73032: हनस्तोऽचिण्णलोः ====================== **Padacheda:** हनः | S | 6 | 1 | तः | S | 1 | 1 | अचिण्णलोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- त् is substituted for the न् of the root हन् 'to kill' before an affix with a indicatory ञ् or ण् which also causes वृद्धि of the penultimate अ , but the augment is not added before the Aorist sign nor before the Personal ending णल् of the लिट् (Perfect Tense). Vasu English Translation ------------------------ त् is substituted for the न् of the root हन् 'to kill' before an affix with a indicatory ञ् or ण् which also causes वृद्धि of the penultimate अ , but the augment is not added before the Aorist sign nor before the Personal ending णल् of the लिट् (Perfect Tense). The *anuvritti* of '*Taddhita*' ceases, and with it that of कित् also which causes *Vriddhi* in *Taddhita* only. The णित् and ञित् do govern still. Thus घातः (with घञ्), घातयति (with णिच्), घातकः (with ण्वुल्), साधुघातिन् with इञ्; घातंघातम् with णमुल् ॥ But जघामि and जघान with चिण् and णल् ॥ This *sutra* has reference to roots, and refers to those affixes only which come after roots (धातुप्रत्यय), therefore not here वार्त्रघ्नः from वृत्रहन् ॥ Bhashya ------- हनस्तोऽचिण्णलोः ॥ हन्तेस्तकारे तद्धिते(1) प्रतिषेधः हन्तेस्तकारे तद्धिते(1) प्रतिषेधो वक्तव्यः । वार्त्रघ्नं भ्रौणघ्नमुक्तं वा किमुक्तम् ? ॥ धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्सिद्धमिति ॥ ( हनस्तोऽचिण्णलोः ) Kashika ------- तद्धितेष्विति निवृत्तम्। तत्संबद्धं कितीत्यपि। ञ्णितीति वर्तते। हनस्तकारादेशो भवति ञ्णिति प्रत्यये परतः चिण्णलौ वर्जयित्वा। घातयति। घातकः। साधुघाती। घातंघातम्। घातो वर्तते। अचिण्णलोरिति किम्? अघानि। जघान। **धातोः कार्यमुच्यमानं धातोः प्रत्यये विज्ञायते**। इह न भवति — वार्त्रघ्नमितरद् इति॥ Siddhanta Kaumudi ----------------- हन्तेस्तकारोऽन्तादेशः स्याच्चिण्णिल्वर्जे ञिति णिति । नन्वत्राङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता । ततश्चाट्द्वित्वयोर्दोषः । किंच कुत्वतत्वे न स्याताम् । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । सत्यम् । प्रकृतिवच्चेति चकारो भिन्नक्रमः । कारकं च चात्कार्यम् । हेतुमण्णिचः प्रकृतेर्हन्यादेर्हेतुमण्णौ यादृशं कारकं धातावनन्तर्भूतं द्वितीयान्तं यादृशं च कार्यं कुत्वतत्वादि तदिहापीत्यर्थः । कंसमजीघतत् । (गणसूत्रम् -) कर्तृकरणाद्धात्वर्थे ॥ कर्तुव्यापारार्थंयत्करणं न तु चक्षुरादिमात्रमित्यर्थः । असिना हन्ति असयति ।{$ {!1916 वल्क!} दर्शने$} ।{$ {!1917 चित्र!} चित्रीकरणे$} । आलेख्यकरण इत्यर्थः । कदाचिद्दर्शने । चित्रेत्ययमद्भुतदर्शने णिचं लभते । चित्रयति ।{$ {!1918 अंस!} समाघाते$} ।{$ {!1919 वट!} विभाजने$} ।{$ {!1920 लज!} प्रकाशने$} ॥ वटि लजि इत्येके । वण्टयति । लञ्जयति । अदन्तेषु पाठबवलाददन्तत्वे वृद्धिरित्यन्ये । वण्टापयति । लञ्जापयति । शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते कथापयति । गणापयतीत्यादि ।{$ {!1921 मिश्र!} सम्पर्के$} ।{$ {!1922 संग्राम!} युद्धे$} । अयमनुदात्तेत अकारप्रश्लेषात् । अससंग्रामत ।{$ {!1923 स्तोम!} श्लाघायाम्$} । अतुस्तोमत् ।{$ {!1924 छिद्र!} कर्णभेदने$} । करणभेदन इत्यन्ये । कर्णेति धात्वन्तरमित्यन्ये ।{$ {!1925 अन्ध!} दृष्ट्युपघाते$} । उपसंहार इत्यन्ये । आन्दधत् ।{$ {!1926 दण्ड!} दण्डनिपातने$} ।{$ {!1927 अङ्क!} पदे लक्षणे च$} । आञ्चकत् ।{$ {!1928 अङ्ग!} च$} । आञ्जगत् ।{$ {!1929 सुख!} {!1930 दुःख!} तत्क्रियायाम्$} ।{$ {!1931 रस!} आस्वादनस्नेहनयोः$} ।{$ {!1932 व्यय!} वित्तसमुत्सर्गे$} । अवव्ययत् ।{$ {!1933 रूप!} रूपक्रियायाम्$} । रूपस्य दर्शनं करणं वा रूपक्रिया ।{$ {!1934 छेद!} द्वैधीकरणे$} । अचिच्छेदत् ।{$ {!1935 छद!} अपवारण इत्येके$} । छदयति ।{$ {!1936 लाभ!} प्रेरणे$} ।{$ {!1937 व्रण!} गात्रविचूर्णने$} ।{$ {!1938 वर्ण!} वर्णक्रियाविस्तारगुणवचनेषु$} । वर्णक्रिया वर्णकरणम् । सुवर्णं वर्णयति । कथां वर्णयति । विस्तृणातीत्यर्थः । हरिं वर्णयति । स्तौतीत्यर्थः । बहुलमेतन्निदर्शनम् । अदन्तधातुनिदर्शनमित्यर्थः । बाहुलकमन्येऽपि बोध्याः ॥ तद्यथा ।{$ {!1939 पर्ण!} हरितभावे$} । अपपर्णत् ।{$ {!1940 विष्क!} दर्शने$} ।{$ {!1941 क्षिप!} प्रेरणे$} ।{$ {!1942 वस!} निवासे$} ।{$ {!1943 तुत्थ!} आवरणे$} ॥ एवमान्दोलयति । प्रेङ्खोलयति । विडम्बयति । अवधीरयतीत्यादि । अन्ये तु दशगणीपाठो बहुलमित्याहुः । तेनापठिता अपि सौत्रलौकिकवैदिका बोध्याः । अपरे तु नवगणीपाठो बहुलमित्याहुः । तेनापठितेभ्योऽपि क्वचित्स्वार्थेणिच् । रामो राज्यमचीकरत् इति यथेत्याहुः । चुरादिभ्यो एव बहुलं णिजित्यर्थ इत्यन्ये । सर्वे पक्षाः प्राचां ग्रन्थे स्थिताः ॥ (गणसूत्रम् -) णिङङ्गान्निरसने ॥ अङ्गवाचिनः प्रातिपदिकान्निरसनेऽर्थे णिङ् स्यात् । हस्तौ निरस्यति हस्तयते । पादयते ॥ (गणसूत्रम् -) श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च ॥ श्वेताश्वादीनां चतुर्णामश्वादयोलुप्यन्ते णिङ् च धात्वर्थे । श्वेताश्वतादीनां तेनातिक्रामति वा श्वेतयति । अश्वतरमाचष्टेऽश्वयते । गालोडितं वाचां विमर्शः, तत्करोति गालोडयते । आह्वरयते । केचित्तु णिचमेवानुवर्तयन्ति तन्मते परस्मैपदमपि ॥ (गणसूत्रम् -) पुच्छादिषु धात्वर्थ इत्येव सिद्धम् ॥ णिजन्तादेव बहुलवचनादात्मनेपदमस्तु ॥ मास्तु पृच्छभाण्ड-(SK2676) इति णिङ्विधिः । सिद्धशब्दो ग्रन्थान्ते मङ्गलार्थः ॥ Balamanorama ------------ **हनस्तोऽचिण्णलोः** - हनस्तोऽचिण्णलोः । 'हन' इति षष्ठी । 'त' इत्यत्राऽकार उच्चारणार्थः । तदाह - हन्तेस्तकार इति । 'अन्तादेश' इत्यलोऽन्त्यपरिभाषया सिद्धम् । ञिति णिति चेति ।अचो ञ्णिती॑त्यतस्तदनुवृत्तेरिति भावः । तथा च हनो नकारस्य तत्वेहो हन्ते॑रिति कुत्वेन हस्य घकारेघाती॑ति ण्यनतं फलितम् ।ततो लटिघाततयी॑ति रूपं स्थितम् । कृतो लुकि समासनिवृत्तौ सुब्लुकोऽपि निवृत्तौ कंसमिति च स्तितम् । 'आक्यानात्कृतः' इति वार्तिकस्थंप्रकृतिवच्च कारक॑मित्यंशं शङ्कोत्तरत्वेन योजयिष्यञ्छङ्कामवतारयति — नन्विति । कंसवशिष्टस्येति ।कंसवध॑शब्दस्यैवेत्यर्थः । तस्मादेव णिचो विधानादिति भावः । ननु कंसवधशब्दस्य अङ्गत्वे का हानिरित्यत आह — ततस्चेति । कंसवधशब्दस्याऽङ्गत्वादड्द्वित्वयोर्विषये दोषः स्यात् । कंसशब्दात्पूर्वमडागमः स्यात् ।कं॑सित्यस्यद्विर्वचनं स्यात् । इष्यते तु 'कंसमजीघत' दित्येवं हनधातोरेवोभयमित्यर्थः । किं चेति । केंसं घातयतीति कुत्वतत्वे न स्यातामित्यर्थः । कुत इत्यत आह — धातोरिति । दातोर्हनित्यादितत्तत्स्वरूपेण ग्रहणे सति तत्प्रत्यये = धातोर्विहितप्रत्यये कार्यविज्ञानमिति परिभाषयेत्यर्थः । तेन वात्र्रघ्नमित्यत्रहनस्तोऽचिण्णलो॑रिति कुत्वं,हनस्तोऽचिण्णलोटरिति सूत्रे भाष्ये स्पष्टम् । तथा च प्रकृतेकंसं घातयती॑त्यत्रहो हन्ते॑रिति कुत्वं , 'हनस्तोऽचिण्णलो' रिति तत्वं च न स्याताम्, अत्र णिचः प्रातिपदिकाद्विहितत्वेन धातोर्विहितत्वाऽभावदित्यर्थः । अत्र प्रत्ययलक्षणेन कृदन्ततया कृत्प्रकृत्यर्थस्य कर्मत्वेन कंसस्येति षष्ठी स्यादित्यप्याक्षेपोऽपि बोध्यः, तत्परिहारस्यापि वक्ष्यमाणत्वात् ।