73054: हो हन्तेर्ञ्णिन्नेषु =========================== **Padacheda:** हः | S | 6 | 1 | हन्तेः | S | 6 | 1 | ञ्णित्-नेषु | S | 7 | 3 | Sutrartha --------- **हन्-धातोः अङ्गस्य हकारस्य कुत्वम् भवति ञित्-प्रत्यये परे, णित्-प्रत्यये परे, नकारे परे ।** हन्-धातोः यः हकारः, तस्य (1) ञित्-प्रत्यये परे, (2) णित्-प्रत्यये परे, (3) नकारे परे कुत्वम् भवति । हकारस्य बाह्यप्रयत्नः संवार-नाद-घोष-महाप्राणः, अतः तादृशः कवर्गीयः घकारः हकारस्य स्थाने आगच्छति । क्रमेण उदाहरणानि पश्यामः - 1) ञिति परे - हन्-धातोः घञ्-प्रत्ययान्तरूपस्य सिद्धिः एषा - हन् + घञ् [**भावे** (3.3.18) इति घञ्] → घन् + अ [**हो हन्तेर्ञ्णिन्नेषु** (7.3.54) इत्यनेन ञित्-प्रत्यये परे हन्-इत्यस्य हकारस्य घकारादेशः ] → घत् + अ [**हनस्तोऽचिण्णलोः** (7.3.32) इति नकारस्य तकारः] → घात् + अ [**अतः उपधायाः** (7.2.116) इति उपधा-अकारस्य दीर्घः] → घात 2) णिति परे - हन्-धातोः ण्वुल्-प्रत्ययान्तरूपस्य सिद्धिः एषा - हन् + ण्वुल् [**ण्वुल्तृचौ** (3.1.133) इति ण्वुल् ] → हन् + अक [ **युवोरनाकौ** (7.1.1) इति अक-आदेशः] → घन् + अक [**हो हन्तेर्ञ्णिन्नेषु** (7.3.54) इत्यनेन णित्-प्रत्यये परे हन्-इत्यस्य हकारस्य घकारादेशः ] → घत् + अक [**हनस्तोऽचिण्णलोः** (7.3.32) इति नकारस्य तकारः] → घात् अक [**अतः उपधायाः** (7.2.116) इति उपधा-अकारस्य दीर्घः] → घातक 3) नकारे परे - 'वृत्रहन्' इति नकारान्तम् प्रातिपदिकमस्ति । तस्य द्वितीया-बहुवचनस्य प्रक्रिया इयम् - वृत्रहन् + शस् → वृत्रह् न् + अस् [**अल्लोपोऽनः** (6.4.134) इत्यनेन भस्य उपधा-अकारस्य लोपः] → वृत्रघ् न् + अस् [**हो हन्तेर्ञ्णिन्नेषु** (7.3.54) इत्यनेन नकारे परे हन्-इत्यस्य हकारस्य घकारादेशः ] → वृत्रघ्नः Sutrartha (English) ------------------- The हकार of the verb हन् undergoes कुत्वम् in presence of (1) a ञित्-प्रत्यय, (2) a णित्-प्रत्यय, (3) a नकार. Vasu English Summary -------------------- A guttural is substituted for the ह् in हन् 'to kill' before an affix having an indicatory ञ् or ण् and before न्। Vasu English Translation ------------------------ A guttural is substituted for the ह् in हन् 'to kill' before an affix having an indicatory ञ् or ण् and before न्। As घातयति with णिच्, घातकः with ण्वुल्, साधुघातिन् with इञ्, घातंघातम् with णमुल्, घातः with घञ्, घ्नन्ति, घ्नन्तुम्, and अघ्नन् before न् ॥ Why do we specify ह्? Otherwise the substitute would replace the final letter. Why of हन् ? Observe प्रहारः, प्रहारकः ॥ ण् and ञ् qualify the affixes, and न् means the न् of हन् which becomes joined with ह् when the intermediate अ is dropped. This न् comes in immediate contact with ह, because it is heard in pronouncing, and in writing. If the elided अ be considered as *sthanivat*, then ह can never be followed by न्, for there will exist the intervention of this latent अ, but by virtue of the special text of this *sutra*, such an elided अ should not be considered as an intervention. And if ञ्, ण् and न् be all considered as qualifying the ह् of हन्, still on the maxim ये न नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् therefore ण् or ञ् are considered to come after ह् though a portion of the root intervenes. But not so here, हननमिच्छति हननीयति, add ण्वुल् to this Denominative root, and we have हननायकः ॥ Bhashya ------- हो हन्तेर्ञ्ञ्णिन्नेषु किमिदं ञ्ञ्णिन्नकारग्रहणं हन्तिविशेषणं ञ्ञ्णिन्नकारपरस्य हन्तेर्यो हकार इति, आहोस्विद्धकारविशेषणं ञ्ञ्णिन्नकारपरस्य हकारस्य, स चेद्धन्तेरिति ? ॥ कश्चात्र विशेषः ? हन्तेस्तत्परस्येति चेन्नकारेऽप्रसिद्धिः हन्तेस्तत्परस्येति चेन्नकारेऽप्रसिद्धिः । घ्नन्ति घ्नन्तु अघ्नन् ॥ अस्तु तर्हि हकारविशेषणम् ॥ हकारस्येति चेञ्ञ्ञ्ञ्णित्यप्राप्तिर्व्यवहितत्वात्(23) ॥ हकारस्येति चञ्ञ्ञ्ञ्णित्यप्राप्तिः। घातयति घातकः ॥ किं कारणम्? ॥ व्यवहितत्वात् । नकारेणव्यवहितत्वान्न प्राप्नोति ॥ वचनाद्भविष्यति ॥ इहापि वचनात्प्राप्नोति - हननमिच्छति हननीयति - हन - नीयतेर्ण्वुल् - हननीयक इति स्थानिवद्भावाच्चाऽचोनकारेऽप्रसिद्धिः स्थानिवद्भावाच्चऽचो नकारेऽप्रसिद्धिः स्यात्(4) । घ्नन्ति घ्नन्तु ॥ वचनाद्भविष्यति वचनप्रामाण्यादिति चेदलोपे प्रतिषेधः वचनप्रामाण्यादिति चेदलोपे प्रतिषेधो वक्तव्यः । हन्ता हन्तुम् । ( नकारग्रहणसार्मथ्यादलोपे न(1) )। नकारग्रहणसार्मथ्यादलोपे न भविष्यति ॥ अस्त्यन्यन्नकारवचनस्य प्रयोजनम् ॥ ? ॥ किम् ? ॥ श्रूयमाणविशेषणम् । यत्र नकारः श्रूयते तत्र यथा स्यादिह मा भूत् - हतो हथ इति सिद्धं तूपधालोप इति वचनात् सिद्धमेतत् ॥ कथम् ? ॥ (ठउपधालोप इति वचनात्) । उपधालोपे चेति वक्तव्यम् ॥ सिध्यति, सूत्रं तर्हि भिद्यते ॥ यथान्यासमेवाऽस्तु । ननु चोक्तं - हन्तेस्तत्परस्येति चेन्नकारेऽप्रसिद्धिरिति ? ॥ वचनाद्भविष्यति ॥ अथ वा पुनरस्तु - हकारविशेषणम् ॥ ननु चोक्तं हकारस्येति चेञ्ञ्ञ्ञ्णित्यप्राप्तिरिति ? ॥ वचनाद्भविष्यति ॥ ननु चोक्तमिहापि वचनात्प्राप्नोति हननीयक इति ? ॥ नैष दोषो, येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् । न च क्वचिद्धात्ववयवेनाऽव्यवधानम्, एतेन पुनः सङ्घातेन व्यवधानं भवति(3), न च भवति । यदप्युच्यते - स्थानिवद्भावाच्चाऽचो नकारेऽप्रसिद्धिरिति । वचनाद्भविष्यति ॥ ननु चोक्तं वचनप्रामाण्यादिति चेदलोपे प्रतिषेध इति ॥ नैषः दोषः ॥ आनन्तर्यमिहाश्रीयते - हकारस्य नकार इति । क्व चिच्च संनिपातदकृतमानन्तर्यं, न शास्त्रकृतमानन्तर्यं(4), क्व चिच्च न सन्निपातकृतं नापि शास्त्रकृतम् । लोपे सन्निपातकृतमानन्तर्यम्, न शास्त्रकृतमानन्तर्यम्(1), अलोपे नैव सन्निपातकृतं नापि शास्त्रकृतम् । यत्र कुतश्चिदेवानन्तर्यं तदाश्रयिष्यामः ॥ ( होहन्तेर्ञ्ञ्णिन्नेषु ) ॥ Kashika ------- हन्तेर्हकारस्य कवर्गादेशो भवति ञिति प्रत्यये परतो नकारे च। घातयति। घातकः साधुघाती। घातंघातम्। घातो वर्तते। नकारे — घ्नन्ति। घ्नन्तु। अघ्नन्। ह इति किम्? अलोऽन्त्यस्य मा भूत्। हन्तेरिति किम्? प्रहारः। प्रहारकः। ञ्णित्प्रत्ययो हन्तेर्विशेषणम्। नकारो हकारस्य — नकारेऽनन्तरस्य हन्तिहकारस्येति। तच्चानन्तर्यं संनिपातकृतम् आश्रीयते। स्थानिवद्भावशास्त्रकृतं तु यदनानन्तर्यं तदविघातकम्, वचनसामर्थ्यात्। यद्यपि सर्वैरेव ञ्णिन्नैर्हन्तिहकारो विशिष्यते तथापि **येन नाव्यवधानं तेन व्यवहितेपि वचनप्रामाण्यात्** इति ञ्णिति धात्ववयवेन व्यवहितेऽपि सति भवति। इह तु न भवति — हननमिच्छति हननीयति, हननीयतेर्ण्वुल् हननीयक इति॥ Siddhanta Kaumudi ----------------- ञिति णिति च प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वं स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वम्। वृत्रघ्नः इत्यादि। एवं शार्ङ्गिन्, यशस्विन्, अर्यमन्, पूषन्॥ Balamanorama ------------ **हो हन्तेर्ञ्णिन्नेषु** - हो हन्तेः । 'हः' इति स्थानषष्ठी,हन्ते॑रित्यवयवषष्ठी । ञ् च ण् च ञ्णौ । तौ इतौ ययोस्तौ ञ्णितौ । इच्छब्दः प्रत्येकं सम्बध्यते । ञ्णितौ च नश्च ञ्णिन्नाः, तेष्विति विग्रहः । अङ्गाधिकारात्प्रत्ययत्वं ञ्णितोर्लभ्यते ।चजोः कु घिण्यतो॑रित्यतः कुग्रहणमनुवर्तते । तदाह — ञितीत्यादिना ।