73047: भस्त्रैषाऽजाज्ञाद्वास्वानञ्पूर्वाणामपि ============================================= **Padacheda:** भस्त्रैषाऽजाज्ञाद्वास्वाः | S | 1 | 3 | 6 नञ्पूर्वाणाम् | S | 6 | 3 | अपि | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- According to the opinion of Northern Grammarians इ is not substituted for that अ which is obtained by shortening the long आ of the feminine (under sūtra केऽणः (7.4.13)) of 1. भस्त्रा 2. एषा 3. अजा 4. ज्ञा 5. द्वा -- त्यदादीनामः (7.2.102), and 6. स्वा even not then when the negative particle precedes them. Vasu English Translation ------------------------ According to the opinion of Northern Grammarians इ is not substituted for that अ which is obtained by shortening the long आ of the feminine (under sūtra केऽणः (7.4.13)) of 1. भस्त्रा 2. एषा 3. अजा 4. ज्ञा 5. द्वा -- त्यदादीनामः (7.2.102), and 6. स्वा even not then when the negative particle precedes them. As भस्त्रका or भस्त्रिका, अभस्त्रका or अभस्त्रिका, एषका or एषिका, अजका or अजिका, ज्ञका or ज्ञिका, अज्ञका or अज्ञिका, द्वके or द्विके, स्वका or स्विका, अस्वका or अस्विका ॥ Of एषा and द्वि there are no examples with the negative particle. For if the compounding with नञ् takes place after the addition of the अकच्, or on the contrary, if first अकच् be added and then the नञ् compounding takes place, in both alternatives, the case-affixes must be added in order to substitute अ for the final by (7.2.102): and it is only when this अ is substituted that the feminine टाप् can come. So that the case-affix is the principal ingredient, and टाप् comes after सुप्, and therefore by the prohibition of असुपः in (7.3.44), there can arise no occasion for the substitution of इ ॥ Therefore अनेषका and अंद्वके are the invariable forms of these words with the negative particle. स्व meaning agnates and property, takes the negative particle. भस्त्रा is a word which has no corresponding masculine form, and as such, by the following rule (7.3.48) it would not have taken इ; its special mention here indicates that it should be the secondary member of the compound here: as अविद्यमाना भस्त्रा यस्या = अभस्त्रा, the Diminutive of which is अभस्त्रका or अभस्त्रिका ॥ Here first the भस्त्रा is shortened as it is a secondary member (*upasarjana*), then when the *Bahuvrihi* is made, the feminine affix टाप् is added to this भाषितपुंस्क word, then this आ is shortened before क by (7.4.13). This short अ (7.4.13) does not come in the room of the आ which is ordained to come after a word having no corresponding masculine. The force of अपि shows that the rule applies, when words other than नञ् also precede, and even when no words precede. As निर्भस्त्रिका or निर्भस्त्रका, बहुभस्त्रिका or बहुभस्त्रका ॥ Note: The form द्वके is from the word द्वकि, dual number, the final इ is changed to अ (त्यदाद्यत्व), then the feminine आ (टाप्) is added (द्वका), and then शी is substituted for औ ॥ Bhashya ------- भस्त्रैषाजाज्ञाद्वास्वानञ्ञ्पूर्वाणामपि एषाद्वे नञ्ञ्पूर्वे अनुदाहरणे असुप इति प्रतिषेधात्(1) ॥ अथ भस्त्राग्रहणं किमर्थं, न अभाषितपुंस्कादित्येव सिद्धम् ? ॥ भस्त्राग्रहणमुपसर्जनार्थमुपसर्जनार्थोऽयमारम्भः । अभस्त्रका(2) अभस्त्रिका(3) नञ्ञ्पूर्वग्रहणानर्थक्यं चोत्तरपदमात्रस्येद्वचनात् ॥ नञ्ञ्पूर्वग्रहणं चानर्थकम् किं कारणम् ? ॥ उत्तरपदमात्रस्येद्ववचनात्(3) । उत्तरपदमात्रस्येत्वं वक्तव्यम् । निर्भस्त्रका निर्भस्त्रिका । बहुभस्त्रका - बहुभस्त्रिका ॥ Kashika ------- एषामातः स्थाने योऽकारस्तस्य इत्वं न भवत्युदीचामाचार्याणां मतेन। भस्त्रा — भस्त्रका, भस्त्रिका। अभस्त्रका, अभस्त्रिका। एषा — एषका, एषिका। अजा — अजका, अजिका। अनजका, अनजिका। ज्ञा — ज्ञका, ज्ञिका। अज्ञका, अज्ञिका। द्वा — द्वके, द्विके। स्वा — स्वका, स्विका। अस्वका, अस्विका। एषाद्वे नञ्पूर्वे न प्रयोजयतः। किं कारणम्? अत्र हि सति यदि साकच्काभ्यां नञ्समासः, अथापि कृते नञ्समासे पश्चादकच्, उभयथापि समासाद् या विभक्तिरुत्पद्यते तस्यां सत्यां त्यदाद्यत्वे सति टापा भवितव्यम्, सोऽन्तर्वर्तिन्या विभक्त्या सुबन्तात् पर इतीत्वस्य प्राप्तिरेव नास्ति। तेनानेषका अद्वके इत्येव नित्यं भवितव्यम्। स्वशब्दस्तु ज्ञातिधनाख्यायां नञ्पूर्वोऽपि प्रयोजयति। भस्त्रेत्ययमभाषितपुंस्कः, तस्य **अभाषितपुंस्काच्च** (७.३.४८) इत्येव सिद्धे यदिह ग्रहणं तदुपसर्जनार्थम्। अविद्यमाना भस्त्रा यस्या अभस्त्रा। साल्पा अभस्त्रका, अभस्त्रिका। अत्रोपसर्जनह्रस्वत्वे कृते पुनर्बहुव्रीहौ कृते भाषितपुंस्काद् यष्टाबुत्पद्यते तस्य **केऽणः** (७.४.१३) इति यो ह्रस्वः, नासावभाषितपुंस्काद् विहितस्यातः स्थाने भवति। नञ्पूर्वाणामपीत्यपिशब्दादन्यपूर्वाणां केवलानां च विधिरयमिष्यते। निर्भस्त्रका, निर्भस्त्रिका। बहुभस्त्रका, बहुभस्त्रिका इत्येवमादयोऽपीष्यन्ते। अत्र नञ्पूर्वाणामिति वचनमनुवाद एव मन्दबुद्धिप्रतिपत्त्यर्थः॥ Siddhanta Kaumudi ----------------- स्वेत्यन्तं लुप्तषष्ठीकं पदम् । एषामत इद्वा स्यात् । तदन्तविधिनैव सिद्धे नञ्पूर्वाणामपीति स्पष्टार्थम् । भस्त्राग्रहणमुपसर्जनार्थम् । अन्यस्य तूत्तरसूत्रेण सिद्धम् । एषा द्वा एतयोस्तु सपूर्वयोर्नेत्त्वम् । अन्तर्वर्तिनीं विभक्तिमाश्रित्याऽसुप इति प्रतिषेधात् । अनेषका । परमैषका । अद्वके । परमद्वके । स्वशब्दग्रहणं संज्ञोपसर्जनार्थम् । इह हि आतः स्थाने इत्यनुवृत्तं स्वशब्दस्यातो विशेषणम् । नतु द्वैषयोरसंभवात् । नाप्यन्येषामव्यभिचारात् । स्वशब्दस्त्वनुपसर्जनमात्मीयवाची अकजर्हः । अर्थान्तरे तु न स्त्री । संज्ञोपसर्जनीभूतस्तु कप्रत्ययान्तत्वाद्भवत्युदाहरणम् । एवं चात्मीयायां स्विका परमस्विकेति नित्यमेवेत्वम् । निर्भस्त्रका । निर्भस्त्रिका । एषका । एषिका । कृतषत्वनिर्देशान्नेह विकल्पः । एतिके । एतिकाः । अजका । अजिका । ज्ञका । ज्ञिका । द्वके । द्विके । निःस्वका । निःस्विका ॥ Balamanorama ------------ **भस्त्रैषाऽजाज्ञाद्वास्वानञ्पूर्वाणामपि** - भस्त्रैषा । यकपूर्वत्वाऽभावात्उदीचा॑मित्यप्राप्तौ वचनमिदम् । स्वेत्यन्तमिति । भस्त्रा, एषा, अजा, ज्ञा, द्वा, स्वा एषां षण्णां द्वन्द्वः । ततः षष्ठआ आर्षो लुक् ।भस्त्रैषाजाज्ञाद्वास्वाना॑मिति विवक्षितमिति भावः । एषामिति । भस्त्रादीनामित्यर्थः ।