73066: यजयाचरुचप्रवचर्चश्च ========================== **Padacheda:** यजयाचरुचप्रवचर्चः | S | 6 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- A guttural is not substituted for the final palatals of 1. यज् 2. याच् 3. रुच् 4. प्र-वच् and 5. ऋच् before the affix ण्यत्। Vasu English Translation ------------------------ A guttural is not substituted for the final palatals of 1. यज् 2. याच् 3. रुच् 4. प्र-वच् and 5. ऋच् before the affix ण्यत्। As याज्यम्, वाच्यम्, रोच्यम्, प्रवाच्यम्, and अर्च्यम् ॥ Though ऋच् has a penultimate ऋ and therefore by (3.1.110) would have taken क्यप्, it takes ण्यत् by force of this *sutra*. प्रवच् shows that the present *sutra* applies to it, though it means 'a word or speech', and the prohibition of (7.3.67) does not apply. प्रवाच्य is the name of a particular book. Others say that the prohibition applies to वच् only when it is preceded by प्र, and does not mean word or speech (7.3.67) and not when it is preceded by any other preposition. As अविवाक्यमहरिति पठन्ति ॥ This even in a very restricted sense, namely on the tenth day of the *Dasaratra* ceremony. In other places we have अविवाच्यं ॥ Vart:- त्यज् should he enumerated in this connection i. e. before ण्यत्, the ज् remains unaltered, as त्याज्यम् ॥ Bhashya ------- यजयाचरुचप्रवचर्चश्च प्रवचिग्रहणमनर्थकं वचोऽशब्दसंज्ञाभावात् प्रवचिग्रहणमनर्थकम् ॥ किं कारणम् ? ॥ वचोऽशब्दसंज्ञाभावात् । वचोऽशब्दसंज्ञायां प्रतिषेध उच्यते, प्रपूर्वश्च वचिरशब्दसंज्ञायां वर्तते । उपसर्गनियमार्थमुपसर्गनियमार्थं तर्हीदं(1) वक्तव्यम् । प्रपूर्वस्यैव वचेरशब्दसंज्ञायां प्रतिषेधो यथा स्यादिह मा भूत् - अविवाक्यमहरिति उपसर्गपूर्वनियमार्थमिति(3) चेदविवाक्यस्य विशेषवचनात्सिद्धम् (उपसर्गपूर्वनियमार्थमिति(4) चेदविवाक्यस्य विशेषवचनात्सिद्धमेतत्) । विशेषत(5) एव तद्वक्तव्यमविवाक्यमहरिति ॥ क्व माभूत् ? ॥ अविवाच्यमेवान्यदिति ण्यप्रतिषेधे त्यजेरुपसङ्ख्यानम् ण्यप्रतिषेधे त्यजेरुपसङ्ख्यानं कर्तव्यम् । त्याज्यम् ॥ Kashika ------- यज याच रुच प्रवच ऋच इत्येतेषां ण्ये परतः कवर्गादेशो न भवति। यज — याज्यम्। याच — याच्यम्। रुच — रोच्यम्। प्रवच — प्रवाच्यम्। ऋच — अर्च्यम्। ऋदुपधादपि ऋचेरत एव निपातनाद् ण्यद् भवति। प्रवचग्रहणं शब्दसंज्ञार्थम्। प्रवाच्यो नाम पाठविशेषोपलक्षितो ग्रन्थोऽस्ति। अपरे पुनराहुः — उपसर्गपूर्वस्य नियमार्थम्। प्रपूर्वस्यैव वचेरशब्दसंज्ञायां कुत्वप्रतिषेधो यथा स्याद्, अन्योपसर्गपूर्वस्य मा भूदिति। अविवाक्यमहरिति पठन्ति। एतत् तु विशेष एवेष्यते, दशरात्रस्य यद् दशममहः। अन्यत्राविवाच्यमेव भवति॥ ण्यति प्रतिषेधे त्यजेरुपसंख्यानम्॥ त्याज्यम्॥ Siddhanta Kaumudi ----------------- ण्ये कुत्वं न । याज्यम् । याच्यम् । रोच्यम् । प्रवाच्यं ग्रन्थविशेषः । ऋच् । अर्च्यम् । ऋदुपधत्वेऽप्यत एव ज्ञापकात् ण्यत् । (वार्तिकम्) ॥ त्याज्यम् । त्यजिपूज्योश्चेति काशिका । तत्र पूजेर्ग्रहणं चिन्त्यम् । भाष्यानुक्तत्वात् । (वार्तिकम्) ॥ Balamanorama ------------ **यजयाचरुचप्रवचर्चश्च** - यजयाच । ण्ये कुत्वं नेति । शेषपूरणमिदम् । यज, या, रुच, प्रवच, ऋच् एषां द्वन्द्वात् षष्ठी । एषां ण्ये परेचजोः कु घिण्ण्यतो॑रिति कुत्वं नेत्यर्थः । ननु अच्र्यमित्यत् र कथं ण्यत्,ऋदुपधाच्चाऽकॢपिचृते॑रिति ऋदुपधत्वलक्षस्य ण्यदपवादत्वादित्यत आह — ऋदुपधत्वेऽपीति । त्यजिपूज्योश्चेति ।ण्ये कुत्वं ने॑ति शेषः । Tattvabodhini ------------- **यजयाचरुचप्रवचर्चश्च** - यज । यज देवपूजादौ । टुयाचृ याच्ञायाम् । रुच दीप्तौ । प्रपूर्वो वच परिभाषणे । ऋच स्तुतौ । ग्रन्थविशेष इति । तथा च संज्ञेयमितिवचोऽशब्दसंज्ञाया॑मित्यस्याऽप्रसङ्गान्निषेधोऽयमिति भावः । ज्ञापकादिति । सरूपत्वाद्वासरपविधिना ण्यद्भवेदिति न शङ्कनीयमिति भावः । Padamanjari ----------- अर्क्ष्यमिति । ठृच स्तुतौऽ । प्रवाच्यो नामेति । प्रकर्षेणोच्यत इति प्रवाच्यःउपाठविशेषोपलक्षितो ग्रन्थविशेषः । अपरे पुनरिति । ते मन्यन्ते - प्रपूर्वो वचिरशब्दसंज्ञायामेव वर्तते, तत्र विधेयासम्भवान्नियम इति । एतच्चेति । अविवाक्यमित्येतावच्छब्दरूपम् । कः पुनरसौ विशेषः ? इत्यत आह - दशरात्रस्येति । द्वादशाहेऽभितो द्विरात्रो मध्ये दशरात्रः, तस्य दशममहःउअविवाक्यम् । अन्यत्रेति । तथा च नास्मिन्नहनि केनचित् कस्यचिद्विवाच्यम्, अविवाक्यमित्येतदाचक्षते । संशये बहिर्वेदिस्वाध्यायप्रयोगोऽन्तर्वेदीत्येके इत्यहर्विशेषे कुत्वम्, अन्यत्र तदभावः प्रयुक्त आश्वलायनेन । एवमन्योपसर्गपूर्वस्यापि प्रतिषेध एवेष्यते, न नियमः । एवञ्च कृत्वा प्रवचिग्रहणं शक्यमकर्तुम्; अहर्विशेष पृषोदरादित्वात्कुत्वम्, अन्यत्र प्रतिषेध इति सिद्धमिष्टम्; अन्यथा नियमे हि बहु प्रतिविधेयं स्यात् ॥ Nyaas ----- `ण्ये` इत्येव। अनावश्यकार्थमिदम्। `याज्यम्` इत्यादि। `यज देवपूजादौ` (धातुपाठः-1002), `टुयाच्? याच्ञायाम्` (धातुपाठः-863), `रुच दीप्तौ` (धातुपाठः-745), `वच परिभाषणे` (धातुपाठः-1842) प्रपूर्वः, `ऋच स्तुतौ` (धातुपाठः-1302)। कथं पुनॠचेण्र्यत्, यावता `ऋदुपधाच्चाकॢपि चृतेः` (3.1.110) इति ण्यदपदादेव क्यपा भवितव्यम्? इत्याह - ऋदुपधात्` इत्यादि। अथ प्रवचिग्रहणं किमर्थम्, यावता **वचोऽशब्दसंज्ञायाम्** (7.3.67) इत्यनेनैव प्रतिषेधो भविष्यति? इत्याह - `प्रवचिग्रहणं शब्दसंज्ञार्थम्` इति। स्यादेतत्। नास्त्येव कश्चिच्छब्दो यस्य वाच्यमिति नामधेयम्? इत्याह - `प्रवाच्यो नाम` इत्यादि। `अपरे पुनः` इत्यादिना मतान्तरं दर्शयति। `एतत्तु` इति। अविवाक्यमेतद्रूपम्। कः पुनरसौ विशेषः? इत्याह - `दशरात्रस्य` इत्यादि। यस्मिन्? याज्ञिका न विब्राउवते, तस्य दशरात्रस्य यद्दशमाहस्तत्रैवैतच्छशब्दरूपमिष्यते, नान्यत्र। यद्येवम्, अनर्थकं नियमार्थं प्रवचिग्रहणम्, अवश्यं तस्य विशिष्टविषये वुत्तिर्यथा स्यादित्यवमर्थो यत्नः कर्तव्यः, तत एव यत्नात्? तत्र कुत्वमपि भविष्यति? नैतदस्ति; नियमाद्ध्यन्योपसर्गस्य कुत्वप्रतिषेधो निवर्तते। अभिधेयव्यवस्था तु प्रसिद्धिवशादेव विज्ञास्यते। `ण्यति प्रतिषेधे` इत्यादि। ण्यति प्रतिषेधेऽस्मिन्? क्रियमाणे `त्यज हानौ` (धातुपाठः-986) इत्यस्योपसंख्यानं कर्तव्यम्। उपसंख्यानशब्दसय प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - चकारोऽनुक्तसमुच्चयार्थः, तेन त्यजेरपि प्रतिषेधो भविष्यतीति॥ Prakriyasarvasvam ----------------- एषां ण्यति कुत्वं न । याज्यम् । याच्यम् । रोच्यम् । प्रवाच्यम् । ऋच स्तुतौ, अर्च्यम् । (वा० ७-३-६६) त्याज्यम् । Vartika ------- त्यजेश्च ।