हन्ते॑रिति श्तिपा निर्देशः । हन्धातोरित्यर्थः । प्रकृते हकारस्य नकारपरत्वात्कुत्वम् । तत्र घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थो घकारः । वृत्रघ्नः वृत्रघ्ना इत्यादि सिद्धम् । Tattvabodhini ------------- **हो हन्तेर्ञ्णिन्नेषु** - हन्तेर्हस्येति ।ञिति॑णिती॑त्येतद्धन्तेर्विशेषणम्,नकारे॑इति तुहस्ये॑ति यथासंभवं बोध्यम् । यद्वा ञिण्णिन्नाः सर्वेऽपि ह्यस्यैब विशेषणं । ञिति णितीत्यंशे येन नाव्यवधानन्यायेन द्वाभ्यां व्यवधानं स्वीक्रियते । तेघातः॒॑घातक॑इत्यत्र कुत्वं भवति । इह तु न भवति, हननमात्मन इच्छति हननीयति । हननीयतेर्ण्वुल् — ॒हननीयक॑इति । एतच्च भाष्यकैयटादौ स्पष्टम् । Padamanjari ----------- ञश्च णश्च ञ्णौ, तावितौ ययोस्तौ ञ्णितौ, तौ च नश्च ञ्णिन्नाः, तेषु ञ्णिन्नेषु । नकारेऽकार उच्चारणार्थः, तेन वृत्रघ्नि, वृत्रघ्नोरित्यादावपि भवति । घ्नन्तीत्यादौ'गमहन' इत्युपधालोपः । किमिदं ञ्णिन्नग्रहणं हन्तिविशेषणम् - ञ्णिन्नपरस्य हन्तेर्यो हकार इति ? आहोस्विद्धकारविशेषणम् - ञ्णिन्नपरस्य हकारस्य स चेद्धन्तेरिति ? तत्राद्ये पक्षे ह्यत्रासिद्धिः - घ्नन्ति, घ्नन्तु; न हि स्वावयव एव स्वस्मात्परो भवति । द्वितीये तु न क्वचित् स्यात्, न हि ञ्णिन्नकारपरता हकारस्य क्वापि सम्भवति - घातयतीत्यादौ तावदकारेण तकारेण च व्यवधानम्, घ्नन्तीत्यादावुपधा लोपस्य स्थानिवद्भावाद् व्यवधानमेव । अथ वचनाद्व्यवधानेऽपि भविष्यति ? इहापि तर्हि प्राप्नोति - हतमिच्छति हतीयति, हतीयतेर्ण्वुल्, हतायक इति, नकारेऽपि हन्ता, हननमित्यादावपि प्रसङ्गः । नकारग्रहणमिदानीं किमर्थं स्यात् ? यत्र नकारः श्रूयते तत्र यथा स्यात्, इह मा भूत् - हतः, हथ इति तदेवं द्वयोरपि पक्षयोर्दोषं दृष्ट्वा पक्षान्तरं दर्शयति - ञ्णित्प्रत्यय इत्यादि । यद्यपि द्वन्द्वनिर्द्दिष्टानामेकयोगक्षेमता न्याय्या, तथापि सम्भवव्यभिचारौ हि विशेषणविशेष्यभावस्याङ्गमित्ययमेव प्रकार आश्रीयते । ननु च'स्थानिवद्भावादानन्तर्यं नकारस्य न सम्भवति' इत्युक्तम् ? अत आह - तच्चेति । सन्निपातकृतमिति । श्रुतिकृतमित्यर्थः । अथ वा - पुनरस्तु द्वितीयः पक्षः, तत्रापि दोषः सुप्रतिविधानः ? इत्याहयदापीति । धात्ववयवेन नकारेण व्यवधानमव्यभिचारीति तदेवाश्रीयते, न शब्दान्तरेणेति ञ्णित्ययं परिहारः । नकारे तूक्त एव ॥ Nyaas ----- `धातयति` इत्याद्युदाहरणानि **हनस्तोऽचिण्णलोः** (7.3.32) इत्यत्र व्युत्पादितानि। `ध्नन्ति` इति। लट्, झेरन्तादेशः, `गमहन` (6.4.98) इत्यादिनोपधालोपः। `ध्नन्तु` इति। लोट्। `अध्वन्` इति। लङ्, `इतश्च` (3.4.100) इतीकारलोपः।