अत इद्वेति । पूर्वसूत्रादुदीचाङ्ग्रहणस्यप्रत्ययस्था॑गिति सूत्रादिदित्यस्य चानुवृत्तेरिति भावः । नन्वाङ्गत्वात्तदन्तविधौ भस्त्रादिशब्दान्तानामिति लभ्यते, व्यपदेशिवत्त्वेन केवलानामपि लभ्यते । एवं च नञ्पूर्वाणां तद्भिन्नपूर्वामां केवलानां च सिद्धे नञ्पूर्वाणामपीति व्यर्थमिस्यत आह — तदन्तविधिनैवेति । ननु तदन्तविधिना भस्त्रादिशब्दानां नञ्पूर्वाणामनञ्पूर्वाणां च प्राप्तौ, नञ्पूर्वाणामेवेति नियमार्थं नञ्पूर्वग्रहणम् । तथा सति केवलानां भस्त्रादिशब्दानां ग्रहणव्यावृत्तिः स्यादित्यपिशब्द इति व्याख्यातुमुचितमिति चेन्न, एवं सति निर्भस्त्रिकेत्याद्यसिद्धेः । तस्मान्नञ्पूर्वाणामिति स्पष्टार्थमेवेति भाष्ये स्पष्टम् । ननु भस्त्राशब्दस्य नित्यस्त्रीलिङ्गतयाअभाषितपुंस्काच्चे॑त्युत्तरसूत्रेणैव इत्वविकल्पसिद्धेरिह भस्त्राग्रहणं व्यर्थमित्यत आह — भस्त्राग्रहणमुपसर्जनार्थमिति ।निर्भस्त्रिके त्युपसर्जनत्वे त्रिलिङ्गतया भाषितपुंस्कत्वेन तत्रअभाषितपुंस्काच्चे॑त्यस्य अप्रवृत्तेरिति भावः । अन्यस्य त्विति । उपसर्जनादन्यस्य भस्त्रशब्दस्य तु भस्त्रिका परमभस्त्रिकेत्यत्र नित्यस्त्रीलिङ्गतयाअभाषितपुंस्काच्चे॑त्युत्तरसूत्रेणैव पाक्षिकमित्त्वं सिद्धम् । अतो 'भस्त्रैषा' इत्यत्र भस्त्राग्रहणं तदर्थं न भवतीत्यर्थः । नन्वनेषका, परमैषका, अद्वके, परमद्वके इत्यत्रापि पाक्षिकमेतदित्त्वं स्यादित्यत आह — एषा द्वेति । एषा द्वा एतयोस्तु पूर्वपदसहितयोरिदं पाक्षिकमित्त्वं नेत्यर्थः । कुत इत्यत आह — अन्तर्वर्तिनीमिति । 'इदाप्यसुपः' इत्यनुवर्तते । इह तु टाप् सुपः पर इति भावः । ननु टाबत्र सुपः परो न भवति । तथाहि — एतच्छब्दस्य टेः प्राक् 'अव्ययसर्वनाम्नाम्' इत्यकचि, एतकच्छब्दात्सौ 'तदोः सः सौ' इति तकारस्य सत्वे, 'आदेशप्रत्यययोः' इति षत्वे, त्यदाद्यत्वे, पररूपे, स्त्रियाभादन्तत्वाट्टापि, सवर्णदीर्घे, हल्ङ्यादिलोपे, एषकेति रूपम् । ततो न एषकेति विग्रहे नञ्चच्पुरुषे कृते, 'नलोपो नञः' इति नञो नकारस्य लोपे,तस्मान्नुडची॑ति नुटि, अनेषकेति रूपम् । तथा परमा एषकेति कर्मधारये, परमैषकेति रूपम् । अत्र सौ परे प्रवृत्तत्यदाद्यत्वसिद्धमदन्तत्वामाश्रित्य प्रवृत्तष्टाप्कथं सुपः परः स्यात् । नच नञ्तत्पुरुषे सोः सामासिके लुकि सति, सत्वत्यदाद्यत्वटाब्निवृत्तौ, समासात्पुनः सौ, सत्वत्यदाद्यत्वटाप्सु कृतेषु, भल्ङ्यादिलोपे, अनेषकेत्यत्र समासात्प्राक् प्रवृत्तात्सुपः पर एव टाबिति वाच्यं, सामासिकलुगपेक्षया हल्ङ्यादिलोपस्यैवान्तरङ्गत्वात्प्रवृत्तेः । ततश्च लुप्तेषपि सौ प्रत्ययलक्षणसत्त्वेन निमित्तानपायात्पूर्वप्रवृत्तसत्वत्यदाद्यत्वटापां निवृत्तिर्नास्ति । सच टाप्न सुपः पर इति चेत्, अत्र ब्राऊमः अन्तरङ्गानपि विधीन् बहिरङ्गो लुक् बाध्ते॑ इति परिभाषयासुपो धातुप्रातिपदिकयोः॑ इति सुब्लुग्विषयेऽन्तरङ्गोऽपि हल्ङ्यादिलोपो न प्रवर्तते । अतो राजकुमारीत्यादौ श्रूयमाणे एव सुपि समासः प्रवर्तते । एवंच गोमान् प्रियो यस्य स गोमत्प्रिय इत्यत्र गोमच्छब्दात्सोर्लुका लुप्तत्वादुगितचामिति नुमुपधादीर्घादिकं नेतिप्रत्ययोत्तरपदयोश्चे॑ति सूत्रभाष्ये स्थितम् ।कृत्तद्धिते॑ति सूत्रे प्रौढमनोरमायां परिष्कृतमेतत् । एवंच नञ् सु ए तरद् सु इति स्थिते, नञ्तत्पुरुषे कृते,अन्तरह्गानपी॑ति न्याय#एन त्यदाद्यत्वप्रवृत्तेः प्रागेव सामासिकलुकि, अनेतकच्छब्दात् समासात्पुनः सौ, सत्वे, त्यदाद्यत्वे, पररूपे, टापि, सवर्णदीर्घे, सोर्हल्ङ्यादिलोपे, अनेषकेति भवति । अत्र सवर्णदीर्घप्रवृत्तेः प्राक्समासात्पूर्वोत्पन्नसुपः पर एव टाब्भवतीत्यास्तां तावत् । अद्वके इति । न सु द्वकि औ इति स्थिते, नञ्तत्पुरुषेअन्तरङ्गानपी॑ति न्यायेन त्यदाद्यत्वप्रवृत्तेः प्रागेव समासे औङो लुकि कृते, अद्वकिशब्दात्समासात्पुनरौङि, त्यदाद्यत्वे, पररूपे, टापि, औङश्शीभावे, आद्गुणे, अद्वके इति भवति । अत्रापि समासात्पूर्वोत्पन्नादौङः सुपः पर एव टाबिति भावः । एवं परमद्वके इत्यत्रापि ।