74072: अश्नोतेश्च ================= **Padacheda:** अश्नोतेः | S | 6 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- After the lengthened आ of the reduplicate of अश् (अश्नोति) comes the augment नुट् (न्) before the short अ in the लिट् (Perfect Tense). Vasu English Translation ------------------------ After the lengthened आ of the reduplicate of अश् (अश्नोति) comes the augment नुट् (न्) before the short अ in the लिट् (Perfect Tense). This applies to a case where the root does not contain a double consonant. Thus व्यानशे, व्यानशाते, व्यानशिरे ॥ The rule applies to अश् (*Svadi* 18) and not to अश् (*Kryadi* 51); there we have आश, आशतुः, आशुः ॥ Kashika ------- अश्नोतेश्च दीर्घीभूतादभ्यासादुत्तरस्य नुडागमो भवति। व्यानशे, व्यानशाते, व्यानशिरे। अश्नोतेः इति विकरणनिर्देशः अश्नातेर्मा भूतिति। आश, आशतुः, आशुः। Siddhanta Kaumudi ----------------- दीर्घादभ्यासावर्णात्परस्य नुट् स्यात् । आनशे । अशिता । अष्टा । अशिष्यते । अक्ष्यते । अश्नुवीत । अक्षीष्ट । अशिषीष्ट । आशिष्ट । आष्ट । आक्षाताम् ।{$ {!1265 ष्टिघ!} आस्कन्दने$} । स्तिघ्नुते । तिष्टिघे । स्तेघिता ॥ अथ आगणन्तात्परस्मैपदिनः ॥{$ {!1266 तिक!} {!1267 तिग!} गतौ च$} । चादास्कन्दने । तिक्नोति । तिग्नोति ।{$ {!1268 षघ!} हिंसायाम्$} । सघ्नोति ।{$ {!1269 ञिधृषा!} प्रागल्भ्ये$} । धृष्णोति । दधर्ष । धर्षिता ।{$ {!1270 दम्भु!} दम्भने$} । दम्भनं दम्भः । दभ्नोति । ददम्भ । श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिटः कित्त्वं वेति व्याकरणान्तरमिहाप्याश्रीयत इत्युक्तम् । अनिदिताम् - (SK415) इति नलोपः । तस्याभीयत्वेनासिद्धत्वादेत्वाभ्यासलोपयोरप्राप्तौ । (वार्तिकम्) ॥ देभतुः । ददम्भतुः । इदं कित्त्वं पिदपिद्विषयकमिति सुधाकरादयः । तन्मते तिप्सिप्मिप्सु । देभ । देभिथ । देभेति रूपान्तरं बोध्यम् । ददम्भ । ददम्भिथ । ददम्भेत्येव । दभ्यात् ।{$ {!1271 ऋधु!} वृद्धौ$} । तृप प्रीणन इत्येके ॥ क्षुभ्नादित्वाण्णत्वं न । तृप्नोति । (गणसूत्रम् -) छन्दसि । आगणन्तादधिकारोऽयम् ।{$ {!1272 अह!} व्याप्तौ$} । अह्नोति ।{$ {!1273 दघ!} घातने पालने च$} । दघ्नोति ।{$ {!1274 चमु!} भक्षणे$} । चम्नोति ।{$ {!1275 रि!} {!1276 क्षि!} {!1277 चिरि!} {!1278 जिरि!} {!1279 दाश!} {!1280 दृ!} हिंसायाम्$} । रिणोति । क्षिणोति । अयं भाषायामपीत्येके । नतद्यशः शस्त्रभृतां क्षिणोति । ऋक्षीत्येक एवाजादिरित्यन्ये । ऋक्षिणोति । चिरिणोति । जिरिणोति । दाश्नोति । वृत् ॥ Balamanorama ------------ **अश्नोतेश्च** - अश्नोतेश्च ।