74025: अकृत्सार्वधातुकयोर्दीर्घः ================================ **Padacheda:** अकृत्सार्वधातुकयोः | S | 7 | 2 | दीर्घः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A long is substituted for the final vowel of the अङ्ग (stem) before an affix beginning with य् having an indicatory क् or ङ् , when it is not a कृत् or a सार्वधातुक affix. Vasu English Translation ------------------------ A long is substituted for the final vowel of the अङ्ग (stem) before an affix beginning with य् having an indicatory क् or ङ् , when it is not a कृत् or a सार्वधातुक affix. Thus भृशायते, सुखायते, and दुःखायते with the Denominative affix क्यङ् according to (3.1.12) and (3.1.18). चीयते and स्तूयते with the Passive यक्, चेचीयते and तोष्टूयते with the Intensive यङ्, and चीयात् and स्तूयात् in the Benedictive (See (3.4.116). But प्रकृत्य and प्रहृत्य where the affix ल्यप् is *krit*, and had the vowel been lengthened by this subsequent rule, the antecedent तुक् augment would have been debarred (6.1.71). And चिनुयात् and सुनुयात् where the Personal endings of the Potential are *sarvadhatuka*. The phrase क्ङिति is understood in this *sutra*, so there is no lengthening before non-*kit* and non-*nit* affixes, as, उरुया, धृष्णुया, formed by या under (7.1.39). Kashika ------- अकृद्यकारे असार्वधातुकयकारे च क्ङिति परतोऽजन्तस्य अङ्गस्य दीर्घो भवति। भृशायते। सुखायते। दुःखायते। चीयते। चेचीयते। स्तूयते। तोष्टूयते। चीयात्। स्तूयात्। अकृतिति किम्? प्रकृत्य। प्रहृत्य। परत्वात् दीर्घत्वेन तुको बाधः स्यात्। असार्वधातुके इति किम्? चिनुयात्। सुनुयात्। क्ङिति इत्येव, उरुया। धृष्णुया। Siddhanta Kaumudi ----------------- अजन्ताङ्गस्य दीर्घः स्याद्यादौ प्रत्यये परे न तु कृत्सार्वधातुकयोः । क्षीयात् । अक्षैषीत् ।{$ {!237 क्षीज!} अव्यक्तेशब्दे$} । कूजिना सहायं पठितुं युक्तः । चिक्षीज ।{$ {!238 लज!} {!239 लजि!} भर्जने$} ।{$ {!240 लाज!} {!241 लाजि!} भर्त्सने च $}।{$ {!242 जज!} {!243 जजि!} युद्धे$} ।{$ {!244 तुज!} हिंसायाम्$} । तोजति । तुतोज ।{$ {!245 तुजि!} पालने$} ।{$ {!246 गज!} {!247 गजि!} {!248 गृज!} {!249 गृजि!} {!250 मुज!} {!251 मुजि!} शब्दार्थाः$} । गज मदने च ।{$ {!252 वज!} {!253 व्रज!} गतौ$} । वदव्रज - (SK2267) इति वृद्धिः । अव्राजीत् । अथ टवर्गीयान्ताः शाङ्यन्ता अनुदात्तेतः षट्त्रिंशत् ॥{$ {!254 अट्ट!} अतिक्रमणहिंसयोः$} । दोपधोऽयम् । तोपध इत्येके । अट्टते । आनट्टे ।{$ {!255 वेष्ट!} वेष्टने$} । विवेष्ट ।{$ {!256 चेष्ट!} चेष्टायाम्$} । अचेष्टिष्ट ।