स्यादेतत् — आत्मात्मीयज्ञातिधनवाची स्वशब्दः । तत्र ज्ञातावात्मनि च पुंलिङ्ग एव, आत्मीये तु विशेष्यनिघ्नः स्त्रीलिङ्गः । धने तु पुंनपुंसकलिङ्गः,स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने॑ इति कोशात् । यदा तु स्त्रीव्यक्तिविशेषस्य स्वशब्दः संज्ञा तदापि स्त्रीलिङ्गः । तत्रस्वमज्ञातिधनाख्याया॑मित्युक्तेः ज्ञातिधनवाचित्वे सर्वनामत्वं नास्ति । आत्मात्मीयवाचिन एव सर्वनामता, साप्यनुपसर्जनस्यैव भवति,संज्ञोपसर्जनीभूतास्तु न सर्वादयः॑ इत्युक्तेरिति स्थितिः । तत्रात्मीयायां वाच्यायां सर्वनामत्वादकचि, टापि,प्रत्ययस्था॑दिति नित्यमित्त्वे, स्विकेत्येवष्यते । तत्तु न युज्यते । 'भस्त्रैषा' इत्यादिना इत्त्वविकल्पस्य दुर्वारत्वात् । नचात्र अकजकारस्य आत्स्थानिकत्वाभावान्नायमित्त्वविकल्प इति वाच्यम्,एषामत इद्वा स्या॑दिति विवरणवाक्ये आतः स्थाने इत्यनुवृत्तेरदर्शनादित्यत आह — स्वशब्दग्रहणं संज्ञोपसर्जनार्थमिति । स्वशब्दस्य संज्ञाभूतस्य सर्वनामत्वाऽभावादकजभावे, स्त्रियां टापि, सौ कृते,स्वार्थिककप्रत्यये, उक्तरीत्या अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते॑ इति परिभाषया हल्ङ्यादिल#ओपं बाधित्वा प्रातिपदिकावयवत्वात्सोर्लुकि, केऽणः॑ इति ह्रस्वेः कप्रत्ययान्तात्पुनष्टापि, स्वकाशब्दः । निर्गता स्वस्या इति विग्रहेनिरादयः क्रान्ताद्यर्थे पञ्चम्या॑ इति समासे सुब्लुकिं, 'गोस्त्रियोः' इति ह्रस्वे, टापि, सुपि, स्वार्थिके कप्रत्यये,केऽणः॑इति ह्रस्वे, पुनष्टापि, निःस्वकाशब्दः । एतद्द्वयमेव 'भस्त्रैषा' इति स्वशब्दस्य उदाहरणम् । आत्मीयायां तु स्वशब्दो न संज्ञाभूतः, नाप्युपसर्जनीभूत इति नोदाहरणमित्यर्थः । कुत इत्यत आह — इह हीति । इह 'भस्त्रैषा' इति सूत्रेउदीचा॑मिति पूर्वसूत्रादातः स्थाने इत्यनुवृत्तं, तच्च स्वशब्दस्यैव अतो विशेषणम् । एवं चस्वशब्दस्य आत्स्थानिकस्य अत इद्वा स्या॑दिति लभ्यते । एतद्विशेषविवक्षयैवएषामत इद्वा स्या॑दिति विवरणवाक्ये 'आतः स्थाने' इत्यस्यानुवृत्तिर्न प्रदर्शितेति भावः । नतु द्वैषयोरिति । द्वा एषा इत्येतयोस्तु विषये आतः स्थान इति न संबध्यत इत्यर्थः । कुत इत्यत आह — असंभवादिति । एषा द्वेति सर्वाद्यन्तर्गणत्वदादित्वप्रयुक्तसत्वात्वनिर्देशेन सर्वनामत्वावश्यकत्वादकच् । तदकारस्य आत्स्थानिकत्वस्याऽप्रसक्तेरित्यर्थः । नाप्यन्येषामिति । भस्त्राजाज्ञाशब्दानामपि आतः स्थान इति विशेषणं नेत्यर्थः । कुत इत्यत आह — अव्यभिचारादिति । भस्त्राऽजाज्ञाशब्दानां सर्वनामत्वाऽभावेनाकजनर्हतया कप्रत्ययान्ततया तेषु 'केऽणः' इति ह्रस्व संपन्नस्य अत आत्स्थानिकत्वनियमेन तद्विशेषणवैयथ्र्यादित्यर्थः । नन्वातः स्थाने इत्यनुवृत्तं स्वशब्दस्य अतो विशेषणमस्तु, तावता आत्मीयायां स्विका इत्यत्र इत्त्वविकल्पशङ्कायाः किमायातमित्यत आह — स्वशब्दस्त्विति । अनुपसर्जनात्मीयवाची स्वशब्दस्तु सर्वनामत्वादकजर्हः । अतस्तदकारस्य आत्स्थानिकत्वाऽभावान्न प्रकृतसूत्रेणेत्त्वविकल्पशङ्का, किं तुप्रत्ययस्था॑दिति नित्यमेव इत्वमित्यर्थः । ननु स्वशब्दस्य आत्मात्मीयज्ञातिधनवाचिन आत्मीयायामुदाहरणत्वाभावेऽपि आत्मज्ञातिधनवाचिनस्तस्य उदाहरणत्वसंभवात्स्वशब्दग्रहणं संज्ञोपसर्जनार्थमित्यनुपपन्नमित्यत आह — अर्थान्तरे तु न स्त्रीति । आत्मज्ञातिधनेषु स्वशब्दो न स्त्रीलिङ्गः । उदाहृतकोशरीत्या आत्मज्ञातिवाचिनः स्वशब्दस्य नित्यपुंलिङ्गत्वाद्धनवाचिनस्तस्य पुंनपुंसकलिङ्गत्वाच्चेत्यर्थः । तथा च 'टापि परे' इत्यस्याऽभावान्नोदाहरणत्वप्रसक्तिः ।