81001: सर्वस्य द्वे
===================
**Padacheda:** सर्वस्य | S | 6 | 1 |
द्वे | S | 1 | 2 |
Sutrartha
---------
**इतः परम् **पदस्य** (8.1.16) अस्मात् प्राक् यद् किमपि वक्ष्यते, तत् सर्वम् द्विरुक्तम् भवति ।**
इदम् अधिकारसूत्रम् अस्ति । अस्य अधिकारस्य व्याप्तिः **पदस्य** (8.1.16) इति सूत्रम् यावत् प्रचलति । अस्मिन् अधिकारे निर्दिष्टेषु सन्दर्भेषु शब्दस्य द्वित्वं (द्विवारम् उच्चारणम्) भवति — इति अस्य अधिकारस्य आशयः । कानिचन उदाहरणानि एतानि —
1. **नित्यवीप्सयोः** (8.1.4) इति सूत्रेण नित्यतायाः (regularity), पौनःपुन्यस्य (repetition) च सन्दर्भः उच्यते । इदम् सूत्रम् **सर्वस्य द्वे** (8.1.1) इत्यस्मिन् अधिकारे वर्तते, अतः पौनःपुन्यस्य निर्देशार्थम् प्रयुक्तस्य शब्दस्य द्वित्वं भवति — इति अर्थः अत्र विधीयते । यथा - "नित्यं पचति" अथवा "पुनः पुनः पचति" इत्येतयोः अर्थयोः निर्देशार्थम् **पचति पचति** इति प्रयोगः अपि सम्भवति ।
2. **परेर्वर्जने** (8.1.5) इति सूत्रेण "वर्जनम्" इति सन्दर्भे प्रयुक्तस्य "परि"शब्दस्य द्वित्वम् उच्यते । अतः "वङ्गं वर्जयित्वा अन्यत्र वृष्टिः जाता" इति अर्थं दर्शयितुम् **परि परि वङ्गेभ्यः वृष्टिर्जाता** इति प्रयोगः क्रियते ।
3. **उपर्यध्यधसः सामीप्ये ** (8.1.7) इति सूत्रेण " उपरि" शब्दस्य सामीप्ये गम्यमाने द्वित्वं विधीयते । अतः "ग्रामस्य उपरि भागे परन्तु समीपे" इत्यस्मिन् अर्थे **उपरि उपरि ग्रामम्** इति प्रयोगः भवितुम् अर्हति ।
**अष्टाध्याय्यां विद्यमानानि द्वित्वप्रकरणानि**
अष्टाध्याय्याम् आहत्य त्रीणि द्वित्वप्रकरणानि विद्यन्ते —
1. **एकाचो द्वे प्रथमस्य** (6.1.1) इत्यतः **दाश्वान् साह्वान् मीढ्वांश्च** (6.1.12) इत्येतेषु सूत्रेषु पाठितम् द्वित्वम् **षाष्ठं द्वित्वम्** नाम्ना ज्ञायते । अस्मिन् द्वित्वप्रकरणे सन्/यङ्/लिट्/लुङ्/तिङ्/अच्-इत्येतेषां प्रत्ययानां योजनसमये **धातूनाम्** जायमानम् द्वित्वम् निर्दिष्टम् अस्ति ।
2. **सर्वस्य द्वे** (8.1.1) इति प्रकृतसूत्रेण निर्दिष्टः अधिकारः अष्टाध्याय्याः द्वितीयम् द्वित्वप्रकरणम् अस्ति । अस्मिन् द्वित्वप्रकरणे **शब्दानां** द्वित्वस्य विषये सूत्राणि विद्यन्ते ।
3. **अचो रहाभ्यां द्वे** (8.4.46) इत्यतः आरभ्य **दीर्घादाचार्याणाम्** (8.4.52) इति यावद्भिः सूत्रैः **वर्णानां** द्वित्वम् विधीयते । एतत् द्वित्वप्रकरणम् अष्टाध्याय्यां विद्यमानम् तृतीयम् द्वित्वप्रकरणम् अस्ति ।
Sutrartha (English)
-------------------
In the contexts that will henceforth be told till the sutra **पदस्य** (8.1.16), the participating words will get duplicated.
Vasu English Summary
--------------------
From here up to यथास्वे यथायथम् (8.1.15), inclusive, is to be supplied always the phrase 'the whole word is repeated'.
Vasu English Translation
------------------------
From here up to यथास्वे यथायथम् (8.1.15), inclusive, is to be supplied always the phrase 'the whole word is repeated'.
This is an *adhikara* *sutra*. Whatever will be taught hereafter upto पदस्य (8.1.16) exclusive, there the phrase सर्वस्य द्वे should be supplied to complete the sense. Thus (8.1.4) teaches "when the sense is that of 'always', and 'each'." Here the phrase 'the whole word is repeated' should be supplied to complete the sense. i. e. "The whole word is repeated when the sense is that of always and each". What is to be repeated? That which is most appropriate in sound and sense both. Thus one पचति becomes two, as पचति पचति 'he always cooks'. Similarly ग्रामो ग्रामो रमणीयः 'every village is beautiful'.
The *sutra* '*sarvasya* *dve*', should not be confounded as meaning 'the word-form *sarva* is doubled'. For then rules likes (6.1.99), and (6.1.100) will find no scope. The word *sarva* has several meanings: (1) the totality of things (द्रव्यः) as सर्वस्वं ददाति, (2) the totality of modes (प्रकारः) सर्वान्नीनोभिक्षुः = सर्वप्रकारमन्नं भक्षयति; (3) the totality of members (अवयवः), as सर्वः पटोदग्धः ॥ In the present *sutra*, the word *sarva* has this last sense: namely all the members of a word are doubled, no portion is omitted. The force of the genitive case in *sarvasya*, is that of *sthana*, i. e. in the room of the whole of the words like परि &c there is doubling. So one meaning of the *sutra* is, that in the room of the one word, two are substituted. In making such substitution, we must have regard to the rule of nearness.
Another meaning of the *sutra* however is, that it does not teach substitution but repetition or employment, not *adesa*, but *prayoga*. That is to say, one word is employed twice. In this sense, of course, there is no room left for finding out the proper substitute. The very word-form, पचति &c, is employed twice, i. e. is repeated twice or pronounced twice.
The word *sarvasya* is employed in the *sutra* for the sake of distinctness only. Otherwise, one may double only the last letter of a word by the rule of अलोऽन्तस्य, though that rule is not, strictly speaking, applicable to such cases.
Objection:- The word पदस्य should be employed in the *sutra*, in order to prevent the application of the rule to *Samasa* (compound), to *taddhitas*, and to *vakyas* (sentences). Thus सप्तपर्णोऽष्टापदम् ॥ Here there is the sense of *vipsa* with regard to seven leaves, and does not mean a tree having seven leaves. There ought to have been doubling; but it would not take place, if we take the word *padasya* in the aphorism. Similarly द्विपदिकां ददाति, here also the sense is that of *vipsa*, and there ought to have been doubling, before the affixing of the *taddhita* affix. So also in ग्रामे ग्रामे पानीयम् the sentence ग्रामे पानीयम् is not doubled, if we employ *padasya*. So the word *padasya*, should be employed in the *sutra*. Moreover, it would prevent our employing the word *padasya* again in (8.1.16).
Answer:- We could not employ the word *padasya* in this *sutra*, for then the rule would become very much restricted. Moreover in the above examples, there can be no doubling; for सप्तपर्णः means 'that whose every twig bears seven leaves पर्वणि पर्वणि सप्तपर्णानि अस्य : so that the sense of *vipsa* is not here inherent in the word *sapta* or *parna*. In the case of the *taddhita* example, there would be no doubling, because the force of *vipsa* is there denoted by the *taddhita* affix itself, and so doubling is not necessary. Moreover, a sentence can never be doubled, because *vipsa* can take place with regard to a word, and not a sentence. Therefore the word पदस्य should not be employed in the *sutra*.
On the contrary, if we employ the word *padasya* in the *sutra*, it would give rise to the following anomalies. We could not have प्रपचति प्रपचति; for *upasarga* being considered as a separate *pada*, only पचति would be doubled, and प्र would not. So also, we have two forms द्रोग्धा and द्रोढा ॥ Here तृच् is added to the root दुह्, and ह is optionally changed to घ by (8.2.77), and in the other alternative there is ढ ॥ As घ and ढ are both *asiddha* (8.2.1), the doubling would take place without making this घ or ढ substitution. So that having first doubled the word (something as द्रोह्ता द्रोह्ता) then optional घ or ढ change will take place, and we shall get wrong forms, like द्रोग्धा द्रोढा, द्रोढा द्रोग्धा in doubling. While the correct forms are द्रोढा द्रोढा, or द्रोग्धा द्रोग्धा, and not the hybrid doubling as given above. Hence the necessity of the *vartika* पूर्वत्रासिद्धीयमद्विर्वचने (See (8.2.3) last *vartika*).
Or the word सर्व may be considered to be formed by अच् affix of अर्श आद्यच्, meaning सर्वं कार्यं यस्मिन्नस्ति तदिदं सर्व, तस्य द्वे भवतः ॥ That is, all operations having been first performed, then the word is doubled; so that a word in its inchoate state is not doubled.