{$ {!257 गोष्ट!} {!258 लोष्ट!} संघाते$} । जुगोष्टे । लुलोष्टे ।{$ {!259 घट्ट!} चलने$} । जघट्टे ।{$ {!260 स्फुट!} {!261 अठि!} गतौ$} । अण्ठते । आनण्ठे ।{$ {!262 वठि!} एकचर्यायाम्$} । ववण्ठे ।{$ {!263 मठि!} {!264 कठि!} शोके$} । शोक इह आध्यानम् । मण्ठते । कण्ठते ।{$ {!265 मुठि!} पालने$} । मुण्ठते ।{$ {!266 हेठ!} विबाधायाम्$} । जिहेठे ।{$ {!267 एठ!} च$} । एठांचक्रे ।{$ {!268 हिडि!} गत्यनादरयोः$} । हिण्डते । जिहिण्डे ।{$ {!269 हुडि!} संघाते$} । जुहुण्डे ।{$ {!270 कुडि!} दाहे$} । चुकुण्डे ।{$ {!271 वडि!} विभजने$} ।{$ {!272 मडि!} च$} । ववण्डे ।{$ {!273 भडि!} परिभाषणे$} । परिहासः सनिन्दोपालम्भश्च परिभाषणम् । बभण्डे ।{$ {!274 पिडि!} संघाते$} । पिपिण्डे ।{$ {!275 मुडि!} मार्जने$} । मार्जनं शुद्धिर्न्यग्भावश्च । मुण्डते ।{$ {!276 तुडि!} तोडने$} । तोडनं दारणं हिंसनं च । तुण्डते ।{$ {!277 हुडि!} वरणे$} । वरणं स्वीकारः । हरण इत्येके । हुण्डते ।{$ {!278 चडि!} कोपे$} । चण्डते ।{$ {!279 शडि!} रुजायां संघाते च$} । शण्डते ।{$ {!280 तडि!} ताडने$} । तण्डते ।{$ {!281 पडि!} गतौ$} । पण्डते ।{$ {!282 कडि!} मदे$} । कण्डते ।{$ {!283 खडि!} मन्थे$} ।{$ {!284 हेडृ!} {!285 होडृ!} अनादरे$} । जिहेडे । जुहोडे ।{$ {!286 बाडृ!} आप्लाव्ये $}। बशादिः । आप्लाव्यमाप्लवः । बाडते ।{$ {!287 द्राडृ!} {!288 ध्राडृ!} विशरणे$} । द्राडते । ध्राडते ।{$ {!289 शाडृ!} श्लाघायाम्$} । शाडते ॥ अथ आ टवर्गीयान्तसमाप्तेः परस्मैपदिनः ॥{$ {!290 शौटृ!} गर्वे$} । शौटति । शुशौट ।{$ {!291 यौटृ!} बन्धे$} । यौटति ।{$ {!292 म्लेटृ!} {!293 म्रेडृ!} उन्मादे$} । द्वितीयो डान्तः । टान्तमध्ये पाठस्त्वर्थसाम्यान्नाथतिवत् । म्लेडति । म्रेडति ।{$ {!294 कटे!} वर्षावरणयोः$} । चटे इत्येके । चकाट । सिचि अतो हलादेर्लघोः (SK2284) इति वृद्धौ प्राप्तायाम् ॥ Laghu Siddhanta Kaumudi ----------------------- अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः । क्षीयात् ॥ Balamanorama ------------ **अकृत्सार्वधातुकयोर्दीर्घः** - आशीर्लिङि विशेषमाह — अकृत्सार्व । अङ्गस्येत्यधिकृतम् ।अयडि क्ङिती॑त्यतो यीतिसप्तम्यन्तमनुवृत्तमङ्गाक्षिप्तप्रत्ययविशेषणं, तदादिविधिः । दीर्घश्रुत्या 'अच' इत्युपस्थितमङ्गविशेषणं । तदन्तविधिः ।तदाह — अजन्तस्येत्यादिना । अकृत्सार्वधातुकयोरिति किम् । प्रकृत्य । तुकं बाधित्वा परत्वाद्दीर्घो न । चिनुयात् । सार्वधातुकत्वान्न दीर्घः । क्षीजेति । ईदुपधः । कूजिनेति ।कूज अव्यक्ते शब्दे॑ इत्यनुपदमेव पठितं, तत्रैवकुज क्षीज अव्यक्ते शब्दे॑ इति पठितुं युक्तमित्यर्थः, अर्थैक्यादिति भावः । लज लजि । भत्र्सन इति क्वचित्पाठः ।