73087: नाभ्यस्तस्याचि पिति सार्वधातुके ====================================== **Padacheda:** न | S | 0 | 0 | अभ्यस्तस्य | S | 6 | 1 | अचि | S | 7 | 1 | पिति | S | 7 | 1 | सार्वधातुके | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The गुण is not substituted for the penultimate light इक् vowel in the reduplicated form of a root, before a सार्वधातुक affix beginning with a vowel and having an indicatory प्। Vasu English Translation ------------------------ The गुण is not substituted for the penultimate light इक् vowel in the reduplicated form of a root, before a सार्वधातुक affix beginning with a vowel and having an indicatory प्। As नेनिजानि, अनेनिजम्; परिवेविषाणि, पर्यवेविषम् ॥ Why of a reduplicated root? Observe वेदानि ॥ Why beginning with a vowel ? Observe नेनेक्ति ॥ The word पित् is read here for the sake of the subsequent *sutras* like (7.3.92). For here in cases other than पित्, *guna* will be prevented by ङित् because of सार्वधातुकमपित् ॥ Why a *sarvadhatuka* affix? Observe नेनेज in the Perfect, the affixes of which are *ardhadhatuka* (3.4.115). Why do we say a penultimate light vowel? Observe जुहुवानि, अजुहवम् ॥ Vart:- There is diversity in the *Vedas*. As जुजोषत् the लेट् of जुस् ॥ The forms पश्पशात, चाकशीति, वावशीति, वावसीतीः are irregular. स्पश् + लेट् = स्पश् + आट् + ते = स्पश् + शप्श्लु+ आते = पस्पशाते ॥ The above forms are thus evolved. 1. ने निजानि is लोट् (Imperative Ist Person Singular), the मि is changed to नि, the augment आट् is added which is पित् (आडुत्तमस्य पिच्च (3.4.92)), श्लु is substituted for शप्, then there is reduplication, then *guna* by (7.4.75). 2. अनानजम् is लङ्, the मिप् is changed to अम् ॥ 3. ददानि is Ist Person Singular Imperative of विद् ॥ 4. ननाक्त is 3rd person singular of the Present. 5. निनज is the Perfect with णल् which is *ardhadhtuka* (3.4.115). 6. जुजोषत् is the लट् of जुषी प्रीतिसेवनयोः (*Tudadi* 8), in the *Parasmaipada*, the इ of तिप् is elided (3.4.97), then is added the augment अट् (3.4.94) then शप् is irregularly replaced by श्लु, then reduplication. In the words पस्पशाते &c. the reduplicate has been shortened, as a Vedic form, in the Intensive यङ् लुक्॥ चाकशीत is from काशृदीप्तौ there is (यङ् लुक्, लट्, तिप्, and इट् augment by यङा वा (7.3.94). वावशीतीः is from वाशृदीप्तौ, in the Intensive (यङलुक्), लट्, शत्, ङीप् and शस् i. e. it is the Accusative plural of the Feminine Present Participle from the Intensive root of वाश् ॥ The reading in the *Kasika* is वावशीति ॥ In these two काश् and वाश् the roots have been shortened. Or the above forms may be derived regularly, without shortening, from the roots कश् and वश् ॥ Bhashya ------- नाभ्यस्तस्याचि पिति सार्वधातुके अभ्यस्तानामुपदाह्रस्वत्वमचि पस्पशाते चाकशीमि वावशतीरिति दर्शनात् अभ्यस्तानामुपधा(या) ह्रस्वत्वमचि वक्तव्यम् ॥ किं प्रयोजनम् ? ॥ पस्पशाते चाकशीमि वावशतीरिति दर्शनात्(1) । पस्पशाते चाकशीमि वावशतीरिति प्रयोगो दृश्यते । कपोतः शरदं पस्पशाते । अहं भुवनं चाकशीमि । वावशतीरुदाजदिति बहुलं छन्दस्यानुषग्जुजोषदिति दर्शनात् बहुलं छन्दसीति वक्तव्यमुपधाह्रस्वत्वलम् ॥ किं प्रयोजनम् ? ॥ आनुषग्जुजोषदिति दर्शनात् । यस्त आतिथ्यमानुषग्जुजोषत् ॥ यद्युपधाह्रस्वत्वमुच्यते प्रियां मयूरः प्रिति नर्नृतिती । यद्वत्त्वं नरवर ! नर्नृतीषि हृष्टः(2) - अत्र गुणः प्राप्नोति । तस्मान्नाऽर्थ उपधाह्रस्वत्वेन ॥ कस्मान्न भवति - पस्पशाते चाकशीति वावशतीरिति ? ॥ स्पशिकशिवशयः(3) प्रकृत्यन्तराणि ॥ ( नाभ्यस्तस्याचि पिति सार्वधातुके ) ॥ Kashika ------- अभ्यस्तसंज्ञकस्याङ्गस्य लघूपधस्याजादौ पिति सार्वधातुके गुणो न भवति। नेनिजानि। वेविजानि। परिवेविषाणि। अनेनिजम्। अवेविजम्। पर्यवेविषम्। अभ्यस्तस्येति किम्? वेदानि। अचीति किम्? नेनेक्ति। पिद्ग्रहणमुत्तरार्थम्। सार्वधातुक इति किम्? निनेज। लघूपधस्येत्येव — जुहवानि। अजुहवम्॥ बहुलं छन्दसीति वक्तव्यम्॥ जुजो॑ष॒त् (ऋ० १.१७३.४) इति यथा स्यात्। पस्पशाते। चाकशीति, वावशीति। यङ्लुकि छान्दसमुपधाह्रस्वत्वं द्रष्टव्यम्, पस्पशात इत्यत्राभ्यासह्रस्वत्वं च। प्रकृत्यन्तराणां वा स्पशिकशिवशीनामेतानि रूपाणि॥ Siddhanta Kaumudi ----------------- लघूपधगुणो न स्यात । नेनिजानि । अनेनेक् । अनेनिक्ताम् । अनेनिजुः । नेनिज्यात् । निज्यात् । अनिजत् । अनैक्षीत् । अनिक्त ।{$ {!1094 विजिर्!} पृथग्भावे$} । वेवेक्ति । वेविक्ते । विवेजिथ । अत्र विज इट् (SK2536) इति ङित्वं न । ओविजी इत्यस्यै तत्र ग्रहणात् । णिजिविजी रुधादावपि ।{$ {!1095 विष्लृ!} व्याप्तौ$} । वेवेष्टि । वेविष्टे । लृदित्त्वादङ् । अविषत् । तङि क्सः । अजादौ क्सस्याचि (SK2337) इति अल्लोपः । अविक्षत । अविक्षाताम् । अविक्षन्त ॥ अथ आगणान्ताः परस्मैपदिनश्छान्दसाश्च ॥