Bhashya
-------
सर्वस्य द्वे सर्ववचनं किमर्थम्॥ सर्ववचनमलोऽन्त्यनिवृत्त्यर्थम्॥ सर्वग्रहणं क्रियते॥ (किं प्रयोजनम्?)॥ अलोऽन्त्यनिवृत्त्यर्थम्। अलोऽन्त्यस्य विधयो भवन्तीत्यन्त्यस्य द्विर्वचनं मा भूदिति॥ क्व पुनरलोन्त्यनिवृत्त्यर्थेनाऽर्थः सर्वग्रहणेन ?॥ नित्यवीप्सयोरिति॥ नित्यवीप्सयोरित्युच्यते, न चाऽन्त्यस्य द्विर्वचनेन(1) नित्यता वीप्सा वा गम्यते॥ इह तर्हि-परेर्वर्जने इत्यन्त्यस्याऽपि(2) द्विर्वचनेन(1) र्वज्यमानता गम्येत। ॥ षष्ठीनिर्द्वेशार्थञ्ञ्च(3)॥ षष्ठीनिर्देशार्थं च सर्वग्रहणं कर्तव्यम्। षष्ठीनिर्देशो यथा प्रकल्पेत॥ अनिर्देशे हि षष्ठ्यर्थाऽप्रसिद्धिः॥ अक्रियमाणे हि सर्वग्रहणे षष्ठ्यर्थस्याऽप्रसिद्धिः स्यात्॥ कस्य ?॥ स्थानेयोगत्वस्य॥ क्व पुनरिह षष्ठीनिदेशाऽर्थेनार्थः सर्वग्रहणेन यावता सर्वत्रैव षष्ठ्युच्चार्यते-परेर्वर्जने प्रसमुपोदः पादपूरणे उपर्यध्यधसः सामीप्ये वाक्यादेरामन्त्र्रितस्येति॥ इह न काचित् षष्ठी-नित्यवीप्सयो(1)रिति?॥ ननु चैषैव षष्ठी॥ नैषा षष्ठी॥ किं तर्हि?॥ अर्थनिर्देश एषः-नित्ये चाऽर्थे वीप्सायां चेति॥ अलोऽन्त्यनिवृत्त्यर्थेन तावन्नार्थः सर्वग्रहणेन। इदं तावदयं प्रष्टव्यः -नित्यवीप्सर्योर्द्वे भवत इत्युच्यते, द्विशब्द आदेशः कस्मान्न भवति?॥ आचार्यप्रवृत्तिर्ज्ञापयति-न द्विशब्द आदेशो भवतीति-यदयं तस्य परमाम्रेडितम्अनुदात्तं चेत्याह॥ कथं कृत्वा ज्ञापकम्?॥ द्विशब्दोऽयमेकाच्, तस्यैकाच्त्वात्तस्य परमाम्रेडितमनुदात्तं चेत्येतन्नास्ति। पश्यति त्वाचार्यो-न द्विशब्द आदेशो भवतीति, ततस्तस्य परमाम्रेडितमनुदात्तं चेत्याह॥ यदि तर्हि न द्विशब्द आदेशो भवति के तर्हीदानीं द्वे भवतः?॥ द्विशब्देन यदुच्यते॥ किं पुनस्तत्?॥ द्विशब्दोऽयं सङ्ख्यापदं, सङ्ख्यायाश्च सङ्ख्येयमर्थः। (1)सङ्ख्येये द्वे भविष्यतः॥ के पुनस्ते?॥ पदे वाक्ये मात्रे (वा5)॥ तद्यदा तावत्पदे वाक्ये वा तदाऽनेकाल्त्वात्सर्वादेशः(2) सिद्धः। यदातावन्मात्रे(3) अपि तदाऽनेकाल्शित्सर्वस्येति सर्वादेशो (4)भविष्यति॥ यदा तर्ह्यर्द्धमात्रे तदा सर्वादेशो न सिध्यति॥ नैषः दोषः। (तदापि सिद्धः(5))। न चार्द्धमात्रे द्विरुच्येते॥ किं कारणम्?॥ इह व्याकरणे यत्सर्वाऽल्पीयान्(6) स्वरव्यवहारः स मात्रया भवति। नाऽर्द्धमात्रया व्यवहारोऽस्ति, तेनाऽर्द्धमात्रे न भविष्यतः॥ एवमपि कुत एतत्-पदे द्वे भविष्यतइति, न पुनर्वाक्ये स्यातां मात्रे वा?॥ नित्यवीप्सयोर्द्वे भवत इत्युच्यते न च वाक्यद्विर्वचनेन(7) मात्राद्विर्वचनेन(7) वा नित्यता वीप्सा वा गम्यते॥ षष्ठीनिर्देशार्थमेव तर्हि सर्वग्रहणं कर्त्तव्यम्॥ ॥ न वा पदाधिकारात्॥ न वा वक्तव्यम्॥ किं कारणम्?॥ पदाधिकारात्। पदस्येति प्रकृत्य(1) द्विर्वचनं वक्ष्यामि॥ तच्च समासतद्धितवाक्यनिवृत्त्यर्थम्॥ तच्चावश्यं पदग्रहणं कर्त्तव्यम्॥ (किं कारणम्?॥ समासतद्धितवाक्यनिवृत्त्यर्थम्(1)) समासनिवृत्त्यर्थं तद्धितनिवृत्त्यर्थं वाक्यनिवृत्त्यर्थञ्ञ्च॥ समासनिवृत्त्यर्थं तावत्-सप्तपर्णः। अष्टापदम्(2)। तद्धितनिवृत्त्यर्थं-द्विपदिका त्रिपदिका। माषशः कार्षापणशः। वाक्यनिवृत्त्यर्थं ग्रामे ग्रामे पानीयम्। माषं माषं देहि (इति(1))॥ अथ क्रियमाणेऽपि वै पदग्रहणे समासनिवृत्त्यर्थमिति कथमिदं विज्ञायते-समासस्य निवृत्त्यर्थं समासनिवृत्त्यर्थमाहो स्वित्समासे निवृत्त्यर्थं समासनिवृत्त्यर्थमिति?॥ किं चातः?॥ यदि विज्ञायते समासस्य निवृत्त्यर्थं समासनिवृत्त्यर्थमिति, सिद्धं-सप्तपर्णः सप्तपर्णौ सप्तपर्णा इति। सप्तपर्णाभ्यां सप्तपर्णेभ्य इत्यत्रापि प्राप्नोति॥ अथ विज्ञायते-समासे निवृत्यर्थं समासनिवृत्यर्थमिति,-सप्तपर्णः सप्तपर्णौ सप्तपर्णा इत्यत्रापि प्राप्नोति॥ तथा-तद्धितनिवृत्त्यर्थमिति,-कथमिदं विज्ञायते-तद्धितस्य निवृत्त्यर्थं तद्धितनिवृत्त्यर्थमिति, आहो स्वित्तद्धिते निवृत्त्यर्थं तद्धितनिवृत्त्यर्थमिति?॥ किं चातः?॥ यदि विज्ञायते तद्धितस्य निवृत्त्यर्थं तद्धितनिवृत्त्यर्थमिति, सिद्धं द्विपदिका(1) त्रिपदिका(2)(इति(2)), द्विपदिकाभ्यां त्रिपदिकाभ्यां माषशः कार्षापणश इत्यत्र प्राप्नोति॥ अथ विज्ञायते-तद्धिते निवृत्त्यर्थं तद्धितनिवृत्त्यर्थमिति, द्विपदिका(ः)त्रिपदिका इत्यत्रापि प्राप्नोति॥ तथा वाक्यनिवृत्त्यर्थमिति कथमिदं विज्ञायते वाक्यस्य निवृत्त्यर्थं वाक्यनिवृत्त्यर्थमिति। आहो स्विद्वाक्ये निवृत्त्यर्थं वाक्यनिवृत्त्यर्थमिति?॥ किं चातः?॥ यदि विज्ञायते-वाक्यस्य निवृत्त्यर्थं वाक्यनिवृत्त्यर्थमिति,- यदि वाक्यं वीप्सायुक्तं; भवितव्यमेव द्विर्वचनेन। अथाऽप्यवयवः,-भवत्येव। तदेतत्क्रियमाणेऽपि पदग्रहणे आलूनविशीर्णं(1) भवति, किं चित्सङ्गृहीतं किं चिदङ्गृहीतं(च)(2)। ॥ सगतिग्रहणं(2) च ॥ सगतिग्रहणञ्ञ्च कर्त्तव्यम्। प्रपचति-प्रपचति, प्रकरोति-प्रकरोतीति(4)॥ किं पुनः कारणं न सिध्यति?॥ न हि सगतिकं पदं भवति॥ समासनिवृत्त्यर्थेन तावन्नार्थः पदग्रहणेन। समासेनोक्तत्वाद्वीप्साया द्विर्वचनं न भविष्यति॥ किं च भोः समासो वीप्सायामित्युच्यते?॥ न खलु वीप्सायामित्युच्यते गम्यते तु सोऽर्थः॥ ततः किम्(1)?॥ उक्तः(2) समासेनेति कृत्वा द्विर्वचनं न भविष्यति। यत्र च(3) समासेनाऽनुक्ता वीप्सा भवति तत्र द्विर्वचनम्। तद्यथा-एकैकविचिताः अन्योन्यसहाया इति। अथ वा यदत्र वीप्सायुक्तं नाऽदः प्रयुज्यते॥ किं पुनस्तत्?॥ पर्वणि पर्वणि सप्त पर्णान्यस्य, पङ्क्तौ पङ्क्तावष्टौ पदान्यस्येति॥ तद्धितनिवृत्त्यर्थेन चाऽपि नार्थः पदग्रहणेन। तद्धितेनोक्तत्वाद्वीप्साया द्विर्वचनं न भविष्यति। तद्धितः खल्वपि वीप्सायामित्युच्यते। यत्र च तद्धितेनाऽनुक्ता वीप्सा भवति तत्र द्विर्वचनम्। तद्यथा-एकैकशो ददातीति॥ वाक्यनिवृत्त्यर्थेन चाऽपि नार्थः पदग्रहणेन। पदद्विर्वचनेनोक्तत्वाद्वीप्साया वाक्यद्विर्वचनं न भविष्यति। यत्र च पदद्विर्वचनेनाऽनुक्ता वीप्सा भवति तत्र द्विर्वचनम्। तद्यथा-प्रपचति-प्रपचति, प्रकरोति-प्रकरोतीति॥ (॥ उत्तरार्थन्तु(2)॥) उत्तरार्थं तर्हि पदग्रहणं कर्त्तव्यम्। तस्य परमाम्रेडितमनुदात्तं चेति वक्ष्यति(3)। तत्पदद्विर्वचने(4) यथा स्याद्वाक्यद्विर्वचने माभूत्-मह्यं ग्रहीष्यति-मह्यं ग्रहीष्यति, मामभिव्याहरिष्यतिमामभिव्याहरिष्य(ती)ति॥ कथं चाऽत्र द्विर्वचनम्?॥ छान्दसत्वात् ॥ स्वरोऽपि तर्हि च्छान्दसत्वादेव न भविष्यति॥ उत्तरार्थमेव तर्हि पदग्रहणं कर्त्तव्यं,पदस्य पदादिति वक्ष्यति, तत्पदग्रहणं न कर्त्तव्यं भवति॥ सर्वग्रहणमपि तर्ह्युत्तरार्थम्। अनुदात्तं सर्वमपादादाविति वक्ष्यति तत्सर्वग्रहणं न कर्तव्यं भवति॥ उभयं क्रियते तत्रैव॥ इहार्थमेव तर्हि षष्ठीनिर्देशार्थमन्यतरत्कर्त्तव्यं, षष्ठीनिर्दिष्टस्य स्थाने द्विर्वचनं यथा स्याद्विःप्रयोगो मा भूदिति॥ किं च स्यात्?॥ आम् पचसि पचसि देवदत्ता3। आम एकान्तरमामन्त्रितमनन्तिक इत्येकान्तरता न स्यात्। इह च पौनःपुन्यम् ,पौनः पुनिक इति,(1)-अप्रातिपदिकत्वात्तद्धितोत्पत्तिर्न स्यात्॥ यदि तर्हि स्थाने द्विर्वचनं-राजा-राजा वाग्वाक्,-पदस्येति नलोपादीनि न सिध्यन्ति॥ इदमिह संप्रधार्यं-द्विर्वचनं क्रियतां नलोपादीनीति, किमत्र कर्त्तव्यम्?॥ परत्वान्नलोपादीनि॥ पूर्वत्राऽसिद्धे नलोपादीनि। सिद्धाऽसिद्धयोश्च नास्ति संप्रधारणा॥ एवं तर्हि-पूर्वत्राऽसिद्धीयमद्विर्वचन इति (वक्ष्यामि(1)। तच्चावश्यं-) वक्तव्यम्॥ किं प्रयोजनम्?॥ विभाषिताः प्रयोजयन्ति-द्रोग्धा- द्रोग्धा। द्रोढा-द्रोढेति॥ इह तर्हि - बिसंबिसम् मुसलंमुसलम् , -आदेशप्रत्यययोरिति षत्वं प्राप्नोति॥ आदेशो यः सकारः प्रत्ययो यः सकार इत्येवमेतद्विज्ञायते॥ इह तर्हि-नृभिर्नृभिः,-रषाभ्यां नो णः समानपद इति णत्वं प्राप्नोति॥ समानपद इत्युच्यते, समानपदमेव(2) यन्नित्यं, न चैतन्नित्यं समानपदमेव॥ किं वक्तव्यमेतत्?॥ न हि॥ कथमनुच्यमानं गंस्यते?॥ समानग्रहणसार्मथ्यात्। यदि हि यत्समानं चाऽसमानं च तत्र स्यात्समानग्रहणमनर्थकं स्यात्॥ अथ वा पुनरस्तु द्विःप्रयोगो द्विर्वचनम्॥ ननु चोक्तम् - आम् पचसि पचसि देवदत्ता 3 1-आम एकान्तरमामन्त्रितमनन्तिक इत्येकान्तरता न प्राप्नोतीति॥ नैष दोषः-सुप्तिङ्भ्यां पदं विशेषयिष्यामः। सुप्तिङन्तं पदं। यस्मात्सुप्तिङि्वधिस्तदादि सुप्तिङन्तं च (पदम्(1))॥ ननु चैकैकस्मादेवात्र सुप्तिङि्वधिः॥ समुदाये या वाक्यपरिसमाप्तिस्तया पदसंज्ञा॥ कुत एतत्?॥ शास्त्राऽहानेः(1)॥ एवं हि(2) शास्त्रमहीनं भवति॥ यदप्युच्यते-ःइह पौनःपुन्यं पौनःपुनिकमिति,-अप्रातिपदिकत्वात्तद्धितोत्पत्तिर्न प्राप्नोति (इति)। मा भूदेवं समर्थादित्येवं भविष्यति। अथ वाऽऽचार्यप्रवृत्तिर्ज्ञापयति-भवत्येवंजातीयकेभ्यस्तद्धितोत्पत्तिरिति, यदयं कस्कादिषु कौतस्कुतशब्दं पठति॥ (सर्वस्य द्वे)॥
