73104: ओसि च ============ **Padacheda:** ओसि | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **अदन्तस्य अङ्गस्य ओस्-प्रत्यये परे एकारादेशः भवति ।** ओस्-इति षष्ठी-सप्तमीद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे अकारान्तस्य अङ्गस्य अन्तिमवर्णस्य एकारादेशः भवति । यथा - राम + ओस् → रामे + ओस् → [**एचोऽयवायावः** (6.1.78) इति अयादेशः । विसर्गनिर्माणम् ।] → रामयोः Sutrartha (English) ------------------- An अदन्त अङ्ग gets a एकारादेश in presence of the ओस्-प्रत्यय. Vasu English Summary -------------------- Before the case-ending ओस् , ए is substituted for the final अ of Nominal-stem. Vasu English Translation ------------------------ Before the case-ending ओस् , ए is substituted for the final अ of Nominal-stem. As वृक्षयोः (Genitive dual) स्व, प्लक्षयोः स्वम्, वृक्षयोः (Locative dual) as वृक्षयोर्निधेहि, प्लक्षयोर्निधेहि ॥ Kashika ------- ओसि परतोऽकारान्तस्याङ्गस्य एकारादेशो भवति। वृक्षयोः स्वम्। प्लक्षयोः स्वम्। वृक्षयोर्निधेहि। प्लक्षयोर्निधेहि॥ Siddhanta Kaumudi ----------------- ओसि परेऽतोऽङ्गस्यैकारः स्यात् । रामयोः ॥ Laghu Siddhanta Kaumudi ----------------------- अतोऽङ्गस्यैकारः। रामयोः॥ Prakriyasarvasvam ----------------- आसि परे अत एत् स्यात् । अय् । कृष्णयोः । कृष्ण आम् ॥ Sarala ------ (ओसि परेऽतोऽङ्गस्यैकारः स्यात्) । **ओसि** - सप्तम्यन्तं, **च** - अव्ययपदम् ॥ Sudha ----- **ओसि चेति ।** **अतो दीर्घो यञि**(7.3.101) इत्यतोऽत इत्यनुवर्तते । **अङ्गस्य**(6.4.1) इत्यधिकृतम् । **बहुवचने झल्येत्**(7.3.103) इत्यत एदित्यनुवर्त्यते । **रामयोरिति ।** रामशब्दात् पष्ष्ठीद्विवचनविवक्षायाम् ओसि "राम ओस्" अत्र **ओसि च**(7.3.104) इत्यनेन अदन्ताङ्गस्यैकारे प्राप्ते **अलोऽन्त्यस्य**(1.1.52) इत्यनेनाकारस्य जाते "रामे ओस्" अत्र **एचोऽयवायावः**(6.1.78) इत्यनेन अयादेशे सस्य रुत्वे विसर्गे च "रामयोः" इति ।