73112: आण्नद्याः ================ **Padacheda:** आट् | S | 1 | 1 | नद्याः | S | 5 | 1 | Sutrartha --------- **नदीसंज्ञकात् अङ्गात् परस्य ङित्-प्रत्ययस्य आट्-आगमः भवति ।** नदीसंज्ञकात् शब्दात् परस्य ङे / ङसिँ / ङस् / ङि एतेषां प्रत्ययानाम् 'आट्' आगमः भवति । यथा - नदी + ङे [चतुर्थी-एकवचनस्य प्रत्ययः] → नदी + आट् + ए [ **आण्नद्याः** (7.3.112) इति आट्-आगमः] → नदी + आ + ए [**हलन्त्यम्** (1.3.3) इति टकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः ] → नदी + ऐ [**आटश्च** (6.1.90) इति आकार-एकारयोः वृद्धि-एकादेशः ऐकारः] → नद्यै [**इको यणचि** (6.1.77) इति यणादेशः] अनेनैव प्रकारैण मत्यै, वध्वै , धेन्वे, मत्याः, नद्याः, वध्वाः, धेन्वाः, मत्याम्, नद्याम्, वध्वाम्, धेन्वाम् - आदिषु सर्वत्र अस्य सूत्रस्य प्रयोगः भवति । ज्ञातव्यम् - 1) नदीसंज्ञा - **यू स्त्र्याख्यौ नदी** (1.4.3) इत्यनेन दीर्घ-ईकारान्त-ऊकारान्तशब्दानां नदीसंज्ञा भवति - यथा नदी, घटी, वधू, चञ्चू आदयः] । **ङिति ह्रस्वश्च** (1.4.6) इत्यनेन ह्रस्व-इकारान्त-उकारान्तशब्दानाम् ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति - यथा मति, बुद्धि, धेनु, आदयः । 2) अस्मिन् सूत्रे स्थानीनिर्देशकम् षष्ठ्यन्तम् पदम् नास्ति । अस्यामवस्थायाम् अनया परिभाषया पञ्चमी-विभक्त्यन्तशब्दस्य अर्थे परिवर्तनं न भवति, अपितु सप्तमी-विभक्तन्तशब्दस्य अर्थे परिवर्तनं भूत्वा षष्ठीविभक्तिवत् तस्य अर्थः सिद्ध्यति । अतः अस्मिन् सूत्रे 'ङिति' इति सप्तम्यन्तपदस्य अर्थः 'ङित्-प्रत्यये परे' इति न स्वीकृत्य 'ङित्-प्रत्ययस्य' इति स्वीकरणीयः । 3) यद्यपि केषुचन स्थलेषु तृतीया-एकवचनस्य प्रत्ययः 'आङ्' इति निर्दिष्टः अस्ति, तथापि अयं प्रत्ययः 'ङित्' नास्ति । तृतीयैकवचनस्य प्रत्ययः 'टा' इत्येव अस्ति, आङ्-इति तस्य केवलं अन्यत् नाम । 4) उपरि-निर्दिष्टायां प्रक्रियायाम् 'नदी + आ + ए' इत्यत्र प्रथमम् 'आ + ए' अयं कार्यम् करणीयम्, न तु 'नदी + आ' अयम् । **यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते** अनया परिभाषया आट्-आगमः प्रत्ययस्य गुणिभूतः अस्ति, अतः प्रत्ययेन सह एव सः ग्रहीतव्यः । अतः आट्-इत्यस्य सन्धिः ए-इत्यनेन सह एव करणीया । 5) **आद्यन्तौ टकितौ** (1.1.46) इत्यनेन टित्-आगमः स्थानिनः आद्यवयवरूपेण आगच्छति । अतः याट्-आगमः प्रत्ययात् पूर्वमागच्छति । Sutrartha (English) ------------------- A ङित्-प्रत्यय that comes after a नदीसंज्ञक अङ्ग get an आट् आगम. Vasu English Summary -------------------- The augment आट् is added to the case-endings of the Dative -4th Case, Ablative -5th case and Genitive 6th-Case singular after the stem called नदी -- यू स्त्र्याख्यौ नदी (1.4.3) etc. Vasu English Translation ------------------------ The augment आट् is added to the case-endings of the Dative -4th Case, Ablative -5th case and Genitive 6th-Case singular after the stem called नदी -- यू स्त्र्याख्यौ नदी (1.4.3) etc. As कुमार्यै, किशोर्यै, ब्रह्मबन्ध्वै, धीरबन्ध्वै, कुमार्याः, किशोर्याः, ब्रह्मबन्ध्वाः, धीरबन्ध्वाः ॥ Kashika ------- नद्यन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्याडागमो भवति। कुमार्यै। ब्रह्मबन्ध्वै। कुमार्याः। ब्रह्मबन्ध्वाः॥ Siddhanta Kaumudi ----------------- नद्यन्तात्परेषां ङितामाडागमः स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- नद्यन्तात्परेषां ङितामाडागमः॥ Balamanorama ------------ **आण्नद्याः** - आण्नद्याः ।अङ्गस्ये॑-त्यधिकृतं पञ्चम्या विपरिणम्यते ।नद्या॑इति पञ्चम्यन्तेन विशेष्यते, तदन्तविधिः ।घेर्ङिती॑त्यतोङिती॑त्यनुवृत्तं षष्ठ्या विपरिणम्यते, तदाह-नद्यन्तादित्यादिना । Tattvabodhini ------------- **आण्नद्याः** - आण्नद्यः ।आण्नद्याः॑इत्येव सुवचम्, विधानसमाथ्र्यात्अतो गुणे॑ इत्यस्याऽप्रवृत्तौ यथायथं वृद्धिसवर्णदीर्घाभ्यांबहुश्रेयस्यै॑बहुश्रेयस्या॑इत्यादिरूपसिद्धेः । ननुपरत्वादाटा नुङ् बाध्यते॑इत्युत्तरग्रन्थपर्यालोचनया ङेरामि कृते तस्य नुडागमनिवारणार्थमड्विधेरावश्यकत्वात्सामर्थ्यमुपक्षीमिति चेत्, एवं तर्हिह्रस्वनद्यापः॑इत्यन्तरंङेर्ने॑त्येव सूत्र्यतामामीत्यनुवृत्त्याङेरामो नुण्ने॑त्यर्थलाभात् । तस्मात्अण्नाद्याः॑इति विधानसामर्थ्यात्अतो गुणे॑इति न प्रवर्तते इति दिक् । Padamanjari ----------- 'नद्याः' इति पञ्चम्यकृतार्था ङ्तीइति सप्तम्याः षष्ठआआ प्रकल्पयति, तेन ङ्ति एवायमागमो विज्ञायत इत्याह - नद्यन्तादङ्गादुतरस्येति । कुमार्या इति । ठाटश्चऽ इति वृद्धिः । अथ दीर्घोच्चारणं किमर्थम्, अडेवोच्येत,'वृद्धिरेचि' इति वृद्ध्या सवर्णदीर्घत्वेन च कुमार्यै, कुमार्या इति सिद्धम् ? न सिद्ध्यति; ठतो गुणेऽ पररूपत्वं प्राप्नोति । अड्वचनसामर्थ्यान्न भविष्यति ? अस्त्यड्वचने प्रयोजनम्, किम् ? श्रियै, श्रिया इत्यत्र'सावेकाचः' इत्याद्यौदातत्वं मा भूत्, आगमानुदातत्वं यथा स्यादिति । आगमानुदातत्वं हि प्रत्ययस्वरमिव विभक्तिस्वरमपि बाधते, विशेषतोऽत्राड्वचनसार्थ्यात् ॥ Nyaas ----- `नद्याः` इति पञ्चमी, सा चाकृतार्था पूर्वत्र कृतार्थाया ङितीत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति। तेन ङित एवायमाडागमो विज्ञायते, इत्याह - `नद्यन्तादङ्गादुत्तरस्य` इत्यादि। `कुमार्यै` इत्येवमादौ `आटश्च` (6.1.87) इति वृद्धिः। अथ दीर्घोच्चारणं किमर्थम्, न अडेवोच्येत, **वृद्धिरेचि** (6.1.88) इति वृद्ध्या सवर्णदीर्घत्वेन सिद्ध्यत्येव; कुमार्यै, कुमार्या इत्यत्र **अतो गुणे** (6.1.97) पररूपत्वं प्राप्नोतीत्येतच्च नाशङ्कनीयम्, पररूपत्वं ह्यत्र वचनसामर्थ्यान्न भविष्यति? नैष दोषः; अस्ति ह्रन्यदवचनस्य प्रयोजनम्। किं तत्? श्रियै, श्रिया इत्यत्र **सावेकाचस्तृतीयादिर्विभक्तिः** (6.1.168) इत्युदात्तत्वं मा भूत्। आगमा आद्युदात्ता भवन्तीत्यनुदात्तत्वं यथा स्यादिति। शक्यते ह्रेकादेशोन्तादिवद्भावादागमग्रहणेन ग्रहीतुम्। आगमानुदात्तत्वञ्च यथा प्रत्ययस्वरम् - लविता, लवितुमित्यादौ बाधते, तथा विभक्तस्वरमपि बाधेत। तस्मात्? `आटश्च` (6.1.87) इति वृद्ध्यर्थमेतत्॥ Prakriyasarvasvam ----------------- नद्याः परेषां ङितामाट् स्यात् । मति आ ए । Sarala ------ **आत्** - प्रथमान्तं, **नद्याः** - पञ्चम्यन्तम् । **घेर्ङिति** (७.३.१११) इत्यतो "ङिती"ति वर्त्तते, तच्च षष्ठ्या विपरिणम्यते, **अङ्गस्य** (६.४.१) इत्यधिकृतं, तच्च पञ्चम्या विपरिणम्यते, विशेषणेन च तदन्तविधिः, तदाह - **नद्यन्तादिति** ॥ Sudha ----- **आण्नद्या इति ।** **अङ्गस्य**(6.4.1) इत्यधिकृतं पञ्चम्या विपरिणम्यते । "नद्याः" इति पञ्चम्यन्तेन विशेपष्यते । तदन्तविधिः । **घेर्ङिति**(7.3.111) इत्यतो ङितीत्यनुवृत्तं षष्ठ्या विपरिणम्यते, तदाह – **नद्यन्तादित्यादिना ।** Sutra Prayogas -------------- * **अनन्यगुर्वाः** (शिशुपालवधम्): `आण्नद्याः` इत्याडागमः।