग्रामो हि द्विर्वचनं प्रतिपद्यमानो वीप्सां द्योतयतीति तस्यां द्योतनद्वारेण वर्तते। अथ ग्रमो ग्राम इति कथमेकवचनम्, यावता बहुत्वाद्धिप्रामाणां बहुवचनेनैव भवितव्यम्; अथ कृते द्विर्वचने? नैतदस्ति; समुदाय एवात्र बहुत्वमुपजायते, न प्रत्येकम्? उपातैकत्वसंख्येऽवयवेऽविरुद्धं ह्रेकत्वं बहुत्वेन। तेनावयवाद्बहुवचन न भवति। समुदायात्? तर्हि कथं न भवति? बहुत्वस्याबगतत्वाद्वीप्सया। स हि समुदायो वीप्सायां बहुत्वमन्तरेण न सम्भवतीति तां प्रकाशयन्नान्तरीयकत्वाद्बहुत्वमपि गमयति। ततोऽवगतार्थत्वाद्बहुवचनं न प्रयुज्यते। अथ यत्? तिङन्तं नित्यतया प्रकर्षेण च युक्तम्, तत्र किं कृते द्विर्वचने प्रकर्षप्रत्ययेन भवितव्यम्। अथ वा कृते प्रकर्षेप्रत्यये द्विर्वचनेन? इत्यत आह -`यत्तिङन्तम्` इत्यादि। अत्र विप्रतिषेधो हेतुः। तत्र द्विर्वचनस्यावकाशो यत्र नित्यार्थो विवक्षितः, न प्रकर्षः -पचतिपचतीति; प्रकर्षप्रत्ययस्यावकाशो यत्र प्रकर्षेण योगः, न नित्यतया -पचतितरामिति; यत्र तूभाभ्यां योगस्तत्र विप्रतषेधेन द्विर्वचनं भवति -पचतिपचतितरामिति। सुबन्तमपि तर्हि यद्वीप्सया प्रकर्षेण च युक्तम्, तस्मादत एव हेतोः कृतद्विर्वचनात्? प्रकर्षप्रत्ययः स्यात्, ततश्चाढतरमाढतरमानयेति न सिद्ध्येदित्यत आह-`इह तु` इत्यादि। यदि सुबन्तस्यैककालं वीप्सा प्रकर्षेण च योगः स्यात्, तदा स्यादयं प्रसङ्गः, स न नास्ति; यतः सुबन्तस्य प्रकर्षप्रत्ययेन संयुक्तस्य पश्चाद्वीप्सया योग इष्यते। कथम्? इह हि वीप्सा नाम पौरुषेयो धर्म इच्छाविशेषः, स च तथा प्रयोक्तुर्विदुषः प्रवर्तते यथा शब्दे नानिष्टमापद्यते, नापि प्रयोक्तरि। यदि प्रकर्षप्रत्ययात्? प्राक्? सहभावेन वा वीप्सा स्याच्छब्देनिष्टमापद्यते, तद्द्वारेण प्रयोक्तर्यपि, यथा -हेलयो हेलय इति ब्राऊवप्सु पुरुषेषु; यज्ञेषु चानिष्टमापद्यते। तस्मात्? प्रकर्षयोगविवक्षाया उत्तरकालं शिष्टस्य प्रयोक्तुर्वीप्सया भवितव्यमिति सिद्धमाढतरमाढतरमानयेति।अपरः प्रकारः -इहापि तर्हि तत एव हेतोः कृते द्विर्वचने प्रकर्षप्रत्ययः स्यात्, ततश्चाढतरमाढतरमानयेति न सिद्ध्यति -इत्येतस्मिन्? पूर्वपक्ष इदमाह -`इह तु` इत्यादि। प्रकर्षसाहचर्यात्? प्रकर्षप्रत्ययः प्रकर्षशब्देनोक्तः। वीप्सासाहचर्याद्धि द्विर्वचनं वीप्साशब्देन। तदेतदुक्तं भवति -प्रकर्षप्रत्यययुक्तस्य द्विर्वचनेन योग इष्यत इति। अत्र