अत्र लोपःट इत्यतो अभ्यासस्येत्यनुवर्तते,तस्मान्नु॑डिति च । तच्छब्देनअत आदे॑रिति कृतदीर्घोऽकारः परामृश्यते । तदाह — दीर्घादिति । आनशे इति । आनिशिषे आनक्षे । आनशिवहे - आनआहे । अष्टेति । व्रश्चादिना शस्य षत्वे ष्टुत्वम् । विधिलिङ्याह — अश्नुवीतेति । आशीर्लिङि ऊदित्त्वादिड्विकल्पं मत्वाह — — अक्षीष्ट अशिषीष्टेति । लुङि सिच इट्पक्षे आह — आशिष्टेति । अनिट्पक्षेझलो झली॑ति सिचो लोपं मत्वाह - आष्टेति । ष्टिघ धातुः षोपदेशः । सेट् । आ गणान्तादिति । स्वादिगणसमाप्तिपर्यन्तमित्यर्थः । इत्युक्तमिति । भ्वादाविति भावः । कित्त्वपक्षे आह - अनिदितामिति नलोप इति । नन्वनिदितामिति नलोपे सति 'अत एकहल्मध्ये' इत्येत्त्वसिद्धेःदम्भेश्चे॑ति व्यर्थमित्यत आह — तस्याभीयत्वादिति । नलोपस्येत्यर्थः । दभ्यादिति । आशीर्लिङिअनिदिता॑मिति नलोपः । छन्दसीति । गणसूत्रमिदम् । तद्व्याचष्टे - आ गणान्तादिति । रि क्षि इति । रि क्षि चिरि जिरि दाश दृ इति षट् धातवः । आद्यद्वितीयवेकारक्षरौ । तदाह — रिणोति । क्षिणोतीति । अयं भाषायामपीति । क्षिधातुरित्यर्थः । तत्र प्रयोगं दर्शयति — न तद्यश इति । वृदिति । स्वादयो वृत्ता इत्यर्थः । इति स्वादयः ।॥ इति बालमनोरमायाम् स्वादयः॥अथ स्वार्थिकाः । — — — — - Tattvabodhini ------------- **अश्नोतेश्च** - अश्नोतेश्च ।तस्मान्नुडि॑त्यनुवर्तत इत्याह — दीर्घादिति । श्नुविकरणनिर्देशः किम् । क्र्यादेरश भोजन इत्यस्य माभूत् । आश । आशतुः । ञिधृषा । शूलेन धृष्णोति प्रगल्भते इति शूल धृक् शूलधृषौ ।ऋत्विग्दधृ॑गिति क्विनो विधानादन्यत्रापि पदान्तविषये कुत्म् । दम्भु । लोकवञ्चनाय विहितक्मानुष्ठानं दम्भः । तृप । अयं सेट्कः, अनुदात्तेषु श्यना निर्देशात् । अह व्याप्तौ । अस्मात्ऋहलोण्र्य॑दिति ण्यतिअह्र॑ इतितस्यादित उदात्तमद्र्धह्रस्व॑मित्यत्रास्माभिरुपपादितम् । अन्ये त्वाहुः -शतचक्रं यो३ह्रो वर्तनि॑रित्यत्रअह्र॑ इति षष्ठयन्तमेव ।घेर्ङिती॑ति गुणस्तु अहिशब्दस्य च्छान्दसत्वान्नेति । रि क्षि । एते षट् धातवः । एक एवाजादिरिति मते तु पञ्च धातवः॥इति तत्त्वबोधिन्याम् स्वादयः॥* अथ स्वादिसन्धिः *अथस्वादिसन्धिः ।शिव॑ इत्यस्यावसाने विसर्गस्तस्याच्र्य इत्यनेन समभिव्याहारे सस्याभावाद्रुत्वं कथं स्यादित्याशङ्कायामाह-स्वौजसमौडित्यादिनेति । एवं चात्र मूलभूत एव सुरस्तीति रुत्वादिकं स्यादेव, विसर्गस्त्विह न भवति, खरवसानाऽभावात् । भाविन्यवसानभङ्गेऽकृतव्यूहपरिभाषयाऽच्र्यपदसमभिव्याहारात्पूर्वमपि न भवतीति बोध्यम् । Nyaas ----- अद्विहलार्थोऽयमारम्भः। `व्यान शे` इति। `अशू व्याप्तौ` (धातुपाठः-1264), अनुदात्तेत्त्वादात्मनेपदम्, त, एश्। अश्नोतेरिति विकरणनिर्देशः `अश भोजने` (धातुपाठः-1523) इत्येतस्य क्रैयादिकस्य निवृत्तये। चकारो नुडागमानुकर्षणार्थः॥ Prakriyasarvasvam ----------------- दीर्घादभ्यासात्परस्याश्नोतेर्नुट् स्यात् । आनशे । आनशाते । आनशिषे, आनक्षे । आनशिध्वे । जश्त्वम् । आनड्ढ्वे । आनशिवहे । आनश्वहे । अशिषीष्ट, अक्षीष्ट । अशिता । अष्टा । अशिष्यते, अक्ष्यते ।। ।। इति इनुविकरणाः ।। अथ तुदादयः । तुद व्यथने । स्वरितेत् । 'तुदादिभ्यः शः' (३-१-७७) इति शः । ङित्त्वान्न गुणः । शेषं शब्वत् । तुदति, तुदते । कर्मणि तुद्यते । लुङि अतौत्सीत् । 