{$ {!1096 घृ!} क्षरणदीप्त्योः$} । जिघर्म्यग्रिं हविषा घृतेन । भृञामित् (SK2496), बहुलं छन्दसि (SK3598) इति इत्वम् ।{$ {!1097 हृ!} प्रसह्यकरणे$} । अयं स्रुवो अभिजिहर्ति होमान् ।{$ {!1098 ऋ!} {!1099 सृ!} गतौ$} । बहुलं छन्दसि (SK3598) इत्येव सिद्धे अर्तिपिपर्त्योश्च (SK2493) इतीत्वविधानादयं भाषायामपि । अभ्यासस्यासवर्णे (SK2290) इतीयङ् । इयर्ति । इयृतः । इय्रति । आर । आरतुः । इडत्त्यर्ति - (SK2384) इति नित्यमिट् । आरिथ । अर्ता । अरिष्यति । इयराणि । ऐयः । ऐयृताम् । ऐयरुः । इयृयात् । अर्यात् । आरत् । ससर्ति ।{$ {!1100 भस!} भर्त्सनदीप्त्योः$} । बभस्ति । घसिभसोर्हलिच (SK3550) इत्युपधालोपः । झलो झलि (SK2281) इति सलोपः । बब्धः । बप्सति ।{$ {!1101 कि!} ज्ञाने$} । चिकेति ।{$ {!1102 तुर!} त्वरणे$} । तुतोर्ति । तुतूर्तः । तुतुरति ।{$ {!1103 धिष!} शब्दे$} । दिधेष्टि । दिधिष्टः ।{$ {!1104 धन!} धान्ये$} । दधन्ति । दधन्तः । दधनति ।{$ {!1105 जन!} जनने$} । जजन्ति ॥ Laghu Siddhanta Kaumudi ----------------------- लघूपधगुणो न स्यात्। नेनिजानि। नेनिक्ताम्। अनेनेक्। अनेनिक्ताम्। अनेनिजुः। अनेनिजम्। अनेनिक्त। नेनिज्यात्। नेनिजीत। निज्यात्, निक्षीष्ट॥ Balamanorama ------------ **नाभ्यस्तस्याचि पिति सार्वधातुके** - नाभ्यस्स्याचि । 'मिदेर्गुणः' इत्यतो गुण इति,पुगन्ते॑त्यतो लघूपधस्येति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति — लघूपधगुणो न स्यादिति । नेनिजानीति । नेनिजाव नेनिजाम । नेनिक्ताम् नेनिजाताम् नेनिजताम् । नेनिक्ष्व नेनिजाथाम् नेनिग्ध्वम् । नेनिजै नेनिजावहै । नेनिजामहै । लङि परस्मैपदे आह — अनेनेगिति । अनेनिजुरिति । अभ्यस्तत्वाज्जुसिति भावः । अनेनेक् अनेनिक्तमनेनिक्त । अनेनिजम् ।नाभ्यस्तस्ये॑ति न गुणः । अनेनिज्व अनेनिज्म । निक्षीष्ट । लुङ्याह — अनिजदिति । इरित्त्वादङिति भावः । अनिक्तेति ।झलो झली॑ति सिज्लोपः । अनिक्षातामित्यादि । विजिरपि णिजिर्वत् । अत्रेति । थलि इट्पक्षेविज इ॑डिति विहितं ङित्त्वं नेत्यर्थः । अतो न गुणनिषेध इति भावः । ओ विजी इत्यस्यैवेति । व्याख्यानादिति भावः । रुधादावपीति । ततश्चरुधादिभ्यः श्न॑मिति श्नम्विकरणावपि ताविति भावः । विष्लृ व्याप्तौ इति । लृदित्, उभयपदी, अनिट् । णिजेरिव रूपाणि । वेवेष्टीति । ष्टुत्वेन तकास्य टः । सिपिषढो॑रिति षस्य कत्वम् । वेवेक्षि वेविष्ठः । वेविष्ठ । वेविड्ढि । अविषदिति । लृदित्त्वादङिति भावः । तङि क्स इति ।शल इगुपधा॑दित्यनेनेति भावः । आ गणान्तादिति । जुहोत्यादिगणसमाप्तिपर्यन्तमित्यर्थः । घृधातुरनिट् । तिपि श्लौ द्वित्वेऽभ्यासकार्ये गुणे रपरत्वे जघर्ति । जघृतः जघ्रति ।