73048: अभाषितपुंस्काच्च ======================= **Padacheda:** अभाषितपुंस्कात् | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- According to the opinion of Northern Grammarians इ is not substituted for that अ which is obtained by shortening the long आ of the feminine (under sūtra केऽणः (7.4.13)) when to the feminine in long आ there is no equivalent masculine, even when the negative particle precedes. Vasu English Translation ------------------------ According to the opinion of Northern Grammarians इ is not substituted for that अ which is obtained by shortening the long आ of the feminine (under sūtra केऽणः (7.4.13)) when to the feminine in long आ there is no equivalent masculine, even when the negative particle precedes. As खट्वका or खट्विका, अखट्विका or अखट्वका, परमखट्वका or परमखट्विका ॥ When before the affix कप्, the stem is shortened in a *Bahuvrihi*, this rule will apply (7.4.15). There also, the अ must be substituted for the आ of a feminine word which has no corresponding masculine. But this rule does not apply when the negative compound is the synthesis of अविद्यमाना खट्वा अस्याः = अखट्वा, अल्पा अखट्वा =अखट्विका ॥ Similarly अतिक्रान्ता खट्वाम् = अतिखट्वा, अल्पा अतिखट्वा =अतिखट्विका ॥ Note: The word खट्वा is always feminine and has no corresponding masculine. Kashika ------- अभाषितपुंस्काद् विहितस्यातः स्थाने योऽकारस्तस्योदीचामाचार्याणां मतेनेकारादेशो न भवति। खट्वका, खट्विका। अखट्वका, अखट्विका। परमखट्वका, परमखट्विका। बहुव्रीहौ यदा कपि ह्रस्वः क्रियते, तदा भवितव्यमनेन विधिना। अत्राप्यभाषितपुंस्काद् विहितस्यातः स्थाने भवत्यकार इति। यदा तु अविद्यमाना खट्वा अस्या अखट्वा, अल्पा अखट्वा अखट्विकेति, तदा न भवति। तथातिक्रान्ता खट्वाम् अति खट्वा, अल्पा अतिखट्वा अतिखट्विका॥ Siddhanta Kaumudi ----------------- एतस्माद्विहितस्यातः स्थानेऽत इद्वा स्यात् । गङ्गका । गङ्गिका । बहुव्रीहेर्भाषितपुंस्कत्वात्ततो विहितस्य नित्यम् । अज्ञाता अखट्वा अखट्विका । शैषिके कपि तु विकल्प एव ॥ Balamanorama ------------ **अभाषितपुंस्काच्च** - अभाषितपुंस्काच्च । 'उदीचामातः स्थाने' इत्यनुवर्तते, अत इदिति च । अभाषितः पुमान्येनेति विग्रहः । विहितस्येत्यध्याहार्यम् । तदाह — एतस्मादिति । अभाषितपुंस्कादित्यर्थः । अयकपूर्वार्थं वचनम् । गङ्गका । गङ्गिकेति । गङ्गाशब्दात्कः । 