प्रत्ययस्था॑दित्यत आपीत्यनुवृत्तेरिति भावः । इदमुपलक्षणम्, आत्मनि वाच्ये स्वशब्दस्य सर्वनामत्वेन अकजर्हतया तदकारस्य आत्स्थानिकत्वाऽभावाच्चेत्यपि द्रष्टव्यम् । ननु संज्ञोपसप्जनीभूतस्यापि स्वशब्दस्य कथमुदाहरणत्वम्, तस्याप्यकचि तदकारस्य आत्स्थानिकत्वाऽभावादित्यत आह — संज्ञोपसर्जनीभतस्त्विति । संज्ञोपसर्जनीभूतस्य स्वशब्दस्य असर्वनामतया अकजनर्हत्वेन स्वाशब्दात्सुबन्तात्स्वार्थिके कप्रत्यये, सुब्लुकि पुनष्टापि, 'केऽणः' इति ह्रस्वापन्नस्याऽत आत्स्थानिकतया भवत्युदाहरणत्वमित्यर्थः । नचान्तर्वर्तिसुपः परष्टाबिति शङ्क्यं, केन व्यवधानादिति भावः । तदेवं 'भस्त्रैषा' इत्यत्र 'आतः स्थाने' इत्यनुवृत्तस्य स्वशब्देऽन्वयलाभात्स्वशब्दावयवस्य आत्स्थानिकस्य अत इद्वा स्यादिति लब्धम्, तस्य प्रयोजनमाह — एवं चेति । उक्तरीत्या स्वशब्दे आत्स्थानिकस्यैवाऽत इत्त्वविकल्पलाभादात्मीयायां स्वशब्दस्य सर्वनामत्वादकचि तदकारस्य आत्स्थानिकत्वाऽभावादित्त्वविकल्पाऽप्रवृत्तौप्रत्ययस्था॑दिति नित्यमेवेत्त्वमित्यर्थः । तदेवं प्रत्युदाहणान्युक्त्वा उदाहरणान्याह — निर्भस्त्रकेत्यादि । भस्त्राया निष्क्रान्तेति विग्रहेनिरदयः क्रान्ताद्यर्थे॑ इति समासे, 'गोस्त्रियोः' इति ह्रस्वत्वे, पुनष्टापि, समासात्सौ, कप्रत्यये, 'केऽणः' इति ह्रस्वे, निर्भस्त्रकशब्दात्पुनष्टापि, सवर्णदीर्घे, निर्भस्त्रकाशब्दः । तत्रप्रत्ययस्था॑दिति नित्यमित्त्वे प्राप्तेऽनेनेत्त्वविकल्पे निर्भस्त्रिका निर्भस्त्रकेति रूपद्वयम् । केन व्यवधानान्न सुपः परष्टाबिति भावः । एषका एषिकेति । अकचि एतकच्छब्दात्सुः । 'तदोः सः सौ' इति सत्वं, षत्वं, त्यदाद्यत्वं, पररूपं, टाप् । 'प्रत्ययस्थात्' इति नित्यमित्त्वं बाधित्वा इत्त्वविकल्प इति भावः । नन्वकचि एतकच्छब्दात्स्त्रियामौजसादिषु एतिके एतिका इत्यादौ नित्यमित्त्वमिष्यते । तद्बाधित्वाऽनेन इत्त्वविकल्पः स्यादित्य आह — कृतषत्वेति ।भस्त्रैतज्ज्ञास्वा॑ इति वक्तव्ये एषेति कृतषत्वनिर्देशादौजसादिषु षत्वाऽभावान्नेत्त्वविकल्प इत्यर्थः । अजका अजिकेति । अजाशब्दात्कः, ह्रस्वः, पुनष्टाप्, सवर्मदीर्घः, इत्त्वविकल्पः । ज्ञका ज्ञिकेति । ज्ञाधातोःइगुपधज्ञाप्रीकिरः कः॑ इति कः,आतो लोप इटि चे॑त्याल्लोपः । स्त्रियामदन्तत्वाट्टाप्, सवर्णदीर्घः । ज्ञाशब्दात्सुबन्तात्कः, सुब्लुक्, 'केऽणः' इति ह्रस्वः, पुनष्टाप्, सवर्णदीर्घः, इत्त्वविकल्प, औङश्शी, आद्गुणः ।निःस्वका नि#ःस्विकेति । स्वस्याः निष्क्रान्तेति विग्रहः । 'निरादयः' इति समासः । उपसर्जह्रस्वः, टपा, सुपि कः, सुब्लुक्, कप्रत्ययान्तात्पुनष्टापि सवर्णदीर्घः, इत्त्वविकल्प इति भावः । Tattvabodhini ------------- **भस्त्रैषाऽजाज्ञाद्वास्वानञ्पूर्वाणामपि** - भस्त्रैषा । लुप्तषष्ठीकमिति । केचिदिहस्वाः॑इति च्छित्त्वा षष्ठ्याः स्थाने सौत्रत्वाद्द्दत्ययेन जसिति व्याचक्षते ।