Kashika
-------
सर्वस्येति च द्वे इति चैतदधिकृतं वेदितव्यम् । इत उत्तरं यद् वक्ष्यामः प्राक् **पदस्य** (८.१.१६) इत्यतः, सर्वस्य द्वे भवत इत्येवं तद् वेदितव्यम्। वक्ष्यति — **नित्यवीप्सयोः** (८.१.४) इति, तत्र सर्वस्य स्थाने द्वे भवतः। के द्वे भवतः? ये शब्दतश्चार्थतश्चोभयथान्तरतमे। एकस्य पचतिशब्दस्य द्वौ पचतिशब्दौ भवतः। पचतिपचति। ग्रामोग्रामो रमणीयः। यदा तु द्विःप्रयोगो द्विर्वचनं तदा स एव पचतिशब्दो द्विरावर्तते, तस्य द्वे आवृत्ती भवतः। सर्वस्येति किम्? विस्पष्टार्थम्। अथ पदस्येत्येव कस्माद् नोच्यते? नैवं शक्यम्, इह हि न स्यात् — प्रपचतिप्रपचतीति। इह द्रोग्धा, द्रोढा इति घत्वढत्वयोरसिद्धत्वादकृतयोरेव तयोर्द्विर्वचनं प्राप्नोति, तत्र पश्चाद्विकल्पे सत्यनिष्टमपि स्यात् — द्रोग्धाद्रोढा, द्रोढाद्रोग्धेति। तस्माद् वक्तव्यमेतत् — **पूर्वत्रासिद्धीयमद्विर्वचने** इति। सर्वस्येत्येतदेव वा कृतं सर्वकार्यप्रतिपत्त्यर्थं द्रष्टव्यम्॥
Siddhanta Kaumudi
-----------------
इत्यधिकृत्य ॥
Balamanorama
------------
**सर्वस्य द्वे** - अथ द्विरुक्तप्रकरणम् । सर्वस्य द्वे । इत्यधिकृत्येति ।द्विर्वचनवधयोऽनुक्रंस्यन्ते॑ इति शेषः ।
Tattvabodhini
-------------
**सर्वस्य द्वे** - सर्वस्य द्वे । सर्वशब्दस्य द्वे भवत इति विधिरत्र न शङ्क्यः, किं तुनित्यवीप्सायो॑रित्येवमादीनां विधेयकार्यिणोरनिर्देशेन साकाङ्क्षत्वात्स्वरितत्वाच्चाधिकारोऽयं, तदाह — — इत्यधिकृत्येति । एतदर्थरूपमधिकृत्येत्यर्थः । स्वरूपग्रहणं तु न भवति,नाम्रेडितस्यान्त्यस्य तु वे॑ति लिङ्गात् । स्वरूपग्रहणे हि सति द्विरुक्तसर्वशब्दस्यैव परमाम्रेडितं स्यान्न तु द्विरुक्तस्याऽव्यक्तानुकरणशब्दस्य परमितिनाम्रेडितस्ये॑ति पररूपनिषेधोऽन्त्यस्य तकारस्य विकल्पविधिश्च कथं सङ्गच्छेत । ननुनित्यवीप्सयो॑रित्यादौपदस्ये॑ति वक्ष्यमाणमपकृष्य पदस्यैव द्वित्वं विधीयते इति किमनेन सर्वस्येति ग्रहणेनेति चेत् । अत्राहुः — ॒स्वादिषु ॑इति पदसंज्ञामादायवृक्षाभ्या॑मित्यादौ प्रकृतिभागमात्रस्य द्विर्वचनं स्यात् । कृते तुसर्वस्ये॑ति ग्रहणेसर्वशब्दोऽवयवकार्त्स्न्त्ये वर्तते॑इतिसर्वावयवोपेतस्य द्वित्वं न तु कस्चिदवयो वज्र्यते॑इत्यर्थलाभादिष्टसिद्धिरिति । इहद्वे॑इत्यस्य सङ्ख्येयापेक्षायां शब्दरूपे गृह्रेते, शब्दानुशासनप्रस्तावात् ।सर्वस्ये॑ति स्थानषष्ठी । सोऽयं स्थाने द्विर्वचनपक्षः । यदि तु उच्चारणे सङ्ख्येये, तदा स्थान्यादेशभावो न सम्भवति, निवृत्तिधर्मा हि स्थानं, भवति, सर्वं चेन्निवृत्तं कस्योच्चारणं स्यात्, अतःसर्वस्ये॑त्यद्याह्मतोच्चारण शब्दापेक्षयाकर्तृकर्मणोः कृती॑ति कर्मणि षष्ठी ।सर्वं द्विरुच्चारये॑दिति फलितोऽर्थः । सोऽयंद्विःप्रयोगो द्विर्वचन॑मिति पक्षः । ननु आद्यपक्षे स्थानिवद्भावेन समुदायस्यैव पद्त्वं स्यान्न त्ववयवयोः, ततश्च पदकार्याणि न स्युः । न चेष्टापत्तिः ।अपचन्नपच॑न्नित्यत्र ङमुट्,वृक्षान् वृक्षा॑न्नित्यत्रपदान्तस्ये॑ति णत्वनिषेधः,अग्रेऽग्रे॑इत्यत्रएङः पदान्ता॑दिति पूर्वरूपत्वं च न सिध्येत् । किं चाऽपदान्तत्वप्रयुक्तकार्याणि स्युः । तद्यथापयःपयः॑इत्यत्रसोऽपदादौ॑इति सत्वं स्यात्,पपीःपपीः॑ इत्यत्रइणः षः॑इति षत्वं स्यात् ।पाशकल्पककाम्येषु॑इति वृत्तिग्रन्थमवष्टह्र कथञ्चित्सत्वषत्वपरिहारेऽपिअशीताश्नीते॑त्यत्रअतो गुणे॑इति पररूपं स्यादिति चेत् । अत्राहुः -यदि प्रत्यस्तमितावयवभेदः समुदाय एव एवादेशः स्यात्,द्वे॑ इति द्विवचनमनुपपन्नं स्यात्, अतोद्वे॑इति वचनादेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयते, तत्र स्थानिवद्भावेन समुदायस्य पदत्वं, स्त एव चावयवयोरपीति न कश्चिद्दोष इति । स्यादेतत् -द्विःप्रयोगपक्षे प्रत्येकं पदसंज्ञायां सिद्धायामपि समुदायस्य सा न सिध्यति । ततश्चदेवदत्तः पचतिपचती॑त्यादौतिङ्ङतिङः॑इति सर्वस्य पदस्य निघातो न सिध्यतीति चेत् । अत्राहुः -॒पचतिपचती॑त्यादौ हि स एव धातुः प्रत्ययश्चाऽत्र द्विः पठते । ततश्च [यो] यस्मात्प्रत्ययो विहितस्तदादितदन्तमिति विधीयमाना पदसंज्ञा समुदायस्यापि प्रवर्तते । तेनाऽवग्रहादिः सिध्यतीति ।
Padamanjari
-----------
'नित्यवीप्सयोः' इत्येवमादीनां विधेयकार्यिणोरनिर्देशेन साकाङ्क्षत्वात्स्वरितत्वाच्चाधिकारोऽयम्, तदाह - सवस्येति द्वे इति चेति ।'सर्वस्य' इत्युक्ते यत्प्रतीयते,'द्वे' इत् चेत्युक्ते यत्प्रतीयते, एतदर्थस्वरूपमित्यर्थः । यद्यपि'स्वं रूपम्' इति वचनादुभयोरपि स्वरूपग्रहणं युक्तम्, तथापि'नाम्रेडितस्यान्त्यस्य तु वा' ,'नित्यमाम्रेडिते डाचि' इति द्विरुक्तेऽच्छब्दस्य सतामङ्गीकृत्य कार्यविधानातदभावः । न हि द्वयोरन्यतरस्य वा स्वरूपग्रहणे द्विरुक्तेऽच्छब्दस्य सम्भवः, तथा'तस्य परमाम्रेडितम्' इति पूर्वपराभावादनुपपन्नं स्यात् । तस्मादर्थग्रहणम् । सर्वशब्दश्चायं द्रव्यप्रकारावयवकार्त्स्न्यवृत्तिः, द्रव्यकार्त्स्न्ये यथा - सर्वस्वं ददातीति, यच्च यावच्च स्वं तत्सर्वं ददातीति गम्यते । प्रकारकार्त्स्न्ये यथा - सर्वान्नीनो भिक्षुरिति, सर्वप्रकारकमन्नं भक्षयतीति गम्यते । अवयवकार्त्स्न्ये यथा - सर्वः पटो दग्ध इतिः, सर्वावयवः पटो दग्ध इति गम्यते । इह तु पर्यादीनां विशिष्टार्थानां शब्दानामुपादानाद् द्रव्यप्रकारकार्त्स्न्ययोरसम्भवः । यत्रापि किञ्चिन्नोपादीयते'नित्यवीप्सयोः' इति, तत्रापि विशेषानुपादअनादेव सर्वस्य शब्दस्य सिद्धम् । तस्मादवयवकार्त्स्न्यवृत्तिर्गृह्यते । परेः सर्वस्य द्वे भवतः, न कश्चिदवयो द्विर्वचनेन वर्ज्यत इत्यर्थः । अत्र ठा दशभ्यः संख्याः संख्येये वर्तन्तेऽ इति'द्वे' इत्यस्य संख्येयापेक्षायां शब्दानुशासनप्रस्तावाच्छब्दरूपे संख्येये'षष्ठी स्थानेयोगा' इति वचनात्सर्वस्येति स्थानषष्ठी, सर्वस्य पर्यादेः स्थाने द्वे शब्दरूपे भवत इत्यर्थः, यथा - ठस्तेर्भूःऽ इति, तदा'स्थाने द्विर्वचनम्' इत्ययं पक्षो भवति । शब्दसम्बन्धिनि तूच्चारणे संख्येये स्थान्यादेशभावो न सम्भवति, निवृत्तिधर्मा हि स्थानी शब्दश्चेन्निवृत कस्योच्चारणं स्यात् । अतोऽध्याहृतोच्चारणशब्दापेक्षया'कर्तृकर्मणोः कृति' इति सर्वस्येति कर्मणि षष्ठी, सर्वस्य पर्यादेर्द्वेअ उच्चारणे भवतः, सर्वः पर्यादिद्विरुच्चारणीय इत्यर्थः, तदा'द्विः प्रयोगो द्विर्वचनम्' इत्येष पक्षो भवति । तत्र प्रथमं पक्षंम दर्शयति - सर्वस्य स्थाने द्वे भवत इति । के द्वे इति । विशेषानुपादानाद्ये केचन द्वे प्राप्नुत इति प्रश्नः । इतरोऽप्यन्तरतमपरिभाषामाश्रित्याह - शब्दतश्चेति । बिभीतकादिवाचिनामक्षादिशब्दानां शब्दत एवान्तर्यम्, तरुपादपादीनामर्यत एव, द्वयोस्तु पचतिशब्दयोरुभयथान्तर्यम्; तत्र ते एव यथा स्यातामित्युभयग्रहणम् । ते एवोभयथान्तरतमे दर्शयति - एकस्येति । ननु चारिमन्पक्ष राजाराजा, वाक्वाक्, लिट्लिट्, गोधुग्गोधुक्, शब्दप्राट्शब्दप्राट्, उपानदुपानत्, गौर्गौरित्यत्र नलोप-कुत्वा-ढत्व-घत्व-षत्व-धत्व-दीर्घत्वा(वृद्धी) नामसिद्धत्वादकृतेष्वेतेषु द्विर्वचने कृते पदस्य स्थाने समुदायस्यादिष्टत्वातस्यैव स्थानिवद्भावेन पदत्वं नावयवयोरिति पूर्वत्र भागे नलोपादीनि न स्युः, उतरत्र तु समुदायपदत्वेनापि सिद्ध्यति ? ननु च नलोपादीन्यतरङ्गाणि पदत्वमात्रा पेक्षत्वाद्, द्विर्वचनं तु बहिरङ्गं वीप्साद्यर्थापेक्षत्वात्, ततश्च तेषु कृतेषु द्विर्वचनं भविष्यति ? एवमपि कृतानामपि तेषां द्विर्वचने कर्तव्येऽसिद्धत्वान्नका रादियुक्तस्य द्विर्वचनमिति पुनः