74064: कृषेश्छन्दसि =================== **Padacheda:** कृषेः | S | 6 | 1 | छन्दसि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The Palatal is not substituted for the Guttural of the reduplicate of कृष् 'to draw' in the छन्दस् (Vedas) when in the Intensive. Vasu English Translation ------------------------ The Palatal is not substituted for the Guttural of the reduplicate of कृष् 'to draw' in the छन्दस् (Vedas) when in the Intensive. As करीकृष्यते यज्ञकुणपः; otherwise चरीकृष्यते कृषीवलः ॥ Kashika ------- कृषेः छन्दसि विषये यङि परतः अभ्यासस्य चुः न भवति। करिकृष्यते यज्ञकुणपः। छन्दसि इति किम्? चरीकृष्यते कृषीवलः। Siddhanta Kaumudi ----------------- यङि अभ्यासस्य चुत्वं न । करीकृष्यते ॥ Nyaas ----- `करीकृष्यते` इति। `कृष विलेखने` (धातुपाठः-990) `रीगृहुपधस्य` (7.4.90) इति रीगागमः॥ Prakriyasarvasvam ----------------- अस्य यङ्यभ्यासस्य चुत्वं च स्यात् । चरीकृष्यते ।