प्रत्ययस्थछादि॑त्यतोऽनुवर्तनादाह -अत इद्वा स्यादिति । ननुनञ्पूर्वाणामपी॑त्यपिशब्देन केवलानां सङ्ग्रहः क्रियते, नतु नञ्भिन्नपूर्वाणामपि । तथा चनिर्भस्त्रिके॑त्यादि न सिध्येदतस्तदन्तविधिरावश्यक इत्याशयेनाह — तदन्ताविधिनैवेत्यादि । आङ्गत्वादिति भावः । एवं चनञ्पूर्वामा॑मित्यस्य नियमार्थत्वशङ्का निरस्ता,निर्भस्त्रिके॑त्यादावव्याप्तिप्रसङ्गात् । अन्यस्य त्विति । अनुपसर्जनस्य तुअभाषितपुस्काच्चे॑त्यनेन सिद्धमित्यर्थः ।एतयोस्त्विति । भस्त्राजाज्ञास्वानां तु सपूर्वाणामपीत्वं भवत्येव । तत्र टापः कप्रत्ययात्परत्वेन सुपः परत्वाऽभावत्असुपः॑इति निषेधाऽप्रवृत्तेरिति भावः । सपूर्वयोरिति । पूर्वावयवसहितयोः । विद्यमानपूर्वपदकयोरिति यावत् । अन्तर्वर्तिनीमित्यादि ।न सु एतद् सु॑इति स्थितेऽकचि कृतेऽकचः प्रागेव वा नञ्तत्पुरुषे कृतेअन्तरङ्गानपी॑ति न्यायेन त्यदाद्यत्वप्रवृत्तेः प्रागेव सामासिके लुकि विशिष्टात्पुनः सुपि त्यदाद्यत्वे पररूपे च कृते ततष्टाप्, स च आप् सुपः पर इति भावः । अनेषकेति । अज्ञाता एषा एषका, न एषका अनषका, अज्ञाता अनेषा अनेषकेति वा लौकिकविग्रहोऽत्र बोध्यः । एवमग्रेऽप्यूह्रेम् । स्वशब्दस्यातो विशेषणमिति । यद्यपि हरदत्तग्रन्थेअत्रातः स्थान इत्येतत्स्वशब्दस्य विशेषण॑मित्युक्तं, तथापि तत्रस्वशब्दस्ये॑त्यनन्तरमत इति शेषो बोध्य इति भावः । अर्थान्तरे त्विति । आत्मज्ञातिधनेष्वित्यर्थः । नित्यमेवेति ।स्विके॑त्यादावकचि कृते आतः स्थानिकोऽकारोऽत्र दुर्लभ इति प्रकृतसूत्रस्याऽविषयत्वात्प्रत्ययस्था॑दिति नित्यमेवेत्त्वप्रवृत्तेः । एवं चहंसं तनौ संनिहितं चरन्तं मुनेर्मनोवृत्तिमिव स्विकाया॑मिति श्रीहर्षश्लोकेभस्त्रैषे॑ति वैकल्पिकमित्त्वमिति केषांचिद्व्याख्यानं नादर्तव्यमिति भावः । वस्तुतोहंसं तनौ -॑इति श्लोकेस्विकाया॑मिति प्रयोगोऽसाधुरेव । आत्मीयायां स्वशब्दस्य सर्वनामत्वात्स्याडागमपर्वृत्तेरिति नव्याः । प्रत्युदाहरणान्युक्त्वोदाहरणान्याह -निर्भस्त्रिकेत्यादि । निष्कान्ता भस्त्रयाः निर्भस्त्रा ।निरादयः क्रान्ताद्यर्थे पञ्चम्या॑इति समासः । उपसर्जनह्रस्वः । टाप् । ततोऽज्ञातादौ कः ।केऽणः॑इति ह्रस्वः । पुनष्टाप् । सूत्रेएषे॑ति विकृतनिर्देशो विवक्षितविषयो , न तुयासयोः॑इतिवदुपलक्षणमित्यभिप्रेत्याह -कृतषत्वनिर्देशादिति । इहाऽजाज्ञेति स्त्रीलिङ्गनिर्देशादजादयः स्त्रीलिङ्गः एव गृह्यन्ते, तेनेह विकल्पो न, शभ्रोऽजो यस्याः सा शुब्राआजिका । जानतीतिः ज्ञः ।इगुपधे॑ति कः । प्रियो ज्ञो यस्याः सा प्रियज्ञिकेति.निःस्वकेति । स्वस्या निष्कन्तेति विग्रहो, न त्विह स्विकस्या निष्कान्ततेति । तथात्वे ह्रुपसर्जनेऽपिनिः स्विके॑त्येकमेव रूपं स्यात्, आतः स्थानिकाऽकारस्य दुर्लभत्वेन प्रकृतसूत्राऽविषयत्वात् । Padamanjari ----------- 'स्वा' इति षष्ठयाः स्थाने प्रथमा । एषेति कृतषत्वनिर्देशस्तन्त्रम् । तथा च - एतिकाश्चरन्तीति जसि नित्यमित्वमुदाहृतम् ॥ अत्रातः स्थान इत्येतत् स्वशब्दस्य विशेषणण् । सम्भवव्यभिचारौ हि तत्र स्तः काकचोः सतोः ॥ द्व्येतदोः सम्भवो नास्ति, नान्यत्र व्यभिचारिता । सर्वनाम्नः स्वशब्दस्य तेन नायं विधिर्भवेत् ॥ द्वके इति । द्वकिशब्दाद् द्विवचने त्यदाद्यत्वे टापि औङ्ः शीभावः । तस्यां सत्यामिति । समासार्थातु या विभक्तिस्तस्यां त्यदाद्यत्वं न भवति; ठन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधतेऽ इति वचनात् । सोऽन्तवेर्तिन्या विभक्त्या सुबन्तात्पर इति । प्रत्ययलक्षणेन सुबन्तत्वम् । स्वशब्दोऽपि तर्ह्यनयैव युक्त्या नञ्पूर्वो न प्रयोजयेदित्यत आह - स्वशब्दस्त्विति । स्वशब्दो हि'स्वमज्ञातिधनाख्यायाम्' इति वचनाज्ज्ञातिधनयोरसर्वनामसंज्ञकः, तेन तस्मात्कप्रत्ययेनैव भवितव्यम्, नाकचा । तत्र यदा नञ्समासे कप्रत्ययः क्रियते तदन्ताच्च टाप्, तदासौ सुपः परो न भवति; केन व्यवहितत्वात् । तेनासर्वनामसंज्ञकः स्वशब्दो नञ्पूर्वोऽपि भवत्येव प्रयोजकः । अभस्त्रका, अभस्त्रिकेति । ठल्पेऽ इति'प्रागिवात्कः' । असति तु भस्त्राग्रहणे यथा न सिध्यति तथा दर्शयति - अत्रेति । बहुव्रीहिः पुंस्यपि वर्तते - अभस्त्रः पुरुष इति । विहितग्रहणेनैतद्दर्शयति - यद्यप्यभाषितपुंस्काद्भस्त्राशब्दात्परो भवति, तथापि तस्माद्विहितो न भवति । विहितविशेषणं चोतरत्रापि भाषितपुंस्कग्रहणम्, अन्यथा न विद्यते खट्वा यस्याः साऽखट्वा, ततोऽखट्विका - इत्यादावपि प्रसङ्गादिति । अपिग्रहणेन केवलानामेव भस्त्रादीनां समुच्चयः, नान्यपूर्वाणामिति शङ्कमानं प्रत्याह - नञ्पूर्वाणामपीत्यपिशब्दादिति । इष्यते इति । अनेन नेयं स्वतः प्राप्तिरिति दर्शयति । यदि तर्हि सर्वत्रेष्येत, नञ्पूर्वाणामपीति न वक्तव्यम् ठङ्गाधिकारे तस्य च तदुतरपदस्य चऽ इत्येव सर्वत्र भविष्यत्यत आह - तत्रेति ॥ Nyaas ----- `भस्त्रका, भस्त्रिका` इति। पूर्ववत्? कः। `अभस्त्रका, अभस्त्रिका` इति। पूर्ववत्? कप्रत्ययः, बहुव्रीहिः, ततपुरुषो वा। अथ कस्मादेषा - द्वे नञ्पूर्वे नोदाह्यियेते? इत्याह - `एषाद्वे नञ्पूर्वे न प्रयोजयतः` इति। प्रकृतत्वादित्त्वप्रतिषेधविकल्प इति विज्ञेयम्। `किं कारणम्` इति। अनेन नञ्पूर्वयोरप्रयोजकत्वे कारणं पृच्छति। `अत्र हि` इत्यादिना तत्करं दर्शयति। `सोऽन्तर्वर्तिन्या विभक्त्या` इति। याऽसौ समासार्था विभक्तिस्तया लुप्तयाऽपि प्रत्ययलक्षणेन स आप्सुबन्तादेवैतच्छब्दाद्? द्विशब्दाच्च परः सम्पद्यते, तेनेत्त्वस्य प्राप्तिरेव नास्ति; `असुपः` (7.3.44) इति प्रतिषेधात्, तत्क प्रतिषेधविकल्पेन? तस्मादेषाद्वे नञ्पूर्वे न प्रयोजयतः। यद्येवम्, अनयैव युक्त्या स्वशपब्दोऽपि न प्रयोजयेत्? इत्यत आह - `स्वशब्दस्तु` इत्यादि। युक्तं यदेषाद्व नञ्पूर्वे न प्रयोजयतः, अत्र व्यवधानाभावात्? सुबन्तात्? पर आब् भवतीति कृत्वा, न हि प्राक्? टेर्भवन्नकज्? व्यवधायको भवितुमर्हति; स्वशब्दस्तु **स्वमज्ञातिधनाख्यायाम्** (1.1.35) इति वचनाज्ज्ञातिधनयोरसर्वनामसंज्ञकः, तेन तस्मात्? कप्रत्ययेनैव भवितव्यम्, नाकचा, तत्र यदि नञ्समासं कृत्वा कप्रत्ययः क्रियते, तदन्ताच्च टाप्, तदासौ सुबन्तात्? परो न भवति; कप्रत्ययेन व्यवधानादिति असर्वनामंज्ञकः स्वशब्दो नञ्पूर्वोऽपि विकल्पं प्रयोजयति। `भस्त्रेत्ययमभाषितपुंस्कः` इति। स्त्रियामेव सर्वदा वृत्तेः। यद्येवम्, **अभाषितपुंस्काच्च** (7.3.48) इत्यनेनैव विकल्पः सिद्धः, तत्किमर्थमिहोपादीयते? इत्यत आह - `तस्य` इत्यादि। उपसर्जनमर्थः प्रयोजनं यस्य तत्? तथोक्तम्। यदानुपसर्जनं भस्त्राशब्दो भवति, तदायमभाषितपुंस्क इति सत्यमुत्तरसूत्रेण सिद्धो विकल्पः; तत्रापि नञ्पूर्वाणामित्यनुषृत्तेः। यदा तूपसर्जनं भवति, तदा भाषितपुंस्कत्वं प्रतिपद्यत इति न सिध्यति। तस्मादुपसर्जनस्य भाषितपुंस्कस्यापि यथा स्यादित्येवमर्थमिह भस्त्राशब्दस्य ग्रहणम्। `अभस्त्रका, अभस्त्रिका` इति। `अल्पे` (5.3.85) इत्यर्थे `प्रागिवात्? कः` (5.3.70) `अत्र` इति। उपन्यस्त उदाहरणे। `उपसर्जनह्रस्वत्वे कृते` इति। अविद्यमाना भस्त्राऽसया इति बहुव्रीहौ कृते **गोस्त्रियोरुपसर्जनस्य** (1.2.48) इत्यनेन। `पुनः` इत्यादि। अभस्त्रशब्दो हि बहुव्रीहिः, स पुंस्यपि वर्तत इति