जघम्र्यग्न हविषा घृतेन॑ इति बह्वृचमन्त्रपाठः ।जघम्र्यग्न मनसा घृतेने॑ति तैत्तिरीयपाठः । अत्रेत्त्वमभ्यासस्य आह — भृञामिदिति । ननु तत्र त्रयाणामेव ग्रहणमित्यत आह- बहुलमिति । इत्त्वं छान्दसमिति भावः । जघार जघ्रतुः । जघ्रुः । जघर्थ जघ्रथुः जघ्र । जघार — जघर । जघ्रिव । घरिष्यति । जघर्तु — जघृतात् । जघ्रतु । जघृहि । जघराणि । अजघः अजघृतामजघरुः । अजघरमजघृव । जघृयात् । घ्रियात् । अघार्षीत् । अघरिष्यत् । ह्म इति । घृधातुवद्रूपाणि । अयं रुआउवो अभिजिहर्ति होमानिति । रुआउवे साद्यमाने याजमानो मन्त्रः । अत्रापि अभ्यासस्य इत्त्वं चान्दसमिति भावः । ऋ सृ गताविति । इमावनिटौ । तत्र ऋधातोः छान्दसत्वेऽपि लोकेऽपि क्वचित्प्रयोगं समर्थयति — बहुलमिति । 'भृञामित्' 'अर्तिपिपत्र्योश्च'बहुलं छन्दसी॑ति सूत्रस्थितिः । तत्रबहुलं छन्दसी॑त्येव ऋधातोरित्त्वसिद्धेःअर्तिपिपत्र्योश्चेटत्यर्तिग्रहणाल्लोकेऽपि ऋधातोः श्लुविकरणस्य प्रयोगो विज्ञायत इत्यर्थः । एतच्चाऽत्रैव सूत्रे भाष्ये स्पष्टम् । अत एव भाष्यात् श्लुविकरणस्यैव ऋधातोःअर्तिपिपर्त्योश्चे॑त्यत्र ग्रहणम्, पिपर्तिसाहचर्याच्च, श्लवित्यस्य अभ्यासग्रहमस्य चानुवृत्तेश्चेत्यलम् । अभ्यासस्यासवर्णे इति । शपः श्लौ ऋ-तीतिस्थिते द्वित्वे उरदत्त्वं बाधित्वाअर्तिपिपत्र्योश्चे॑त्यभ्यासऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य ऋकारस्य गुणे रपरत्वे इ अर् तीति स्थितेअभ्यासस्याऽसवर्णे॑इतीयङि इयतीति रूपमित्यर्थः । इयृत इति । पूर्ववदेव द्वित्वादि । तसोऽपित्त्वेन ङित्त्वाद्गुणनिषेध इति भावः । इय्रतीति । पर्ववदेव द्वित्वादि । अभ्यस्तत्वाददादेशः । ङित्त्वान्न गुणः । उत्तरखण्डस्य ऋकारस्य यण् रेफ इति भावः । इयर्षि इयृथः । इयर्मि इयृवः इयृमः । लिटआह - आरेति । आरिव । आरिम । अर्तेति । अनिट्त्वादिति भावः । अरिष्यतीति । 'ऋद्धनोः स्ये' इतीडिति भावः । इयर्तु इयृतात् इयृताम् इय्रतु । इयृहि — इयृतात् इयृतम् इयृतैयराणीति । आटः पित्त्वेनाऽङित्त्वान्न गुणनिषेध इति भावः । इयराव । इयराम । लङ्याह — ऐय इति । श्लौ ऋ त् इति स्थिते द्वित्वेऽभ्यासस्य इत्त्वे रपरत्वे हलादिशेषे इयङि उत्तरखण्डस्य गुणे रपरत्वे च हल्ङ्यादिलोपे रेफस्य विसर्गे इय इति स्तिते आटि वृद्धौ #ऐय इति रूपमिति भावः । न चलावस्थायाम॑डिति पक्षे आट#इ वृद्धौ रपरत्वे आर् त् इति स्थिते द्वित्वे हलादिशेषे सवर्णदीर्घे हल्ङ्यादिलोपे रेफस्य विसर्गे ऐयरुरिति । ऐयः ऐयृतम् ऐयृत ।