भत्र्सनं त्वपवादगी॑रित्यमरः । द्वितीय इदित् । आशीर्लिङि — लञ्ज्यात् । लाज लाजि । भर्जन इति क्वचित्पाठः । आदुपधौ । द्वितीय इदित् । जज जजीत्यादि । स्पष्टम् । वज व्रजेति । आद्यस्य असंयुक्तहल्मद्यस्थाऽकारवत्त्वेऽपिन शसददवादिगुणाना॑मित्येत्त्वाभ्यासलोपौ नेत्याह — ववजतुरिति । अवाजीत् । अवजीत् । द्वितीयस्य तु संयुक्तहल्मध्यस्थाऽकारवत्त्वादेवैत्त्वाऽभ्यासलोपयोर्न प्रसक्तिः ।अव्राजी॑दित्यत्रअतो हलादे॑रिति वृद्धिविकल्पमाशङ्क्याह - वदव्रजेति वृद्धिरिति । हलन्तत्वादेव सिद्धे व्रजग्रहणस्यअतो हलादे॑रिति विकल्पनिरासार्थत्वनादिति भावः । शुचादयो द्विसप्ततिर्वृत्ताः । शाड्रन्ता इति ।शाडृ श्याघाया॑मित्यन्ता इत्यर्थः । 'शाडन्ता' इति क्वचित्पाठः । अट्टेति । तवर्गतृतीयोपधोऽयम् । चर्त्वष्टुत्वाभ्यां टोपधनिर्देशः । तदाह — दोपधोऽयमिति । तथा च अट्टधातोः सनि इटि अट्टिस् इति स्थिते ष्टुत्वचर्त्वयोरसिद्धत्वादजादेर्द्वितीयस्येति प्रवर्तमानं द्वित्वंन न्द्राः संयोगादय॑ इति दकारं विहाय टिस् इत्यस्य भवति । ततो हलादिशेषे दकारस्य ष्टुत्वचर्त्वयोः 'अट्टिटिषते' इतीष्टं सिध्यति । स्वाभावकमूर्धन्योपधत्वे 'न न्द्रा' इति निषेधाऽभावाट्टकारद्वयसहितस्यैव द्वित्वे हलादिशेषेण द्वितीयटकारस्य निवृत्तौ अटिट्टिषते इत्यनिष्टं प्रसज्येतेति भावः । तोपध इत्यन्य इति । ष्टुत्वेन टोपधनिर्देश इति भावः । अस्मिन्पक्षे सनि द्वित्वे कर्तव्ये ष्टुत्वस्याऽसिद्धत्वेऽपि 'न न्द्रा' इति निषेधाऽभावात्तकारविशिष्टस्य त्टिस् इत्यस्य द्वित्वे हलादिशेषेण टकारस्य निवृत्त्या अतिट्टिषते इति रूपमिति भाव- । आनट्टे इति । इह 'न न्द्रा' इति निषेधो न, तत्र द्वितीयस्यैकाच इत्यनुवृत्तेः । घट्ट चलन इति । अयं चुरादावपि । स्फुट विकसन इति । अयं कुटादावपि । अठि गताव#इति । लिटि नुमि द्वित्वे हलादिशेषेअत आदे॑रिति दीर्घेतस्मान्नुड् द्विहल॑ इति नुडिति मत्वाह — आनण्ठ इति । वठि एकचर्यायामिति । असहायचर्यायमित्यर्थः । मडि चेति । विभाजन इत्यनुषज्यते ।मडि भूषाया॑मिति परस्मैपदेषु वक्ष्यते । शाडृ श्लाघायमिति । डलयोरैक्याच्छालत इति काश्यपः । इत्यट्टादयः षट्तिंरशद्गताः । अथ टवर्गीयान्ता [गडन्ता] इति ।गडि वदनैकदेशे॑इत्यन्ता इत्यर्थः । म्लेट्ट म्रेड्ट इति । एदुपधौ । द्वितीयो डान्त इति । टवर्गतृतीयान्त इत्यर्थः । ननु टान्तेष्वस्य कथं पाठः चुड्ड भावकरण इत्यारभ्यानुक्रम्यमाणेष्वेवास्य पठित्वं युक्तत्वादित्यत आह — टान्तमध्ये इति । नाथतिवदि त । 'एध वृद्धा' वित्यारभ्यानुक्रान्तेषु तवर्गचतुर्थान्तेषु यथानाथृ नाधृ याच्ञे॑ति तवर्गद्वितीयान्तस्यापि अर्थसाम्यात्पाठः, तद्वदित्यर्थः । कटे इति । कण्ठआदिः । चटे इति । तालव्यादिः । आद्यस्य लिटि अभ्यासस्य चुत्वमित्याह — चकाटेति । चकटतुः । द्वितीयस्य चेटतुः । वैरूप्यापादकाऽऽदेशादित्वाऽभावादेत्त्वाभ्यासलोपौ । प्राप्तायामिति । हलन्तलक्षणाया नित्यवृद्धेर्नेटीति निषेधात्अतो हलादे॑रिति वैकल्पिकवृद्धौ प्राप्तायामित्यर्थः । Tattvabodhini ------------- **अकृत्सार्वधातुकयोर्दीर्घः** - दीर्घग्रहणेनअचश्चे॑ति परिभाषोपस्थानादाह — अजन्तेति । यादौ प्रत्यय इति ।