पूर्वपदे निमितभावान्न स्युरेव, यथा औजढदित्यत्र कृतानावपि ढत्वादीनामसिद्धत्वात् हत इत्येतस्य द्विर्वचनेऽभ्यासे हकारस्यैव श्रवणं भवति ? नैष दोषः; वक्ष्यत्येतत्'पूर्वत्रासिद्धीयमद्विर्वचने' इति, ततश्च परत्वादन्तरङ्गत्वाद्वा नलोपादिषु कृतेषु तद्यौक्तस्यैव द्विर्वचनं भविष्यति । यानि तर्हि पदकार्याणि नाकृते द्विर्वचने प्राप्नुवन्ति, तानि न स्युः; तद्यथा किङ्किमिति -'वा पदान्तस्य' इति परसवर्णविकल्पः, अपचन्नपचन्निति ङ्मुट्, अग्नाअग्नाविति वलोपः, छायाच्छायेति तुग्विकल्पः, वृक्षत्वक्षानिति'पदन्तस्य' इति णत्वप्रतिषेधः, अजेऽजे इति, ठेङः पदान्तादतिऽ इति पूर्वरूपत्वम् । किं चात्र'स्वरितो वानुदाते पदादौ' इत्येष विधिर्न स्यात्, उतरभागस्यापदत्वात्; तथाऽपदत्वातदाश्रयाणि कार्याणि प्राप्नुवन्ति, तद्यथा - अङ्गनाङ्गनेत्यतो गुणे पररूपत्वं स्यात्, पयः पय इति'सो' पदादौऽ इति सत्वप्रसङ्ग इत्येषा दिक् । अतो द्वयोरपि पृथक्पदत्वमेषितव्यम्; तदुच्यते - यदि प्रत्यस्तमितावयवभेद एक एवादशः स्याद्,'द्वे' इति द्विर्वचनमनुपपन्नं स्यात्; ततः'द्वे' इति वचनादेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयेते, तत्र स्थानिवद्भावेन समुदायस्यापि पदत्वं स्वतः, एवं चावयवयोरपीति समुदायस्यावयवयोश्च पदकार्याणि भविष्यन्ति । एवमपि विसंविसम्, मुसलंमुसलमिति ठादेशप्रत्यययोःऽ इति षत्वप्रसङ्गः ? नैष दोषः; नैवं विज्ञायते - आदेशस्य सकार इति, कथं तर्हि ? आदेशो यः सकार इति । अत्र च समुदायस्य समुदाय आदेशः, न सकारमात्रस्य सकारमात्रमिति न भविष्यति । इह तहि नृभिर्नृभिरिति समुदायस्य पदत्वाद्रेफनकारयोः समानपदस्थत्वाद्रषाभ्यामिति णत्वप्रसङ्गः ? एषोऽप्यदोषः; तत्र समानग्रहणं न कर्तव्यम्,'पदे' इत्येवास्तु, तत्रापदस्थयोर्निमितनिमितिनोरसम्भवादेकत्वविवक्षार्थमेव पदग्रहणमिति समानपदस्थत्वं सिध्यति, ततश्च समानग्रहणाद यत्र समानपदस्थत्वमेव, तत्र णत्वम् । इह तु स्थानिवद्भावादेकपदत्वम् । वस्तुतस्तु पदद्वयात्मक आदेश इति पृथक्पदस्थमिति णत्वाभावः । तदेवं निर्दोषः'स्थाने द्विर्वचन' पक्षः । इदानीं द्वितीयं पक्षं दर्शयति - यदा त्विति । द्विरावर्तत इति । उच्चार्यमाणस्य शब्दस्य यो व्यापार उच्चारणं नाम सेहावृत्तिविवक्षिता । द्विरुच्चरतीत्यर्थः । द्वे आवृती भवत इति । द्वे उच्चारणक्रिये भवत इत्यर्थः । न पुनर्मुख्ये एवावृती द्वे भवतः, तथा सति त्रिर्वचनप्रसङ्गात् । नन्वस्मिन्पक्षे आं पचसिपचसि देवदत3 - इत्यत्रावृत्तिभेदनिबन्धनया द्वित्वसंख्यया स्वाश्रयस्यैकत्वस्य निवर्तनादेकान्तरताया अभावाद् ठाम एकान्तरम्ऽ इति निघातप्रतिषेधो न स्याद्यथा किरिणेत्यादावावृत्तिभेदनिबन्धनेनापि द्व्यच्त्वेन स्वाश्रयस्यैकाच्त्वस्य निवर्तानात्'सावेकाचः' इति विभतयाद्यौदातत्वं न भवति, तद्वत् । स्थाने द्विर्वचने तु समुदायस्यापि स्थानिवद्भावेन पदत्वात्सिध्यति, तथा पौनः पुन्यमिति पुनः पुनर्भवितरि वर्तमानात्पुनःपुनशब्दाद्भावे ष्यञि यते; पुनः पुनर्भवः पौनः पुनिक इति च कालाट्ठञ्ऽ, तत्र द्विः प्रयोगे पदस्य विज्ञायमाने समुदायस्व वीप्सालक्षणेनार्थेन सत्यप्यर्थवत्वेऽर्थवत्समुदायानां समासग्रहणं नियमार्थमित्यप्रातिपदिकत्वातद्वितो न रयातः सुबन्तादुत्पत्तिपक्षेऽपि समुदायस्यासुबन्तत्वान्न स्यादेव, पक्षान्तरे तु स्थानिवद्भावादुभयमप्यस्तीति सिध्यति । यद्यप्यस्य स्थानी सुबन्तः, तथापि सुब्लुकि कृते'न ङसिम्बुद्ध्योः' इति निषेधाज्ज्ञापकात् प्रत्ययलक्षणेन ठप्रत्ययःऽ इति निषेधाभावात्प्रातिपदिकत्वमव्यावृतमिति ? अत्रैवं भाप्ये परिहार उक्तः - पचसिपचसीत्यर्थरूपयोः समानत्वात्स एव पच्शब्दः, स एव च तिङ्, ततश्च यः पूर्वस्माद्विद्दितः स परस्मादपि यश्च परस्मात्स पूर्वस्मादपि, तदादिग्रहणं च पदसंज्ञायामनुवर्तते, तत्र समुदायस्यावयवयोश्च तुल्येऽपि तिङ्न्तत्वे समुदायस्यैव पदसंज्ञा भविष्यति द्विर्वचनवत्, तद्यथा - पपाचेत्यत्र समुदायस्यावयवानां च तुल्येऽप्येकाच्त्वे समुदायस्यैव । द्विर्वचनं भवति, नावयवानाम्; तत्कस्य हेतोः ? शास्त्रहानेः, अवयवद्विर्वचने ह्यवयवान्तरे विषये समुदायविषये च शास्त्रं हीनं स्यात्, तद्वत्पदसंज्ञापि समुदायस्यैव भविष्यतीत्येकान्तरता युज्यते । पौनः पुन्यमित्यादौ तद्धितोऽप्युक्तेन न्यायेन समुदायस्य सुबन्तत्वात् प्रातिपदिकत्वाच्च सिद्ध्यतीति । अत्रैवं चोदयन्ति - प्रागेव द्विर्वचनात् पचसीत्यस्यामवस्थायां प्रवृता पदसंज्ञा किमति पुनः कृतेऽपि द्विर्वचने प्रवर्तते, प्रवर्तमाना वा किमिति समुदायस्यैव प्रवर्तते, न तु प्रत्येकमवयवयोः, न ह्यएवंविधो द्विर्वचनन्यायस्य विषय इति संयोगसंज्ञायामुक्तम्; निर्ग्लेयादित्यादौ त्रिष्वपि द्वयोः संयोगसंज्ञाभ्युपगमात् । किञ्च यत्र समुदायस्यैव पदत्वम् - अपचन्नपचन्नित्यादौ, तत्रावयवेषु पदकार्याभावप्रसङ्ग इति । अपर आह - उच्चारणक्रियैवात्र परं भिद्यते, तद्भेदात्वौपचारिकः पदभेदः; तत्वतस्त्वेकमेव पदमित्येकान्तरता युज्यते, पौनः पुन्यमित्यौ च वीप्सालक्षणेनार्थेन समुदायस्याप्यर्थवत्वात् प्रातिपदिकत्वम् । न च समासग्रहणान्निवृत्तिः; अतुल्यजातीयत्वात् । येपां हि भिन्नार्थानां सतां परस्परसम्बन्धमात्रमधिकं तत्समुदायस्यैव तुल्यजातीयस्य तेन निवृत्तिः । न चात्रैतदुभ्यमस्ति । न हि द्वयोः पुनः शब्दयोरर्थो भिद्यते, नापि तत्समुदाये तत्सम्बन्धोऽधिकः किं तर्हि ? वीप्सारूपोऽन्य एवेति । यद्येवम्, किरिणेत्यादौ'सावेकाचस्तृतीयादिः' इति विभक्तिस्वरः स्यात् ? तत्रापि ह्युच्चारणक्रियैव भिद्यते, तत्वतस्त्वेक एवेकारः । किञ्च - नित्यानां विभूनां वर्णानां तदात्मकानां च पदानां स्वरूपेण व्यवधानमव्यवधानं च न सम्भवतीत्युपलब्धिगतमेव तदाश्रयितव्यम् । तत्र च यथा पदभेदेऽप्युपलब्धिभेदः, तथा तदभेदेऽपीति कथमेकान्तरता ! यदि च पौनः - पुन्यमित्यादावुक्तेन न्यायेन समुदायस्यापि प्रातिपदिकत्वम्, हन्तैवं ग्रामोग्रामो रमणीय इत्यादावप्येवमेव प्रातिपदिकत्वे सति सुब्लुक् स्यात्, तस्मात्स्थाने द्विर्वचनमेवात्र रोचयामहे । अत एव'स्थअने द्विर्वचनम्' पूर्वं वृत्तिकारेण दर्शितम्, पश्चात्सम्भवमात्रेण'द्विः प्रयोगो' पिऽ दर्शितः । इह सर्वस्येति वचनमलोऽन्त्यनिवृत्यर्थं वा स्यात्, षष्ठ।ल्र्थप्रसिद्धयर्थं च । तत्र स्थाने द्विर्वचनपक्षे तावच्छब्दतोऽर्थतश्चान्तरतमाभ्यां द्वाभ्यामादेशाभ्यां भाव्यम् । ये चैवं प्रकारास्ते नियोगतोऽनेकाल्स्वभावाः - इत्यन्तरेणापि सर्वग्रहणम् ठनेकाल्शित्सर्वस्यऽ इति सर्वस्य भविष्यति । षष्ठ।ल्र्थोऽपि'परेर्वर्जने' इत्यादौ यत्र षष्ठयुच्चार्यते तत्र तावत् सिद्धः; यत्रापि षष्ठी नास्ति -'नित्यवीप्सयोः' इति, तत्रापि सामर्थ्याल्लभ्यते - नित्यवीप्सयोयः शब्दस्तस्य द्वे भवत इति । द्विः प्रयोगपक्षे त्वलोन्त्यविधिप्रसङ्ग एव नास्ति; स्थानषष्ठ।ल्भावात् । षष्ठ।ल्र्थोऽपि लभ्यत एवः, उच्चारणस्य शब्दधर्मत्वाद् । अतो नाथः सर्वग्रहणेनेत्यभिप्रायेणाह - सर्वस्येति किमिति । विस्पष्टाथमिति । य एवं प्रतिपतुमसमर्थः, तं प्रति सुखप्रतिपतये सर्वस्येत्युच्यत इत्यर्थः । अथेत्यादि । एवं मन्यते - समासतद्धितवाक्यनिवृत्यर्थमवश्यम्'पदस्य' इति वक्तव्यम् । समासनिवृत्यर्थ तावत् - सप्तपर्णोऽष्टापदम्, अत्र सप्तसंख्यानि पर्णानि वीप्स्यन्ते, न तु तद्वान्वृक्ष इति वीप्सायामेकत्वस्यानन्तर्भावात्प्रागेव विभक्तेद्विवचनप्रसङ्गः, पदाधिकारातु न भवति; तद्धितः - द्विपदिकां ददाति, अत्र द्वित्वसंख्यायुक्तः पदार्थो वीप्स्यत इति स्त्रीत्वैकत्वलक्षणयोर्लिङ्गसंख्ययोरनन्तर्भावात्प्राक् तद्धितोत्पतेः समासे कृते प्राप्तं द्विर्वचनं पदत्वाभावान्न भवति; वाक्यम् - ग्रामेग्रामे पानीयम्, अत्र वाक्यस्यापदत्वाद् द्विर्वचनं न भवति ग्रामे पानीयमिति । किञ्चोतरत्र पदस्येति न वक्तव्यं भवति;'पदस्य पदात्' इत्यस्यैवानुवृतेरिति । नैवं शक्यमिति । अस्याप्ययमभिप्रायः -'पदस्य' इत्युच्यमानेऽपि सप्तपर्णाभ्यामित्यादौ स्वादिषु पूर्वस्य पदत्वाद् द्विर्वचनप्रसङ्गः; तस्मादेवमत्र परिहारो वाच्यः - यद्वीप्सायुक्तम्, न अदः प्रयुज्यते; किं