74011: ऋच्छत्यॄताम् =================== **Padacheda:** ऋच्छत्यॄताम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- There is गुण in the लिट् (Perfect Tense) of 1. ऋच्छ् 2. ॠ and roots ending in long ॠ। Vasu English Translation ------------------------ There is गुण in the लिट् (Perfect Tense) of 1. ऋच्छ् 2. ॠ and roots ending in long ॠ। As आनर्च्छ, आनर्च्छतुः, आनर्च्छुः from ऋच्छ्, आर, आरतुः, आरुः from ऋ, and नि चकरतुः, नि चकरुः, नि जगरतुः, नि जगरुः from कॄ and गॄ ॥ ऋच्छ् not having a light vowel in the penultimate, would not have received *guna* by (7.3.86), this *sutra* ordains it; roots in long ॠ never received *guna*, but इर् substitution; this ordains *guna*. The *Vriddhi* of (7.2.115) supersedes this rule, within its own jurisdiction, a prior superseding the posterior: as निचकार, नि जगार ॥ Kashika ------- ऋच्छतेरङ्गस्य, ऋ इत्येतस्य, ॠकारान्तानां च लिटि परतो गुणो भवति। ऋच्छ आनर्च्छ, आनर्च्छतुः, आनर्च्छुः। ऋ आरतुः, आरुः। ॠकारान्तानाम् निचकरतुः, निचकरुः। निजगरतुः, निजगरुः। ऋच्छेरलघूपधत्वादप्राप्तो गुणो विधीयते, ॠतां तु प्रतिषिद्धः। वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिरेव इष्यते। निचकार। निजगार। Siddhanta Kaumudi ----------------- तौदादिकऋच्छेर्ऋधातोर्ॠतां च गुणः स्याल्लिटि । णलि प्राग्वदुपधावृद्धिः । आर । आरतुः । आरुः ॥ Laghu Siddhanta Kaumudi ----------------------- तौदादिक ऋच्छेर्ऋधातोर्ॠतां च गुणो लिटि। पपरतुः। पपरुः॥ Balamanorama ------------ **ऋच्छत्यॄताम्** - ननु ऋ अतुस् इति स्थिते द्वित्वे उदरत्त्वे रपरत्वे हलादिशेषेअत आदे॑रिति दीर्घे आ ऋ अतुस् इति स्थितेअसंयोगा॑दिति कित्त्वादुत्तरखण्डस्य गुणाऽभावे यणं बाधित्वा परत्वाद्गुणे अरतुरिति स्यादित्यतस्तत्र गुणविधानमाह — ऋच्छत्यृताम् ।दयतेर्दिगि लिटी॑त्यतो लिटीति,॒ ऋतश्च संयोगादेर्गुण॑ इत्यतो गुण इति चानुवर्तते । ऋच्छति ऋ ऋत् एषां द्वन्द्वाद्बहुवचनम् । बहुवचनादेव ऋकारप्रश्लेषो गम्यते । प्रश्लिष्टेन च ऋकारेण ऋधातुरेव गृह्रते, ऋवर्णान्तधातुग्रहणेऋतश्च संयोगादेर्गुणः॑ इत्यस्य वैयथ्र्यात् ।ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु॑ इति तौदादिकस्यऋच्छती॑त श्तिपा निर्देशः । भौवादिकस्य धातोस्तु ऋग्रहणेनैव सिद्धेः । तदाह — तौदादिकस्येत्यादिना । किदर्थमपीदं सूत्रं परतवादकित्यपि भवति । णलि प्राग्वदिति । 'ह्व कौटिल्ये' इत्यत्र उक्त्या रीत्या कित्सु चरितार्थोऽप्ययं गुणःअचो ञ्णिती॑ति वृद्ध्यपेक्षया परत्वाण्णल्यपि भवति, ततो रपरत्वे उपधावृद्धिरित्यर्थः । आरेति । ऋधातोर्लिटि तिपो णलि द्वित्वे उरदत्त्वे हलादिशेषेअत आदे॑रिति दीर्घे उत्तरखण्डस्य वृद्धौ रपरत्वे सवर्णदीर्घ इति भावः । आरतुरिति । पूर्ववद्द्वित्वादौ आ ऋ अतुसिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्तेऋच्छत्यृता॑मिति गुणे रपरत्वे सवर्णदीर्घ इति भावः । आरुरित्यप्येवम् । Tattvabodhini ------------- **ऋच्छत्यॄताम्** - प्राग्वदिति । किदर्थमारब्धोऽपि गुणः परत्वाण्णल्यपि