अयङ् यि क्ङिती॑त्यतो यीत्यनुवर्त्त्यं अङ्गाक्षिप्तप्रत्ययस्तेन विशेष्यते, विशेषणेन तदादिविधिः ।यस्मिन्विधि॑रिति परिभाषोपस्थानादिति भावः । न त्विति । कृद्यकारे — प्रकृत्य । प्रह्मत्य । उच्चैः कृत्य । तुकं बाधित्वापरत्वाद्दीर्घः स्यात् । तुग्विधिस्तु — अग्निचित् । सोमसुदित्यादौ चरितार्थः । ल्यपः पित्त्वमप्यनुदात्तार्थकतया चरितार्थमित्याहुः । सार्वधातुकयकारे तु — चिनुयात् । सुनुयात् । कृजिनेति । अर्थैक्यादेकत्र पाठ उचित इति भावः । लज लजि । लज्यात् । लञ्ज्यात् । लज प्रकाशने इति कथादौ । भत्र्सने चेति । चाद्भर्जने । तुजि पालने । भाषार्थोऽयं युजादौ । गज गजि ।गञ्जा तु मदिरागृहम् । गज मदने च । मदनं — मदः - चित्तविकारः । वज व्रज । वादित्वादेत्वाभ्यासलोपौ न । ववजतुः । वव्रजतुः । शाडन्ता इति ।शाडृ श्लाघाया॑मित्यन्ता इत्यर्थः । दोपधोऽयमिति । तथा च ष्टुत्वशास्त्रस्याऽसिद्धत्वाटन्न न्द्राःर॑ इति द्वित्वनिषेधेन दकारं विहाय टिशब्दस्य द्वित्वे पश्चाद्दकारस्य ष्टुत्वे च अट्टिटिषते आट्टिटदित्यादि सिध्यति । टोपधत्वे तु अटिट्टिषते । आटिट्टदिति स्यादिति भावः । तोपध इति । अस्मस्तु पक्षे — अतिट्टिषते आतिट्टदित्यादि बोध्यम् । हलादिः शेषेण टकारनिवृत्तौ तननिमित्तस्यापि ष्टुत्वस्य निवृत्तत्वादिति नव्याः । मनोरमायां तुपूर्वत्रासिद्धीयमद्विर्वचने॑ इति ष्टुत्वस्याऽसिद्धत्वाऽभावट्टकारद्वयसहितस्य द्वित्वे हलादिः शेषे अटिट्टिषते आटिट्टदित्यादि सिध्यतीत्युक्तम् ।निमित्ताऽपाये नैमित्तिकस्याप्यपायः॑ इति त्विनित्यमिति तदाशयः । आनट्टे इति । इहन न्द्राः॑ इति निषेधो न, तत्र द्वितीयस्येत्यनुवर्तनाद्द्वितीयैकाच एव नदराणां निषेधात् । घट्ट चलने । अयं चुरादावपि । स्फुट । अयं कुटादावपि । आनण्ठे इति ।तस्मान्नुड् द्विहलः॑ । इति नुट् । वण्ठते इति । सहायं विना चरतीत्यर्थः । मडि च । पृथक्पाठसामर्थ्यादयं वेष्टनेऽपीत्याहुः ।मडि भूषाया॑मित्यग्रे परस्मैपदिषु । भडि ।यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषण॑मित्यमरः । शडि ।शण्डोऽसुरपुरोहितः॑ । दाड्ट । विशरणम् — अवयवविभागः । शाड्ट । डलयोरैक्यात्शालते॑ इति काश्यपः । शौट्ट गर्वे । अस्योणादुषु ईरन्वक्ष्यते ।तदेतदतिशौटीर्यमौडुलोमेर्न मृष्यति॑ इति कल्पतरुः । कटे । Padamanjari ----------- अकृद्यकार इति । यकारमात्रस्य प्रत्ययस्यासम्भवादकृति असार्वधातुके च यकारादावित्यर्थः । भृशायत इति ।'भृशादिभ्यो भुव्यच्वेः' इति क्यङ् । सुखायत इति ।'सुखादिभ्यः कर्तृवेदनायाम्' । चीयत इति । यक् । चेचीयत इति । यङ् । तोष्टूअयत इति ।'