'झलो झलि (८-२-२६) अतौत्ताम् । अतौत्सुः । अतौत्सीः । अतौत्तम् । अतौत्सम् । अतौत्स्व । तङि 'लिङ्सिचौ—' (१-२-११) इति कित्त्वम् । अतुत्त । अतुत्साताम् । अतुत्थाः । अतुद्ध्वम् । अतुत्सि । लिटि तुतोद । तुतुदतुः । तुतोदिथ । तुतुदिव । तुतुदे । तुतुदिषे । तुतुदिध्वे । लिङि तुद्यात् । तुद्यास्ताम् । तुत्सीष्ट । तोत्ता । तोत्स्यति, तोत्स्यते । शुम्भ शोभार्थे । शस्य ङित्त्वान्नलोपे कृते । 'तुदादौ नोपधानां शे नुम् वाच्यः' (वा०) शुम्भतीत्यादि । भावे यकि शुम्यते । लुङि नलोपाभावाद् अशुम्भीत् । अशुम्भिष्टाम् । चिणि अशुम्भि । शुशुम्भ । संयोगान्तत्वादकित्त्वात् शुशुम्भतुः । शुशुम्भिथ । शुशुम्भिव । शुभ्यात् । शुम्भिता । स्पृश संस्पर्शने । स्पृशति । लुङि (वा०) । 'अनुदात्तस्य चर्दुपधस्य' (६-१-५९) इत्यम् वा । स्प्रश् सीत्, स्पृश् सीत् । 'वदव्रज--' (७-२-३) इति वृद्धिः । अमिकृतेऽकारस्य, अन्यत्र तु ऋतो रपरा । षत्वकत्वे । अस्पाक्षीत्, अस्पार्क्षीत् । 'झलो झलि' (७-२-२६) अस्प्राष्टाम् । अस्पाक्षुः । अस्पाक्षीः । अस्पाक्षम् । अस्पाक्ष्व । एवं अस्पार्ष्टाम् इत्यादि । सिजभावे णलः वसः । वसस्य कित्त्वादमागमो गुणश्च न । अस्पृक्षत् । अस्पृक्षताम् । अस्पृक्षन् । अस्पृक्षः । अस्पृक्षम् । अस्पृक्षाव । कर्मणि अस्पर्शि । वासिच् । सिचो 'लिङ्सिचौ--' (१-२-११) इति कित्त्वम् । अस्पृक्षाताम् । अस्पृक्षत । अस्पृष्ठाः । अस्पृड्ढ्वम् । अस्पृक्षि । अस्पृक्ष्वहि । च्लेः क्सः । 'क्सस्याचि' (७-३-७२) । अस्पृक्षाताम् । अस्पृक्षन्त, अस्पृक्षत । अस्पृक्षथाः । अस्पृक्षध्वम् । अस्पृक्षि । अस्पृक्षावहि । मृशादेस्तु अम्राक्षीत्, अमार्क्षीत् अमृक्षत् । अक्राक्षीत्, अकार्क्षीत्, अकृक्षत् । अत्राप्सीत्, अतार्प्सीत्, अतृपत् । अद्राप्सीत्, अदार्प्सीत्, अदृपत् । द्वयोः पुषाद्यङ् । सृपेश्र कौमुदी । अस्नाप्सीत्, असार्प्सीत्, असृपत् । लदित्त्वादङ् । लिटि पस्पर्श । पस्पृशतुः । पस्पृशिथ । पस्पृशिव । कर्मणि पस्पृशे । आशिषि स्पृश्यात् । स्प्रष्टा, स्पर्ष्टा । स्प्रक्ष्यति, स्पर्क्ष्यति । कर्मणि स्पृक्षीष्टेत्यादि । सृज विसर्गे । सृजति । कर्मणि सृज्यते । लुङि सिचि 'सृजिदृशोर्झल्यम् (६-१-५८) इत्यम् । वृद्धिः । व्रश्चादिषः । कः । अस्राक्षीत् । अस्राष्टाम् । ससर्ज । ससृजतुः । थलि 'विभाषा सृजिदृशोः' (७-२-६५) इति वेट् । ससजिथ, सस्रष्ठ । ससृजिव । सृज्यात् । स्रष्टा । स्रक्ष्यति । कर्मणि असर्जि । 'लिङ्सिचौ-- (१-२-११) इति कित्त्वम् । असृक्षाताम् । असृष्ठाः । असृड्ढ्वम् । असृक्षि । ससृजे । ससृजिध्वे । सृक्षीष्ट । 'सकर्मकस्य सृजेः श्रद्धावति कर्तरि तङ् सार्वधातुकेषु श्यन् लुङि चिण् च वाच्यः ॥' युजेश्च बहुलम् इति भाष्यादौ । सृज्यते माला धार्मिकः । श्रद्धया निष्पादयतीत्यर्थः । एवं सृज्येत । सृज्यताम् । असृज्यत । लुङि चिणि असर्जि मालां धार्मिकः । असृक्षाताम्* इत्यादि कर्मवत् । एवं युजेरपि । युज्यते योगं मुनिरित्यादि । स्फुर स्फुरणे । स्फुरति । Sutra Prayogas -------------- * **व्यानशे** (शिशुपालवधम्): `अश्नोतेश्च` इति नुडागमः। * **चाऽऽनशेऽब्दैः** (भट्टिकाव्यम्): `अश्नोतेश्च` इति लुङ्।