ऐयरम् ऐयृव ऐयृम । विधिलिङ्याह — इयृयादिति । यासुटो ङित्त्वाद्गुणनिषेध इति भावः । इयृयातामित्यादि । आशीर्लिङ्याह - अर्यादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घः प्राप्तः । तं बाधित्वा 'रिङ् शयग्लिङक्षु' इति रिङ् प्राप्तः । तं बाधित्वागुणोऽर्तिसंयोगाद्यो॑रिति गुण इति भावः । लुङ्याह — आरदिति ।सर्तिशास्त्यर्तिभ्यश्चे॑त्यङिऋदृशोऽङी॑ति गुण इति भावः । आरिष्यत् । तदेवमृधातुं निरूप्य सृधातुं निरूपयति — ससर्तीति । ससृतः सरुआतीत्यादि सुगमम् । ससार । ससर्थ । ससृव । सर्ता । सरिष्यति । ससर्तु । अससः अससृतामससरुः । रिउआयात् । असरत् । भस भत्र्सनेति । अयं सेट् । बभस्तीति । श्लौ भस् तीति स्थिते द्वित्वेऽभ्यासजश्त्वमिति भावः । बभस् तस् इति स्थिते आह — घसिभसोरिति ।घसिभसोर्हलि चे॑त्यस्यायमर्थः — छन्दसि अनयोरुपधाया लोपः स्याद्धलादावजादौ च क्ङिति परे इति । तथा च बभस् तसित्यत्र उपधालोपेझलो झली॑ति सकारलोपे तकारस्यझषस्तथो॑रिति धत्वे भकारस्य जश्त्वमिति भावः । बप्सतीति । अभ्यस्तत्वाददादेशे बभस् अतीति स्थितेघसिभसो॑रित्युपधालोपे भकारस्य चर्त्वमिति भावः । बभस्सि बब्धः बब्ध । बभस्मि बप्स्वः बप्स्मः । बभास बप्सतुः बप्सः । बभसिथ बप्सथुः बप्स । बभास बभस बप्सिव बप्सिम । भसिता । भसिष्यति । बभस्तु — बब्धात् बब्धाम् बप्सतु । बब्धि — बब्धात् बब्धम् बब्ध । बभसानि बभसाव बभसाम । अबभः अबब्धामबप्सुः । अबभः अबब्धमबब्ध । अबप्समबप्स्व । अबप्स्म । बप्स्यात् । भस्यात् । अभासीत्-अभसीत् । अभसिष्यत् । कि ज्ञाने । चिकेतीति । किधास्तोस्तिपि श्लौ द्वित्वे अभ्यासचुत्वे उत्तरखण्डस्य गुण इतिभावः । चिकितः चिक्यति । चिकेषि चिकिथः चिकिथ । चिकेमि चिकिवः । चिकिमः । चिकाय चिक्यतुः ।चिक्युः । चिकयिथ — चिकेथ । चिक्यिव । केता । केष्यति । चिकेतु — चिकितात् चिकिताम् चिक्यतु । चिकिहि । चिकयानि । अचिकेत् अचिकितामचिकयुः । अचिकेः । अचिकयमचिकिव । चिकियात् । कीयात् । अकैषीत् । अकेष्यत् । तुर त्वरणे इति । तुतूर्त इति ।हलि चे॑ति दीर्घः । तुतोर्षि तूतूर्थः तुतूर्थ । तुतोर्मि तुतूर्वः । तुतोर । तुतुरतुः तुतोरिथ । तुतुरिव । तोरिता । तोरिष्यति । तुतोर्तु — तुतूर्ताम् तुतुरतु । तुतूर्हि । तुतुराणि । अतुतोः अतुतूर्ताम् । अतुतुरुः । अतुतोः । अतुतुरम् ।अतुतूरव । तुतूर्यात् । तूर्यात् । अतोरीत् । अतोतुतुराणि । अतुतोः अतुतूर्ताम् । अतुतुरुः । अतुतोः । अतुतुरम् । अतुतूर्व । तुतूर्यात् ।तूर्यात् । अतोतीत् । अतोरिष्यत् । धिष शब्दे । सेट् । दिधेष्टीति । श्लौ द्वित्वादौ लघुपधगुणे तकारस्य ष्टुत्वमिति भावः । दिधिषति.