74066: उरत् =========== **Padacheda:** उः | S | 6 | 1 | अत् | S | 1 | 1 | Sutrartha --------- **अभ्यासे विद्यमानस्य ऋवर्णस्य अकारादेशः भवति ।** द्वित्वप्रकरणे द्वित्वे कृते द्वयोः यः प्रथमः तस्य **पूर्वोभ्यासः** (6.1.4) इत्यनेन 'अभ्यास' संज्ञा भवति । अस्मिन् अभ्यासे विद्यमानः यः ऋ-वर्णः, तस्य अनेन सूत्रेण अकारादेशः भवति । ('उः' इति 'ऋ' इत्यस्य षष्ठी-एकवचनम्) । अयमकारः **उरण् रपरः** (1.1.51) इत्यनेन नित्यं रपरः एव भवति । यथा - 1. कृ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - कृ + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्] → कृ कृ + लिट् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → कर् कृ + लिट् [**उरत्** (7.4.66) इति ऋवर्णान्त-अभ्यासस्य ऋकारस्य अकारः । **उरण् रपरः** (1.1.51) इति सः रपरः] → क कृ + लिट् [**हलादि शेषः** (7.4.60) इति रेफस्य लोपः] → च कृ + लिट् [**कुहोश्चुः** (7.4.62) इति ककारस्य चकारः] → च कृ + तिप् [**तिप्तस्झि...** (3.4.78) इति तिप्-प्रत्ययः] → च कृ णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति तिप्-इत्यस्य णल्-आदेशः] → च कार् अ [**अचो ञ्णिति** (7.2.115) इति ऋकारस्य वृद्धिः आकारः । **उरण् रपरः** (1.1.51) इति रेफः] → चकार 2. तॄ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - तॄ + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्] → तॄ तॄ + ल् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → तृ तॄ + ल् [**ह्रस्वः** (6.4.59) इति अभ्यासस्य ह्रस्वादेशः] → तर् तॄ + ल् [**उरत्** (7.4.66) इति ऋवर्णान्त-अभ्यासस्य ऋकारस्य अकारः । **उरण् रपरः** (1.1.51) इति सः रपरः] → त तॄ + ल् [**हलादि शेषः** (7.4.60) इति रेफस्य लोपः] → त तॄ कृ + तिप् [**तिप्तस्झि...** (3.4.78) इति तिप्-प्रत्ययः] → त तॄ णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति तिप्-इत्यस्य णल्-आदेशः] → त तार् अ [**अचो ञ्णिति** (7.2.115) इति ऋकारस्य गुणः अकारः । **उरण् रपरः** (1.1.51) इति रेफः] → ततार Sutrartha (English) ------------------- A ऋ letter present in an अभ्यास is converted to अकार. Vasu English Summary -------------------- अर् -- उरण् रपरः (1.1.51) is substituted for the ऋ or ॠ of the reduplicate. Vasu English Translation ------------------------ अर् -- उरण् रपरः (1.1.51) is substituted for the ऋ or ॠ of the reduplicate. As ववृते, ववृधे, शशृधे, नर्नर्त्ति, नरिनर्त्ति, नरीनर्त्ति ॥ The र् is elided by (7.4.60). In the Intensives (7.4.90) &c, are applied, by which after the substitution of अर् by the present *sutra*, we apply those *sutras* and add रीक रुक् रिक् &c: for the maxim is अभ्यासविकारेषु अपवादो नोत्सर्गान् विधीन् बाधते "so far as the changes of a reduplicative syllable are concerned special (*apavada*) rules do not supersede the general (*utsarga*) rules". Kashika ------- ऋवर्णान्तस्य अभ्यासस्य अकारादेशो भवति। ववृते। ववृधे। शशृधे। नर्नर्ति, नरिनर्ति, नरीनर्ति इत्येवमादौ अभ्यासविकारेषु अपवादो न उत्सर्गान् विधीन् बाधते इति उः अदत्वे कृते रुगादय आगमाः क्रियन्ते। Siddhanta Kaumudi ----------------- अभ्यासऋवर्णस्य अत्स्यात्प्रत्यये परे । रपरत्वम् । हलादिः शेषः (SK2179) प्रत्यये किम् । वव्रश्च ॥ Laghu Siddhanta Kaumudi ----------------------- अभ्यासऋवर्णस्यात् प्रत्यये। रपरः। हलादिः शेषः। वृद्धिः। गोपायाञ्चकार। द्वित्वात्परत्वाद्यणि प्राप्ते - Balamanorama ------------ **उरत्** - उरत् । उः — अदिति छेदः ।ऋ॑इत्यस्य उरिति षष्ठएकवचनम् ।अत्र लोपोऽभ्यासस्ये॑त्यस्मादभ्यासस्येत्यनुवर्तते । अङ्गस्येत्यधिकृतं । तद्वशात्प्रत्यये परत इति लभ्यते । प्रत्यये परत एव अङ्गसंज्ञाविधानात् । तदाह — अभ्यासऋवर्णस्येत्यादिना । रपरत्वमिति । अभ्यासऋवर्णादेशस्याऽकारस्योरण्रपर इति रपरत्वमित्यर्थः । तथा च कर् कृ ए इति स्थिते । हलादिः शेष इति । रेफस्य निवृत्तिरिति भावः । प्रत्यये किमिति । अङ्गेनैव प्रत्ययस्याक्षिप्तत्वात्प्रत्यये परत इति किमर्थमित्यर्थः । वव्रश्चेति । 'ओ व्रश्चू च्छेदने' , लिटि णल् द्वित्वं । लिटभ्यासस्येत्यभ्यासरेफस्य सम्प्रसारणमृकारः । उरत् । रपरत्वम् । हलादिः । शेषः । वव्रश्चेति रूपम् । अत्र अभ्यासऋवर्णस्य रेफस्थानिकस्य सम्प्रसारणस्य य उरदत्वसम्पन्नोऽकारस्तस्य अचः परस्मिन्निति स्थानिवत्त्वेन सम्प्रसारणतया तस्मिन्परे वकारस्यन सम्प्रसारणे सम्प्रसारण॑मिति निषेधान्न सम्प्रसारममिति स्थितिः । उरदित्यत्र 'प्रत्यये परत' इत्यनुक्तौ तु सम्प्रसारणभूतऋकारस्थानिकस्य अकारस्य परनिमित्तकत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्तेः सम्प्रसारणत्वाऽभावात्तस्मिन् परतोन सम्प्रसारणे सम्प्रसारण॑मिति निषेधो न स्यादिति भावः । Padamanjari ----------- ववृते इत्यादौ हलादिशेषे कृते ऋकारान्ततायामुपजातायामद्भावः, रपरत्वे पुनः'हलादिः शेषः' । नर्नर्तीत्यादौ रुगादिषु कृतेषु ऋकारान्तत्वाभावादत्वं न स्यादित्याशङ्क्याह - नर्नर्तीत्यादाविति । यथा चाभ्यासविकारेषु बाधका न बाधन्ते, तथा'दीर्घो' कितःऽ इत्यत्रैव वक्ष्यते ॥ Nyaas ----- छन्दसीति निवृत्तम्; पूर्वसूत्रे च कारानुकृष्टत्वात्। `ववृते, ववृधे, शशृधे` इति। `वृतु वर्तने` (धातुपाठः-758), `वृधु वृद्धौ` (धातुपाठः-759), `शृधु शब्दकुत्सायाम्` (धातुपाठः-760), लिट्; तत्राद्ययोरनुदात्तेत्त्वादात्मनेपदम्, इतरत्र स्वरितेत्त्वात्; पूर्ववदेव द्विर्वचनम्, हलादिशेषे च कृत ऋवर्णान्ततयामुपजातायामद्भावः, रपरत्वम्, हलादिशेषः।`नर्नर्त्ति, नरिनर्त्ति, नरीनर्त्ति` इत्येवमादौ `ऋदुपधस्य च` (7.4.90) इति, **रुग्रिकौ च लुकि** (7.4.91) इति वा परत्वादपवादेषु कृतेषु रीगादिषु ऋवर्णान्ताभावादनेन न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह - `नर्नर्ति` इति॥ Prakriyasarvasvam ----------------- ऋवर्णान्तस्याभ्यासस्य रपरोऽत् स्यात् । ददृशिवस् । हलादिशेषः । ददृशिवान् ददृश्वान् । उक्तेभ्योऽन्येषां क्वसौ इण् न । भुवोऽभ्यासह्रस्वः । बुभूवस् ॥