भाषितपुंस्को भवति। तस्माद्यदा टाप्? स भाषितपुंस्कशब्दादुत्पदयते। तसय भाषितपुंस्कादुत्पन्नस्यापि टापो यः `केऽणः` (7.4.13) इति ह्रस्वो भवति, नासावभाषितपुंस्काद्विहितस्यातः स्थाने भवति। तस्मादभाषितपुंस्कादित्यनेन न सिध्यति - इत्यभिप्रायः। `नञ्पूर्वाणामपीत्यपिशब्दादन्यपूर्वाणां केवलानां च विधिरयमिष्यते` इति। तत्रोदाहरणमाह - `निर्भस्त्रिका` इत्यादि। निर्गता भस्त्रा यस्याः सा निर्भस्त्रिका। वह्व्यो भस्त्रा यस्याः सा बहुभस्त्रिका। आदिशब्देन सुभस्त्रका, सुभस्त्रिका; भस्त्रका, भस्त्रिका-इत्येवमादीनां ग्रहणम्। यदि तह्र्रन्यपूर्वाणां केवलानां च विधिरिष्यते, तदा `नञ्पूर्वाणाम्` इति वचनमनर्थकं स्यात्। नञादिपूर्वाणां तदन्तविधिना भविष्यति, केवलनाञ्च व्यपदेशिवद्भावेन; `ग्रहणवता प्रतिपदिकेन तदन्तविधिर्न` (व्या।प।89) इति। `व्यपदेशिवद्भावोऽप्रातपदिकेन` (धा।प।पा।65) इति वचनान्न सिध्यतीत्येतच्च नाशङ्कनीयम्, उभे अपि ह्रेते परिभाषे प्रत्ययविधिविषये एवेत्यत आह - `अत्र` इत्यादि। तदन्तवधिना व्यपदेशिवद्भावेनात्र सिद्धस्यैव प्रकरविधेर्नञ्पूर्वाणामपीति वचनानुवादः। किमर्थः? मन्दबुद्धिप्रतपत्त्यर्थः। नञ्पूर्वाणामपीति वचनमन्तरेण यः प्रतिपत्तुमनन्तरोक्तमर्थमसमर्थस्तस्यापि मन्दबुद्धेः प्रतिपत्तिर्यथा स्यादित्येवमर्थम्॥ Praudhamanorama --------------- **तदन्तेति।** आङ्गत्वादिति भावः। **एवं चेति।** उक्तं च हरदत्तेन— अत्रातः स्थान इत्येतत्स्वशब्दस्य विशेषणम्। सम्भवव्यभिचारौ हि तत्र स्तः काकचोः सतोः॥ द्वैषयोः सम्भवो नास्ति, नान्यत्र व्यभिचारिता। सर्वनाम्नः स्वशब्दस्य तेन नाऽयं विधिर्भवेत्॥ इति॥ इह स्वशब्दस्येत्यस्याऽनन्तरमत इति शेषो बोध्यः। एतच्च इह मूलेऽपि ध्वनितम्। एवंच- हंसं तनौ सन्निहितं चरन्तं मुनेर्मनोवृत्तिमिव स्विकायाम्। इति श्रीहर्षश्लोके 'भस्त्रैषा' इति वैकल्पिकमित्वमिति व्याचक्षाणा उपेक्ष्या इति भावः। **आत्मीयायामिति।** आत्मज्ञातिधनेषु तु स्त्रीत्वमेव नास्तीति भावः। यत्तु— ज्ञातिधनयोः स्वका, स्विका, इति रूपद्वयमाकरे स्थितमित्याहुः; तच्चिन्त्यम्। तादृशस्याऽऽकरस्याऽप्रसिद्धेः, लिङ्गानुशासनविरोधाच्च। यत्तु- स्वका, स्विका, इति काशिकायामुदाहृतं, तत्संज्ञाविषयकं, न तु ज्ञातिविषयकम्। यदपि 'स्वार्थिकाः क्वचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति परिजह्रुः। तदपि चिन्त्यम्, उक्तरीत्या कप्रत्ययान्ताट्टाप्सम्भवेऽपि प्रकृतेरस्त्रीलिङ्गतया 'आतः स्थाने' इत्यंशस्य दुरुपपादत्वात्। प्रत्युदाहरणान्युक्त्वा उदाहरणान्याह- **निर्भस्त्रिकेत्यादि।** निष्क्रान्ता भस्त्राया निर्भस्त्रा। उपसर्जनह्रस्वः, टाप्, ततोऽज्ञातादौ कः। **कृतषत्वेति।** सूत्रे विकृतनिर्देशो विवक्षितविषयो न तु 'न यासयोः' इतिवदुपलक्षणमिति भावः। स्त्रीलिङ्गनिर्देशादजादयः स्त्रीलिङ्गा एव गृह्यन्ते। तेनेह न, शुभ्रोऽजोऽस्याः शुभ्राजिका। जानातीति ज्ञः। प्रियो ज्ञोऽस्याः प्रियज्ञिका इति। Prakriyasarvasvam ----------------- एषामनञ्पूर्वाणां नञ्पूर्वाणामपि अत इद्वा स्यात् । भस्त्रिका । भस्त्रका । एषिका । एषका । अजिका । अजका । ज्ञिका । ज्ञका । द्विके । द्वके । स्विका । स्वका । नञ्पूर्वाणां—अभस्त्रिका अभस्त्रकेत्यादि । एषाद्वयोर्नञ्पूर्वायोर्नेत्त्वम् । अनेषका । अद्वके । एषेत्युक्तेरेतदो द्विवचनादौ नित्यमित्त्वम् । एतिके । एतिकाः । भस्त्रादेरुपसर्जनत्वेऽपीत्त्वं वा स्यात् । धृतभस्त्रिका । धृतभस्त्रका ।।