भवति । रपरत्वम् । तत उपधावृद्धिरित्यर्थः । Padamanjari ----------- ठृच्छ गत्यादिषुऽ । अर्तेरप्यत्र प्रश्लेषः, यदाह - ऋ इत्येतस्येति । एतच्च बहुवचननिद्देशादवसीयते । ऋवर्णस्य ग्रहणं तु न भवति; ऋकारान्तानां पऋतग्ग्रहणात् । किमर्थ पुनरतिः प्रश्लिष्यते ? आरतुः, आरुरिति यथा स्यात् । अन्यथा ऋ अतुस्, ऋ उस् इति स्थिते द्विर्वचनम्, उरदत्वं च बाधित्वा वार्णत्वात्सवर्णदीर्घत्वम्; तत्र यद्यभ्यासग्रहणेन ग्रहणम्, उरदत्वं हलादिशेषः, ठत आदेःऽ इति दीर्घत्वम्, ठातो लोप इटि चऽ, - अतुरुरिति वचनमेव श्रूयेत । अथ धातुग्रहणेन ग्रहणम् ? तत ऋकारान्तत्वाद् गुणे कृते अरतुः, अरुरिति रूपं स्यात् । तथा क्वसौ गुणे कृते अरित्यस्य द्विर्वचनम्, हलादिशेषः, ठत आदेःऽ, सवर्णदीर्घत्वम्,'वस्वेकाजाद्घसाम्' इतीट् - आरिवानिति भवति । ऋच्छतेरलघूपधत्वाद् गुण इति । अन्तरङ्गत्वात्'छे च' इति तुकि कृते'संयोगे गुरु' इति ऋकारो गुरुर्भवति, न च लघुः, नाप्युपधा । आञ्तां त्विति । सूत्रवदत्राप्यर्तिप्रश्लेषः । वृद्धिविषये त्विति । अस्तु वा परत्वाद् गुणः, ठत उपधायाःऽ इति सिद्धमिति परिहारान्तरम् ॥ Nyaas ----- `ऋच्छ गतीन्द्रियप्रलयमूर्त्तिभावेषु` (धातुपाठः-1296)। अर्तेरप्यत्र प्रश्लेषः; बहुवचननिर्देशात्। अत एवाह - `ऋच्छतेरङ्गस्य, ऋ इत्येतस्य, ऋकारान्तानां च` इति। ऋकारान्ताः - `कॄ विक्षेपे` (धातुपाठः-1409), `गॄ? निगरणे` (धातुपाठः-1410) इत्येमादयः। `आनर्च्छतुः, आनर्च्छुः` इत्यादि। अतुसुसौ, गुणः, द्विर्वचनम्, अभ्यासकार्यं पूर्ववत्, **अत आदेः** (7.4.70) इति दीर्घः, `तस्मान्नुड्? द्विहलः` (7.4.71) इति नुट्। `आरतुः` आरुः` इति। पूर्ववदभ्यासस्य दीर्घः, ततः पूर्वसवर्णेनेति। `ऋच्छतेरलघूपधत्वात्` इत्यादि। अलघूपघत्वं तु तस्यान्तरङ्गत्वात्। `छे च` (6.1.71) इति तुकि कृते **संयोगे गुरु** (1.4.11) इति गुरुसंज्ञायां सत्यां गुरूपधत्वान्न प्राप्नोतीति वेदितव्यम्। `ऋतां तु` इत्यादि। ऋ ऋतां तु प्रतिषिद्ध एवेति गुणो विधीयत इत्यपेक्ष्यते। गुणप्रतिषेधस्तु तेषां `असंयोगास्लिट्? कित्` (1.2.5) इति कित्त्वे सति **क्ङिति च** (1.1.5) इत्यनेन वेदितव्यः। `वृद्धिविषये तु` इत्यादि। यथा `ऋतश्च संयोगावेः` (7.4.10) इति वृद्धिविषये पूर्वविप्रतिषेधेन वृद्धिरेवेध्यते, तथा ऋऋतामपीति। गुणस्यावकाशः - निचकरतुः, निचकरुरिति; वृद्धेरवकाशः - कारकः, हारक इति; निचकार, निजगारेत्यत्र वृद्धिविषये पूर्वविप्रतिषेधेन वृद्धिरेवेध्यते॥ Prakriyasarvasvam ----------------- तौदादिकस्य ऋच्छेः ऋधातोः ऋदन्तानां च लिटि गुणः स्यात् । पर् अ । पुनरुपधाया वृद्धिरिति हरः । 'पार् अ । स्थानिवत्त्वाद् द्वित्वम् । 'उरत्' । हलादिशेषः । पपार । गुणत्वात् 'न शसदद—' (६-४-१२६) इत्येत्वनिषेधः । पपरतुः । पप्रुः । पपरिथ । पपरथुः । पपर । पपार, पपर । पपरिव । ऋच्छत्यूर्त्योः । आनच्छंर्तुः । आरतुः । Sutra Prayogas -------------- * **प्रतिचस्किरे** (शिशुपालवधम्): `ऋच्छत्यृृताम्` इति गुणः। * **विचकरे** (शिशुपालवधम्): `ऋच्छत्यृताम्` इति गुणः। * **निजगरुः** (भट्टिकाव्यम्): `ऋच्छत्यृताम्` इति गुणः। * **विचकरुस्तथा** (भट्टिकाव्यम्): `ऋच्छत्यृताम्` इति गुणः।