74014: न कपि ============ **Padacheda:** न | S | 0 | 0 | कपि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- But before the समासान्त affix कप् coming after बहुव्रीहि समास , the अण् vowels are not shortened. Vasu English Translation ------------------------ But before the समासान्त affix कप् coming after बहुव्रीहि समास , the अण् vowels are not shortened. As बहुकुमारीकः, बहुवृषलीकः, बहुवधूकः, बहुलक्ष्मीकः ॥ The shortening ordained by (1.2.48) even does not operate when कप् follows. For had there been upasarjana shortening (1.2.48), the present *sutra* would be useless. Therefore, the very existence of this *sutra* debars every sort of shortening. Objection: The present *sutra* would not be useless, for it will find scope where there is no shortening of the *upasarjana* by (1.2.48): namely before non-feminine affixes, as बहुयवागूकः; but there should be shortening in feminine affixes. Answer: The shortening of (1.2.48) will not take place before कप् affix. Because the कप् affix will first be added to the second member in the sense of the compound, and then the word so ending in कप् will be compounded with the first member. So there is no *pratipadika* left which ends in a feminine affix, and therefore (1.2.48), does not apply, because the *pratipadika* now left is one ending in the affix कप् and not in a feminine affix. Kashika ------- कपि प्रत्यये परतोऽणो ह्रस्वो न भवति। बहुकुमारीकः। बहुवधूकः। बहुलक्ष्मीकः। **गोस्त्रियोरुपसर्जनस्य** (1.2.48) इत्ययमपि ह्रस्वः कपि न भवति। समासार्थे हि उत्तरपदे कपि कृते, पश्चात् कबन्तेन सह समासेन भवितव्यम् इति स्त्रीप्रत्ययान्तसमासप्रातिपदिकं न भवति। Siddhanta Kaumudi ----------------- कपि परे अणो ह्रस्वो न स्यात् । कल्याणपञ्चमीकः पक्षः । अत्र तिरोहितावयवभेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकतृकः । अप्रियादिषु किम् । कल्याणीप्रियः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा । भक्तिः । सचिवा । स्वसा । कान्ता । क्षान्ता । समा । चपला । दुहिता । वामा । अबला । तनया । सामान्ये नपुंसकम् ॥ दृढं भक्तिर्यस्य स दृढभक्तिः । स्त्रीत्वविवक्षायां तु दृढाभक्तिः ॥ Balamanorama ------------ **न कपि** - न कपि । अणो ह्रस्व इति.॒केऽणः॑ इत्यतः,शृदृप्रा॑मित्यतश्च तदनुवृत्तेरिति भावः । ननुकल्याणपञ्चमीकः पक्ष॑ इत्यत्र पञ्चदशाहोरात्रात्मके पक्षेऽन्यपदार्थे पञ्चम्या रात्रेः प्रवेशात्प्राधान्यं दुर्वारमित्यत आह — अत्र तिरोहितेति । रात्रे तत्प्रवेशाऽभावादप्राधान्यमिति भावः । भाष्ये एवमुदाहरणेवात्र लिङ्गम् । ऋदन्तोत्तरपदात्कपमुदाहरति — बहुकर्तृक इति । बहवः कर्तरो यस्येति विग्रहः । तदेवमपूरणीप्रियादिषित्यत्र पूरणीविषयं प्रपञ्च्य प्रियादिषु परेषु पुंवद्भावनिषेधस्य प्रयोजनं पृच्छति — अप्रियादिषु किमिति । कल्याणीप्रिय इति । कल्याणी प्रिया यस्येति विग्रहः । प्रियादिगणं पठति — प्रिया मनोज्ञेत्यादि । ननु भक्तिशब्दस्य प्रियादिषु पाठे दृढा भक्तिर्यस्य स दृढभक्तिरित्यत्र कथं पुंवत्त्वमित्यत आह — सामान्ये नपुंसकमिति ।