74012: शॄदॄप्रां ह्रस्वो वा =========================== **Padacheda:** शॄदॄप्राम् | S | 6 | 3 | ह्रस्वः | S | 1 | 1 | वा | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- In 1. शॄ 'to injure' 2. दॄ 'to tear' and 3. पॄ 'to protect'-- all belonging to क्र्यादिगणः (9th Conjugation), the vowel may be optionally shortened in the लिट् (Perfect Tense). Vasu English Translation ------------------------ In 1. शॄ 'to injure' 2. दॄ 'to tear' and 3. पॄ 'to protect'-- all belonging to क्र्यादिगणः (9th Conjugation), the vowel may be optionally shortened in the लिट् (Perfect Tense). As वि शश्रतुः by shortening or वि शशरतुः, by *guna*, which prevents ए and *abhyasalopa* (6.4.126) वि शश्रुः or विशशरुः, विदद्रतुः or विददरतुः, विदद्रुः or विददरुः; निपप्रतुः or नि पपरतुः, नि पप्तुः or नि पपरुः ॥ Why is the word 'short' made optional in the *sutra*, and not the word 'guna'; for in the absence of *guna*, the long ॠ would have become र before अतुः by यणादेशः, and we would have got the forms विशश्रतुः, विशश्रुः by the regular rules of '*sandhi*'? The word 'short' is used in the *sutra*, in order to debar the इर् and उर् alternatives. Had the *sutra* been "शॄ दॄ प्रां वा" the alternative examples would have been with इर् (7.1.101) as शिशिरतुः दिदिरतुः and उर् (8.2.77) as पिपुरतुः ॥ Some say this *sutra* is unnecessary. The above forms like वि शश्रतुः, विशश्रुः, &c. can be regularly obtained from the roots श्रा 'to cook', द्रा 'to abuse', and प्रा 'to fill' and as the roots have many other senses, besides those assigned to them in the *Dhatupatha*, the roots श्रा, द्रा and प्रा will give the meanings of शॄ, दॄ and पॄ ॥ If that were so, the form विशशृवान् with the affix क्वसु could not be formed, for we should have either विशशर्वान् from शॄ root or विशश्रिवान् from श्रा root but never विशशृवान् ॥ So the rule about shortening is necessary. Bhashya ------- शॄदॄप्रां ह्रस्वो वा किमर्थं ह्रस्वो वेत्युच्यते, न गुणो वेत्युच्येत, तत्रायमप्यर्थो गुणग्रहणं न कर्तव्यं भवति प्रकृतमनुवर्तते ॥ क्व प्रकृतम् ? ॥ ऋतश्च संयोगादेर्गुणः इति ॥ ॠतां ह्रस्वत्वमित्त्वप्रतिषेधार्थम् ॥ ॠतो ह्रस्वत्वमुच्यते । (किं प्रयोजनम् ?) ॥ इत्त्वप्रतिषेधार्थम् । इत्त्वं मा भूदिति । गुणो वेतीयत्युच्यमाने गुणेन मुक्ते इत्त्वं प्रसज्येत । ह्रस्वो वेति पुनरुच्यमाने(3) ह्रस्वेन मुक्ते यथाप्राप्तो गुणो भविष्यति ॥ ( शॄदॄपरां ह्रस्वो वा ) ॥ Kashika ------- शॄ पॄ दॄ इत्येतेषां अङ्गानां लिटि परतो वा ह्रस्वो भवति। शॄ विशश्रतुः, विशश्रुः। विशशरतुः, विशशरुः। दॄ विदद्रतुः, विदद्रुः। विददरतुः, विददरुः। पॄ निपप्रतुः, निपप्रुः। निपपरतुः, निपपरुः। ह्रस्ववचनम् इत्वोत्वनिवृत्त्यर्थम्। केचिदेतत् सूत्रं प्रत्याचक्षते। श्रा पाके, द्रा कुत्सायां गतौ, प्रा पूरणे इत्येतेषामनेकार्था धातवः इति शॄदॄप्रामर्थे वर्तमानानां विशश्रतुः, विशश्रुः, विदद्रतुः, विदद्रुः, निपप्रतुः, निपप्रुः इत्येतानि रूपाणि साधयन्ति। तथा च सति क्वसौ विशशृवानित्येतद् रूपं न स्यात्। Siddhanta Kaumudi ----------------- एषां किति लिटि ह्रस्वो वा स्यात् । पक्षे गुणः । पप्रतुः । पप्रुः । पपरतुः । पपरुः । परिता । परीता । अपिपः । अपिपूर्ताम् । अपिपरूः । पिपूर्यात् । पूर्यात् । अपारीत् । अपारिष्टाम् । ह्रस्वान्तोऽयमिति केचित् । पिपर्ति । पिपृतः । पिप्रति । पिपृयात् । आशिषि प्रियात् । अपार्षीत् । पाणिनीयमते तु तं रोदसी पिपृतमित्यादौ छान्दसत्त्वं शरणम् ।{$ {!1087 डुभृञ्!} धारणपोषणयोः$} ॥ Laghu Siddhanta Kaumudi ----------------------- एषां लिटि ह्रस्वो वा स्यात्। पप्रतुः॥ Balamanorama ------------ **शृदॄप्रां ह्रस्वो वा** - शृदृप्राम् । शृ दृ पृ एषां द्वन्द्वः । लिटीति ।दयतेर्दिगि लिटीटत्यतस्तदनुवृत्तेरिति भावः । यद्यपि पूर्वसूत्रेषु क्वापि कितीति न दृष्टं तथापि अस्यऋच्छत्यृता॑मिति गुणाऽपवादत्वाद्गुणस्य च तस्य किदर्थत्वात्कितीत्युक्तम् । पप्रतुरिति । पपृ अतुस् इति स्थिते ऋकारस्य ह्रस्वे तस्य यणिति भावः । गुणपक्षे आह -पपरतुरिति । गुण एव तु न विकल्पितः, गुणाऽभावेवार्णादाङ्गं बलीयः॑ इति यणं बाधित्वाउदोष्ठए॑त्युत्त्वप्रसङ्गात् । पपरिथ पप्रथुः — पपरथुः पप्रपपर । पपार पपर पप्रिव पपरिव । 'वृतो वा' इति दीर्घविकल्पं मत्वा आह -परिता परितेति । परिष्यति — परीष्यति । पिपर्तु — पिपूर्तात् पिपूर्ताम् पिपुरतु । पिपूर्हि — पिपूर्तात् पिपूर्तम् पिपूर्त । पिपराणि पिपराव पिपराम । लङ्याह — अपिपरिति । अपि पृ त् इति स्थिते गुणे रपरत्वे हल्ङ्यादिना तकारलोपे रेफस्य विसर्गः । अपिपरुरिति । अभ्यस्तत्वात् जुस् । कृतेजुसि चे॑ति गुणे रपरत्वम् । अपिपः अपिपूर्तमपिपूर्त । अपिपरमपिपूर्व अपिपूर्म । केचिदिति । अन्ये आचार्या इत्यर्थः । ह्रस्वान्तत्वपक्षेउदोष्ठए॑त्युत्त्वं नेति मत्वा आह -पिपृत इति । ह्रस्वान्तस्य अनिट्त्वाल्लुडादौ पर्तेत्यादि । पिपृहि । अपार्षीदिति । ह्रस्वान्तस्य अनिट्त्वान्न सिज्लोप इति भावः । नन्वाचार्यान्तरसंमतं ह्रस्वान्तत्वं कुतोऽस्माभिरादर्तव्यमित्यत आह — पाणिनीयेति । पाणिनिसंमतदीर्घान्तत्वस्यैवाश्रयणेतं रोदसी पिपृत॑मित्यादौउदोष्ठ॑त्युत्त्वापत्त्या॑ऋकारस्य ह्रस्वस्य श्रवणाऽनापत्त्या तद्विषये छान्दसत्वमेव शरणमनुसरणीयं स्यादत्यर्थः । डुभृञिति । अनिडयम् । ञित्त्वादुभयपदी । श्लौ सति द्वित्वनादौ बिभर्तीत्यादि स्थितम् । Tattvabodhini ------------- **शृदॄप्रां ह्रस्वो वा** - शृदृप्रां । शृ हिंसायाम् । दृ विदारणे । इमौ क्र्यादी । पक्षे गुण इति ।