दिधेक्षि दिधिष्ठः । दिधेष्मि दिधिष्वः । दिधेष दिधिषतुः । दिधेषिथ । दिधिषिव । धेषिता । धेषिष्यति । दिधेष्टु — दिधिष्टात् । दिधिषतु । दिधिड्ढि । दिधिषाणि । अदिधेट् अदिधिष्टामदिधिषुः । अदिधिषमदिधिष्व । दिधिष्यात् । धिष्यात् । अधेषीत् । अदेषिष्यत् । धन धान्ये इति । धान्याऽर्जने इत्यर्थः । दधन्त इति । क्षमूष् सहने इति धातोश्चक्षंसे इतिवदनुनासिकस्य क्वीति न दीर्घः । दधंसि दधन्थः । दधन्मि दधन्वः दधन्मः । दधान दधनतुः । दधनिथ । दधनिव । धनिता । धनिष्यतु । दधन्तु — दधन्तात् दधन्ताम् दधनतु ।दधंहि.दधनानि । अदधन् अदधन्तामदधनुः । अद्धन् अदधन्तमदधन्त ।अदधनमदधन्व अदधन्म । दधन्यात् । धन्यात् । अधानीत् अधनीत् । अधनिष्यत् । जन जनने इति । उत्पत्तौ कर्मकः । उत्पादने सकर्मकः । Tattvabodhini ------------- **नाभ्यस्तस्याचि पिति सार्वधातुके** - नाभ्यस्तस्य । अभ्यस्तस्य । अभ्यस्तस्य किम् । द्वेषाणि । अचि किम् । वेवेष्टि । पिद्ग्रहणम्उतो वृद्धिर्लुकि हली॑त्युतरार्थम् । सार्वेति किम् । निनेज । बहुलं छन्दसीतीत्त्वमिति । एतच्च पूर्वोत्तरान्वयि । इयर्तीति । अभ्यासस्य इयङ्, अभ्यासादुत्तरस्य तु गुणः । इय्रतीति ।अदभ्यस्ता॑दित्यत् । अर्यादिति ।गुणोऽर्ती॑ति गुणः । आरदिति ।सर्तिशास्ती॑त्यङिऋदशोऽङी॑ति गुणः । बब्ध इति । तसस्तकारस्यझषस्तथो॑रिति धत्वम् । तुतूर्त इति ।हलि चे॑ति दीर्घः । धन धान्ये । धान्यार्जन इत्यर्थः । दधन्त इति । छान्दसत्वात्अनुनासिकस्ये॑ति नेह दीर्घ इत्याहुः । Padamanjari ----------- नेनिजानीत्यादि । लोट्,'मेर्निः' , ठाडुतमस्य पिच्चऽ शपः श्लुः, द्विर्वचनम्,'णिजां त्रयाणां गुणः श्लौ' । अनेनिजमित्यादि । लङ्, मिपोऽम्भावः । वेदानीति ।'विद ज्ञाने' , लोडादि यथायोगं पूर्ववत्, शपो लुक् । नेनेक्तीति । लट्, तिप्, कुत्वम् । पिद्ग्रहणमुतरार्थमिति ।'तृणह इम्' पिति यथा स्यात्, इह तु पितोऽन्यत्रापि'सार्वधातुकमपिति' इति ङित्वाद्भिवितव्यमेव प्रतिषेधेन । निनेजेति । णल्, स च'लिट् च' इत्यार्द्धधातुकसंज्ञः । जुजोषदिति ।'जुषी प्रीतिसेवनयोः' , लेट्, व्यत्ययेन परस्मैपदम्, तिप्, ठितश्च लोपः परस्मैपदेषुऽ,'लेटो' डाटौऽ इत्यट्, व्यत्ययेन शपः श्लुः, द्विर्वचनम् । यद्यत्र गुणप्रतिषेध इष्यते, पस्पशाते इत्यादौ उपधाह्रस्वत्वमिष्यते, तन्न प्राप्नोति । तस्मादभ्यस्तानामुपधाया ह्रस्वत्वमेव विधेयम्, न गुणप्रतिषेधः । कथं नेनिजानीत्यादि, गुणे कृते उपधाह्रस्वत्वम्, ठेच इग्घ्रस्वादेशऽ, सिद्धमिष्टम् ? अत आह - पस्पशाते इत्यादि । स्पशिर्वार्तिककारवचनादपठितोऽपि धातुः, तस्माल्लेट्, व्यत्ययेनात्मनेपदम्, टेरेत्वे'लेटो' डाटौऽ इत्याट्, शपः'बहुलं च्छन्दसि' इति श्लुः, द्विर्वचनम् । अथ वा - यङ्लुकि छान्दसमभ्यासस्य ह्रस्वत्वम् । चाकशीतिति ।'