पुनस्तत् ? पर्वणिपर्वणि सप्तपर्णान्यस्येति, यच्च प्रयुज्यते न तद्वीप्सायुक्तम् - सप्तपर्णान्यस्येति पर्णशब्द इति । तद्धिते तु तद्धितेनैवोक्तत्वाद् द्विर्वचनाभावः, स हि'वीप्सायाम्' इत्युच्यते । वाक्यस्यापि द्विर्वचनं न भवति; पदद्विर्वचनेनोक्तत्वाद्वीप्सायाः । तस्मात् समासादिनिवृत्यर्थं तावत्पदाधिकारो न कर्तव्य इति । प्रत्युत क्रियमाणे पदाधिकारेऽव्याप्तिलक्षणो दोष इत्याह - इह हि न स्यादिति । प्रपचतीति । धातूपसर्गसमुदायः क्रियाविशेषवाची । अडादिव्यवस्थार्थं तु धातूपसर्गयोः पृथक् कल्पनम्, ततश्च क्रियाधर्मो नित्यता समुदायस्येति तस्यैव द्विर्वचनम् । इहेत्यादि । द्रुहेस्तृचि विहिते'वा द्रुहमुह' इति घत्वढत्वे प्राप्नुतः, द्विर्वचनं च; तत्र घत्वढत्वयोरसिद्धत्वात्पूर्वं द्विर्वचनं प्राप्नोति । अस्तु, को दोषः ? तत्राह - तत्रेति । पश्चाद्विकल्पे प्रवर्तमाने यदा परत्र ढत्वं तदा पूर्वत्रापि ढत्वमेवेति नियमाभावात् घत्वमपि कदाचिंत् स्यात् । एवं घत्वेऽपि द्रष्टव्यम् - परत्र घत्वं पूर्वत्र ढत्वमिति । एतच्चैकस्या आकृतेश्चरितः प्रयोगो न द्वितीयस्यास्तृतीयस्याश्च भवतीति न्यायमनाश्रित्योक्तं द्रष्टव्यम् । अयं च न्यायः'कृञ्चानुप्रयुज्यते लिटि' इत्यत्रैव व्याख्यातः । पूर्वत्रासिद्धीयमिति ।'पूर्वत्रासिद्धम्' इत्यस्मिन्नधिकारे भवं नलोपादिकार्यं पूर्वत्रासिद्धीयम्, तद् द्विर्वचनादन्यत्रासिद्धं भवति । अथ वा - पूर्वस्यां सपादसप्ताध्याय्यमसिद्धं नलोपादि पूर्वत्रासिद्धम्, तत्र भवमसिद्धत्वं पूर्वत्रासिद्धीयम्; तद् द्विर्वचने कर्तव्ये न भवति, ततश्च घत्वे ढत्वे वा प्रवृते तद्यौक्तस्यैव द्विर्वचनमिति नास्ति दोषः । सर्वस्येत्येतदेवेत्यादि । पूर्वं'पूर्वत्रासिद्धीयमद्विर्वचने' इति वचनाश्रयेण द्रोढाद्रोढेअति साधितम्, इदानीम्'सर्वस्य' इत्यनेन साधितमित्येकस्मिन्साध्ये द्वयोर्हेत्वोर्विकल्पः । कथं पुनः'सर्वस्य' इत्यनेन कृतसर्वकार्यप्रतिपतिः ? अर्शाअद्यच्प्रत्ययान्तोऽयं सर्वशब्दः - सर्वं कार्यं यस्मिन्नस्ति तदिदं सर्वम्, तस्य द्वे भवतः । सर्वेषु कार्येषु कृतेषु द्विर्वचनमित्यर्थः ॥
Nyaas
-----
स्वरितलिङ्गासङ्गादधिकारत्वमस्यावगम्याह -`सर्वस्य` इत्यादि। `वक्ष्यामः` इति। व्याख्यास्याम इत्यर्थः। `प्राक्? पदस्य` [`पदस्य` इत्यतः प्राक् -काशिका] इति। `पदस्य` (8.1.16) इति वक्ष्यमाणो यो योगस्तस्मात्? प्रागिन्यर्थः। `पदस्य` (8.1.16) इति वक्ष्यमाणस्य योगस्यानुकरणमेतत्। विभक्तिस्त्वनुकार्यानुकरणयोर्भेदस्यादिवक्षितत्वादसत्यर्थवत्वे प्रातिपदिकत्वाभावान्न भवति, यथा -गवित्ययमाहेति। `सर्वस्य द्वे भवत इत्येवं तद्वेदितव्यम्` इति। इतिकरणोऽर्थनिर्देशार्थः। `सर्वस्य द्वे भवतः` इति योऽयमर्थः प्रतीयत एतदर्थरूपं तद्वक्ष्यमाणं वेदितव्यमित्यर्थः। `वक्ष्यति` इति। सूत्रकारः। `तत्र` इति। **नित्यवीप्सयोः** (8.1.4) इत्यत्र योगे। इह द्वौ पक्षौ सम्भवतः -स्थाने द्विर्वचनम्, द्विष्प्रयोगो द्विर्वचनञ्चेति। कथं कृत्वा? सर्वस्येति शब्दानुशासनप्रस्तावात्? सर्वस्य शब्दस्येति गम्यते। यद्? द्विशब्दश्चायं `आदशभ्यः संख्याः संख्येये वर्तन्ते` (हे।ग।90) इति संख्येयवचनः, तच्चेह संख्येयं शब्दरूपं वा स्यात्, आवृत्तिर्वा? `द्वे` इत्यपि निर्देशो नपुंसकलिङ्गेन वा स्यात्? स्त्रीलिङ्गेन वा? तत्र यदा नपुंसकलिङ्गेन निर्देशः, तदा शब्दरूपे संख्येये। यदि स्त्रीलिङ्गेन निर्देशा, तदा शब्दस्यावृत्ती उच्चारणलक्षणे क्रिये। तत्र यदा शब्दरूपे विधीयेते तदा सर्वस्येति स्थानषष्ठीयं सम्पद्यते; अनियतसम्बन्धत्वात्? **षष्ठी स्थानेयोगा** (1.1.49) इति न्यायात्। अस्मिन्? दर्शने `स्थाने द्विर्वचनम्` इत्येष पक्षो भवति। यदा तु द्वे आवृत्ती विधीयेते तदा `द्विष्प्रयोगो द्विर्वचनम्` इत्येष पक्षो जायते। अस्मिन्? दर्शने स्थान्यादेशभावो नास्ति। आवृत्तिर्हि क्रिया, तस्याश्चेह शब्दः साधनम्। न च क्रियायाः साधनस्य च स्थान्यादेशभाव उपपद्यते। यदि हि स्यात्, शब्दस्य स्थानिनो निवृत्तिधर्मत्वान्निवृत्तिरेव स्यात्; ततश्च क्रियाया अभाव एव स्यात्। न हि शब्देन विनोच्चारणक्रियोपपद्यते; तस्याः शब्दधर्मत्वात्। तस्माद्यदाद्वे आवृत्ती विधीयेते तदा `द्विष्प्रयोगो द्विर्वचनम्` इत्येष पक्ष उपजायते। अस्मस्तु पक्ष आवृत्तिशब्दापेक्षया सर्वस्येति `कर्त्तृकर्मणोः कृति` (2.3.65) इति कृद्योगलक्षणा कर्त्तृषष्ठी वेदितव्या। सर्वो हि शब्द आवर्त्त्यमान एवावृत्तिक्रियायाः कर्ता भवति। अवाद्यां पक्षमाश्रित्यैतदुक्तम् -सर्वस्य स्थाने द्वे भवत इति। कथं पुनः स्थाने द्विर्वचनपक्ष आश्रितः? कथं पुनर्नाश्रयितव्यः? सदोषत्वात्। स्थाने द्विर्वचने पुनः -आलिट्च्छवलिट्, दाग्वागिति **पूर्वत्रासिद्धम्** (8.2.1) इत्यसिद्धत्वात्? पूर्वं ढत्वादिभ्यो द्विर्वचने कृते ढत्वादयोऽत्र न सिद्ध्यन्ति; अपदान्तत्वात्? नैष दोषः; वक्ष्यति ह्रेतत् -`पूर्वत्रासिद्धीयमद्विर्वचने` (जै।प।दृ।70) इति। अपि च नित्येऽर्थे वीप्सायाञ्च यः शब्दो वर्तते तस्य द्विर्वचनं विधीयते, न च ढत्वादिष्वकृतेषु नित्यादावर्थे पदस्य वृत्तिरुपपद्यते। तस्मात्? पूर्वं ढत्वादिभिरेव भवितव्यम्; पश्चाद्द्विर्वचनेनेत्येष क्रमः। इह तर्हि विसंविसम्, मुसलम्भुलमित्यत्र **आदेशप्रत्यययोः** (8.3.59) इति षत्वं प्राप्नोति? अयमप्यदोषः; यस्मादादेशो यः सकारस्तस्य षत्वं विधीयते, न ह्यत्रादेशः सकारः, किं तर्हि? तदवयवः। इह तर्हि नृभिर्नृभिरित्यत्र **रषाभ्यां नो णः समानपदे** (8.4.1) इति णत्वं प्राप्नोति? एषोऽप्यदोषः; कार्यिणो नकरस्य रेफादिना निमित्तेन यदा सर्वदा समानपदस्थत्वमेवं सति णत्वेन प्राप्नोति? एषोऽप्यदोषः; कार्यिणो नकारस्य रेफादिना निमित्तेन यदा सर्वदा समानपदस्थत्वमेवं सति णत्वेन भवितव्यमित#इ। किं वक्तव्यमेतत्? न; कथं तर्हि अनुच्यमानं लभ्यते? समानग्रहणसामर्थ्यात्। यदि हि यत्र समानपदस्थत्वमसमानपदत्वञ्च तत्रापि स्यात्, समानग्रहणमनर्थकं स्यात्। नृभिरिति शब्दस्य नकारस्य द्विर्वचन एव कृते रेफेण निमित्तेन समानपदस्थत्वम्, नाऽकृते। तस्माददुष्ट एव स्थाने द्विर्वचनपक्ष इति युक्त एवाश्रयितुम्। `के द्वे` इति। एवं मन्यते -विशिष्टे द्वे एवेष्येते, इह च विशेषानुपादानादनियमेन ये केचन शब्दरूपे अप्नुत इति। **स्थानेऽन्तरतमः** (1.1.50) इति परिभाषया व्यवस्था भवितव्यतीत्यनेनाभिप्रायेणाह -`ये शब्दतश्च` इत्यादि। इह केषाञ्चित्? शब्दानां शब्दत एवान्तरतम्यम्, यथा -बिभीतकादिवाचिनामक्षादिशब्दानाम्। केषाञ्चिदर्थत एव, न शब्दतः, यथा -तरुपादपादिशब्दानाम्। केषाञ्चिदुभयत एव, यथा -द्वयोः पजतिशब्दयोस्तिङतयोः। ततोभयथा यत्रान्तरतम्यमस्ति तत्र यथा स्यादित्येवमर्थमुभयोग्र्रहणम्। एतच्च `स्थानेऽन्तरतमः` (1।150) इति परिभाषायास्तमब्ग्रहणाल्लभ्यते। ते एवोभयथाऽन्तरतमे दर्शयितुमाह -`एकस्य` इत्यादि। अथ **स्वं रूपं शब्दस्याशब्दसंज्ञा** (1.1.68) इति स्वरूपग्रहणाद्द्विशब्दादेश एव कस्मान्न भवति? द्विर्वचनेन निर्देशात्। स्वरूपग्रहणे तु सति द्विशब्दादेशप्रसङ्गः। यतश्चायं `तस्य परमाभ्रेडितम्` (8.1.2) , `अनुदात्तञ्च` (8.1.3) इत्याह, ततो, विज्ञायते -न द्विशब्दादेश इति। द्विशब्दादेशे हि सति भेदनिबन्धनत्वात्? परस्य द्विशब्दस्य चाभिन्नत्वात्? परत्वमेव तावन्न द्विशब्दादेशे स्यात्, कुतः पुनराम्रेडितसंज्ञा, अनुदात्तत्वञ्च? यदि च द्विशब्द आदेशः स्यात्, **अव्यक्तानुकरणस्यात इतौ** (6.1.98) इत्यनुवर्तमाने **नाम्रेडितस्यान्त्यस्य तु वा** (6.1.99) इत्याम्रेडितावयवस्याच्छब्दस्य पररूपत्वप्रतिषेधो नोपपद्यते, न द्विशब्दस्याच्छब्दोऽवयवोऽस्ति। एतेन सर्वशब्दस्यापि स्वरूपग्रहणं प्रतिक्षिप्तम्। यदि हि सर्वशब्दस्य स्वरूपग्रहणं स्यात्, तस्यैव हि द्विर्वचनं स्यात्। ततश्च पूर्ववदाम्रेडितसम्बन्धिनोऽच्छब्दस्य पररूपत्वप्रतिषेधो नोपपद्यते, **नित्यवीप्सयोः** (8.1.4) इत्यत्र नित्यग्रहणं चानर्थकं स्यात्। तत्र हि नित्येऽर्थे वीप्सायां च वर्तमानस्य द्विर्वचनं विधास्यते। न च सर्वशब्दस्य नित्येऽर्थे वृत्तिरस्ति, तिङ्क्षु