आश्रित्ये॑ति शेषः । दृढमिति । पदसंस्कारपक्षे सामान्यपरतच्वमाश्रित्य दृढशब्दो नपुंसकलिङ्गो व्युत्पाद्यः, ततस्तस्य भक्तिशब्देनान्वये पूर्वप्रवृत्तं नपुंसकत्वं नापैति, लिङ्गविशेषस्याऽविवक्षितत्वात्,वेदाः प्रमाण॑मितिवत् । अत्र चार्थे पस्फशाह्निकभाष्येशक्यं चानेन आमांसादिभिरपि क्षुत्प्रतिहन्तु॑मिति प्रयोगो लिङ्गम् । नन्वेवं सति प्रियादिषु भक्तिशब्दपाठो व्यर्थ इत्यत आह — स्त्रीत्वविवक्षायां त्विति । वाक्यसंस्कारपक्षे विशेष्यानुसारेण स्त्रीत्वप्रतीतेर्नियमादिति भावः । Padamanjari ----------- बहुकुमारीक इत्यादौ'नद्यःतश्च' इति कप् । अथात्रास्मिन्प्रतिषिद्धे उपसर्जनह्रस्वत्वं कस्मान्न भवति ? अत एव प्रतिषेधात् । नायमस्य ह्रस्वस्य प्रतिषेधः, किं तर्हि ? अनन्तरस्य'के' णःऽ इत्यस्य । कुत एतत् ? ठनन्तरस्य विधिर्वा भवति प्रतिषेधो षाऽ इति । एवं तर्ह्याह - अयं कपि ह्रस्वो न भवतीति । यदि चोपसर्जनहस्वत्वं स्यात्, वचनमिदमनर्थकं स्यात् । अतो वचनसामर्थ्याद्यच्च यावच्च ह्रस्वत्वं तस्य प्रतिषेधो भविष्यति । अस्ति वचनस्यावकाशो यत्रोपसर्जनह्रस्वत्वं न प्राप्नोति, अस्त्रीप्रत्यये - बहुयवागूकः, बहुलक्ष्मीक इति, स्त्रीप्रत्यये उपसर्जनह्रस्वत्वं स्यादेव । तत्राह - गोस्त्रियोरुपसर्जनस्येत्ययमपीति । कुतः ? इत्यत आह - समासार्थं हीति ।'समासान्ताः' इत्यत्रान्तशब्दोऽवयववचनः । कथं च कप्समासावयवो भवति ? यदि तेन सह समासो भवति । कथं च तेन समासो भवति ? यद्यकृत एव समासे तदर्थादुतरपदात् कब्भवति, पश्चातदन्तेन समासः । ननु च कपः पूर्वं सुबन्तम्, तत्कर्थं कबन्तेन समासः ? वचनात्समासान्तेष्वसुबन्तेन समासः । अपर आह - ठुतरपदे या विभक्तिस्तस्याश्च या प्रकृतिस्तयोर्मध्ये विकरणवत्समासान्तः, तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात्सुबन्तेन समासःऽ इति; एवं वदतो दोषः; बहुचर्मिकेत्यादौ'प्रत्ययस्थात्' इतीत्वं न स्यात् । किं कारणम् ? कात्परः सुप्, ततः परष्टाप्, यथा - बहुपरिव्राजका मथुरेति । यदि कपि कृते पश्चातदन्तेन समासः, किमायातम् ? इत्यत आह - स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवतीति ।'गोस्त्रियोः' इत्यत्र प्रातिपदिकस्येति वर्तते, स्त्रीप्रत्ययान्तस्य च प्रातिपदिकत्वं समासे सति, न चोक्ते प्रकारे कपः पूर्वभागस्य समासत्वं प्रातिपदिकत्वं वा समस्ति, तस्मान्नोपसर्जनह्रस्वत्वमिति ॥ Nyaas ----- `बहुकुमारीकः` इति। बह्व्यः कुमार्यो यस्य सः। **नद्यृतश्च** (5.4.153) इति कप्; अनुबन्धलोपः। अथात्रास्मिन्? ह्रस्वत्वे प्रतिषिद्ध उपसर्जनह्रस्वत्वं कस्मान्न भवति? अत #एव प्रतिषेधान्न भविष्यतीति चेत्? न; `अनन्तरस्य विधिरावा प्रतिषेधो वा` (व्या।प।19) इत्यनन्तरस्यैव ह्रस्वस्य ह्रयं प्रतिषेधो न सर्वस्य। कपीति वचनसामर्थ्यादुपसर्जनह्रस्वत्वमिति न भविष्यतीति चेत्? यत्र ह्रुपसर्जनह्रस्वत्वस्य प्राप्तिरस्ति, **गोस्त्रियोरुपसर्जनस्य** (1.2.48) इति ह्रस्वशासने स्त्रीशब्देन स्त्र्यधिकारविहितानां प्रत्ययानां टाबादीनां ग्रहणात्। तस्माद्बहुकुमारीक इत्यत्रोपसर्जनस्य ह्रस्वत्वेन भवितव्यमित्यत आह - `गोस्त्रियोरुपसर्जनस्य` इत्यादि। कस्मान्न भवति? इत्याह - `समासार्थे हि` इत्यादि। उपसर्जनह्रस्वत्वं हि स्त्रीप्रत्ययान्तस्य समासप्रातिपदिकसय विधीयते, तद्धिधाने `ह्रस्वो नपुंसके प्रातिपदिकस्य` (1.2.47) इत्यतः प्रातिपदिकग्रहणानुवृत्तेः समासप्रातिपदिकस्यैव स्त्रीप्रत्ययान्तस्योपसर्जनह्रस्वः स्यात्। न च बहुकुमारीक इत्यादौ स्त्रीप्रत्ययान्तं समासप्रातिपदिसं भवति; यस्मात्? **समासान्ताः** (5.4.68) इत्यधिकार एवायां कब्विधीयते। `समासान्ताः` इत्यत्रान्तग्रहणस्यैतत्? प्रयोजनम् - समासस्यान्तोऽवचयो यथा स्यादिति, स च कथं समासस्यावयवो भवति? यदि तेन सह समाससंज्ञा भवति। कथञ्च तेन समाससंज्ञा भवति? यद्यकृते समासे समासार्थादुत्तरपदात्? कब्भवति, पश्चात्? कदन्तेन समासो भवति, नान्यथा। तस्मात्? समासान्ताधिकारे कपो विधानात्? समासार्थादुत्तरपदात्? कपि कृते पश्चात्? समासेन भवितव्यम्। ततश्च स्त्रीपरत्ययान्तमिह समासपरातपदेकं न भवतीति न भवत्युपसर्जनह्रस्वत्वम्। Prakriyasarvasvam ----------------- कपि परेऽणो न ह्रस्वः । अनेकत्वे भावी विकल्पः । द्विपुमान् । द्विपुंस्कः । 'नञोऽर्थात्' (स० ५-४-१७९) । अनर्थकम् ॥ Sutra Prayogas -------------- * **अ-स्त्रीको** (भट्टिकाव्यम्): `न कपि` इति ह्रस्वप्रतिषेधः। * **अबूबुधत** (भट्टिकाव्यम्): `दीर्घौ लघोः` इति दीर्घत्वम्।