73055: अभ्यासाच्च ================= **Padacheda:** अभ्यासात् | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- A guttural is substituted for the ह् in हन् 'to kill' after reduplication also. Vasu English Translation ------------------------ A guttural is substituted for the ह् in हन् 'to kill' after reduplication also. As जिघांसति, जङ्घन्यते, अहं जघान ॥ The rule applies when such an affix follows which causes the reduplication of the stem (*anga*) हन्, therefore not here हननीयितुमिच्छाति = जिहननीयिषति ॥ Bhashya ------- अभ्यासाच्च अभ्यासात्कुत्वमसुपः अभ्यासात्कुत्वमसुप इति वक्तव्यम् । इह मा भूत् - हननमिच्छति हननीयति, हननीयतेः सन् जिहननीयिषतीति ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् । हन्तेरभ्यासादित्युच्यते न चैष हन्तेरभ्यासः ॥ हन्तेरेषोऽभ्यासः(2) ॥ कथम् ? ॥ एकाचो द्वे प्रथमस्येति ॥ एवं तर्हि हन्तेरङ्गस्य योऽभ्यासस्तस्मादित्युच्यते न चैष हन्तेरङ्गस्याऽभ्यासः ॥ हन्तेरङ्गस्यैषोऽभ्यासः ॥ कथम् ? ॥ एकाचो द्वे प्रथमस्येति ॥ एवं तर्हि यस्मिन् हन्तिरङ्गं तस्मिन्योऽभ्यासस्तस्मादित्युच्यते, यस्मिंश्चाऽत्र हन्तिरङ्गं न तस्मिन्नभ्यासो, यस्मिंश्चाभ्यासो(3) न तस्मिन्हन्तिरङ्गं भवति । ( अभ्यासाच्च ) ॥ Kashika ------- अभ्यासादुत्तरस्य हन्तिहकारस्य कवर्गादेशो भवति। जिघांसति। जङ्घन्यते। अहं जघन। अभ्यासनिमित्ते प्रत्यये हन्तेरङ्गस्य योऽभ्यासस्तस्मादेवैतत् कुत्वम्। इह न भवति — हननीयितुमिच्छति जिहननीयिषति॥ Siddhanta Kaumudi ----------------- अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात् । जघनिथ-जघन्थ । हन्ता । ऋद्धनोः - (SK2366) इतीट् । हनिष्यति । हन्तु । हतात् । घ्नन्तु ॥ Laghu Siddhanta Kaumudi ----------------------- अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात्। जघनिथ, जघन्थ। जघ्नथुः। जघ्न। जघान, जघन । जघ्निव। जघ्निम। हन्ता। हनिष्यति। हन्तु, हतात्। हताम्। घ्नन्तु॥ Balamanorama ------------ **अभ्यासाच्च** - अभ्यासाच्च ।हो हन्ते॑रित्यनुवर्तते ।चजोः कु घिण्ण्यतो॑रित्यतः कुग्रहणं च । तदाह — अभ्यासात्परस्येत्यादिना । जघनिथ जघन्थेति । इडभावे नस्याऽनुस्वारपरसवर्णौ । जघ्नथुः । जघ्न । जघान — जघन, जघ्निव जघ्निम । लृटि स्ये इण्निषेधमाशङ्क्याह — ऋद्धनोरिति । हन् हि इति स्थिते 'हुझल्भ्यः' इति धित्वे प्राप्ते — । Padamanjari ----------- अहं जघनेति । णित्वाभावे उदाहरणम् । णित्वपक्षे पूर्वेणैव सिद्धम् । एवं जघनिथ, जघन्थ, जघन्वानित्युदाहरणम् । अभ्यासनिमिते प्रत्यय इत्यादि । अङ्गाधिकारेणाभ्यासेन च प्रत्ययस्याक्षेपादयमर्थो लभ्यते । जिहननीयिषतीति । अत्र यस्मिन्हनिरङ्गं ल्युटि न तस्याभ्यासनिमितत्वम्, यश्चाभ्यासस्य निमितं सन् न तस्मिन् हन्तिरङ्गम् ॥ Nyaas ----- `जिघांसति` इति। सन्, **अज्झनगमां सनि** (6.4.16) इति दीर्घः, द्विर्वचनम्, **कुहोश्चुः** (7.4.62) इति चुत्वम् - झकारः; **अभ्यासे चर्च** (8.4.54) इति जश्त्वम् - जकारः, `सन्यतः` (7.4.79) इत्तीत्त्वम्। `जङ्घन्यते` इति। **नुगतोऽनुनासिकान्तस्य** (7.4.85) इति नुक्। जघान` इति। उत्तमपुरुषेणलि यदा णित्वं नास्ति तदेदमुदाहरणम्। णित्त्वपक्षे तु पूर्वेणैव सिद्धम्। अग्र हननशब्दात्? क्यचि कृते तदन्तात्? सनि जिहननीयिषतीत्यत्र कस्मान्न भवतीति, भवति ह्रवाभ्यासात्? परो हन्तिहकरः? इत्याह - इहाभ्यासनिमित्तप्रत्यये` इत्यादि। इह `हन्तेः` (7.3.54) इत्यनुवर्तते, अङ्गस्येति च। अभ्यासेनाभ्यासनिमित्तं प्रत्ययः सन्निधापितः, तस्य प्रत्ययः विशेषणिमित्तत्वात्, तत्र तेनाभ्यासनिमित्तेन प्रत्ययेन हन्तेरङ्गं विशिष्यते। `अभ्यासनिमित्ते[अभ्यासनिमित्ते प्रत्येये हन्तेरङ्गस्य - काशिका] प्रत्यये यदङ्गं हन्तिः` इति। तेनाप्येवंविधेन हन्तिनाभ्यासो विशिष्यते। यथोक्तविशेषणविशिष्टस्य हन्तेरङ्गस्य योऽभ्यासः - इत्येवं विशेषणविशेष्यभावे सत्यभ्यासनिमित्ते सनादौ प्रत्यये हन्तेरङ्गस्य योऽभ्यासस्तस्मादेव कुत्वेन भवितव्यम्। `तेनेह [`तेन` नास्ति - काशिका] न भवति - `जिहननीयिषति` इति। न ह्रतराभ्यासनिमित्ते प्रत्यये सनि हन्तिरङ्गम्, किं तर्हि? हननीयशब्दः। यस्मस्तु हन्तिरङ्गम्, ल्युटि स नाभ्यासनिमित्त्म्॥ Prakriyasarvasvam ----------------- अभ्यासात् परस्य हन्तेर्हस्य कुत्वं स्यात् । घनाघनो हन्ता वर्षुकमेघश्च । (वा० ६-१-१२) । पाटयतेरच् । पाटि अ । णिलुक् । Sutra Prayogas -------------- * **जिघांसुः** (किरातार्जुनीयम्): `अभ्यासाच्च` इति कुत्वम्। * **जिघांसौ** (भट्टिकाव्यम्): `अभ्यासाच्च` इति कुत्वम् । * **जिघांसू** (भट्टिकाव्यम्): `अभ्यासाच्च` इति कुत्वम्।