तामिमां शह्कामद्र्धाङ्गीकारेण परिहरति - सत्यमिति । कंसवधशब्दस्यैवाङ्गत्वमित्याद्यङ्गीक्रियते, दोषापादनं तु नाङ्गीक्रियत इत्यर्थः । प्रकृतिवच्चेतीति । 'आख्यानात्कृतः' इति वार्तिकेप्रकृतिवच्चे॑ति चकारो भिन्नक्रमः ।प्रकृतिव॑दित्यनन्तरपठितश्चकारः कारकमित्यस्मादूध्र्वं निवेशनीय इति भावः । तदेवाभिनीय दर्शयति - कारकं चेति । चकारोऽयमनुक्तसङ्ग्रहार्थ इत्याह — चात्कार्यमिति । 'समुच्चीयते' इति शेषः । तथा च कारकं कार्यं च प्रकृतिवदिति फलितम् । अत्र प्रकृतिशब्देन हेतुमण्णिचः प्रकृतिर्विवक्षिता, व्याख्यानात् । प्रकृताविव प्रकृतिवत् । सप्तम्यन्ताद्वतिः । तदाह — प्रकृतेर्हन्यादेर्हेतुमण्णाविति ।प्रयुज्यमाने सती॑ति शेषः । 'कारक' मित्यस्य विवरण#ं — द्वितीयान्तमिति । द्वितीयातृतीयादिकारकविभक्त्यन्तमित्यर्थः । हन्ति कंसं कृष्णः, तं प्रेरयतीत्यर्थे कंस घातयति, कंसमजीघतदित्यादौ हेतुमण्ण्यन्ते प्रयुज्यमाने यद्द्वितीयादिकारकविभक्यन्तं यच्च कार्यं कुत्वतत्वाऽड्द्वित्वादि तत्सर्वंम् 'आख्यानात्कृत' इत्यस्योदाहरणे कंसवधमाचष्टे कंसं घातयति, कंसवधमाचष्टे कंसमजीघतदित्यादावपि भवतीति फलितम् । तत्रकारक॑मित्यनेन कंसात्षष्ठी निरस्ता, उदाहृतहेतुमण्ण्यन्तस्थले कृद्योगाऽभावेन कर्मणि द्वितीयाया एव सत्त्वात् ।कार्य॑मित्यनेन तु कंसस्य अड्द्वित्वनिरासश्चेति बोध्यम् । आख्यानशब्दश्च कथंचिद्वृत्तानुवादपरो, न तु भारतादिप्रसिद्धकंसवधादिकथापरः । तेन राजागमनमाचष्टे राजानामागमयतीत्यादि सिध्यति ।द्वितीयान्त॑मित्यत्र द्वितीयाग्रहममुपलक्षणम् । तेन पुष्ययोगमाचष्टे पुष्येण योजयतीति सिध्यतीति भाष्ये स्पष्टम् । कर्तृकरणाद्धात्वर्थे । इदमपि गणसूत्रम्,प्रातिपदिकाद्धात्वर्थे॑ इत्यस्यैव प्रपञ्चः । कर्तुः करणं - कर्तृकरणं, न तु कर्ता च करणं चेति द्वन्द्वः, व्याख्यानात् । तदाह — कर्तुव्र्यापारार्थमिति । अभिमतफलोत्पादनार्थमित्यर्थः । साधकतममिति यावत् । नन्वेवं सति 'करणाद्धात्वर्थे' इत्येव सिद्धे कर्तृग्रहणं व्यर्थमित्यत आह — न तु चक्षुरादिमात्रमिति । कर्तृग्रहणं विहाय करणादित्येवोक्तौ चक्षुरादीन्द्रियमेव सुप्रसिद्धत्वात्करणादिति शब्देन गम्येत । अतः कर्तृग्रहणमित्याहुः । वस्तुतस्तुसाधकतमं करण॑मिति देवदत्तयती॑ति कर्तुरुदाजह्युः । कदाचिद्दर्शने इति । चित्रेत्यनुवर्तते । तदाह — चित्र इत्ययमिति । कदाचिद्दर्शने इत्यस्य विवरणम् — अद्भुतदर्शने इति ।