74076: भृञामित् =============== **Padacheda:** भृञाम् | S | 6 | 3 | इत् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the Reduplicated Present form (श्लु) of the three roots 1. भृ 2. मा (माङ्) and 3. हा (ओहाङ्), इ is substituted for the vowel of the reduplicate. Vasu English Translation ------------------------ In the Reduplicated Present form (श्लु) of the three roots 1. भृ 2. मा (माङ्) and 3. हा (ओहाङ्), इ is substituted for the vowel of the reduplicate. As बिभर्त्ति, मिमीते, (6.4.113) जिहीते ॥ The word 'three' is understood here, therefore not in ओहाक्-जहाति ॥ The rule applies in the Reduplicated Present system (श्लु) only: therefore not in बभार ॥ Kashika ------- भृञादीनां त्रयाणामभ्यासस्य इकारादेशो भवति श्लौ सति। भृञ् बिभर्ति। माङ् मिमीते। ओहाङ् जिहीते। त्रयाणाम् इत्येव, जहाति। श्लौ इत्येव, बभार। Siddhanta Kaumudi ----------------- भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ । बिभर्ति । बिभृतः । बिभ्रति । बिभृध्वे । श्लुवद्भावाद् द्वित्वेत्वे । बिभरामास बभार । बभर्थ । बभृव । बिभृहि । बिभराणि । अबिभः । अबिभृताम् । अबिभरुः । बिभृयात् । भ्रियात् । भृषीष्ट । अभार्षीत् । अभृत ।{$ {!1088 माङ्!} माने शब्दे च$} ॥ Laghu Siddhanta Kaumudi ----------------------- भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ। मिमीते। मिमाते। मिमते। ममे। माता। मास्यते। मिमीताम्। अमिमीत। मिमीत। मासीष्ट। अमास्त। अमास्यत॥ {$ {! 7 ओहाङ् !} गतौ $} (धातुपाठे (03.0008)) ॥ जिहीते। जिहाते। जिहते। जहे। हाता। हास्यते। जिहीताम्। अजिहीत। जिहीत। हासीष्ट। अहास्त। अहास्यत॥ {$ {! 8 डुभृञ् !} धारणपोषणयोः $} (धातुपाठे (03.0006)) ॥ बिभर्ति। बिभृतः। बिभ्रति। बिभृते। बिभ्राते। बिभ्रते। बिभराञ्चकार, बभार। बभर्थ। बभृव। बिभराञ्चक्रे, बभ्रे। भर्तासि, भर्तासे। भरिष्यति, भरिष्यते। बिभर्तु। बिभराणि। बिभृताम्। अबिभः। अबिभृताम्। अबिभरुः। अबिभृत। बिभृयात्, बिभ्रीत। भ्रियात्, भृषीष्ट। अभार्षीत्, अभृत। अभरिष्यत्, अभरिष्यत॥॥ {$ {! 9 डुदाञ् !} दाने $} (धातुपाठे (03.0010)) ॥ ददाति। दत्तः। ददति। दत्ते। ददाते। ददते। ददौ, ददे। दातासि, दातासे। दास्यति, दास्यते। ददातु॥ Balamanorama ------------ **भृञामित्** - भृञामित् । भृञामिति बहवचनाद्भृञादीनामिति लभ्यते । 'अत्र लोपः' इत्यतोऽभ्यासस्येति,निजां त्रयाणां गुणः श्लौ॑ इत्यतस्त्रयाणां श्लाविति चानवर्तते । तदाह — भृञ् माङित्यादिना । बिभ्रतीति । अभ्यस्तत्वाददादेशे यण् । बिभर्षि बिभृथः बिभृथ । बिभर्मि बिभृवः बिभृमः । बिभृते बिभ्राते बिभ्रते । बिभृषे बिभ्राथे । इति सिद्धवत्कृत्य आह — बिभृध्वे इति । बिभ्रे बिभृवहे बिभृमहे । श्लुवद्भावादिति ।भीह्यीभृहुवा॑मित्यनेनेति भावः । बिभरामासेति । अनुप्रयोगसामर्थ्यादस्तेर्भूभावो नेति भावः । बभारेति । श्लावित्यनुवृत्तेर्भृञामिदिति नेत्त्वम् । बभ्रतुः बभ्रुरित्यपि ज्ञेयम् ।