चायमभिप्रायः -येन हेतुना युगपत्? प्रकर्षेण नित्यतया च युक्तस्य पूर्वं द्विर्वचनं भवति, स विप्रतिषेधोऽत्र नास्ति; अतुल्यबलत्वात्। अतुल्यबलत्वं तु प्रकर्ष प्रत्ययस्यान्तरङ्गत्वात्, द्विर्वचनस्य बहिरङ्गत्वात्। तथा हि ङ्याप्प्रातिपदिकादातिशायिको भवति, द्विर्वचनं तु पदस्य। `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इति सिद्धासिद्धयोश्चायुक्तो विप्रतिषेधः। तस्मात्? पहूर्वं प्रकर्षप्रत्ययेन सुबन्ताद्भवितव्यम्, पश्चात्? तदन्तस्य द्विर्वचनेनेति। ननु चातिशायिको नैवान्तरङ्गः, समर्थाद्धि स उपपद्यते, **समर्थानां प्रथमाद्वा** (4.1.82) इत्यधिकारात्, सामर्थ्य च सुबन्तेनैव? नैतत्; उक्तं हि तत्रैव (4.1.82) `स्वार्थिकप्रत्ययावधिश्चायमधिकारः प्राग्दिशो विभक्तिरिति (5.3.1) यावत्, स्वार्थिकेष्वस्योपयोगो नास्ति` इति। स्वार्थिकाश्चतिशायिकाः। तस्मादन्तरङ्गत्वादुत्पन्ने तस्मिन्? पश्चात्? सुबन्तस्य द्विर्वचनेन भवितव्यम्॥ Prakriyasarvasvam ----------------- क्रियायाः पौनःपुन्ये व्याप्तिविवक्षायां च द्विरुक्तिः स्यात् । हासं हासं वक्ति । हसित्वा हसित्वा वक्ति । युक् । पायं पायं नृत्यति । लभ् अम् ॥ इति पौनःपुन्यरूपे नित्यत्वे क्रियाया द्विरुक्तिः सुबन्तस्य व्याप्तिविवक्षायाम् । रमते रमते कृष्णः पौनःपुन्यमिहोच्यते । गोपी गोपी हरिं प्राप्ता ताः सर्वा इति गम्यते ॥ ६३४ ॥ सर्वस्येत्युक्तेः सोपसर्गस्यापि । प्रयाति प्रयाति । तिङ्क्षु द्विरुक्तिः पश्चाद् घयोगः सुप्सु तत्पुरः । नौमिनौमितरां साधुतरं साधुतरं जनष् ॥ ६३५ ॥ Sutra Prayogas -------------- * **दिने दिने** (रघुवंशम्): `नित्यवीप्सयोः` इति द्विर्वचनम्। * **काले काले** (रघुवंशम्): `नित्यवीप्सयोः` इति वीप्सायां द्विर्वचनम्। * **यं यं** (रघुवंशम्): `नित्यवीप्सयोः` इति वीप्सायां द्विर्वचनम्। * **स स** (रघुवंशम्): `नित्यवीप्सयोः` इति वीप्सायां द्विर्वचनम्। * **तां तां** (रघुवंशम्): `नित्यवीप्सयोः` इति वीप्सया द्विरुक्तिः। * **दिने दिने** (कुमारसम्भवम्): `नित्यवीप्सयोः` इति वीप्सायां द्विरुक्तिः। * **बद्धां बद्धां** (किरातार्जुनीयम्): `नित्यवीप्सयोः` इति नित्यार्थे द्विर्भावः। * **लताऽनुपातं** (भट्टिकाव्यम्): `तत्र व्याप्यमाने द्रव्यवचनस्य आसेव्यमाने च क्रियावचनस्य नित्य - वीप्सयोः` इति द्विर्वचनं विधीयते।