चित्र चित्रीकरणकदाचिद्दर्शनयो॑रित्येव सुवचम् । वटि लजि इत्येके अदन्तेष्विति । अदन्तेषु पाठबलात् बण्ड लज्जेति कदाचिददन्तत्वमप्यनयोर्विज्ञायते । अदन्तत्वस्य च फलाऽभावादतो लोपं बाधित्वाअचो ञ्णिती॑ति वृद्धौअर्तिह्यी॑ति पुगित्यर्थः । फलितमाह — वण्टापयतीति । शाकटायनस्त्विति । ऋषिविशेषोऽयम् । सङ्ग्राम युद्धे । गणसूत्रमिदम् । युद्धवाचि सङ्ग्रामेति प्रातिपदिकं करोत्यर्थे णिचं लभते इत्यर्थः । ननुप्रातिपदिकाद्धात्वर्थे॑ इत्येव सिद्धे किमर्थमिदमित्यत आह — अनुदात्तेदिति । एतदात्मनेपदार्थमिति भावः । ननु सङ्ग्रामशब्दस्य प्रातिपदिकस्य अकारान्तत्वात्कथमनुदात्तेत्वमित्यत आह — अकारप्रश्लेषादिति । सङ्ग्रामशब्दादनुदात्तानुनासिकं पररूपेण प्रश्लिष्य निर्देशादिति भावः । अससङ्ग्रामतेति । लुङि चङि सङ्ग्रामशब्दस्य ण्यन्तस्य अङ्गत्वात्ततः प्रागडिति भावः । एतच्चभृशादिसूत्रे कैयटे स्पष्टम् । अग्लोपित्वान्नोपधाह्रस्वः । सुखदुःख तत्क्रियायाम् । सुखानुकूले दुःखानुकूले च व्यापारे इत्यर्थः । सुख दुःखेति प्रातिपदिकाभ्यां तत्करोतीत्यर्थे णिच् स्यादिति यावत् ।प्रातिपदिकाद्धात्वर्थेट इत्येव आभ्यां णिजित्याहुः । बहुलमेतन्निदर्शनम् । गणसूत्रमिदम् । एतेषां कथादीनामदन्तानां निदर्शनं = पाठ इत्यर्थः । तदाह — अदन्तेति । बहुलग्रहणस्य फलमाह — बाहुलकादिति । अपपर्णदिति । अग्लोपित्वान्न सन्वत्त्वमिति भावः । क्षिप प्रेरणे । क्षिपयति । अग्लोपस्य स्थानिवत्त्वान्न गुणः । एवमग्रेऽपि । वसनिवासे । वसयति । अदन्तत्वान्नोपधावृद्धि ।आन्दोलयती॑त्यादावदन्तत्वेन अग्लोपित्त्वान्नोपधाह्रस्वः । तदेवंबहुलमेतन्निदर्शन॑मित्यस्य कथाद्यदन्तविषयत्वमुक्त्वा मतान्तरमाह — अन्ये त्विति । भ्वादिः, अदादिः, जुहोत्यादिः, दिवादिः, स्वादिः, तुदादिः, रुधादिः, तनादिः, क्र्यादिः, चुरादिरिति दशगणी, तद्बहिर्भूता अपि सौत्रा- जुप्रभृतयः, लौकिकाः प्रेङ्खोलादयः, वैदिका — तद्रक्षांसि रात्रिभिरसुभ्न मित्यादौ सुभादयश्च सङ्गृहीता भवन्तीत्यर्थः । मतान्तरमाह — अपरे त्विति । चुरादिभिन्ना उदाहृता ये नव गणास्तेभ्योऽपि णिज्बहुलग्रहणादस्माल्लभ्यत इत्यर्थः । मतान्तरमाह — चुरादिभ्य एवेति । वस्तुतस्तु भूवादिसूत्रे 'पाठेन धातुसंज्ञे' ति