74021: शीङः सार्वधातुके गुणः ============================ **Padacheda:** शीङः | S | 6 | 1 | सार्वधातुके | S | 7 | 1 | गुणः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- For the vowel of शी there is substituted गुण when a सार्वधातुक affix follows. Vasu English Translation ------------------------ For the vowel of शी there is substituted गुण when a सार्वधातुक affix follows. As शेते, शयाते, शेरते, but शिश्ये before the *ardhadhatuka* affix (3.4.115). Though these *sarvadhatuka* affixes were ङित् (1.2.4) and would not have caused *guna* (l. 4.5), they do so by virtue of the present *sutra*. The word शीङ् is read in the *sutra* with the *anubandha* ङ्, in order to indicate that the rule does not apply to यङ् लुक् as शेशीतः, शेश्यति ॥ Kashika ------- शीङः अङ्गस्य सार्वधातुके परतः गुणो भवति। शेते, शयाते, शेरते। सार्वधातुके इति किम्? शिश्ये। Siddhanta Kaumudi ----------------- क्ङिति च- (SK2217) इत्यस्यापवादः । शेते । शयाते ॥ Laghu Siddhanta Kaumudi ----------------------- क्ङिति चेत्यस्यापवादः। शेते। शयाते॥ Balamanorama ------------ **शीङः सार्वधातुके गुणः** - शीङः सार्वधातुके । स्पष्टम् ।सार्वधातुकार्धधातुकयो॑रित्येव सिद्धे किमर्थमिदमित्यत आह — क्ङिति चेत्यस्यापवाद इति । झस्य अदादेशे सति शे-अते इति स्थिते — Tattvabodhini ------------- **शीङः सार्वधातुके गुणः** - क्ङिति चेत्यस्येति । अन्यत्रसार्वधातुकाद्र्धधाततुकयो॑रित्यनेन सिद्धमिति भावः । Padamanjari ----------- अनुबन्धनिर्देशो यङ्लुकि मा भूदिति - शेशीतः, शेश्यतीति ।'शीङ् एः' इत्युच्यमाने सानुबन्धकात् षष्ठयुच्चारिता, अनुबन्धश्च निवृत्तिधर्मा, तस्य लोपेन निवृतौ प्राप्तायामयमन्यः प्रकारो विज्ञायेत, नास्य लोपे निवर्तकः, किं तर्हि ? एकार इति । गुणग्रहणं त्विकं निवर्तयति । ङ्कारस्तु स्वनेनैव हेतुना निवर्तते । तस्माद् गुणग्रहणम् ॥ Nyaas ----- अप्राप्तविषयत्वाद्गुणविधानस्य ङिति सार्वधातुक एतद्विधानम्। पिति तु सामान्यलक्षणैनैव गुणः सिद्धः। लोट्, **आडुत्तमस्य पिच्च** (3.4.92) इत्याटि - शयै, शयावह इत। तस्माद्यत्र गुणो न प्राप्नोति तत्र विधीयते। `शेरते` इति। अदादित्वाच्छपो लुक्? `त्मनेपदेष्वनतः` (7.1.5) इति झकारस्यादादेशः। अत्र **शीङो रुट्** (7.1.6) रुडागमो भवति। `शिश्ये` इति। लिट्, `लिट्? च` (3.4.115) इत्यार्धधातुकसंज्ञा, उत्तमपुरुषस्यैकवचनम्, प्रथमपुरुषस्यैकवचनं वा। यदा प्रथमपुरुस्यैकवचनं तदैश्, पूर्ववदेव द्विर्वचनम्, **एरनेकाचोऽसंयोगपूर्वस्य** (6.4.82) इति यणादेशः; अन्यदेट्, टेरेत्त्वम्। अथ गुणग्रहणं किमर्थम्, न `शीङः सार्वधातुके एत` इत्येंवोच्येत? एवं मन्यते - `शीङः` इति सानबन्धकनिर्देशे षष्ठ्युच्यारिता, निवृत्तिधर्मा चानुबन्धः तस्येत्संज्ञायां लोपेन निवृत्तौ प्राप्तायामयमन्यप्रकारो निवृत्तेरवज्ञायेत। तस्य नान्येत्संज्ञा निवर्त्तिका, किं तर्हि? एकारः। एवं तर्हि ङकारस्य स्थान एकार आपद्यते। तस्माद्गुणग्रहणं त्विकमुपस्थापयति। ङकारस्तु तेनैव हेतुना निवर्तत इति यद्येवम्, ङकारो नोच्चारयिष्यते, `झियः` इति निर्देशः करिष्यते? नैष शक्यम्; एवं हि निर्देशे सति यङ्लुक्यपि स्यात् - शेशीत, शेश्यतीति॥ Prakriyasarvasvam ----------------- ङित्त्वापि गुणार्थमिदम् । शेते शयाते । Sutra Prayogas -------------- * **अध्य्शेत** (भट्टिकाव्यम्): `शीङः सार्वधातुके गुणः` इति गुणः।