74067: द्युतिस्वाप्योः सम्प्रसारणम् =================================== **Padacheda:** द्युतिस्वाप्योः | S | 6 | 2 | सम्प्रसारणम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- There is vocalisation of the half-vowel of the reduplicate of द्युत् and स्वापि (Causative of स्वप्). Vasu English Translation ------------------------ There is vocalisation of the half-vowel of the reduplicate of द्युत् and स्वापि (Causative of स्वप्). As वि विद्युतत्, वि विद्योतिषते, वि विद्युतिषते, (1.2.26) वि देद्युत्यते ॥ स्वापि-सुष्वापयिषति ॥ The Causative of स्वप् is taken here, and the vocalisation takes place then only, when it is immediately followed by an affix which causes reduplication. Therefore not here, स्वापि + ण्वुल् = स्वापकः; स्वापक + क्यच् = स्वापकीय, स्वापकीय + सन् = सिष्वापकीयिषति ॥ The simple root स्वप् will get vocalised in its reduplicate by (6.1.15), (6.1.17) in the Perfect. The Desiderative of स्वप् is कित् by (1.2.8), and therefore the reduplicate of स्वप् will be vocalised before सन् by (6.1.15). The reduplicate of स्वप् will be vocalised in the Intensive also by (6.1.19). Quere:- Does the reduplicate of the Desiderative of the Denominative verb द्योतकीयति get vocalised or not. Bhashya ------- द्युतिस्वाप्योः संप्रसारणम् किमर्थं स्वपेरभ्यासस्य संप्रसारणमुच्यते यदा सर्वेष्वभ्यासस्थानेषु स्वपेः संप्रसारणमुक्तम् ? ॥ स्वापिग्रहणं व्यपेतार्थम्(1) ॥ स्वापिग्रहणं क्रियते ॥ (किं प्रयोजनम्(4) ? ) ॥ व्यपेतार्थम् । व्यपेतार्थोऽयमारम्भः । सुष्वापयिषतीति ॥ अस्ति प्रयोजनमेतत् ? ॥ किं तर्हिति ॥ तत्र क्यजन्तेऽतिप्रसङ्गः(2) ॥ तत्र क्यजन्तेऽतिप्रसङ्गो(2) भवति । इहापि - प्राप्नोति स्वापकमिच्छति स्वापकीयति । स्वापकीयतेः सन् सिष्वापकीयिषतीति ॥ सिद्धं तु णिग्रहणात्(3) ॥ सिद्धमेतत् ॥ कथम् ? ॥ (ठणिग्रह(3)णात्(4) ॥) णिग्रहणं(3) कर्तव्यम् । (तत्तर्हि णिज्ग्रहणं(4) कर्त्तव्यम् ? ॥) ॥ न कर्तव्यम् । निर्देशादेव हि व्यक्तं ण्यन्तस्य ग्रहणमिति ॥ नात्र निर्देशः प्रमाणं शक्यं कर्तुम् । यथा हि निर्देशस्तथेहापि प्रसज्येत - स्वापं करोति स्वापयति । स्वापयतेः सन् - सिष्वापयिष्यतीति । तस्माण्णिग्रहणं कर्तव्यम् । ( द्युतिस्वाप्योः सम्प्रसारणम् ) ॥ Kashika ------- द्युति स्वापि इत्येतयोः अभ्यासस्य सम्प्रसारणं भवति। विदिद्युते। व्यदिद्युतत्। विदिद्योतिषते। विदिद्युतिषते। विदेद्युत्यते। स्वापेः सुष्वापयिषति। स्वापिः ण्यन्तो गृह्यते, तस्य अभ्यासनिमित्तेन प्रत्ययेन आनन्तर्ये सति सम्प्रसारनम् इष्यते। इह न भवति, स्वापयतेर्ण्वुल् स्वापकः, तस्मात् क्यचि स्वापकीयति, स्वापकीयते, सन् सिष्वापकीयिष्टि। Siddhanta Kaumudi ----------------- अनयोरभ्यासस्य संप्रसारणं स्यात् । दिद्युते । दिद्युताते । द्योतिता ॥ Laghu Siddhanta Kaumudi ----------------------- अनयोरभ्यासस्य सम्प्रसारणं स्यात्। दिद्युते॥ Balamanorama ------------ **द्युतिस्वाप्योः सम्प्रसारणम्** - द्युतिस्वाप्योः । अभ्यासस्येति ।अत्र लोपोऽभ्यासस्ये॑त्यतस्तदनुवृत्तेरिति भावः । दिद्युते इति । द्वित्वे 'हलादिः शेषः' इत्यनेन यकारस्य लोपे प्राप्ते तदपवादत्वेनद्युतिस्वाप्यो॑रिति संप्रासरणे,संप्रसारणाच्चे॑ति उकारस्य पूर्वरूपे रूपम् । Tattvabodhini ------------- **द्युतिस्वाप्योः सम्प्रसारणम्** - द्युतिस्वाप्योः ।स्वापी॑ति णिजन्तस्य ग्रहणम् । दिद्युते इति । संप्रसारणे कृतेसंप्रसारणाच्चे॑ति पूर्वरूपम् । तेनेह न — स्वापेर्ण्वुल् स्वापकः, तमिच्छति स्वापकीयति, ततः सन् सिस्वापकीयिषति । Padamanjari ----------- विदिद्यौते इति ।'द्यौत दीप्तौ' अनुदातेत् । व्यदिद्यौतदिति । ण्यन्ताल्लुङ्, चङ् इद्विर्वचनम् । विदिद्योतिषते, विदिद्यौतिषत इति । रलो व्यपधात्ऽ इति सनः कित्वविकल्पः । स्वापिर्ण्यन्तो गृह्यत इति । स्वपेर्यो णिज्विहितस्तदन्तस्य ग्रहणम्, तेन स्वापं करोतीति णिचि कृते यः स्वापिस्तस्य ग्रहणं न भवति । एतच्च'स्वापि' इत्युक्ते सहसा प्रथमं तस्यैव प्रतीतेर्लभ्यते । अण्यन्तस्यैव योऽभ्यासस्तस्यानेनैव सम्प्रसारणं सिद्धम् । तथा हि - लिटि तावत्किति'वचस्वपियजादीनां किति' इति कृतसम्प्रसारणमेव द्रिरुच्यते, अकित्यपि'लिट।ल्भ्यासस्योभयेषाम्' इत्यस्ति सम्प्रसारणम्, सन्निपि रुदविदमुषग्रहिस्वपिऽ इति किदेव, यङ्यपि'स्वपिस्यमिव्येञां यङ्' ईति कृतसम्प्रसारणमेव द्विरुच्यते । अथापि यङ्लुक्यभ्यासस्य सम्प्रसारणं न केनचित्प्राप्तम्, तथापि'स्वापे' इति निर्द्देशादेव ण्यन्तस्य ग्रहणम् । तस्येत्यादि । अभ्यासेनात्र स्वनिमितं प्रत्ययः सन्निधापितः, तेन स्वापिरङ्गं विशेष्यते - अभ्यासनिमिते प्रत्यये यदङ्गं स्वापिस्तस्येति । सिस्वापकी यिषतीत्यत्र चाभ्यासनिमितं यः प्रत्ययः सन् न तस्मिन्स्वापिरङ्गम्, यस्मिंश्च स्वापिरङ्गं ण्वुलि न तदभ्यासस्य निमितम् । द्यौतेस्तु - व्यदिद्यौतदिति, अत्राभ्यासस्य निमितं यश्चङ् स यद्यपि णिचा व्यवहितः, तथापि सम्प्रसारणमिष्यते । द्वन्द्वनिर्द्दिष्टयोरेतद्वैषम्यं लभ्यते कथम् ? तस्माद्वक्तव्यमेवैतदिति मन्यामेह वयम् ॥ Nyaas ----- हलादिशेषे प्राप्ते तस्यापवादौ द्युतिस्वाप्योः सम्प्रसारणमारभ्यते। `विदिद्युते` इति। `द्युत दीप्तौ` (धातुपाठः-741), लिट्, अनुदात्तेत्त्वादात्मनेपदम्; तत्र सम्प्रसरणमनेन, **सम्प्रसारणाच्च** (6.1.108) इति परपूर्वत्वम्। `व्यद्युतत्` ति। ण्यन्ताल्लुङ; श्लेश्चङ्, णिलोपः उपधाह्रस्वत्वम्, द्विर्वचनम्, अडागमः। `विदिद्युतिषते, विदिद्योतिषते` इति। सन्, `रलो व्युपधात्` (1.2.26) इत्यादिना विकल्पेन कित्त्वम्। यदा कित्त्वं नास्ति, तदा लघूपधगुणः, `पूर्ववत्सनः` (1.3.62) इत्यात्मनेपदम्। `सुस्वापयिषति` इति। `ञिष्वप्? शये` (धातुपाठः-1068), णिच्, तदन्तात्? सन्। किं कारणं ण्यन्तस्योदाहरणमुपन्यस्तम्? इत्यत आह - `स्वपिण्र्यन्तो गृह्रते` इति। तेन