काशृ दीप्तौ' , यङ्लुक्, लट्, तिप्,'यङे वा' इतीडागमः । वावशीतिरिति ।'वाशृ दीप्तौ' , यङ्लुक्, लट्, शत्रादेशः, ङीप्, शस् । छान्दसं ह्रस्वत्वमिति । यदि तु गुणनिषेधं प्रत्याख्यायोपधाह्रस्वत्वमुच्येत, तदा नर्नृतीतीत्यादौ ऋदुपधे रपरे गुणे कृते ह्रस्वभाविन्युपधा नास्तीति रूपं न सिद्ध्येत् । तस्माच्छान्दसमेव ह्रस्वत्वमेष्टव्यमिति भावः । प्रकृत्यन्तराणामेवेति ।'स्पश बाधनस्पर्शनयोः' 'कश गतिशासनयोः' ,'वश कान्तौ' ॥ Nyaas ----- `नेनिजानि, वेविजानि, परिवेविषाणि` इति`। `णिजिर्? शौचपोवणयोः` (धातुपाठः-1093) `विजिर्? पृथग्भावे` (धातुपाठः-1094) `विषु व्याप्तौ` (धातुपाठः-1095)-एभ्यो लोट्, मिप्? **मेर्निः** (3.4.89) , **आडुत्तमस्य पिच्च** (3.4.92) इत्यट्, **जुहोत्यादिभ्यः श्लुः** (2.4.75) इति शपः श्लुः, `शलौ` (6.1.10) इति द्विर्वचनम्, **निजां त्रयाणां गुणः श्लौ** (7.4.75) इत्याभ्यासस्य गुणः। `अनेनिजम्, अवेविजम्, पर्यवेषिषम्` इति। लङ्, `तस्थस्तमिपां तान्तन्तामः` तान्तन्तामः` (3.4.101) इति मिपोऽम्भावाः। `वेदानि` इति। `विद ज्ञाने` (धातुपाठः-1064)। `पूर्ववल्लोडादि यथायोगम्, अदादितावाच्छपो लुक्। `नेनेक्ति` इति। लट्, तिप्, **चोः कुः** (8.2.30) इति कुत्वम्। अथ पिद्ग्रहणं किमर्थम्, यावताऽपिति सार्वधातुके **सार्वधातुकमपित्** (1.2.4) इति ङित्त्वे सति **क्ङिति च** (1.1.5) इति निषेधेन भवितव्यमिति, न चानयोः प्रतिषेधयोः कश्चिद्विशेषोऽस्ति? इत्यत आह - `पिद्ग्रहणम्` इति। **तृणह इम्** (7.3.92) इतीमं वक्ष्यति, स पिति यथा स्यात्, अपिति मा भूदित्येवमर्थं पिद्ग्रहणम्। `निनेज` इति। लिट्। स च `लिट्? च` (3.4.115) इत्यार्धधातुकसंज्ञकः। `जुहवानि इति। `हु दाने` (धातुपाठः-1083)। पूर्ववल्लोडादि। `अजुहवम्` इति। पूर्ववल्लङादि। अत्र `लघूपधस्य` (7.3.86) इत्यनुवृत्तेः `सर्वधातुकार्यधातुकयोः` (7.3.84) इतीगन्तस्य यो गुणो विहितस्तस्य प्रतिषेधो न भवति।`बहुलं छन्दसीति वक्तव्यम्` इति। छन्दसि विषये बहुलं गुणप्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - इहेदं सूत्रं विभज्य द्वौ योगौ क्रियेते, तत्र `न` इत्येको योगः; `अभ्यस्तस्याचि पिति सार्वधातुके` इति द्वितीयः, तत्र च नेत्यनुवर्तते, यञ्च योगः पूर्वयोगस्यासर्वविषयत्वज्ञापनार्थः। तेन च्छब्दसि बहुलं प्रतिषेधो भविष्यति। `जुजोषत्` इति। `जुषी प्रतिसेवनयोः` (धातुपाठः-1288) लेट्, तिप्; **लेटोऽडाटौ** (3.4.94) इत्यट्, तुदादित्वाच्छः, तस्य **बहुलं छन्दसि** (7.4.78) इति श्लुः, `श्लौ` (6.1.10) इति