ऋच्छत्यृता॑मित्यनेन । पप्रतुरिति । ह्रस्वपक्षे यण् । ननु ह्रस्वग्रहणमिह मास्तु, गुणानुवृत्त्या तस्यैव विकल्पोऽस्तु । तथा च यणादेसेन पप्रतुः शश्रतुरित्यादि सिध्यत्येव । गुणपक्षेतु पपरतुः शशरतुरित्याद्यपि सिध्यतीति चेत्, मैवम् । गुणाऽभावपक्षेऋत इद्धातो॑ रितीत्त्वप्रसङ्गात् । न चान्तरङ्गत्वाद्यणेव स्यादिति वाच्यं, वार्णादाङ्गसय् बलीयस्त्वात् । डुभृढ् ।ड्वितः क्रिः॑ । भृत्रिमम् । Padamanjari ----------- 'शृ हिंसायाम्' ,'दृ विदारणे' ,'पृ पालनपूरणयोः' । विशशरतुरित्यादि ।'न शशददवादिगुणानाम्' इत्येत्वाभ्यासलोपयोः प्रतिषेधः । अथ किमर्थं ह्रस्वो विकल्प्यते, न प्रकृत एव गुणो विकल्प्येत, गुणाभावपक्षे यणादेशेन विशश्रतुरित्यादिरूपसिद्धिः ? इत्यत आह - ह्रस्ववचनमित्वनिवृत्यर्थमिति । अन्यथा'वार्णादाङ्ग बलीयः' इति वर्णाश्रयमन्तरङ्गमपि यणं बाधित्वा इत्वं स्यात् । केचिदित्यादि । कथं पुनरस्य प्रत्याख्याने विशश्रतुरित्यादिरूपसिद्धिः ? इत्यत आह - श्रा पाक इत्यादि । ननु चार्थभेदः ? न इत्याह - अनेकार्था इति । तथा सतीत्यादिना प्रत्याख्यानं प्रत्याचष्टे । तत्र शृणातेः क्वसौ - विश'सर्वानिति, श्रातेस्तु - विशश्रिवानिति । तस्माद् ह्रस्व एव विकल्पनीय इत्यर्थः ॥ Nyaas ----- `शृ? हिंसायाम्` (धातुपाठः-1488) `दृ? विदारणे` (धातुपाठः-1490) `पृ? पालनपूरणयोः` (धातुपाठः-1489) - एषां पूर्वसूत्रेण नित्यो गुणो भवत्येव। `विशश्रतुः` इति। ह्रस्वत्वे कृते यणादेशः। `ह्रस्ववचनम्` इत्यादि। असति ह्रस्वग्रहणे वाश्चनेन विकल्पिते यस्मिन्? पक्षे गुणो नास्ति तस्मिन्? पक्षे `ऋत इद्धातोः` (7.1.100) इतीत्त्वं प्रसज्येत, `उदीष्ठपूर्वस्य` (7.1.102) इत्युत्त्वञ्च। तस्मात्? तन्निवृत्त्यर्थ ह्रस्व इत्युच्यते? ऋदिति कर्तव्ये ह्रस्वग्रहणमुत्तरार्थम्। केचित्? इत्यादि। कथं पुनरस्य प्रत्याच्यमाने विशश्रतुः - इत्येवमादीनि रूपाणि सिध्यन्ति? इत्याह - `श्रा पाके` इत्यादि। यद्यपि **आतो लोप इटि च** (6.4.64) इत्यकरलोपे कृते श्रादीनां विशश्रतुरित्येवमादीनि रूपाणि सिध्यन्तीति, तथाप्यर्थमेवो भवति; तदाऽयुत्त्तमस्य प्रत्याख्यानमित्याशङ्क्यानेकार्थत्वाद्धातूनामित्युक्तम्। `तथा च सति` इत्यादिना प्रत्यादिना प्रत्याख्यानं प्रत्याचष्टे। यदि सूत्रस्य प्रत्याख्यानं क्रियते, क्वासौ कृते विशशृषानिति रूपं न सिध्यति, तथा हि - यदि शृणातेह्र्यस्वो न क्रियते, तदा विशशर्वानिति रूपं स्यात्। अथ श्रातेः, विशश्रिवानिति। तस्मादयुकतमस्य प्रत्याख्यानम्॥ Prakriyasarvasvam ----------------- एषां लिटि वा ह्रस्वः स्यात् । पिति न भेदः । अतुसादाव् दन्तत्वाभावाद् 'ऋच्छृत्यू ताम्' इति गुणाभावाद् यण् । पप्रतुः । पप्रुः । तासौ सेट्त्वाद् ह्रस्वपक्षेऽपि थलीडेव । पपरिथ । पप्रथुः । पप्र । पप्रिव । पप्रिम । आशिषि। पूर्यात् । कर्मणि 'लिङ्सिचोरात्मनेपदेषु' इति वेट् । अनिटि 'उश्च' इति कित्त्वादुत्वम् । पूर्षीष्ट । पूर्षीयास्ताम् । पूर्षीष्ठाः । पूर्षीढ्वम् । इटि तु,— Sutra Prayogas -------------- * **विहित्रिमे** (भट्टिकाव्यम्): `द्वितीयस्य दधातेर्हिः` इति हिरादेशः। * **पुरोहिताऽमात्य-मुखाश्च** (भट्टिकाव्यम्): `दधातेर्हिः` इति हि-आदेशः।