73073: लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये ============================================= **Padacheda:** लुक् | S | 1 | 1 | वा | S | 0 | 0 | दुहदिहलिहगुहाम् | S | 6 | 3 | आत्मनेपदे | S | 7 | 1 | दन्त्ये | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The whole of the affix कस् is optionally elided before the personal endings of आत्मनेपद beginning with a dental, after 1. दुह् 2. दिह् 3. लिह् and 4. गुह्। Vasu English Translation ------------------------ The whole of the affix क्स is optionally elided before the personal endings of आत्मनेपद beginning with a dental, after 1. दुह् 2. दिह् 3. लिह् and 4. गुह्। As अदुग्ध or अधुक्षत, अदुग्धा or अधुक्षथाः, अदुग्ध्वम् or अधुक्षध्वम्, अदुह्वहि or अधुक्षावहि, अदिग्ध or अधिक्षत, अलीढ or अलिक्षत, न्यगुढ or न्यधुक्षत ॥ Why दुह् &c. only? Observe व्यत्यरुक्षत ॥ Why in the *Atmanepada*? Observe अधुक्षत only. Why before an affix beginning with a dental? Observe अधुक्षामहि only. Though the *anuvritti* of लोप was understood in this *sutra*; the employment of the term लुक् indicates that the whole of the affix is to be elided. For लोप would have elided only the final अ of स ॥ But even with the elision of अ alone we would have got all the above forms, except those in वहि ॥ For अ being elided, we have स् between ह् (a consonant of झल् class) and a dental (which is also a letter of झल् class). This स् situate between two झल् will be elided by (8.2.26). Nor can it be objected that the elided अ is *sthanivat*, for by पूर्वत्रासिद्धं (8.2.1), such an elision cannot be *sthanivat*. Though व् is a dento-labial, yet it is included in the word dental. Had it not been meant to be so included, तौ (letters of त class) would have been taken in the *sutra*. See (3.1.45), for this Aorist-affix. Kashika ------- दुह दिह लिह गुह इत्येतेषामङ्गानामात्मनेपदे दन्त्यादौ परतः क्सस्य वा लुग् भवति। अदुग्ध, अधुक्षत। अदुग्धाः, अधुक्षथाः। अधुग्ध्वम़्, अधुक्षध्वम्। अदुह्वहि, अधुक्षावहि। दिह — अदिग्ध, अधिक्षत। लिह — अलीढ, अलिक्षत। गुह — न्यगूढ, न्यघुक्षत। दुहादीनामिति किम्? व्यत्यपुक्षत। आत्मनेपद इति किम्? अधुक्षत्। दन्त्य इति किम्? अधुक्षामहि। लोप इति वर्तमाने लुग्ग्रहणं सर्वादेशार्थम्, तच्च वह्यर्थम्। अन्यत्र त्वन्त्यस्यैव लोपे कृते **झलो झलि** (८.२.२६) इति सकारलोपेन सिध्यति। स्थानिवद्भावोऽपि अकारलोपस्य नास्ति, **पूर्वत्रासिद्धे न स्थानिवत्** (महाभाष्य १.