द्विर्वचनम्। लघूपधगुणः। यद्यभ्यस्तस्याचि पिति सार्वधातुके गुणप्रतिषेध इध्यते, पस्पशाते, चकाशीति, वावशीदित्यत्रोपधाह्यसवत्वमिष्यते, तन्न प्राप्नोति; तस्मादभ्यस्तानामुपधाह्रस्वत्वमेव वक्तव्यम्, न गुणप्रतिषेधः; ह्रस्वत्वे हि नेनिजानीत्येवमादि सिध्यति; पश्पशाते इत्यादि च? इति यश्चोदयेत्, तं प्रत्याह - `पस्पशाते` इत्यादि। हि नेनिजानीत्येवमादि सिध्यति; पस्पशाते इत्यादि च? इति यश्चोदयेत्, तं प्रत्याह - `पस्पशाते` इत्यादि। `स्पशिरिति [`स्पाशिरिति` - प्रांउ।पाठः] गणपरिपठितो धात्वन्तरमस्त्येव, तस्माद्यङ्, तस्य **यङोऽचि च** (2.4.74) इति लुक्, द्विर्वचनम्, **शर्पूर्वाः खयः** (7.4.61) इति खयः शेषः; अभ्यासस्य ह्रस्वत्वे कृते **दीर्घोऽकितः** (7.4.83) इति दीर्घः, **व्यत्ययो बहुलम्** (3.1.85) इति वर्णव्यत्ययेनोपधाया अभ्यासस्य च ह्रस्वः, लेट्, व्यत्ययेनैवात्मनेपदम्, आट्। `चाकशीति` इति। `काशृ दीप्तौ` (धातुपाठः-1162), **कुहोश्चुः** (7.4.62) इत्यभ्यासस्य चुत्वम्, तिप्, `यङो वा` (7.3.94) इतीट्। `वावशीति` इति। `वाशृ शब्दे` (धातुपाठः-1163), शेषं यथायोगं पूर्ववत्। `पस्पशाते इत्यत्राभ्यासह्रस्वत्वं च` इति। चकारादुपधाह्रस्वत्वञ्च। इतरत्र तूपधाह्रस्वत्वमेव, नाभ्यासस्य ह्रस्वत्वम्। `प्रकृत्यन्तराणां वा` इति। `स्पश बाधनस्पर्शनयोः` (धातुपाठः-887), `कश गनिशासनयोः` (धातुपाठः-1024), `वश कान्तौ` (धा।प।1080) - एतानि प्रकृत्यन्तराणि ह्रस्वोपधानि सन्तीति, अत एषामेवैतानि रूपाणि। तस्माद्यथान्यासमेवास्तु॥ Prakriyasarvasvam ----------------- अजादौ पिति सार्वधातुके परे लघूपधस्याभ्यस्तस्य गुणो न स्यात् । नेनिजानि । नेनिजाव; नेनिक्ताम् । नेनिजाताम् । नेनिजताम् । नेनिक्ष्व । नेनिग्ध्वम् । नेनिजै । नेनिजावहै । लङि अनेनेक् । अनेनिक्ताम् । अनेनिजुः, अनेनेक्, अनेनिक्तम् । अमि 'नाभ्यस्तस्याचि—' इत्यगुणः । अनेनिजम् । अनेनिज्व; अनेनिक्त । अनेनिजाताम् । अनेनिजत । अनेनिक्थाः । अनेनिग्ध्वम् । अनेनिजि । अनेनिज्वहि । लुङि इरित्त्वाद्वा अङ् । अनिजत् । अनिजताम्; अनैक्षीत् । 'झलो झलि' । अनैक्ताम् । अनैक्षुः । अनैक्षीः । अनैक्षम् । अनैक्ष्व । तङ्यडभावात् सिच् । 'लिङ्सिचौ-' इति कित्त्वम् । 'झलो झलि' । अनिक्त । अनिक्षाताम् । अनिक्थाः । अनिग्ध्वम् । अनिक्षि । लिटि निनेज । निनिजतुः । निनेजिथ । निनिज । निनेज । निनिजिव; निनिजे । निनिजाते । निनिजिषे । निनिजिध्वे । निज्यात् । निक्षीष्ट । नेक्ता । नेक्ष्यति, नेक्ष्यते । डुधाञ् धारणपोषणयोः । दधाति । 'श्नाभ्यस्तयोरातः' इत्याल्लोपः । दध् तस् । Vartika ------- बहुलं छन्दसीति वक्तव्यम् ।