`प्रहारः, प्रहारकः` इति। हरतेर्घञ्णवुलौ। इह णिन्नग्रहणं हन्तिविशेषणं वा स्यात् - ञ्णिन्नकारपरस्य हन्तेर्यो हकार इति, हकारविशेषणंवा - ञ्णिन्नकारपरसय हकारस्येति स चेद्धन्तेरिति? तत्र यदि पूर्वकः पक्ष आश्रीयेत, ध्नन्त्यादौ न स्यात्, न ह्यत्र नकारपरो हन्तिः; अवयवेन समुदायस्य पौर्वापर्यानुपपत्तेः, अन्यस्य नकारस्याभावात्। अथेतरः पक्ष आश्रीयेत, न क्वचित्? स्यात्, न हि हकारस्य ञ्णिन्नकारपरता सम्भवति। असम्भवस्तु ध्नन्तत्यादावकारलोपस्य पूर्वविधौ स्थानिवद्भावे सत्यकारेण व्यवधानात्, घातयतीत्यादावपि हकारात्? परेण हन्त्यवयवेनानशब्देन व्यवधानात्। अथ वचनसामर्थ्याद्व्यवधानेऽपि कृत्वं स्यात्, एवमपि हननमिच्छतीति `सुप आत्मनः क्यच` (3.1.8) , **क्यचि च** (7.4.33) इतीत्त्वम्, क्यजन्ताण्णवुल्, **अतो लोपः** (6.4.48) इत्यकारलोपो हननीयक इत्यत्रापि स्यादिति यश्चोदयेत्, तं प्रति पक्षान्तरमाश्रित्याह - `ञ्णित्प्रत्ययोऽत्र हन्तेर्विशेषणम्` इत्याद। न हि सर्वेषां ञ्णिन्नकाराणां हन्त प्रति विशेषणत्वमुपपद्यते, नापि हकारं प्रति। तस्माद्यथासम्भवं किञ्चिदेव कस्यचिद्विशेषणम्। ञ्णित्प्रत्ययस्तु हन्तेः परतः उपपद्यते इति तस्यासौ विशेषणम् - ञ्णिति प्रत्यये परतोऽनन्तरस्य हन्तेरिति। नकारस्तु हन्तेर्विशेषणँ नोपपद्यते; पूर्वोक्तात्? कारणात्। इकारस्य तूपपद्यत इति तस्यैव विशेषणम् - नकारे परतोनन्तरस्य हन्तिहकारस्यानन्तर इति। अयं तु **तस्मिन्निति निर्दिष्टे पूर्वस्य** (1.1.66) इति निर्दिष्टग्रहणस्यानन्तर्यार्थत्वाल्लभ्यते। आनन्तर्याश्रयणे तु - हन्ता, हन्तुमित्यत्राप्यतिप्रसङ्गो निरस्तः। ननु चानन्तर्यमेव हकारस्य णकारेण न सम्भवति, अकारलोपस्य स्थानिवद्भावे सत्यकारेण व्यवधानात्? इत्यत आह - `तच्च` इत्यादि। `सन्निपातकृतम्` इति। श्रुतिकृतमित्यर्थः। ननु चाश्रितेऽपि सन्निपातकृतानन्तर्ये स्थानिवद्भावशास्त्रेण यत्? कृतमनानन्तर्यं तद्विहन्यादेव कुत्वम्? इत्यत आह - `स्थानिवद्भावशास्त्रकृतं तु` इत्यादि। किं कारणमविधातकम्? इत्याह - `वचनसामर्थ्यात्` इति। यदि स्थानिवद्भावशासतद्रकृतमनानन्तर्य व्यवधायकं बाधकं स्यान्नकारवचनमनर्थकं स्यात्; निरवकाशत्वात्। तस्माद्वचनसामर्थ्यान्न विघातकम्। `यद्यपि` इत्यादिना यौ द्वौ पक्षावुपन्यस्तौ, तत्र द्वितीये पक्षे यो दोषस्तस्य परीहारः। तत्र नकारेण हकारे विशेष्यमाणे यो दोषः स पूर्वमेव परिह्मतः। सम्प्रति तु ञ्णित्प्रत्ययेन हकारे विसेष्यमाणे यो दोषस्तं परिहरति। योऽयं हन्तेरवयवो हकारात्? परोऽकारादिर्नकारान्तः, तेन सर्वत्र ञ्णित्प्रत्ययस्य व्यवधानम्। अननीयशब्देन तु च्यवधानं सम्भवति, न सम्भवति च तत्र `येन नाव्यवधानं तेन व्यवहितेऽति वचनप्रामाण्यात्` (व्या।