74088: उत् परस्यातः =================== **Padacheda:** उत् | S | 1 | 1 | परस्य | S | 6 | 1 | अतः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- For the subsequent अ (i.e. for the अ of the root and not of the reduplicate), there is substituted उ in the Intensive (with expressed or elided यङ्). Vasu English Translation ------------------------ For the subsequent अ (i.e. for the अ of the root and not of the reduplicate), there is substituted उ in the Intensive (with expressed or elided यङ्). The examples have been given above, as चंचूर्यते, चंचूरीते and पंफुल्यते पंफुलीते ॥ Why do we say 'the अ which stands subsequent to the reduplicate'? The substitute does not replace the अ of the reduplicate. Why do we say 'of अ'? The substitute should not replace the final letter, which it otherwise would have done by (1.1.52). The त् in उत् debars *guna* (7.3.86) in चंचूर्ति and पंफुलीति, for though उ is lengthened by (8.2.77), in चंचूर्ति, yet that lengthening is considered as non-existent or *asiddha* (8.2.1) for the purposes of *Guna* (7.3.86). Quere. If the त् in उत् debars *guna*, why should it not debar lengthening also of (8.2.7)? Kashika ------- चरफलोः अभ्यासात् परस्य अतः उकारादेशो भवति यङ्यङ्लुकोः परतः। चञ्चूर्यते। चञ्चूरीति। पम्फुल्यते। पम्फुलीति। परस्य इति किम्? अभ्यासस्य मा भूत्। अतः इति किम्? अलोऽन्त्यस्य मा भूत्। उदिति तपरकरणं चञ्चूर्ति, पम्फुलीति इत्यत्र लघूपधगुणनिवृत्त्यर्थम्। दीर्घस्य असिद्धत्वातिह लभुत्वं न निवर्तते। Siddhanta Kaumudi ----------------- चरफलोरभ्यासात्परस्यात उत्स्याद्यङ्यङ्लुकोः । हलि च (SK354) इति दीर्घः । चञ्चूर्यते । चंचूर्यते । पम्फुल्यते । पंफुल्यते ॥ Padamanjari ----------- अभ्यासस्य मा भूदिति । अन्यथा प्रकरणातस्येव प्रसङ्गः । अन्त्यस्य मा भूदिति । ठादेः परस्यऽ इत्यस्य त्वप्रसङ्गः; पञ्चमीनिर्द्देशाभावात् । तपरकरणं किमिति । यद्यपि भाव्यमानोऽप्युकारः । सवर्णान्गृह्णाति, तथा प्यान्तर्यतो मात्रिकस्य मात्रिक एव सिद्ध इति प्रश्नः । लघूपधगुणनिवृत्यर्थमिति । अनेन लक्षणेन दीर्घस्य प्राप्त्यभावाल्लक्षणान्तरप्राप्तेऽपि विकारस्तपरकरणसामर्थ्याद्वार्यत इति भावः । यथैव तर्हि गुणो निवर्तते, तथा'हलि च' इति दीर्घत्वमपि निवर्तेत ? अत आह - दीर्घत्वे हीति ॥ Nyaas ----- `अभ्यासस्य मा भूत्` इति। असति परग्रहणेऽभ्यासाधिकारादभ्यासस्यैव स्यादित्यभिप्रायः। `अलोऽन्त्यस्य मा भूत्` इति। यदि `अतः` इति नोच्येत, ततोऽलोऽन्त्य (1.1.52) परिभाषयाऽभ्यासात्परस्य धातुरूपस्य योऽन्त्योऽल्? तस्य स्यादिति मन्यते। अथ तपरकरणं किमर्थम्, यावता मात्रिकस्य स्थान आन्तरतम्याद्विधीयमानो मात्रिक एव भविष्यति? इत्यत आह - `तपरकरणम्` इत्यादि। असति तपरकरण उकारे कृते चञ्चूर्ति, पम्फुल्तीत्यत्र `पुगन्तलघूपधस्य` (7.3.86) इति गुणः स्यात्, स मा भूदित्येवम्रथं तपरकरणं क्रियते। ननु चञ्चूर्तीत्यत्र दीर्घत्वमेव गुणस्य बाधको भविष्यति, तत्किमेतन्निवृत्त्यर्थेन तपरकरणेन? इत्यत आह - `दीर्घत्वम्` इत्यादि। असिद्धत्वं तु **पूर्वत्रासिद्धम्** (8.2.1) इत्यनेन। यदि तर्हि लक्षणान्तरेण प्राप्तो गुणस्तपरकरणेन निवर्तते, गुणवद्दीर्घत्वमपि न स्यात्/ नैष दोषः; तपरकरणे हि दीर्घत्वमपि सिद्धमिति। तेन दीर्घस्य निवृत्तिर्न शक्यते वक्तुम्। तथा च - `अत उत्? सार्वधातुके` (6.4.110) इति तपरकरणेन दीर्घत्वमशक्यं निवर्तयितुमिति मन्यमानेन `न भकुर्च्छुराम्` (8.2.79) इति करोतेर्दीर्घत्वप्रतिषेध आरभ्यते। अत इति तपरकरणमिह मा भूत् - फलन्तं प्रयुङ्क्ते फालयति, फालयतेः क्विप्, तदन्तात्? `आचारे पुनः सर्वप्रातिपदिकेभ्यः` (वा।186) इति क्विप्, तदन्ताद्यङ् - पन्फाल्यते, पम्फालोति। कथञ्च प्राप्नोति? एकदेशविकृतस्यानन्यत्वात्॥ Prakriyasarvasvam ----------------- चरफलोर्यत्विकारस्य यङ्यङ्लुकोः परयोरुत् स्यात् । 'हलि च' (८-२-७७) इति दीर्घः । चञ्चूर्यते । जञ्जप्यते । जभ गात्रविनामे । जञ्जभ्यते । दन्दह्यते । दन्दश्यते । गृ धातोरृ त इत् । Sutra Prayogas -------------- * **चञ्चूर्यते** (भट्टिकाव्यम्): `उत्परस्यातः` इत्युत्वम्।