73100: अदः सर्वेषाम् ==================== **Padacheda:** अदः | S | 5 | 1 | सर्वेषाम् | S | 6 | 3 | Sutrartha --------- **अद्-धातोः अङ्गात् परस्य सार्वधातुक-अपृक्त-प्रत्ययस्य सर्वेषामाचार्याणाम् मतेन अट्-आगमः भवति ।** अदँ भक्षणे इति अदादिगणस्य प्रथमः धातुः । अस्मात् परस्य सार्वधातुक-अपृक्त-प्रत्ययस्य नित्यं अट्-आगमः भवति । यथा - अद्-धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य 'आदत्' इत्यस्य रूपसिद्धिः इयम् - अद् + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ्] → आट् + अद् + ल् [**आडजादीनाम्** (6.4.72) इति लङ्लकारे परे अजादि-अङ्गस्य आडागमः] → आ + अद् + तिप् [**तिप्तस्झि...** (3.4.78) इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः] → आ + अद् + शप् + ति [**कर्तरि शप्** (3.1.68) इति औत्सर्गिकम् विकरणम् शप्] → आ + अद् + ति [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शप्-प्रत्ययस्य लुक् ।] → आद् + ति [ **आटश्च** (6.1.90) इति वृद्धि-एकादेशः] → आद् + त् [**इतश्च** (3.4.100) इति इकारलोपः] → आद् + अट् + त् [**अदः सर्वेषाम्** (7.3.100) इत्यनेन अपृक्त-त्-प्रत्ययस्य अट्-आगमः ।] → आदत् [**हलन्त्यम्** (1.3.3) इति टकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति तस्य लोपः। वर्णमेलनम् ।] एवमेव अद्-धातोः लङ्लकारस्य मध्यमपुरूषस्य 'आदः' अस्य रूपसिद्धौ अपि अस्य सूत्रस्य प्रयोगः क्रियते । ज्ञातव्यम् - पूर्वस्मिन् सूत्रे अडागमः केवलं गार्ग्य-गालवयोः मतेन उक्तः अस्ति । अत्र सः नित्यं भवति (विकल्पेन न) इति स्पष्टीकर्तुम् 'सर्वेषाम्' इति अस्मिन् सूत्रे उक्तमस्ति । Sutrartha (English) ------------------- A सार्वधातुक-अपृक्त-प्रत्यय that follows the verb अद् gets an अट् आगम. Vasu English Summary -------------------- After अद् 'to eat' , comes the augment अट् before a सार्वधातुक affix consisting of a single consonant, according to the opinion of all grammarians. Vasu English Translation ------------------------ After अद् 'to eat' , comes the augment अट् before a सार्वधातुक affix consisting of a single consonant, according to the opinion of all grammarians. As आदत् and आदः ॥ Before a non-*aprikta* we have अत्ति, अत्सि ॥ The word सर्वेषाम् makes it a necessary rule and not optional, like the last. Kashika ------- **अद भक्षणे** अस्मादुत्तरस्यापृक्तस्य सार्वधातुकस्याडागमो भवति सर्वेषामाचार्याणां मतेन। आदत्। आदः। अपृक्तस्येत्येव — अत्ति । अत्सि॥ Siddhanta Kaumudi ----------------- अदः परस्यापृक्तसार्वधातुकस्य अडागमः स्यात्सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । आद्म । अद्यात् । अद्याताम् । अद्युः । अद्यास्ताम् । अद्यासुः ॥ Laghu Siddhanta Kaumudi ----------------------- अदः परस्यापृक्तसार्वधातुकस्य अट् स्यात्सर्वमतेन। आदत्। आत्ताम्। आदन्। आदः। आत्तम्। आत्त। आदम्। आद्व। आद्म। अद्यात्। अद्याताम्। अद्युः। अद्यात्। अद्यास्ताम्। अद्यासुः॥ Balamanorama ------------ **अदः सर्वेषाम्** - अदः सर्वेषाम् । 'अद' इति पञ्चमी ।तस्मादित्युत्तरस्ये॑ति परिभाषया परस्येति लभ्यते । 'गुणोऽपृक्ते' इत्यतः 'अपृक्ते' इति, 'तुरुस्तुशम्यमः' इत्यतः 'सार्वधातुके' इति चानुवर्तते । सप्तमीद्वयं च षष्ठ्या विपरिणम्यते ।अह् गाग्र्यगालवयो॑रित्तोऽडित्यनुवर्तते ।गाग्र्यगालवयो॑रित्स्यानुवृत्तिनिवृत्तयेसर्वेषा॑मिति । तदाह — अदः परस्येत्यादिना । टित्त्वादाद्यवयः । तदाह — आददिति । आत्तामिति । अपृक्तग्रहणान्नाऽडागम इति भावः । विधिलिङि रूपमाह — अद्यादिति । शपो लुकि अतः परत्वाऽभावात् 'अतो येयः' इति नेति भावः ।मिपः अमि यासुटि सलोपे सवर्णदीर्घे -अद्याम् । अद्याव अद्याम । आशीर्लिङि अद्यादिति सिद्धवत्कृत्याह — अद्यास्तामिति । लुङि अद् स् त् इति स्थिते — Tattvabodhini ------------- **अदः सर्वेषाम्** - अदः सर्वेषाम् ।अङ्गाग्र्यगालवयोः॑ इत्यतोऽडित्यनुवर्तते । गाग्र्यगालवयोरित्यस्य् त्वनुवृत्ति शङ्कां निवारयितुं सर्वेषांग्रहणम् । Padamanjari ----------- सर्वेषांग्रहणं नित्यार्थम्, अन्यथा गार्ग्यगालवग्रहणमिह विकल्पार्थ सम्भाव्येत ॥ Nyaas ----- सर्वेषांग्रहणं पूजार्थम्, न तु नित्यार्थम्; गाग्र्यगालवग्रहस्याविकल्पार्थत्वात्॥ Prakriyasarvasvam ----------------- अदेः परस्य हलोऽपृक्तसार्वधातुकस्य सर्वेषां मतेऽप्यडागमः स्यात् । आदत् । अत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । Sutra Prayogas -------------- * **भक्ष्यांश्चाऽऽदन्यथेप्सितान्** (भट्टिकाव्यम्): `अदः सर्वेषाम्` इत्यडागमः।