73075: ष्ठिवुक्लमुचमां शिति =========================== **Padacheda:** ष्ठिवु-क्लमु-चमाम् | S | 6 | 3 | शिति | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Before any other Present character (शित्) the root vowel of 1. ष्ठिव् 2. क्लम् and 3.आ-चम् is lengthened. Vasu English Translation ------------------------ Before any other Present character (शित्) the root vowel of 1. ष्ठिव् 2. क्लम् and 3.आ-चम् is lengthened. As ष्ठीवति, क्लामति, and आ चामति ॥ क्लम् lengthens its vowel before श्यन् by the last rule, the present rule produces this change before the affix शप् also, which it gets by (3.1.70). चम् lengthens its vowel only when it is preceded by आ; therefore not here: चमति, विचमति or उचमति ॥ The *sutra* is exhibited as ष्ठिवुक्लमु चमां शिति in the original text of *Panini*; the present form, owes its existence to the insertion of आ from the *vartika* दीर्घत्वमाङि चमः ॥ Bhashya ------- ष्ठिवुक्लमुचमां शिति दीर्घत्वमाङि चमः(1) दीर्घत्वमाङि चम(1) इति वक्तव्यम् । आचामति, इह मा भूत् - चमति(2) विचमतीति ॥ ( ष्ठिवुक्लमुचमां शिति ) ॥ Kashika ------- ष्ठिवु क्लमि आचम् इत्येतेषां दीर्घो भवति शिति परतः। ष्ठीवति। क्लमु — क्लामति। आचम् — आचामति। क्लमिग्रहणं शबर्थम्। चमेराङ्पूर्वस्य ग्रहणम्। इह मा भूत् — चमति। विचमति॥ Siddhanta Kaumudi ----------------- एषामचो दीर्घः स्याच्छिति । (वार्तिकम्) ॥ आचामति । आङि किम् । चमति । विचमति । अचमीत् । जिमिं केचित्पठन्ति । जेमति ।{$ {!473 क्रमु!} पादविक्षेपे$} ॥ Balamanorama ------------ **ष्ठिवुक्लम्याचमां शिति** - ष्ठिवुक्लम्वाच ।शमामष्टानां दीर्घः श्यनी॑त्यतो दीर्घ इत्यनुवर्तते । दीर्घश्रुत्या अच इत्युपस्थितम् । तदाह — — एषामचो दीर्घ इति । ष्टिवु क्लमु आचम् एषां द्वन्द्वः । आचमित्यनेन आङपूर्वकस्य चमेग्र्रहणम् । अचमीदिति ।ह्म्यन्ते॑ति न वृद्धिः । क्रमु पादेति । उदित्त्वमुदितो वेति विकल्पार्थम् । Tattvabodhini ------------- **ष्ठिवुक्लम्याचमां शिति** - ष्ठिवुक्लमु । ष्ठीवति । क्लामति । आङि चम इति ।ष्ठिवुक्लम्वाचमा॑मिति वृत्तिकारोक्तपाठोऽयुक्त इति भावः । जिमिं केचिदिति । तथा च जेमनमिति भोजने प्रयुञ्जते । Padamanjari ----------- क्लामतीति ।'वा भ्राश' इत्यादिना शप् । क्लमिग्रहणं शबर्थमिति । श्यनि पूर्वेणैव सिद्धत्वात् । शमादिषु पाठश्चिन्त्यप्रयोजनः; श्यन्यप्यनेनैव सिद्धत्वात् । तत्र सप्तग्रहणमेवास्तु, चमेराङ्पूर्वस्य ग्रहणं तन्त्रम्, न तूपेयिवानित्यादिवदविवक्षितम् ? इत्याह - चमेराङिति ।'दीर्घत्वमाङ् चिमः' इति वार्तिकस्याप्ययमेवार्थः ॥ Nyaas ----- `ष्ठिवु निरसने` (धातुपाठः-1110) `क्लमु ग्लागौ` (धातुपाठः-1207), `चमु छमु जमु झमु अदने` (धातुपाठः-469-472) आङ्पूर्वः। `क्लामति` इति `वा भ्राश` (3.1.70) इत्यादिना श्यनोऽभावे शप्। `क्लमिग्रहणं शवर्थम्` (इति। न तु श्यनर्थम्, तत्र पूर्वेणैव सिद्धत्वात्। `चमेराङ्पूर्वस्य` इत्यादिना केवलस्यान्योपसर्गपूर्वस्य वा मा भूदित्येवमर्थं चमेराङ्पूर्वस्य ग्रहणमिति दर्शयति॥ Prakriyasarvasvam ----------------- एषां शिति परे दीर्घः स्यात् । आचामति इत्यादि । आचमामित्युक्ते रनाङ्पूर्वस्य न दीर्घः । चमति प्रचमति कर्मणि आचम्यते । सिचि ‘अतो हलादे:— इति वा वृद्धिप्राप्तौ । Vartika ------- आङि चम इति वक्तव्यम् । Sutra Prayogas -------------- * **न्यष्ठीवदक्लाम्य-** (भट्टिकाव्यम्): `ष्ठिवु- क्लमु चमां शिति` इति दीर्घः।