भाष्यप्रतीकमुपादाय -स पाठो नोपलक्षणार्थः । किंतु इयत्ताप्रतिपादनार्थ इति कैयट आह — एवं चबहुलमेतन्निदर्शन॑मिति गणसूत्रमनार्षमिति शब्देन्दुशेखरे स्थितम् । णिङ्ङ्गान्निरसने इति । गणसूत्रम् । स्पष्टम् । ङित्त्वान्नित्यमात्मनेपदम् । ओताआआआतर । इदमपि गणसूत्रम् । ओताआआदीनामिति । ओताआ, अआतर, गालोडित, आह्वरक — एषामित्यर्थः । अआआदय इति । ओताऽआशब्देअआ॑शब्दः, अआतरशब्दे 'तर' शब्दः, गालोडितशब्द 'इत' शब्दः, आह्वरकशब्देक॑शब्दश्च लुप्यन्ते इत्यर्थः । णिङ् चेति । चकारलभ्यमिदम् । धात्वर्थे इति ।प्रातिपदिकाचित्त्विति । 'ओताओ' त्यादिसूत्रे णिचमेवानुवर्तयन्ति न तु णिङमित्यर्थः । णिच्णिङोः फलभेदं दर्शयति — तन्मते इति । धात्वर्थे इत्येव सिद्धमिति । धातुपाठं रचयितुर्भीमसेनस्य वाकय्मिदमित्याहुः ।प्रातिपदिकाद्धात्वर्थे॑ इति णिचि सिद्धेपुच्छभाण्डचीवराण्णि॑ङिति न कर्तव्यमित्यर्थः । ननु नित्यात्मनेपदार्थंपुच्छभाण्डे॑ति णिङ्विधिरावश्यक इत्यत आह — णिजन्तादेव बहुलवचनादिति बहुलवचनादिति ।बहुलमेतन्निदर्शन॑मिति बहुलग्रहणादित्यर्थः । ननुपुच्छादिषु धात्वर्थ इत्येव णि॑जित्येव सिद्ध सिद्धशब्दो व्यर्थ इत्यत आह — सिद्धशब्द इति । धातुपाठात्मकग्रन्थसमाप्तौ सिद्धशब्दप्रयोगो मङ्गलार्थ इत्यर्थः । पस्पशाह्निकभाष्ये हिसिद्धे शब्दार्थसम्बन्धे॑ इति वार्तिकग्रन्थस्याऽऽदिमवार्तिकव्याख्यावसरेसिद्धशब्दोपादनं मङ्गलार्थ॑मित्युक्तम् ।मङ्गलादीनि मङ्गलमद्यानि मङ्गलान्तानि च शस्त्राणि प्रथन्ते॑ इति बूवादिसूत्रस्थभाष्याद्ग्रन्थान्तेऽपि मङ्गलस्य कर्तव्यतासिद्धिः । चुरादयः ।॥ इति बालमनोरमायाम् चुरादयः॥अथ दिवादयः ।अथ श्यन्विकरणा धातवो निरूप्यन्ते — । दीवु क्रीडेति । उदिदयम् । तेन क्त्वायामिड्विकल्पः, निष्ठायां च नेट् । झृषन्ता इति । जृष् झृष् वयोहानौ इत्येतत्पर्यन्ता इत्यर्थः । Tattvabodhini ------------- **हनस्तोऽचिण्णलोः** - णिच्प्रकृतिरिति । वधशब्दो णिच्प्रकृतिः, इदानां तु कृल्लक्यवशिष्टभाग एव प्रकृतिरित्यर्थः । आख्यानात्कृत इति । यद्यपिवध॑ शब्दः कृदन्तः, स आख्यानं न भवति तथाप्याख्यान वाची कृदन्तश्च कंसवधशब्दो भवत्येव, कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् । कृल्लुगिति ।