१५४) इति। दन्त्योष्ठ्योऽपि वकारो दन्त्य इति गृह्यते। यदि स न गृह्यते, ततस्तौग्रहणमेवात्र कृतं स्यात्॥ Siddhanta Kaumudi ----------------- एषां क्सस्य लुग्वा स्याद्दन्ये तङि । ढत्वधत्वष्टुत्वढलोपदीर्घाः । अगूढ । अघुक्षत । क्सस्याचि (SK2337) इत्यन्तलोपः । अघुक्षाताम् । अघुक्षन्त । अगुह्वहि । अघुक्षावहि । अघुक्षामहि । अथाजन्ता उभयपदिनः ।{$ {!897 श्रिञ्!} सेवायाम्$} । श्रयति । श्रयते । शिश्रियतुः । श्रयिता । णिश्रि-(SK2312) इतिचङ् । अशिश्रियत् ।{$ {!898 भृञ्!} भरणे$} । भरति । बभार । बभ्रतुः । बभर्थ । बभृव । बभृषे । भर्तार ॥ Laghu Siddhanta Kaumudi ----------------------- एषां क्सस्य लुग्वा स्याद्दन्त्ये तङि। अदुग्ध, अधुक्षत॥ Balamanorama ------------ **लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये** - लुङस्तङि विशेषमाह — लुग्वा दुह । दन्त्ये तङीति । दन्त्यादौ तङीत्यर्थः । प्रत्ययाऽदर्शनत्वात्सर्वादेशोऽयं लुक् । अगूढेति । अगुह् त इति स्थिते प्रक्रियां दर्शयति — ढत्वधत्वष्टुत्वढलोपदीर्घा इति । अघुक्षतेति । क्सलुगभावे ढत्वभष्भावकत्वषत्वानीति भावः । अघुक्षातामिति । च्लेः क्सादेशे क्सस्य कित्त्वेन गुणहेतुत्वाऽभावादूत्त्वाऽभावेढत्वभष्भावकत्वषत्वेषु कृतेषुक्सस्याची॑त्यन्तलोपे अतः परत्वाभावादातो ङित इति न भवतीति भावः । अघुक्षन्तेति । झस्य अजादित्वाऽभावात्तस्मिन्परे क्सस्य अन्त्यलोपाऽभावादतः परत्वाऽभावादात्मनेपदेष्वत इत्यदादेशो न भवति । कृते तु झोऽन्तादेशे क्सस्याऽन्तलोप इति भावः । अघुक्षथाः काघुक्षाथामघुक्षध्वम् । अघुक्षि । इति रूपाणि सिद्धवत्कृत्याह — अगुह्वहीति । दन्त्यादिप्रत्ययपरत्वत्क्सस्य लुङि अजादिप्रत्ययाऽभावादूत्त्वाऽभावे रूपम् । अघुक्षावहीति । क्स्लुगभावे ढत्वभष्भावकत्वषत्वानि, अतो दीर्घश्च । अघुक्षामहीति.दन्त्यादिप्रत्ययपरत्वाऽभावान्न क्सलुक् । इतिगूहत्यन्ताः स्वरितेतः । उभयपदिन इति । ञित्त्वादिति भावः । श्रिञ्धातुः सेट् । शिश्रियतुरिति । कित्त्वान्न गुणः । इयङ् शिश्रियुः । शिश्रयिथ शिश्रियथुः शिश्रिय । शिश्राय — शिश्रय, शिश्रियिव शिश्रियिम । शिश्रिये शिश्रियाते शिश्रियिरे । शिश्रयिषे शिश्रयाथे शिश्रियिढ्वे — शिश्रियिध्वे । शिश्रियेशिश्रियिवहे शिश्रयिमहे । श्रयितेति । श्रयिष्यति श्रयिष्यते । श्रयतु श्रयताम् । अश्रयत् अश्रयत । श्रयेत् । श्रीयात् । श्रयिषीष्ट । लुङि विशेषमाह — णिश्रीति । अशश्रियदिति ।