प।46) इति घातयतीत्यादौ कुत्वं भवति। येन त्वननीयशब्देन व्यवधानं न सम्भवति, सम्भवति च तेन व्यवधाने हननीयक इत्यत्र न भविष्यति। आद्ये तु पक्षे यो दोष उक्तः, स तस्यानभ्युपगमादेवानवसरः। हन्तेः श्तिपा निर्देशो धातुनिर्देशार्थ एव, न यङ्लुग्निवृत्त्यर्थः। तत्र हि **अभ्यासाच्च** (7.3.55) इति भवितव्यमेव कुत्वेन॥ Prakriyasarvasvam ----------------- ञिति णिति प्रत्यये नकारे च परे हन्तेर्हस्य कुत्वं स्यात् । घन् य । Sudha ----- हो हन्तेरिति । अङ्गाधिकारात्प्रत्ययत्वं ञ्णितो लभ्यते । **चजोः कु घिण्ण्यतोः**(7.3.52) इत्यतः कुग्रहणमनुवर्तते । तदाह - ञिति णितीत्यादिना । वृत्रघ्नः । वृत्रहन् + शस् अत्र शस्येत्सञ्ज्ञायां लोपे च **यचि भम्**(1.4.18) इति भसंज्ञायाम् **अल्लोपोऽनः**(6.4.134) इत्यनोऽकारस्य लोपे 'वृत्रहन् अस्' इति स्थिते **हो हन्तेर्ञ्णिन्नेषु**(7.3.54) इत्यनेन नकारे परे हकारस्य कुत्वेन घकारे सस्य रुत्वे रेफस्य विसर्गत्वे च कृते मिलित्वा 'वृत्रघ्नः' इति रूपम् । **इत्यादीति ।** आदिना अजादौ प्रत्यये भसञ्ज्ञायाम् अनोऽकारस्य लोपः । हलादौ विभक्तौ परे नलोपश्च बोध्यः । वृत्रघ्ना, वृत्रहभ्याम्, वृत्रहभिः । वृत्रघ्ने | वृत्रघ्नः २ । वृत्रघ्नोः । वृत्रघ्नाम् । वृत्रघ्नि - वृत्रहनि । इति । एवमित्यादि । शार्ङ्गी, शार्ङ्गिणौ, शार्ङ्गिणः । हे शार्ङ्गिन् । शसि - शार्ङ्गिणः । भ्यामि - शार्ङ्गिभ्याम् । यशस्वी, यशस्विनौ, यशस्विनः । हे यशस्विन् । शसि - यशस्विनः । भ्यामि - यशस्विभ्यामित्यादि । अर्यमा, अर्यमणौ, अर्यमणः । हे अर्यमन् । शसि - अल्लोपे णत्वे च 'अर्यम्णः' । भ्यामि - अर्यमभ्यामित्यादि । पूषा, पूषणौ, पूषणः । हे पूषन् । शसि - अल्लोपेणत्वे च 'पूष्णः' । भ्यामि -पूषभ्यामित्यादि । Sutra Prayogas -------------- * **विघ्नन्ति** (भट्टिकाव्यम्): `हो हन्तेः` इति कुत्वम् ॥ * **घानिष्यते** (भट्टिकाव्यम्): `हो हन्तेः` इति कुत्वम् ॥ * **समूलघातं** (भट्टिकाव्यम्): `हो हन्तेः` इति घत्वम् । * **निघ्नानं** (भट्टिकाव्यम्): `हो हन्तेः-` इति कुत्वम्। * **पतिघ्नी** (भट्टिकाव्यम्): `हो हन्तेः` इति कुत्वम्। * **घ्नता** (भट्टिकाव्यम्): `हो हन्तेः` इति कुत्वम्। * **आघ्नान** (भट्टिकाव्यम्): `हो हन्तेः` इति कुत्वम्। * **प्राघानिषत** (भट्टिकाव्यम्): `हो हन्तेः` इति वत्वम्।