'केऽणः' इति ह्रस्वः, इत्त्वविकल्पः । विहितविशेषणस्य फलमाह — बहुव्रीहिरिति । अविद्यमाना खट्वा यस्या इति विग्रहेनञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः॑ इति बहुव्रीहौ कृते, विद्यमानपदलोपे, नञो नलोपे 'शेषाद्विभाषा' इति कबभावपक्षे, 'गोस्त्रियोः' इति ह्रस्वे, अखट्वशब्दाट्टापि, सुपि अज्ञातादौ के, सुब्लुकि, 'केऽणः' इति ह्रस्वे, पुनष्टापि अभाषितपुंस्काद्विहितस्य आतः स्थाने अतोऽभावान्नेत्त्वविकल्पः । किंतुप्रत्ययस्था॑दिति नित्यमित्त्वमित्यर्थः ।अभाषितपुंस्कात्परस्ये॑ति व्याख्याने तु तादृशखट्वशब्दात्परस्य आतः स्थाने अतः सत्त्वादित्त्वविकल्पः स्यादिति भावः । शैषिके कपि त्विति । न स् खट्वा स् इत्यवस्थायां कपि सुब्लुक् । प्रत्ययलक्षणेन भागद्वयस्य सुबन्तत्वात्नञोऽस्त्यर्थाना॑मिति बहुव्रीहिसमासः । 'समासान्त' इत्यन्वर्थसंज्ञाबलात्कबन्तस्यैव समासत्वम् । ततश्च अखट्वाकशब्दे अखट्वा इत्यंशस्य उपसर्जनस्त्रीप्रत्ययान्तसमासरूपप्रातिपदिकत्वाऽभावात् 'गोस्त्रियोः' इति ह्रस्वो न भवति । नापि 'केऽणः' इति ह्रस्वः,न कपी॑ति निषेधात् । किंतुआपोऽन्यतरस्या॑मिति ह्रस्वविकल्पः । तत्र खट्वाशब्दाद्विहितस्य कपः प्राग्वर्तिनष्टापोऽभाषितपुंस्काद्विहितत्वेन तत्स्थानिकह्रस्वाकारस्यायमित्त्वविकल्पो भवत्येवेत्यर्थः ।आपोऽन्यतरस्या॑मिति ह्रस्वाऽभावपक्षे तु अखट्लाकेत्येव बोध्यम् । Tattvabodhini ------------- **अभाषितपुंस्काच्च** - अभषित । एतस्मादिति । नित्यस्त्रीलिङ्गादित्यर्थः । विहितविशेषणतया व्याख्यानस्य फलमाह -बहुव्रीहेरिति । ततो विहितस्य नित्यमिति । आवेद्यमाना खट्वा यस्याः साअखट्वे॑त्यत्रशेषद्विभाषे॑ति समासान्तस् कपो वैकल्पिकत्वात्कबभावपक्षेगोस्त्रियो॑रित्युपसर्जनह्रस्वे कृते पुनरखट्वशब्दाद्भाषितपुंस्काट्टापि सत्यज्ञातादौ कप्रत्ययेकेषणः॑इति ह्रस्वेऽस्य विकल्पस्याऽप्रवृत्तेःप्रत्ययस्था॑दित्युत्सर्ग एव पर्वर्तते, परविशेषणत्वे त्वयं विकल्पः स्यादेवेति भावः ।बहुव्रीहे॑रित्युपसर्जनोपलक्षणं, तेनाऽतिखट्विकेत्यादावपि नित्यमेव । विकल्प एवेति ।अखट्वे॑ति बहुव्रकीहौन सु खट्वा सु॑इति स्थितेसुपो धातु -॑इति सोर्लुक्यपसर्जनह्रस्वत्वं बाधित्वाशेषाद्विभाषे॑ति समासान्ते कपि परत्वात्कृते स्त्रीप्रत्ययान्तत्वाऽभावादुपसर्जनह्रस्वो न प्रवर्तते, किन्तुकेऽणः॑इति ह्रस्वस्यन कपि॑आपोऽन्यतरस्या॒मिति वैकल्पिकनिषेधात्पाक्षिकह्रस्वे सतिअभाषितपुंस्काच्चे॑ति विकल्पः प्रवर्तते । तत्र हि खट्वाशब्दात्परस्य टापोऽभाषितपुंस्काद्विहितत्वादिति भावः । ह्रस्वाऽभावपक्षे त्त्वखट्वाकेत्यतद्रूपान्तरम् । Padamanjari ----------- अभाषितपुंस्कादिति विहितविशेषणमित्याह - अभाषितपुंस्काद्विहितस्येति । खट्वाशब्दः स्त्रियामेव नियत इत्यभाषितपुंस्कः, बहुव्रीहेरभिधेयलिङ्गत्वादभाषितपुंस्कत्वाभावादनेन विकल्पेन न भवितव्यमिति मन्यमानं प्रत्याह - बहुव्रीहाविति । कथं भवतीत्यत आह - तत्रापीति । इतिकरणो हेतौ । यदा त्विति । कबभावपक्ष एतत् । अखट्वा इति स्थिते उपसर्जनह्रस्वत्वम्, टाप्, पुनः'के' णःऽ इति ह्रस्वः । स च समासाद्भाषितपुंसकादुत्पन्नस्य टाप इति न भवत्ययं विकल्पः । ठभाषितपुंस्कात्परस्यातःऽ इति विज्ञायमाने स्यादेवात्र विकल्पः । अतिखट्विकेति । अत्रापि समासाद्भाषितपुंस्काट्टाबुत्पन्नः ॥ Nyaas ----- नञ्पूर्वाणामपीत्यनुकर्षणार्थश्चकारः। खट्वका, खट्विका` इति। पूर्ववत्? कः। खट्वाशब्दोऽयमादिष्टलिङ्गो नित्यं स्त्रियामेव वर्तत इति भाषितपुंस्को न भवति। `अखटविका` इति। न खट्वा अखट्वेति नञ्समासः। `परमखट्विका` इत्यादि। **सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः** (2.1.61) इत्यापिना समासः। सर्वत्र `कोऽणः` (7.4.13) इति ह्रस्वः। बहुव्रीहेर्भाषितपुंस्कत्वादत्र न भवितव्यमनेन विकल्पेनेति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकरत्तुमाह - `बहुव्रीहौ` इत्यादि। कथं पुनरभाषितपुंस्कादित्युच्यमाने बहुव्रीहौ भाषितपुंस्कादपि भवति? इत्याह - `अत्राप्यभाषितपुंस्कात्` इत्यादि। इतिकरणो हेतौ। यद्यपि बहुव्रीहेर्भाषितपुंस्को भवति, तथापि यदा कपि **आपोऽन्यतरस्याम्** (7.4.15) इति ह्रस्वः क्रियते, तदाऽभाषितपुंस्कादेव विहितस्याकारस्य स्थाने यः स्यादकारस्तस्माद्भवत्येव विकल्पः। अविद्यमाना खट्वाऽस्या इति बहुव्रीहिः, `शेषाद्विभाधा` (5.4.154) इति कप्; ततो ह्रस्वः। स चाभाषितपुंस्कादेव विहितस्याकारस्य भवति। तेनाखट्वका, अखट्विकेति विकल्पो भवत्येव। `यदा तु` इत्यादि। अविद्यमाना खट्वाऽस्या इति बहुव्रीहौ कृत उपसर्डजनह्रस्वत्वम्; ततष्टाप्। अल्पा अखट्वेति `प्रागिवत्? कः` (5.3.70) - `अखट्विका` इति। अत्र विकल्पो न भविष्यति; भाषितपुंस्कत्वाद्वहुव्रीहेविहितस्यातः स्थानेऽकारस्य विहितत्वात्। प्रादिसमासेऽपि न भवतीति दर्शयन्नाह - `तथा` इत्यादि। `अतिखट्विका` इति। अत्रापि प्रादिसमासे कृते, उपसर्जनह्रस्वत्वे च, पुनस्तत्पुरुषाद्भाषितपुंस्काद्विहितस्यातः स्थाने विहितोऽकार इति न प्रवर्तते विकल्पः॥ Praudhamanorama --------------- विहितविशेषणतया व्याख्यायाः फलमाह— **नित्यमिति।** अस्य विकल्पस्याप्रवृत्तेः 'प्रत्ययस्थात्' इत्युत्सर्ग एव प्रवर्तत इत्यर्थः। परविशेषणत्वे त्वयं विकल्पः स्यादेवेति भावः। बहुव्रीहेरित्युपसर्जनोपलक्षणम्। तेनाऽतिखट्विका, निःखट्विकेत्यादावपि नित्यमेव। **शैषिके कपीति।** 'आपोऽन्यतरस्याम्' इति ह्रस्वपक्षे इति भावः। Prakriyasarvasvam ----------------- नित्यस्त्रीलिङ्गात् के टाप्यत इद्वा स्यात् । मालिका मालका । समासेऽपि स्यात् । सन्मालिका । सन्मालका । एषां यदा बहुव्रीहौ कपि ह्रस्वे कृतेऽथ टाप् । तत्रापि वेद् भवेद् बद्धमालका बद्धमालिका ।। ४७३ ।।