चङी॑ति द्वित्वम् । अशिश्रियत । अश्रयिष्यत् अश्रयिष्यत । भृञ् धातुरनिट् । भरतीति । भरते इत्यपि ज्ञेयम् । बभ्रतुरिति । कित्त्वान्न गुणः । यण् । बभ्रुः । थलादौ 'एकाचः' इति नेट्, कृसृभृवृस्तुद्रुरुआउश्रुषु लिटपि तन्निषेधस्य प्रवृत्तेः । थलिअचस्तास्व॑दिति निषेधाच्च, ऋदन्तेषु भारद्वाजमतेऽपि थलि निषेधाच्च । तदाह — बभर्थेति । बभ्रथुः बभ्र । बभार-बभर । इति सिद्धवत्कृत्याह — बभृवेति । बभृम । बभ्रे बभ्राते बभ्रिरे । इति सिद्धवत्कृत्याह — बभृषे इति । बभ्राथे बभृढ्वे । बभ्रे बभृवहे बभृमहे । Tattvabodhini ------------- **लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये** - दन्त्ये तङीति । दन्त्यादौ तङीत्यर्थः । अदुग्ध । अधुक्षत । अदिग्ध । अधिक्षत । अलीढ । अलिक्षतेत्यादि । Padamanjari ----------- एतेषामङ्गानां क्सस्येति । एतेषां सम्बन्धी यो निमितत्वेन क्सः, तस्येत्यर्थः । सर्वादेशार्थमिति । लुक्सर्वापहारीति संज्ञाविधावुक्तम् । वह्यर्थमिति । उतमपुरुषद्विवचनार्थमित्यर्थः । अथान्यार्थं कस्मान्न भवति ? तत्राह - अन्यत्रेति । अलोऽन्त्यस्येति । ठादेः परस्यऽ इत्येततु न भवति; पञ्चमीनिर्द्देशाभावात् । झलो झलीति लोपेनेति ।'धि सकारे सिचो लोपः' इति नाश्रीयते । च्ल्यादेशोपलक्षणं वा तत्र सिज्ग्रहममिति भावः । अकारस्येति । अकारलोपस्येत्यर्थः । तथैव वा पाठः । ननु च क्रियमाणेऽपि लुग्ग्रहणे वहौ लुका न भवितव्यमेव, अदन्तत्वात्, दन्त्यौष्ठ।ले ह्यसौ ? अत आह - दन्त्योष्ठ।लेऽपीत्यादि । दन्तान्वयोऽत्र विवक्षितः, नेतरव्यावृत्तिरिति भावः । एवं न्यायसिद्धेऽप्यर्थे वचनसामर्थ्यमपि दर्शयति - यदि चेति । ताविति । तवर्गादावित्यर्थः । वहेरन्यानि हि दन्त्यादीनि सर्वाण्यात्मनेपदानि तवर्गादीनि ॥ Nyaas ----- `दुह प्रपूरणे` (धातुपाठः-1014), `दिह उपचये` (धातुपाठः-1015), `लिह आस्वादने` (धातुपाठः-1016), `गुहू संवरणे` (धातुपाठः-896) - सर्वं एते स्वरितेतः। स्वरितेत्त्वात्? `स्वरितिञितः कत्र्रभिप्राये क्रियाफके` (1.3.72) इत्यामनेपदिनः। `अदुग्ध` इति। पूववद्धकरः, `झषस्तथोर्धोऽयः` (8.2.40) इति तकारस्य धकारः, **झलां जश् झशि** (8.4.53) इति धकारस्य गकारः। `अदुग्धाम्` इति। थास्, पूर्ववद्? धत्वादि। `अदुग्ध्वम्` इति। ध्वम्। `अदुह्वहि` इति। वहिः। `अदिग्ध` इति। पूर्ववद्? घत्वादि। `अलीढ` इति। हकारसय `हो ढः` (8.2.31) इति ढकारः पूर्ववत्, तकारस्य धत्वं ष्टुत्वञ्च, **ढो ढे लोपः** (8.3.13) , `ढ्रलोपः पूरवस्य (6.3.110) इत्यादिना दीर्घः। `न्यगूढ` इति। एतदपि पूर्वेण तुल्यम्। `व्यत्यपुक्षत` इति। `पुष पुष्टौ` (धातुपाठः-1182) व्यतिपूर्वः। `कर्तरि कर्मण्यतिहारे` (1.3.14) इत्यातमनेपदम्, **षढोः कः सि** (8.2.41) इति षकारस्य ककारः। `अजुक्षामाहि` इति। महिङ। अथ लुग्ग्रहणं किमर्थम्, यावता लोप इत्यनुवर्तत एव? इत्याह - `लोप इति वर्तमाने` इति। यदि लोपग्रहणमनुवर्त्त्य लोपो विधीयते