ण्यन्तस्योदाहरणमुपदर्शितमित्यभिप्रायः। ण्यन्तस्य ग्रहणं स्वापेरिति निर्देशादेव विज्ञायते। न ह्रण्यान्तस्यैवंविधो निर्देश उपपद्यते। अपि च - अण्यन्तस्य योऽब्यासस्तस्यानेनैव शास्त्रेण सम्प्सारणं सिद्धम्। तथा हि - लिटि तावत्? `लिटभ्यासस्योभयेषाम्` (6.1.17) इत्यनेनैव सिद्धम्, सनि तु `रुदविद` (1.2.8) इत्यादिना सनः कित्त्वे सति वच्यादिसूत्रेण (6.1.15) कृतसम्प्रसारण एव सुपिभूतो द्विरुच्येत, यङ्यपि **स्वपिस्यमिव्येञां यङि** (6.1.19) इति कृतसम्प्रसारण एवासौ द्विरुच्यते। तस्मादण्यन्तस्यानेन शास्त्रेण सम्प्रसारणस्य सिद्धत्वात्? स्वापिण्र्यन्तो गृह्रते।यदि स्वापिण्र्यन्तो गृह्रते। तदा स्वापयतेर्ण्वुल् - स्वापकः, स्वापकमिच्छतीति क्यच्, स्वापकीय इति स्थिते स्वापकीयितुमिच्छतीति सन् - सिध्वापकीयिषति, अत्रापि सम्प्रसारणं प्राप्नोति? इत्याह - `तस्य` इत्यादि। तस्य स्वापेरभ्यासस्य नि मत्तं यः प्रत्ययस्तेनानन्तर्ये सत्यव्यवधान इदं सम्प्रसारणमिष्यते, तेन सिध्वापकीयिषतीत्यत्र न भवति। न ह्रभ्यासनिमित्तं यः प्रत्ययः इह स स्वापेरनन्तरः; ण्वुला क्यचा च व्यवधानात्। कथं पुनरभ्यासनिमित्तेन प्रत्ययेनानन्तर्ये सति सम्प्रसारणं लभ्यते, यावता नायं विशेषः सूत्रोपात्तः? एवं मन्यते - अभ्यासेनाभ्यासनिमित्तं यः प्रत्ययः सन्निधापितः, तस्य प्रत्ययविशेषणिमित्तत्वात्; तत्र लेनाभ्यासनिमित्तेन प्रत्ययेन स्वापिरङ्गं विशिष्यते - अभ्यासनिमित्ते प्रत्यये यदङ्गं स्वापिरिति। एवञ्च विशेष्यविशेषणभावे सक्यभ्यासनिमित्ते प्रत्ययेऽनन्तरे सति स्वापेरङ्गस्य योऽभ्यासस्तस्यैव सम्प्रसारणेन भवितव्यम्। न तु व्यवहितेन प्रत्ययान्तरेण हि यो व्यवहितः प्रत्ययः सन्नभ्यासे निमित्त तदपेक्षया स्वापिरङ्गं भवति, न च सिध्वापव्यवहितेन प्रत्ययान्तरेण हि यो व्यवहितः प्रत्ययः सन्नभ्यते निमित्तं तदपेक्षया स्वापिरङ्गं भवति, न च सिध्वापकौयिषतत्यभ्यासनिमित्तं यः प्रत्ययः स स्वारेरङ्गस्यानन्तरः, यस्तु स्वापेरनन्तरो ण्वुल्? तदपेक्षया स्वापिरङ्ग भवति, न चासावभ्यासनिमित्तं भवति। इह तर्हि कस्मान्न भवति - स्वपनं स्वापो घञ्, स्वापं करोतति णिच्, स्वापयितुमिचछतीति सन्? सिष्वापयिषतीति? उच्यते; अकारलोपश्य स्थानिवद्भावात्? स्वापेर्योऽभ्यासस्तस्य सम्प्रसारणेन भवितव्यम्। न चाकारलोपस्य स्थानिवद्भावे सति स्वापेरभ्यासः, किं तर्हि शब्दान्तरस्य स्वाप इत्येतस्य॥ Prakriyasarvasvam ----------------- अनयोरभ्यासस्य सम्प्रसारणं स्यात् । पूर्वरूपत्वम् । दिद्युते । दिद्युताते । दिद्युतिषे । द्योतिषीष्ट । द्योतिता । द्योतिष्यते ।। वृतु वर्तने । वर्तते । भावे वृत्यते । लुङि 'द्युद्भ्यो लुङि' इति वा परस्मैपदे द्युताद्यङ् । अवृतत् । अवृतता'म् । अवर्तिष्ट । लिडादौ ववृते । ववृतिषे । वर्तिषीष्ट । वर्तिता । लृटि । Sutra Prayogas -------------- * **विदिद्युते** (भट्टिकाव्यम्): `द्युति-स्वाप्योः` इति संप्रसारणम् । * **दिद्युते** (भट्टिकाव्यम्): `द्युति-स्थाप्योः सम्प्रसारणम्` इत्यभ्यासस्य सम्प्रसारणम्।