74062: कुहोश्चुः ================ **Padacheda:** कुहोः | S | 6 | 2 | चुः | S | 1 | 1 | Sutrartha --------- **अभ्यासस्य कवर्गीयवर्णस्य हकारस्य च चवर्गीयवर्णादेशः भवति ।** अभ्यासे यदि कवर्गीयः वर्णः अस्ति, उत हकारः अस्ति, तर्हि तस्य आन्तरतम्यः चवर्गीयवर्णादेशः भवति । कवर्गीयवर्णस्य विषये तु यथासङ्ख्यमादेशाः भवन्ति - ककारस्य चकारः, खकारस्य छकारः, गकारस्य जकारः, घकारस्य झकारः, ङकारस्य ञकारः । हकारस्य तु तादृशः ए संवार-नाद-घोष-महाप्राणः झकारः भवति । यथा - 1. कृ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - कृ-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया - कृ + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्] → कृ कृ + लिट् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → कर् कृ + लिट् [**उरत्** (7.4.66) इति ऋकारान्त-अभ्यासस्य ऋकारस्य अकारः । **उरण् रपरः** (1.1.51) इति सः रपरः] → क कृ + लिट् [**हलादि शेषः** (7.4.60) इति रेफलोपः] → च कृ + लिट् [**कुहोश्चुः** (7.4.62) इति ककारस्य चकारः] → च कृ + मिप् [**तिप्तस्झि...** (3.4.78) इति मिप्-प्रत्ययः] → च कृ णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति मिप्-इत्यस्य णल्-आदेशः] → च कार् अ / च कर् अ [**णलुत्तमो वा** (7.1.91) इति वैकल्पिकम् णित्वम् । णित्वे **अचो ञ्णिति** (7.2.116) इति ऋकारस्य वृद्धिः कारः । णित्वाभावे **सार्वधातुकार्धधातुकयोः** (7.3.85) इति ऋकारस्य गुणः अकारः । उभयत्र **उरण् रपरः** (1.1.51) इति रेफः] → चकार 2. जुहोत्यादिगणस्य 'हा' धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् हा + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → हा + तिप् [**तिप्तस्..** (3.4.78) इति तिप्] → हा + शप् + ति [**कर्तरि शप्** (3.1.68) इति शप्] → हा + ति [**जुहोत्यादिभ्यः श्लुः** (2.4.75) इति श्लुः] → हा हा + ति [**श्लौ** (6.4.10) इति द्वित्वम्] → ह हा + ति [**ह्रस्वः** (7.4.59) इति ह्रस्वः] → झ हा + ति [**कुहोश्चुः** (7.4.62) इत्यनेन संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः] → जहाति [**अभ्यासे चर्च्च** (8.4.54) इति जश्त्वम्] Sutrartha (English) ------------------- The कवर्गीय letter and the हकार of an अभ्यास are converted to an appropriate चवर्गीय letter. Vasu English Summary -------------------- For the guttural and ह् of a reduplicate there is substituted a Platal. Vasu English Translation ------------------------ For the guttural and ह् of a reduplicate there is substituted a Platal. As चकार, पखान, जगाम, जघान, जहार, जिहीर्षति, जहौ ॥ Kashika ------- अभ्यासस्य कवर्गहकारयोः चवर्गादेशो भवति। चकार। चखान। जगाम। जघान। हकारस्य जहार। जिहीर्षति। जहौ। Siddhanta Kaumudi ----------------- अभ्यासकवर्गहकारयोश्चवर्गादेशः स्यात् । एधांचक्रे । एधांचक्राते । एधांचक्रिरे ॥ Laghu Siddhanta Kaumudi ----------------------- अभ्यासकवर्गहकारयोश्चवर्गादेशः॥ Balamanorama ------------ **कुहोश्चुः** - एवं च — कृ कृ ए इति स्थिते — कुहोश्चुः । कु ह् इत्यनयोद्र्वन्द्वात्षष्ठीद्विचवनम् ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते । तदाह — अभ्यासेति । यद्यपि स्थानिनां कवर्गीयाणां हकारस्य च षट्त्वात्, चवर्गीयाणां पञ्चत्वान्न यथासङ्ख्यं, नापि स्थानत आन्तर्यं, कण्ठतालुस्थानभेदात् । आभ्यन्तरप्रयत्नसाम्यं तु कवर्गचवर्गयोरविशिष्टम् । हकारचवर्गयोस्तु नास्त्येव तत्, अतो बाह्रप्रयत्नत एवान्तर्यमिह व्यवस्थापकमाश्रयणीयम् । तत्र प्रथमस्य कवर्गीयस्य पर्थम एव चवर्गीयो भवति, अघोषआआसविवाराऽल्पप्राणप्रयत्नसाम्यात्, न तु द्वितीयः, महाप्राणत्वात् । नापि तृतीय पञ्चमौ, घोषसंवारनादप्रयत्नत्वात् । नापि चतुर्थः,घोषसंवारनादमहाप्राणप्रयत्नत्वात् । तथा द्वितीयस्य कवर्गीयस्य द्वितीय एव चवर्गीयो भवति, अघोषआआसविवाराऽप्रामप्रयत्नत्वात्, न तु प्रथमः, अल्पप्राणत्वात् । नापि तृतीयपञ्चमौ, घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । नापि चतुर्थःष घोषसंवारनादप्रयत्नत्वात् । तथा तृतीयस्य कवर्गीयस्य तृतीय एव चवर्गीयो भवति । घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । न तु प्रथमः, अघोषआआसविवारप्रयत्नत्वात् । अत एव न द्वितीयोऽपि, महाप्रामप्रयत्नत्वाच्च । नापि चतुर्थः महाप्राणत्वात् । नापि पञ्चमः, घोषसंवारनादाल्प्राणसाम्येऽपि अनुनासिकतया भेदात् । तथा चतुर्थस्य कवर्गीयस्य चतुर्थ एव चवर्गीयो भवति, घोषसंवारनादमहाप्राणप्रयत्नत्वात् । न तु प्रथमः, अघोषआआसविवाराल्पप्राणप्रयत्नत्वात् । नापि द्वितीयः, अघोषविवारआआसप्रयत्नत्वात् । नापि तृतीयपञ्चमौ, अल्पप्राणत्वात् । पञ्चमस्य तु कवर्गीयस्य अनुनासिकत्वाञ्ञकार एव । हकारस्य तु घोषसंवारनादमहाप्राणवतस्तादृशो वर्गचतुर्थ एव झकार इति विवेकः । प्रकृते तु क कृ ए इति स्थिते अभ्यासककारस्य चकारे ऋकारस्य यणि रेफः । तदाह — एधांचक्र इति । एककर्तृका भूतानद्यतनपरोक्षा वृद्धिरूपा कियेत्यर्थ- । एधांचक्राते इति । कृञो लिट आतामि टेरेत्वम् ।द्वर्वचनेऽची॑ति यणि निषिद्धे 'कृ' इत्यस्य द्वित्वे उरदत्वम् । हलादिः शेषः । चर्त्वम् । यण् । न च आतामित्यस्य द्वित्वनिमित्तत्वेऽपि आकारस्याऽचो द्वित्वनिमित्तत्वाऽभावात्कथमिहद्वर्वचनेऽची॑ति यण्निषेध इति वाच्यं, साक्षाद्वा, समुदायघटकतया वा द्वित्वप्रयोजकस्यैव द्वित्वनिमित्तशब्देन विवक्षितत्वादिति भावः । एधांचक्रिर इति । झस्य इरेच् । कृ इत्यस्य द्वित्वादि पूर्ववत् । Padamanjari ----------- चखानेति । खकारस्य च्छकारः, तस्य ठभ्यासे चर्च्चऽ इति चकारः । जघासेति । घकारस्य झकारः, तस्य जश्तवम् - जकारः । जिहीर्षतीति । ठिको झल्ऽ इति सनः कित्वम्, हकारस्यापि झकारः, तस्य जश्त्वम् ॥ Nyaas ----- `चखान` इति। `खनु अवदारणे` (ध।पा।878), द्विर्वचनम्, तस्य चुत्वम् - छकारः, **अभ्यासे चर्च** (8.4.54) इति छकारस्य चकारः। `जघाति` इति। `लिटन्यतरस्याम्` (2.4.40) इत्यदेर्घस्लादेशः, अभ्यासस्य चुत्वम्। नादवतो महाप्राणस्य स्थाने तादृश एव झकारः, तस्यापि जश्त्वम् - जकारः। `जहार` इति। `ह्मञ्? हरणे` (धातुपाठः-899)। `जिहीर्षति` इति। **इको झल्** (1.2.9) इति सनः कित्त्वम्, `अज्झनगमां (6.4.16) इति दीर्घत्वम्, `ऋत इद्धातोः` (7.1.100) इतोत्त्वम्, रपरत्वम्, `हलि च` (8.2.77) इति दीर्घत्वम्, हीर्ष-इत्यस्य द्विर्वचनम्॥ Prakriyasarvasvam ----------------- अभ्यासे कवर्गहकारयोश्चुः स्यात् । इति घस्य चुत्वं झः । 'अभ्यासे चर्च' (८-४-५४) इति जश्त्वम् । जघ्स् इवस् । 'शासिवसिघसीनाञ्च' (८-३-६०) इति षत्वं, 'खरि च' (८-४-५५) इति घस्य चर्त्वम् । जक्षिवान् । दरिद्रादेस्तु—