तत्? **अलोऽन्त्यस्य** (1.1.52) इत्यन्त्यस्य स्यात्। कि तु सर्वस्यैव भवति; प्रत्ययादर्शनस्य लुक्संज्ञाविधानात्। तस्मात्? सर्वस्य क्सस्य लोपो यथा स्यादित्येवमर्थं लुग्ग्रहणं कृतम्। `वह्रर्थम्` इति। उत्तमपुरुषद्विवचनार्थमित्यर्थः। वहिरर्थः प्रयोजनं यस्य तत्? तथोक्तम्। अथान्यार्थं कस्मान्न भवति? इत्याह - `अन्यत्र तु` इत्यादि। यदात्मनेपदं दन्त्यादि तत्सर्वं झलाद्येव। तत्रान्त्यस्यैवाकारस्य लोपे कृते **झलो झलि** (8.2.26) इति सकारसय लोपेनेष्टं सिध्यत्येव। स्यादेतत् - अन्यत्रापि लुका विना न सिध्यति; अकारलोपस्य सकारलोपे कर्तव्ये `अचः परस्मिन्? पूर्वविधौ` (1.1.57) इति स्थानिवदभावादिति? अत आह - `स्थानिवद्भावोऽप्यकारलोपस्य नास्ति` इति। कस्मान्नास्ति? इत्याह - `पूर्वत्रासिद्धे न स्थानिवत्` इति। तस्मान्नान्यार्थं लुग्ग्रहणम्, अपि तु वह्रर्थमेव। अत्र ह्रझलादित्वात्? **झलो झलि** (8.2.26) इति सकारलोपो नास्तीति न सिध्यति।`ननु च क्रियमाणेऽपि लुग्ग्रहणे वहौ लुका न भवितव्यमेव, अदन्त्यादित्वात्, न हि दन्त्यौष्ठओ वकारो दन्त्यग्रहणेन गुह्रते? इत्याह - `दन्त्यौष्ठओऽपि` इत्यादि। अत्रैव हेतुमाह - `यदि` इत्यादि। यदि दन्त्यौष्ठ्यौ दकारो दन्त्यग्रहणेन न गृह्रेत्, तदा तावित्येवं ब्राऊयात्, न दन्त्य इति। तावप्युच्यमाने सर्वमिष्टं सिध्यत्येव। न हि तदर्गादन्यद्दन्त्यमात्मनेपदस्यास्ति। तस्माद्दन्त्यौष्ठओऽपि वकारो दन्त्यग्रहणेन गृह्रते। तत्रेदं चोद्यते - यदुक्तम् - `अन्यत्र ह्रन्त्यस्यैव लोपे कृते **झलो झलि** (8.2.26) इति सकारलोपेनेष्टं सिद्ध्यत्येवेति, तदयुक्तम्; न हि **झलो झलि** (8.2.26) इत्यनेन सकारमात्रस्य लोपो विधियते, किं तर्हि? सिचः, तथा हि तत्रैव वक्ष्यति - `अयमप सिच एव लोपः`` इति? नैतदस्ति; सिज्ग्रहणस्य च्ल्यादेशस्योपलक्षणार्थत्वाच्च्लेर्थ आदेशस्तत्सम्बन्धिन एव सकारस्य लोपो भवतीत्ययं तत्रार्थो वेदितव्यः॥ Prakriyasarvasvam ----------------- दन्त्यादौ तङि परे एषां क्सस्य वा लुक् स्यात् । धत्वादि । अदग्ध, अधुक्षत । अदुग्धाः, अधुक्षथाः । ध्वमि अधुग्ध्वम्, अधुक्षध्वम् । अधुक्षि । अधुक्षत । अदुग्धाः, अधुक्षथाः । ध्वमि अधुग्ध्वम्, अधुक्षध्वम् । अधुक्षि । वकारस्यापि दन्त्यत्वात् क्सलुक् । अदुह्वहि, अधुक्षावहि । अधुक्षामहि । कर्मणि अदोहि । शेषं तद्ववत् । दिहादेस्तु गुहं णाणावदिग्घासावधिक्षत । अलीढालिक्षत क्षिप्रमगूढाघुक्षताननम् ॥ ७३३ ॥ लिटि दुदोह । दुदुहतुः । दुदोहिथ । दुदुह । दुदोह । दुदुहिव । दुदुहे । दुदुहिषे । 'विभाषेटः' । दुदुहिध्वे, दुदुहिढ्वे । दुह्यात् । दुह्यास्ताम्; 'लिङ्सिचा'विति कित्त्वम् । धुक्षीष्ट । धुक्षीध्वम् । दोग्धा । धोक्ष्यति, धोक्ष्यते । कर्मकर्तरि तु,