नित्यता; `अव्ययकृत्सुच्सुप्सु वीप्सा` इति वचनात्। तस्मात्? सर्वस्येत्यत्रार्थग्रहणम्। सर्वशब्दोऽयमिह सकले कलावति वर्तते, तेन पचतीत्यादेः कृत्स्नस्य शब्दस्य द्विर्वचनं भवतीत्यलमतिप्रसङ्गेन। एवं तावत्? स्थाने द्विर्वचनपक्षमाश्रित्य `सर्वस्य स्थाने द्वे भवतः` इत्युक्तम्। इदानीम्? `द्विष्प्रयोगो द्विर्वचनम्` इति पक्षमाश्रित्याह -`यदा तु` इत्यादि। तुशब्दः पूर्वस्मात्? पक्षाद्विशेवस्य प्रदर्शकः, तत्रान्तरतम्येन द्वे शब्दरूपे आदिश्येते। इह तु स एव शब्दो द्विरावर्त्त्यते, द्विरुच्यत इत्यर्थः। `द्वे आवृत्ती भवतः` इति। द्वे उच्चारणाक्रिये भवत इत्यर्थः। कथं पुनः `द्विष्प्रयोगो द्विर्वचनम्` इति पक्ष आश्रयितव्यः? कथं च नाश्रयितव्यः? सदोषत्वात्। द्विष्प्रयोगे हि -`आम्? पचसि पचसि देवदत्त` इत्यत्र **आम एकान्तरमामन्त्रितमनन्तिके** (8.1.55) इति निघातप्रतिषेधो न प्राप्नोति; आमन्त्रितस्य पदद्वयेन व्यवधानादेकान्तरताया अभावात्। स्थाने पुनर्द्विर्वचने ह्रेकपदस्यायमादेश इति सत्यप्यादेशस्य स्वगते भेदे स्थानिवद्भावादेकत्वव्यपदेशे सत्येकीवितरती भवतीति निघातप्रतिषेधः सिध्यति? नैष दोषः; धर्मभेदादुपचरितो हीह भेदः, स्वगतस्त्वभेद एव; अन्यथा वृत्तिरेव न स्यात्। एकस्यैव हि वस्तुन आवृत्तदिः क्रियते। तस्माद्भिन्नत्वाद्वस्तुन इहैव सुनरमेकान्तरता सिध्यति। इह तर्हि पौनःपुन्यमिति? अत्र `गुणवचनब्राआहृणादिभ्यः कर्मणि च` (5.1.124) इति ष्यञ्? न प्राप्नोति, पौनःपुनिक इत्यत्र च **कालाट्ठञ्** (4.3.11) इति ठञ्? न प्राप्नोति; अप्रातिपदिकत्वात्। अप्रातिपदिकत्वं त्वर्थवत्समुदायानां समासस्यैवेति समासग्रहणस्य नियमार्थत्वात्। स्थाने द्विर्वचने पुनर्यद्यपि सुबन्ततया स्वाश्रया प्रातिपदिकसंज्ञा नास्ति, तथापि स्थानिवद्भावात्? प्रातिपदिकग्रहणे ग्रहणात्? प्रातिपदिकं भवति। यद्यपि चास्य स्थानी प्रत्ययलक्षणेन सुबन्तः; तथाप्यप्रत्ययः (1.2.45) इति प्रातिपदिकसंज्ञायाः प्रतिषेधो न भवति; प्रातिपदिकसंज्ञायाः प्रत्ययलक्षणेताप्रत्यय (1.2.45) इति प्रतिषेधो न भवतीत्यस्यार्थस्य **न ङिसम्बुद्ध्योः** (8.2.8) इत्यनेन ज्ञापितत्वात्। द्विष्प्रयोगे द्विर्ववसेऽपि न दोषः। अत्र समासग्रहणं हि तुल्यजातोयस्यैव प्रातिपदिकसंज्ञां निवर्तयति। कश्च तुल्यजातीयः? यस्य भेदसंसर्गद्वारेण समुदायार्थ उपजायते। कस्य चैवं विधोऽर्थं उपजायते? वाक्यस्य। नित्यादिश्चायमर्थः पदादस्थायां न दृष्ट एव। द्विरुक्तिकाले दृश्यमानः पदान्तरेण न भिद्यते, नापि संसृज्यत इति कुत एवम्प्रकारस्य समासग्रहणान्निवृत्तिः। अथ वाऽऽचार्यप्रवृत्तिज्र्ञापयति -भवत्येवंजातोयेभ्यस्तद्वितोत्पत्तिरिति, यदयं कस्यादिषु कौतस्कुतशब्दं पठति। कुतः कुत आगत इति **अव्ययात्त्यप्** (4.2.104) इति त्यपि प्राप्तेऽस्मादेव निपातनादण्। सर्वस्येति वचनमिह **अलोऽन्त्यस्य** (1.1.52) निवृत्त्यर्थं वा स्यात्? षष्ठर्थप्रतिपत्त्यर्थ वा? तत्र त्वलोऽन्त्यनिवृत्त्यर्थं तावन्नोपपद्यते। तथा हि -शब्दतश्चार्थतश्चान्तरतमाभ्यां द्वाभ्यां शब्दरूपाभ्यां भवितव्यम्। ये चैवम्प्रकारे ते नियोगतोऽनेकाल्स्वरूपे इत्यन्तरेणापि सर्वग्रहणेन **अनेकाल्शित्सर्वस्य** (1.1.55) इति। सर्वस्यैव भविष्यतः, नान्त्यस्य। षष्ठर्थप्रतपत्त्यर्थमपि सर्वग्रहणं नोपपद्यते। तथा हि -यत्र तावत्? षष्ठ्युच्चार्यते **परेर्वर्जने** (8.1.5) इत्यादौ, तत्र षष्ठ्युच्चारणादेव षष्ठर्थस्य प्रतिपत्तिर्भविष्यति। `नित्यवीप्समोः` (8.1.4) इत्यत्र यद्यपि षष्ठी नोच्चार्यते, तथापि सर्वस्येति वचनमन्तरेणापि शक्यते षष्ठर्थोऽवगन्तुम्। कथम्? `द्वे` इति ह्रादेशनिर्देशः, आदेशश्च सम्बन्धिनमपेक्षते, **नित्यवीप्सयोः** (8.1.4) इति चार्थनिर्देशाः; न चार्थनिर्देशे स्थान्यादेशसम्बन्ध उपपद्यते। तस्मान्नित्यदीप्सयोर्यः शब्दो वर्तते तस्य द्वे भवतः -इत्येवं वाक्यार्थः स्थाने द्विर्वचनपक्षे तावदवगम्यते। यदा `द्विष्प्रयोगो द्विर्वचनम्` तदापि विना सर्वस्येति वचनेन षष्ठर्थोऽवगम्यत एव। एवं ह्रावृत्तिर्हि क्रिया, तस्या अवश्यं साधनेन सम्बन्धिना भवितव्यम्; तदायत्तत्वादात्मलाभस्य क्रियायाः। तस्माद्यत्तस्याः क्रियायाः साधनं तस्य द्वे भवत इति विल्पष्टैव षष्ठर्थप्रतिपत्तिर्भवतीत्यभिप्रायेणाह -`सर्वस्येति किम्` इति। `विस्पष्टार्थम्` इति। य एवं न शक्नोति सर्वादेशं षष्ठर्थं वा प्रतिपत्तुम्, तं प्रति सुखप्रतिपत्तये सर्वस्येत्युच्यत इति भावः। `अथ` इत्यादि। एवं मन्यते -`पदस्य` इत्युच्यमाने समासतद्धितवाक्यानां द्विर्वचननिवृत्तिः कृता भवति; उत्तरत्र च `पदस्य` (8.1.16) इति वक्तव्यं न भवति। एतदेव हि `पदस्य` इति वचनं तत्रानुवर्तयिष्यते। अनुच्यमाने `पदस्य` इत्येस्मिन्, समासस्यापि द्विर्वचनं स्यात् -पर्वणिपर्वणि सप्तसप्त पर्णान्यस्य सन्तीति सप्तपर्ण इति; तद्धितस्यापि द्वौ द्वौ पादौ ददाति `पादशतस्य संख्यादेः` (5.4.1) इत्यादिना वन् -द्विपदिकां ददातीति; वाक्यस्यापि -ग्रामेग्रामे पानीयमिति। पदस्य` (8.1.16) इति चोत्तरत्र न वक्तव्यं भवति। `नैवं शक्यम्` इति। अत्र कारणमाह -`इह हि` इत्यादि। `प्रपचति` इति। वाक्यमेतत्, पदसमुदायात्मकत्वात्। अत्र `पदस्य` इत्युच्यमानेऽस्य द्विर्वचनं न स्यात्। तस्मादशक्यं पदस्येति वक्तुम्। सप्तपर्णः, द्विपदिकां ददातीत्यत्र तु पदस्येत्युच्यमाने द्विर्वचनं न भविष्यति; समासतद्धिताभ्यामेवोक्तत्वात्। वीप्सायां ग्रामेग्रामे पानीयमित्यत्रापि न भविष्यति; अवयवद्विर्वचनेनैव वीप्साया द्योतितत्वादित्यभिप्रायः। `इह` इत्यादि। `द्रूह जिधांसायाम्` (धातुपाठः-1197), ततस्तृच्, द्रुह्+तृ इति स्थिते घत्वढत्वे प्राप्नुतः, द्विर्वचनं च, तत्र **पूर्वत्रासिद्धम्** (8.2.1) इति द्विर्वचने कर्तव्ये यत्वढत्वयोरसिद्धत्वादकृतयोरेव तयोर्द्विर्वचनं पूर्वं प्राप्नोति। कृते तस्मिन्? पश्चात्? `वा द्रुहमुहष्णुष्णिहाम्` (8.2.33) इति विकल्पे सत्यनिष्टमपि प्राप्नोति। नावश्यमिष्टमेव यद्ययं नियमो लभ्यते। यदैकस्य धत्वं भवति तदा द्वितीयस्यापि घत्वेन भवितव्यम्, यदा त्वेकस्य ढत्वं तदा द्वितीयस्यापि ढत्वेन भवितव्यमिति तदेष्टमेव स्यात्। न त्वेष नियमो लभ्यते; नियमकारणाभवात्। तस्मात्? कदाचिदनिष्टमपि स्यात्। तत्र यदा पूर्वोत्तरयोरेकस्य घत्वं भवत्यपरस्य ढत्वम्, तदानिष्टमपि प्राप्नोति। यदोभयोरपि घत्वं ढत्वं वा भवति, तदेष्टं स्यात्? तस्मादनिष्टनिवृत्त्यर्थम्? `पूर्वत्रासिद्धीयमद्विर्वचने` (जै।प।वृ।70) इति वक्तव्यम्। **पूर्वत्रासिद्धम्** (8.2.1) इत्यस्मिन्नधिकारे भवं पूर्वत्रासिद्धीयं नलोपादिकार्यम्। गहादित्वाच्छः (4.2.137) , ततो द्विर्वचनादन्यत्रासिद्धं भवति, न तु द्विर्वचने। अथ वा -पूर्वत्र सपादसप्ताध्याय्यामसिद्धं पूर्वत्रासिद्धम्, तदेव नलोपादिकार्यम्, तत्र भवं पूर्वत्रासिद्धीयम्। तत्? पुनस्तस्यैव नलोपादेरसिद्धत्वम्, तद्द्विर्वचनादन्यस्मिन्? कर्तव्ये भवति, न तु द्विर्वचन एव। एतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -**न मु ने** (8.2.3) इत्यत्र नेति यचोगविभागः कर्तव्यः, तेन द्विर्वचने कर्तव्येऽसिद्धत्वं न भविष्यतीति। असति चासिद्धत्वे द्रूहेस्तृचि कृते पूर्वं विकल्पेन घत्वम्, `झषस्तधोर्घोऽधः` (8.2.40) इति धत्वम्, **झलां जश् झशि** (8.4.53) इति जश्त्वम् -धकारस्य गकारः, ततो द्विर्वचनम् -द्रोग्धाद्रोग्योति। यदा तु घत्वं नास्ति तदा `हो ढः` (8.2.31) इति ढत्वम्, पूर्ववद्धत्वम्। ष्टुत्वञ्च, **ढो ढे लोपः** (8.3.13) इति पूर्वढकारलोपः, ततो द्विर्वचनम् -द्रोढाद्रोढेति; इष्टमेव सिध्यति। यदि तर्हि `पूर्वत्रासिद्धीयमद्विर्वचने` (जै।प।वृ।70) इत्येतद्वक्तव्यम्; तदा **पूर्वत्रासिद्धम्** (8.2.1) इत्यत्र औजढवित्यस्य सिद्धये यद्वक्ष्यति -`ढत्वष्टुत्पढलोपादीनामसिद्धत्वाण्णौ यष्टिलोपस्तस्य स्थानिवद्भावाद्? हत्? इत्येतद्द्विरुच्यते` इति -तद्धिरुध्यते? न#आस्ति विरोधः; `पूर्वत्रासिद्धीयमद्विर्वचने` (जै।प।वृ।70) इत्यस्यासर्वविषयत्वात्। कथं विज्ञायते? **उभौ साभ्यासस्य** (8.4.21) इत्यस्य सूत्रस्यारम्भात्। यदि हि `पूर्वत्रासिद्धीयमद्विर्वचने` (जै।