शर्पूर्वाः खयः' । चीयादिति । आशिषि लिङ् । निश्चित्य, प्रस्तुत्येति । ल्यबयं कृत्संज्ञकः । ननु चाजन्तस्य दीर्घो विधीयते, इह च तुकि कृतेऽनजन्तत्वाद्दीर्घो न भविष्यति ? इत्यत आह - परत्वादिति । तुकोऽवकाशः - गनिचित्, सोमसुत्; दीर्घस्यावकाशः - चीयते, स्तूयते; निश्चित्य, प्रस्तुत्येत्यत्र परत्वातुग् दीर्घत्वेन बाध्यते । प्रायेण तु प्रकृत्य, प्रहृत्येति पाठः, तत्रोतरसूत्रेण रीङ्ः प्रसङ्गाद् दीर्घत्वेन तुको बाधः स्यादित्ययुक्तं स्यात् । आद्यप्राप्त्यभिप्रायेण वा व्याख्येयम् । चिनुयादिति । विध्यादिलीङ् । उरुया, धृष्णुयेति ।'सुपां सुलिक्' इत्यादिना यादेशः ॥ Nyaas ----- `भृशायते` इति। **भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः** (3.1.12) इति क्यङ्। `सुखायते` इति। `सुखादिभ्यः कर्त्तृवेदनायाम्` (3.1.18) इति क्ङ्। `चीयते` इति। कर्मणि लकारः, **सार्वधातुके यक्** (3.1.67) । `चेचीयते` इति। **गुणो यङ्लुकोः** (7.4.82) इत्यभ्यासस्य गुणः। `तोष्टूयते` इति। `ष्टुञ्? स्तुतौ` (धातुपाठः-1043), **शर्पूर्वाः खयः** (7.4.61) इति खयः शेषः। `चीयात्, स्तूयात्` इति। आशिषि लिङ्। `प्रकृत्य` इति। पूर्ववल्ल्यप्। स च **कृदतिङ्** (3.1.93) इति कृत्संज्ञकः। ननु च दीर्घश्रुत्याऽजित्येतस्मिन्नुपस्थिते तेनाङ्गं विशिष्यते तत्र विशेषणेन च तदन्तविधिरित्यजन्तस्याङ्गस्य दीर्घत्वेन भवितव्यमिति, इह **ह्रस्वस्य पिति कृति तुक्** (6.1.71) तुकि कृतेऽजन्तता नास्ति, ततश्चानजन्ततत्वादेव दीर्घत्वेन भवितव्यमिति, इह **ह्रस्वस्य पिति कृति तुक्** (6.1.71) तुकि कृतेऽजन्तता नास्ति, ततश्चानजन्तत्वादेव दीर्घत्वं न भविष्यति, किमेतन्निवृत्त्यर्थेनाकृद्ग्रहणेन? इत्यत आह - `परत्वात्` इत्यादि। तुकोऽवकाशः - अग्निचिदिति, दीर्घस्यावकाशः - चीयत इति; प्रकृत्य, प्रह्मतय - इत्यत्रोभयप्राप्तौ सति, असत्यकृद्ग्रहणे परत्वाद्दीर्घत्वेन तुग्बाध्येत। तस्मादकृद्ग्रहणं कर्तव्यम्। `चिनुयात्` इति। विध्यादिलिङ्, स च `तिङशित्सार्वधातुकम्` (3.4.113) इति सार्वधातुकसंज्ञकः। `उरुया, धृष्णुया` इति। उरु धुष्णुशब्दयोस्तृतीयैकवचने `सुपां सुलुक्` (7.1.39) इत्यादिना याभावः॥ Prakriyasarvasvam ----------------- अकृति असार्वधातुके च यादौ क्ङिति परेऽजन्तस्याङ्गस्य दीर्घः स्यात् । जीयते जीयेते जीयन्ते इत्यादि तङन्तभूवत् ।। लिङि जयेत् जयेताम् जयेयुः इत्यादि ।। यकि जीयेत जीयेयाताम् जीयेरन् इत्यादि । लोटि जयतु जयतात् इत्यादि । यकि जीयताम् जीयेताम् । लङि इलोपः । अट् । अजयत् अजयताम् अजयन् ।। यकि अजीयत अजीयेताम् । लुङि तिप् । इलोपः । जि त् । च्लिः । च्लेः सिच् । जि स् त् । Sutra Prayogas -------------- * **श्मश्रूयमाणे** (शिशुपालवधम्): `अकृत्सार्वधातुकयोः` इति दीर्घः। * **आटाट्यता** (भट्टिकाव्यम्): `अकृत्सार्वधातुकयोः` इति दीर्घः।