कृसृभृवृ॑इति लिटि इण्निषेधः । थल्यपिअचस्तास्व॑दिति नित्यमिण्निषेधः । ऋदन्तत्वेन भारद्वाजमतेऽपि निषेधात् । तदाह - बभर्थेति । बभ्रथुः बभ्र । बभार — बभर इति सिद्धवत्कृत्य आह - बभृवेति । क्रादित्वादिण्निषेध इति भावः । बभ्रे बभ्राते बभ्रिरे । बभृषे बभ्राथे बभृढ्वे । बभ्रे बभृवहे बभृमहे । भर्ता । भरिष्यति । भरिष्यते । बिभर्तु — बिभृतात् बिभृताम् बिभ्रतु । इति सिद्धवत्कृत्य आह — बिभृहीति । हेरपित्त्वेन ङित्त्वाद्गुणनिषेध इति भावः । बिभृतात् बिभृतम् बिभृतेति सिद्धवत्कृत्य आह - बिभराणीति । आटः पित्त्वेन ङित्त्वाऽभावान्न गुणनिषेध इति भावः । बिभराव बिभराम । लङ्याह — अबिभरिति । अबिभृ त् इति स्थिते गुणे रपरत्वे हलङ्यादिलोपे रेफस्य विसर्ग इति भावः । अबिभरुरिति । अभ्यस्तत्वात् झेर्जुस् ।जुसि चे॑ति गुण- । अबिभः अबिभृतमबिभृत । अबिभरमबिभृव अबिभृम । अबभृत अबिभ्रातामबिभ्रत । अबिभृथाः अबिभ्राथामबिभृध्वम् । अबिभ्रि अबिभृवहि अबिभृमहि । आशीर्लिङ्याह - भ्रियादिति । 'रिङ्शयग्लिङ्क्षु' इति रिङ् । आत्मनेपदे आसीर्लिङ्याह - भृषीष्टेति ।उश्चे॑ति कित्त्वान्न गुणः । अभार्षीदिति । अनिट्त्त्वान्न सिज्लोपः । सिचि वृद्धिः । रपरत्वमिति भावः । अभार्ष्टामित्यादि । आत्मनेपदे लुङ्याह — अभृतेति ।ह्रस्वादङ्गा॑दिति सिचो लोपः । अभृषातामित्यादि । माङ् माने इति । अनिट् । ङित्त्वादात्मनेपदी । श्लौ द्वित्वेभृञामि॑दिति अभ्यासस्य इत्त्वे मि मा ते इति स्थिते — Tattvabodhini ------------- **भृञामित्** - भृञामित् । णिजां त्रयाणा॑मित्यतोऽनुवर्तनादाह — एषां त्रयाणामिति । केचित्तु कपिञ्जलाधिकरणन्यायेन त्रयाणामिति लभ्यत इत्याहुः । त्रयाणां किम् । जहाति ।श्लौ किम् । बभार । Padamanjari ----------- अमी अपि जुहोत्यादौ भृञ्, माङ्, ओहाङ् - भृञादयः । मिमीत इति । ठी हल्यघोःऽ ॥ Nyaas ----- `डु भृञ्? धारणपोषणयोः` (धातुपाठः-1087), `माङ्? माने` (धातुपाठः-1088), `ओहाङ्? गतौ` (धातुपाठः-1089) - इत्येते भृञादयो जौहोत्यादिका एव। `मिमीते, जिहीते` इति। **ई हल्यघोः** (6.4.113) इतीत्त्वम्॥ Prakriyasarvasvam ----------------- भृञ्माङोहासां त्रयाणां श्लावभ्यासस्येत् स्यात् । हलादिषु 'ईहल्यघोः' इतीत्वम् । अचि आल्लोपः । मिमीते । मिमाते । मिमते । मिमीषे । मिमाथे । मिमीध्वे । मिमे । मिमीवहे । मिमीमहे । कर्मणि 'घुमास्था—' इतीत्वम् । मीयते । मिमीत । मिमीयाताम् । मिमीरन् । मिमीथाः । मिमीध्वम् । मिमीय । मिमीवहि । मिमीताम् । मिमाताम् । मिमताम् । मिमीष्व । मिमीध्वम् । मिमै । मिमावहै । अमिमीत । अमिमाताम् अमिमत । अमिमीथाः ! अमिमीध्वम् । अमिमि । अमिमीवहि । लुङि अमास्त । अमासाताम् । अमासत । अमास्थाः । अमाध्वम् । अमासि । अमास्वहि । कर्मणि अमायि । अमायिषाताम्, अमासाताम् । लिटि ममे । ममाते । ममिरे । ममिषे । ममिध्वे । ममिवहे । मासीष्ट । मासीयास्ताम् । माता । मास्यते । णिजिर् शौचपोषणयोः । स्वरितेत् । Sutra Prayogas -------------- * **उज्जिहानः** (भट्टिकाव्यम्): `भृञामित्` इतीत्वम्। * **अबिभरुः** (भट्टिकाव्यम्): `भृञामित्` इतीत्वम्। * **अबिभः** (भट्टिकाव्यम्): `भृञामित्` इति धातोर्गुणः । * **उज्जिहीषे** (भट्टिकाव्यम्): `भृनामित्` इत्यभ्यासस्य इत्।