प।वृ।70) इत्येतत्? सर्वविषयकं स्यात्, एवं सति `अनितेः` (8.4.19) इत्यनेन कृतणत्वस्य द्विर्वचनेन भवितव्यमिति सिद्धम् -प्राणिणिषतीत्यादिकं रूपम्, किम्? **उभौ साभ्यासस्य** (8.4.21) इत्येनेन सूत्रारम्भेम? आरब्धञ्च, ततो ज्ञापते, पूर्वत्रासिद्धीयमद्विर्वचने` (जै।प।वृ।70) इत्येतदसर्वविषयमिति। यस्तु मन्यते -आष्टमिकं द्विर्वचनमभिप्रेत्यैतद्वक्यव्यमिति, तदयुक्तम्; तस्य `सुविनिर्दुभ्र्यः सुपिसूतिसमाः` (8.3.88) इत्यत्र विषुषुपुरित्यस्य सिद्ध्यर्थं यद्वक्ष्यति -`षुपिभूतो द्विरुच्यते` इति; तद्विरुध्यते; यदि हि षष्ठिके द्विर्वचने कर्तव्ये षत्वस्यासिद्धत्वं नास्ति, एवं षुपिभूतस्य द्विर्वचनं लभ्यते, नान्यथा। तस्मात्? पूर्व एव परीहारः साधुः। `सर्वस्येतद्वा` [`सर्वस्य` इत्येतदेव -काशिका, पदमञ्जरी च] इति। वाशब्दः पूर्वप्रयोजनापेक्षया विकल्पार्थः। अथ वा -नैवम्, विस्पटार्थ सर्वग्रहणम्। किं तर्हि? कृतसर्वकार्यस्य प्रतिपत्त्यर्थ कृतम्। सर्वं ढत्वादिकार्य यस्य तस्य प्रतिपत्तिः प्रतीतिर्यथा स्यादित्येवमर्थं सर्वग्रहणं द्रष्टव्यम। एतत्? कथम्? सर्वशब्दोऽयं मत्वर्थीयाकारप्रत्ययान्तः -सर्वं कार्यमस्यास्तीति सर्वः, अर्शाअदित्वादच्? (5.2.126) , तेन कृतसर्वकार्यस्य द्विर्वचनं भवतीत्युक्तं भवति॥
Prakriyasarvasvam
-----------------
निपातैर्द्धर्ममात्रं हि नामाख्यातेषु सूच्यते । अत्यन्तानर्थकाश्चैके निपातास्तेषु भाष्यकृत् ॥ ६१४ ॥ अर्थवत्कार्यमस्त्येवेत्यर्थवत्सूत्र ऊचिवान् । सर्वाव्ययानां तुल्यैव लिङ्गसङ्ख्यादिहीनता ॥ ६१५ ॥ असत्त्ववचनानां तु कारकं च न विद्यते । कारकाहं स्वरूपं हि द्रव्याख्यं सत्त्वमुच्यते ॥ ६१६ ॥ त्रेधा त्वसत्त्ववाचित्वं क्वचिदर्थस्वभावतः । साध्यक्रियाप्रधानत्वाद् विभक्त्यर्थपरत्वतः ॥ ६१७ ॥ निपाते तुमुनादौ च तसिलादिषु चोह्यताम् । नानाञोश्राव्ययीभावे निपातार्थत्वतो हि तत् ॥ ६१८ ॥ एवं स्थिते तु सत्त्वार्थात् कर्मत्वादौ विभक्तयः । भवन्ति किन्त्वव्ययत्वात् सप्तैकवचनानि तु ॥ ६१९ ॥ सामान्येनैकवचनं निस्सङ्ख्येष्वापि हि स्थितम् । असत्त्ववचनानां तु कर्मत्वादेरसम्भवात् ॥ ६२० ॥ प्रथमैवार्थमात्रे स्यात् तथैकवचनस्य च । सामान्योक्तेः सुरेव स्यादिति न्यासादिषु स्थितम् ॥ ६२१ ॥ तद्धितश्चेति सूत्रे तु हरदत्तोऽन्यथाब्रवीत् । संख्याकारिकयोर्यत्र सम्भवस्तत्र वै सुपाम् ॥ ६२२ ॥ तदर्थनियमोऽन्यत्र भवन्त्यर्थं विनापि ते । सामान्येनैकवचनं चोक्तं तेन स्वमादयः ॥ ६२३ ॥ सप्तापि स्युरसत्वार्थाद् यथेष्टमिति तन्मतम् । आदिमातिक्रमे कारणाभावात् प्रथमैव हि ॥ ६२४ ॥ इत्युक्त्वा कैय्यटोऽप्याह सप्तकोत्पत्तिमप्यमूम् । अस्मिन् पक्षेऽव्ययीभावाद् भवेदधितटादिति ॥ ६२५ ॥ तथा तृतीयासप्तम्योस्तद्युक्तं वेति चिन्त्यताम् । किञ्चान्वयरूपेऽपि शब्दे साध्यक्रियार्थके ॥ ६२६ ॥ पचन्तिरूपं सुभवं भवितव्यमितीदृशे । सामान्यलिङ्गं क्लीबत्वं तथैकवचनं गते ॥ ६२७ ॥ सप्तैकवचनीप्राप्ते स्यान्निपातादिवन्न किम् । आस्तामेतद्यथार्हं तु सुपि जाते ततो लुकि ॥ ६२८ ॥ न व्येति विविधं नैति रूपाभेदादतोऽव्ययम् । तदन्तेऽप्यव्ययत्वं स्यात् परमस्वःसुराः स्थिताः ॥ अप्राधान्ये तु नैव स्यात् स्वरतीतावतिस्वगौ ॥ ६२९ ॥ अथ स्वरादिः । स्वर्भूर्भुवर्महर्जनस्तपःसत्यं लोकेषु । अन्त्यो मान्तः । अन्ये रान्ताः । महोजनस्तपस्सत्या अनव्ययाश्च सन्ति । प्रेत्य अमुत्र परलोके । प्रेत्य गत इत्यादौ समासादि फलम् । अन्तर्मध्ये । बहिर्बाह्ये । सप्तम्यर्थवितौ । चनोऽन्नभक्तयोः । चनस्तृप्यति । भक्तौ कृष्ण चनोऽस्तु । जामि भूयश्वावृत्तौ । जामि जल्पन्ति भूयो वा । पुनर्विशेषे च । धीमान् पुनः प्रयतते पुनर्जन्मनिवृत्तये । प्रातः प्रगे प्राह्णे प्रत्यूषार्थाः । आद्यो रान्तः । द्वावेदन्तौ* । च स्तः । वस्तोर्दिवाहर्दिनाथाः । सायं दिनान्ते । मान्तोऽयम् । घञन्तस्त्व अनव्ययमस्ति । दोषानक्तमुषा रात्र्यर्थाः । उषातनं तमः । ह्योऽतीते । श्वाऽनागते । परश्वः परेऽहनि । संवत् तृतीये वर्षे । संवद् गतः । अस्तं सनुतरन्तर्धाने । सनुतर्याति चोरः । कं मूर्धाम्बुसुखनिन्दासु । निन्दितदर्पवान् कन्दर्पः । शंयोर्मयस्सुखे । शं दुःखशमजं सौख्यम् । योश्च मयश्च विषयसुखम् । पुरा भूतविप्रकर्षभविष्यदासत्त्योः । विहायसा आकाशे । रोदसी दिवस्पृथिव्योः । रोदस्यासीद् यशोमयम् । रोदस्यावित्याद्यनव्ययेऽपि । अप्नःशीघ्रे । निकषा सामीप्ये । समया मध्ये च । समया ग्राममास्ते । ग्रामस्य समीपे मध्ये वेत्यर्थः । असाम्प्रतमयुक्ते । सत्यमृधगद्धा सत्ये । आद्यो मान्तः । सत्यंवादी । अद्धेति प्रत्यक्षेऽपि । मिथ्या मृषा विस्रसा अनृते । विस्रसतद्वचः । मुधा वृथा विफले । इद्धा प्राकाश्ये । अर्वाक् प्राक् पूर्वे । अधमार्थादर्वशब्दादञ्चत्यन्तस्त्वनव्ययम् । चरममनग्रचे । रहोऽप्राकाश्ये । अनव्ययं चास्ति । मिथोऽन्योन्ये च । द्वन्द्वं मिथुनं मिथु युग्मार्थे । ददृशुर्मिथुनं भूतास्तयोर्द्वन्द्वं सतोर्मिथु । सकृत् सदैकवारयोः । सदार्थे-सकृद्युवानो गीर्वाणाः । ताजग् जोषक् झगिति झटिति तरसा द्राक् साङ्क्षङ्क्ष्वाश्ववरं शैघ्रथे । ऊर्ध्वमूर्ध्वे । मान्तः । उच्चैरुच्चे । नीचैरर्वाङ् न्यङ् नीचे । अवश्यं निश्चये । साम्यर्धें । साचि तिर्यक्त्वे । अन्वगानुष- गानुक्ल्ये । आनुषक् त्वानुपूर्व्य इत्यन्ये । सीं विषु समन्तात् समन्ततः परितः सर्वतोभावे । उभयतोऽभितोऽभिमुखे च । चात् सर्वतोभाव उभयतोभावे च । मुहुरसकृदभीक्ष्णं पौनःपुन्ये । ज्योक् दीर्घायुष्ट्वे । हिरुग् वर्जनहिंसयोः । ईषदल्पे । मनाग् अनुशये च । मनाग् भ्रष्टोऽस्मि । अनुशयितोऽहमित्यर्थः । शनैर्मान्द्ये । हठाद् बलात् प्रसह्यार्यंहलं हठे । हठो बलात्कारः । आराद् दूरान्तिकयोः । प्रायः प्रायेण बाहुल्ये । 'स्वबाहुप्रायेण क्षपितरि पुरास्ते स भगवान् ।' अदन्तोऽपि प्रायशब्दोऽस्ति । युगपदेकपदे । प्रबाहुक् तुल्यकाले । अकस्मादेकपदे च अतर्किते । सपद्यह्नाय तत्क्षणे । उपांशु । अप्रकाशे । उपांशु दण्डचः । तूष्णीमवाचि । जोषं सुखे च । पशु सम्यक्त्वे । तिरोऽन्तर्धानतिरश्चोः । तिरश्चि- तिरः काष्ठं कुरु । स्वयमात्मनार्थे । कु कुत्साल्पयोः । अपष्ठु दुष्ठु दुष्टे । दुर्जनः । एतत्पिशुनदौष्ठवम् । काममनुमतौ । निकामं प्रकामं सुष्ठु बलवदतीवार्थे । सुष्ठु शोभनेऽपि । 'प्रज्ञानिकामं जितशात्रवोऽयम् ।' सु शु बङ् वेङ् प्याङ् व्याट् प्रशंसायां च । चादत्यर्थे च । सुमुखः । शुनासीरः । 'व्याट् पार्वतीं गायतु मङ्ग्लानि ।' वरं हीनोत्कर्षे नवरं परं केवलं किन्त्वेवार्थे । किन्त्वर्थ एवार्थे चेत्यर्थः । परंपुरुषायेत्युत्कृष्टेऽपि । चिरं चिराय चिररात्राय चिरस्य चिराच्चिरेण चिरार्थाः । तत्त्वं व्यक्तौ । तत्त्वंकृतशास्रार्थोऽयम् । पुरोऽग्रार्थे पूजायां च । अच्छाभिमुख्ये । अच्छभावमिच्छामि ते । प्रादुराविः प्रकाशे । प्रादुष्प्रभावः । आविर्यशाः । एतानि गतिप्रतिरूपाण्यव्ययान्तराणि । वरिवः परिचर्यायाम् । करोमि वरिवो विष्णोः । सहसा अतर्किताविमर्शायाः । शश्वत् सनत् सना नित्यदा सदिति नित्ये । इयं सदिति रम्या । हन्त भिक्षादाने । यतीनां हन्त करोति । भिक्षादानं करोतीत्यर्थः । भिक्षादानस्य च प्रधानदानत्वा- न्महादानं हन्तकारः । स्वधा तृप्तौ । स्वधा प्राप्ता द्विजाः । तृप्तिं प्राप्ता इत्यर्थः । पितृदानार्थे तु स्वधा वक्ष्यते । स्वस्त्यविनाशे । स्वस्तितायै भजे त्वाम् । अविनाशि- त्वायेत्यर्थः । सपदि विद्रवं सम्प्रति चेदानीमर्थे । विद्रवं विद्रुतोऽसौ । ऋते विनान्यत्र वर्जने । अन्तरेणान्तरा मध्ये च । चादुभावपि वर्जने च । पृथङ् नाना भेदे च । चाद्वर्जने च । भेदे—पृथग्भूताभावाः, नानाभूता वा । वर्जने—कृष्णात् पृथङ् न किञ्चित्, नाना वा । अन्यद्—विशेष्ये । कुवित् प्रशस्तबह्वोः । स्वरिति प्रीतौ । आज्येनाग्निः स्वरिति । प्रीयत इत्यर्थः । स्वरिति दधुर्द्विजाः । प्रीतिं दधुरित्यर्थः । स्वगा निष्क्रये । स्वगा सन्त्वृत्विजः । निष्क्रियाः सन्त्वित्यर्थः । इहानुकरणान्याह सूत्रकारः स्वरादिषु । गवित्याहादिसिद्ध्यर्थं वक्ष्यते चान्यथागतिः ।। ६३० ।। मन्त्रस्थानपि बीजादीन् पठत्यत्रैव सूत्रकृत् । वट्यादिराममौ चात्र प्रशान्शब्दोऽपि पठ्यते ।। ६३१ ।। अनन्ताः खल्वनन्तार्थाः स्वराद्याश्चादयोऽपि च । असत्त्वपरतैवात्र चादीनां नियता मता ।। द्योतकत्वं क्वचिन्नास्ति वाचकस्त्वादहादयः ।। ६३२ ।। च समुच्चयादौ हेतौ च । हेतौ—शीतं च कथं गमिष्यामि । शीताद्धेतोः कथं गमिष्यामीत्यर्थः । चण् यद्यर्थे । वा विकल्पोपमानान्याभावसमुच्चयेषु । उपमाने- मणी वोष्ट्रस्य लम्बेते । अन्याभावे—कृष्णं वा तल्लीलां वा कामये । न तृतीय- मित्यर्थः । ह प्रसिद्धिनिन्दादौ । अह प्रशंसानिन्दानिदेशेषु । निदेशे—अह महारथ्यं यातु । एव अवधारणसम्भावनादौ । एवं प्रकारनिश्चयादौ । नो नहि निषेधे । अनेति च भोजः । अनोपमा ते बुद्धिः । अकारेऽपि निषेधेऽस्तीति स्वामी । अ कृष्णः क्रूरः । कृष्णो न क्रूर इत्यर्थः । न नहिरुपमानेऽपि । नञ् तुल्यान्यविरुद्धाभावा- ल्पक्षेपेषु । अल्पे-अनुदरा कन्या । क्षेपे-अपचसि । माङ् मास्म माकिवर्वारणे । मा शङ्कायां च । मा करिष्यति साहसमिति शङ्का । चेद्यदीत्थं कारणोपदेशे । कृष्णश्चेदर्च्यते मुक्तिर्लप्स्यते इति मुक्तौ कारणोक्तिः । एवं कृष्णो यद्यर्च्यते, कृष्ण इत्थमर्च्यते । नूनमूहनििश्चययोः । कच्चित् कच्चनेष्टप्रश्ने । हन्त हर्षकृपाखेदवाक्या- रम्भदानेषु । वाक्यारम्भे—हन्त ते कथयिष्यामि । दाने—इदं नृपेभ्यो हन्त । दीयत इत्यर्थः । स्वरादौ भिक्षादानार्थस्य सर्वकारकरयोगो भेदः । वावधारणे । त्वाव त्वै तुवै विषेषे । वै प्रसिद्धौ च । तु हेतुविशेषावधारणव्यावृत्तिषु । व्यावृत्तौ-नित्यस्तु स्याच्छब्दः । अनित्यत्वपक्षोऽत्र व्यावर्त्यते । नु न्वै स्विद् वितर्के । रै अनादरे । श्रौषट् वौषट् वषट् वाट् स्वाहा स्वधा हविर्दाने । फडुत्सारणे । झम्बडाभि- मुख्येऽन्तःकरणे च । छम्वण्मुखोऽयम् । दैत्येन जले छम्बट् कृता भूः । अन्तर्नि- वेशितेत्यर्थः । आद अथार्थौ प्रश्नाम्भानन्तर्यप्रतिज्ञासमुच्चयादौ । प्रतिज्ञायां—किं गोपा भवान् ? अथेति ब्रूमः । समुच्चये कृष्णोऽथ रामो विपिनं विवेश । अलं वारणे । भूषणे तु गतिः । पर्याप्तिशक्तचोर्द्रव्यपरत्वात् स्वरादिः । अलमन्नम् । अलं मल्लः । चिच्चनासाकल्योपमानासम्मतिषु । असाकल्ये किंशब्दयोग एव । कश्चित् कश्चन । उपमाने—मेघश्चित् कृष्णः । असम्मतौ—तक्रं चिदानय, दधि मे योग्यम् । हा शोकनिन्दासम्भ्रमविस्मयेषु । सम्भ्रमे—कथं हा हा पुरोपरोधः । विस्मये—द्विजा हा देववैभवम् । हि प्रसिद्धहेत्वोः । हिं स्तोभे । यज्ञादावुक्तिविशेषः स्तोभः । हुं निरासादौ । हं भयादिविकारे । हो प्रतिवाक्ये । अहो अहह बत स्वेदाद्भुत- कृपाहर्षादौ । अहा इत्यप्याहुः । ही भर्त्सने च । आहो वितर्के । उत प्रश्नसमुच्चयादौ च । ओ प्रारम्भानुज्ञाविरामेषु । ब्रह्मार्थे तु स्वरादिः । कूपत् सूपत् चूपत् प्रश्नवितर्कप्रशंसासु । शश्वन्मुहुरर्थे । नित्यकाले तु स्वरादिः । नन्वनुमतिप्रश्न- निश्चयानुनयादौ । हं हो हे हैं हये हरे आह्वाने । भोः खेददर्पयोश्च । कष्टं भोः । सोऽहं भो भुवि भार्गवः । अररे सावक्षेप आह्वाने । रे अरे अन्वे हीनेषु । हण्डे हञ्जे हला नीचाचेटीसखीषु नाटयोक्तौ । भगो अघो पूज्यपापिनोः । अङ्गेष्टाह्वान- पुनरर्थयोः । अयमङ्ग न तादृशः । अयं पुनरित्यर्थः । अये स्मृतिक्रोधखेदसम्भ्रमेषु । स्मृतौ—अये रामोऽयम् । क्रोधे—अये कोऽसौ । खेदे—अये श्रान्ताः स्मः । सम्भ्रमे— अये धावत धावत । सम्भ्रमयोगादादरेऽपि । अयि चानुनये । नु प्रश्नोपमाप्रत्युक्ति- वितर्केषु । शक्रो नु राजा । किं प्रश्नाक्षेपेषदर्थादौ । ईषदर्थे किन्नरः । किमु विमर्शादौ । पुत् कुत्सायाम् । कुत्सितश्चरति पुल्कसः । कद्धर्षप्रश्नयोः । अदाश्चर्ये । आश्चर्यतया भूतपद्भूतम् । अत आतो यदा यत्तद्धेतौ । क्वित् भर्त्सने । धिङ् निन्दाभर्त्सनयोः । इवोपमोत्प्रेक्षावाक्यालङ्कारेषदर्थेषु । ईषदर्थे कुपित इवायम् । किल प्रसिद्धयलीकारुचिपरिहासादौ । खलु निषेधवाक्यालङ्कारानुनयादौ । अनुनये— न खलु न खलु साहसं कार्यमेतत् । स्मातीते विस्मये च । दिष्टया हर्षे । मर्यादावधौ । अवधावादीयत इति मर्यादा । साकं सार्धं समं सत्रा सह सजूख्ये । अमा समीपे च । जातु खेदसम्भवानामर्षनिश्चयकदाचिदर्थेषु । खेदे—न जात्वहमभुञ्जि । सम्भावनायां —को जातु युध्यतेऽर्जुनेन । आङ् मर्यादाभिविधीषदर्थेषु । आ वाक्यस्मृत्यौः । विकल्पेऽपीति शङ्करः । आप् प्रतिवाक्ये । शप् प्रतिग्रहणे । गां शप् करोति । आम् परमं बाढं चाङ्गीकारे । आः कोपपीडयोः । उञ् वितर्कसम्बोधनपादपूरणेषु । उं स्मृतौ । ऊं स्त्रीणां सविकारवचने । ऊं नाहमिदं वेद्मि । नाम प्रसिद्धयलीक- को पकुत्सनस म्भावनाविस्मयादौ । सम्भावनायां-एवं नाम भविष्यति । विस्मये- अयं नाम शैलमुदधात् । इति हेतुप्रकरणस्वरूपसमाप्तिशब्दप्रसिद्धिमत्युक्तिविवक्षा- नियमादौ । स्वरूपे—कृष्ण इति स्मरति । मत्युक्तयोः—पापोऽयमिति गतः । इत्युक्त्वा मत्वा वेत्यर्थः । इदेवार्थो व्यर्थश्च । ईकंघादयो व्यर्थाः । आद्युक्ते क्वचिच्च वैतुह्यादयोऽपि । इदमर्थस्त्वींशब्दः स्वरादिः ॥ अथ निपातसमुदायाः । शुकं शैघ्रये । सुकं पूजायाम् । नुक वितर्के । नहिकं निषेधे । हाधिक् खेदे । किन्तु किमुत किंपुनः किमङ्ग विशेषे । नवै नहवै नैवेत्यर्थे । नेद् यद्यर्थे । अथकिं सम्मते । एवमेव सामान्यवृथार्थयोश्च । एवमेव बाला रम्याः किंपुनः कृष्णः । सामान्येन बाला रम्या इत्यर्थः । वृथार्थे--एवमेवागतः । सम्मते-- एवमेवैतत् । यदिनाम यदिपरं प्रकृतान्यथार्थे । यदुत वाक्यार्थनिर्देशे । श्रेयस्तद् यदुत कृष्णः सेव्यते । प्रत्युतोक्तान्यथात्वे । यथाकथञ्चित् यथाकथा च अनादरे । इतिह प्रवादे । मा तावद् निषेधनिश्चयामर्षेषु । कथञ्चित् कृच्छ्रे । अथवा यद्वा शब्दः । यदिवा पक्षान्तरे । अपिच किञ्च अन्यच्च समुच्चये । ननु चाक्षेपे । ननु च नित्यः शब्दः । अनित्यत्वपक्षोऽत्राक्षिप्यते । यच्च यत्रानवकॢप्त्यमर्षगर्हाश्चर्येषु । किंकिल क्रोधाविश्वासयोः । कदाचिदपूर्वाशङ्कयोः । कदाचिदुत्थितं ज्योती रामाख्यं भूतयेऽद्य नः । कदाचिदमुना क्षिप्रं धक्ष्यते रक्षसां कुलम् ॥ ६३३ ॥ अहोनुखलु भो आश्चर्ये । नोचेन्नचेदन्यथात्वे ॥ अथ सुबन्तप्रतिरूपाः । शुभं कल्याणे । अहं दर्पे । कृतं वारणे । पर्याप्तं सामर्थ्ये च । हरिणैव पर्याप्तम् । हरिणैव शक्यमित्यर्थः । अञ्जसा सम्यग्वेगयोः । यावता पक्षान्तरे । ते मे टार्थे । त्वया मयेत्यर्थ इत्यर्थः । अह्नाय शीघ्रे । कृते तादर्थ्ये । अन्योन्यस्य परस्परस्याग्रे हेतौ । रात्रौवेलायामादयः स्वार्थे । मात्रा- यामल्पार्थे ॥ अथ तद्धितप्रतिरूपाः । यावत्तावदवध्यधिकरणसाकल्यक्रमावधारणकालादौ । यावद्धेतौ च । तावदल्पे च । क्षमस्व तावत् । किञ्चिदित्यर्थः । ततः आरम्भानन्त- र्यकथान्तरेषु । कथान्तरे--ततस्ततः । अन्यत्र वर्जने । यथा योग्यतावीप्सापदार्था- नतिवृत्तिसादृश्येषु । तथा समुच्चयाङ्गीकारनिदर्शनसादृश्येषु । कथं सम्भ्रमहर्षादौ । तर्हि विशेषादौ । अर्जुनस्तर्हि शूरः । स तु विशेषतः शूर इत्यर्थः ॥ अथ तिङन्तप्रतिरूपाः । अस्ति नास्ति सत्त्वासत्त्वयोः । अनयोर्द्रव्यपरत्व- मप्यस्तिक्षीराद्युक्तेः सिद्धम् । अस्यस्मि त्वमहमर्थे । विद्यते भवति स्वार्थे । एहि प्रहासे । ब्रूहि प्रैषादौ । मन्ये शङ्के स्याद् वितर्के । जानाम्यवगमे । अस्तु भवतु पूर्यते वारणे । अस्तु सम्मानेन । आसाह लिडर्थे । वर्तते दोषसंवरणे । नवर्तंतेऽ- नुचिते । याति गच्छति शक्ये । एतत्कर्तुं याति गच्छति वा । आदहारम्भहिंसा- कुत्सनेषु । आदह भोक्तुम् । आदहारीन् पुरन्दरः । हिनस्तीत्यर्थः । अपेह्यादह । आतङ्क्वादङ्क् कुत्साविनाशयोः । कुत्सायां--भृङ्क्ष्वातङ्क् तृप्तः । विनाशे--आदङ्क् क्षीरं दधि । भावय पश्य पश्यताश्चर्ये । अच्प्रतिरूपका असूयादौ । अ अपेडीत्यादि । उपसर्गप्रतिरूपकाश्च । प्रसज्यप्रतिषेधादौ च ल्यबन्ता निपाताः । तुल्यार्थनिपातानां सहोक्तावप्येकार्थतैव । किस्वित् आहोस्वित् उतस्विदित्यादि । इतः परं सर्वस्य शब्दस्य द्वे आवृत्ती स्तः इत्यधिक्रियते ॥