हनश्च वधः॑इति विहितस्य अप्प्रत्ययस्य लुक् । प्रकृतिप्रत्यापत्तिरिति । विकारपरित्यागेन स्वरूपेणाऽवस्थितिरित्यर्थः । तदेतत्सकलमभिप्रेत्याह — कंसं हन् इ इति स्थिते इति । कंसविशिष्टस्येति । तस्मादेव णिचो विधानादिति भावः । दोष इति । कंसशब्दात्पूर्वमडागमः, कंस् इत्यस्य द्विर्वचनं स्यादित्यर्थः । किं चेति । एवं च कंसमजीघतदितीष्टं न सिध्येदिति भावः । तत्प्रत्यये — धातोर्विहितप्रत्यये । तेनवात्र्रघ्न॑मित्यत्रहनस्त॑ इति तत्वं न भवतीति ज्ञेयम् । उक्तदोषान्परिहरति — सत्यमिति ।प्रकृतिवच्चे॑ति चकारोऽनुक्तसङ्ग्रहार्थं इत्याह — — वात्कार्यमिति । यद्यप्यन्यतरादितदेशेनाप्यड्द्विर्वचने सिध्यतः, तथापि धाताप्रसिद्धे कंसवधाद्युपाख्याने एव णि॑जिति नाग्रहः, किं तूपाख्यानमात्रे । तेन राजागमनमाचष्टे राजानमागमयतीत्यादि सिध्यति । इह कृत्प्रकृतौ राज्ञः कर्तृत्वेऽपि गमेर्हेतुमण्णौगतिबुद्धी॑त्यनेन तस्य कर्मत्वमिति द्वितीयान्तमेव रूपातिदेश बलात्स्वीक्रियते । देवदत्तपाकमाचष्टे देवदत्तेन पाचयतीत्यत्र तु देवदत्तस्य कर्तृत्वानपायात्तृतीयैव भवति । रुक्मिणीहरणमाचष्टे इत्यादौह्मक्रोरन्यतरस्या॑मिति विकल्पाद्रुक्मिणीं रुक्मिण्या वा हारयतीति प्रयोगः । कर्तृकरणादिति । कर्तृग्रहणाऽभावे चक्षुषा पश्यति चक्षयतीत्यादावेव स्यान्न तु करिभिरवबध्नाति अवकरयतीत्यादौ । लोके इन्द्रियाणामेव करणत्वेन सुप्रसिद्धत्वात्, अतस्तत्सङ्ग्रहार्थं कर्तृग्रहणमिति मनोरमायां स्थितम् । नव्यास्तु - साधकतमत्वेन विवक्षितं यत्तत्करणशब्देन गृह्रते न तु लोकप्रसिद्धकरणमेव । अन्यथाकर्तृकरणयोस्तृतीया॑ इत्यादावपि लोकप्रसिद्धकरणग्रहणप्रसक्त्याबाणेन हत॑ इत्यादि रूपं न सिध्येततथा च कर्तृग्रहमं विनाप्यवकरयतीति रूपसिद्धौ न किंचिद्बाधकमिति व्याख्यायकर्तृकरमा॑दित्यत्र समाहारद्वन्द्वं मत्वा देवदत्तेन पाचयति देवदत्तयतीत्युदाजह्युः । कदाचिद्दर्शने ।चित्रकरणकदाचिद्दर्शनयो॑रिति सुवचम् । अदन्तेषु पाठबलादिति । अदन्तस्य फलान्तराऽभावादतो लोपं बाधित्वा वृद्धिरित्यर्थः । सङ्ग्राम । सङ्ग्रामेति युद्धवाचि प्रातिपदिकं कर#ओत्यर्थे णिचं लभ्यते । अनुदात्तेदिति । एतच्चभृशादिभ्यो भुवी॑ति सूत्रे कैयटेनोक्तम् । अकारप्रश्लेषादिति । तेन प्रश्लिष्टस्येत्संज्ञा, प्रकृत्यकारस्य तुइष्ठव॑दिति टिलोपः । तथा च अग्लोपादससङ्ग्रामतेत्यत्र नोपधाह्रस्वः । सुख दुःख । तच्छब्देन प्रातिपदिकार्थौ पराभृश्येते । प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धे अनयोः पाठः सोपसर्गात्प्रत्ययार्थ इत्येके । सुखदुःखाभ्यां तत्कियायामेव णिच् स्यान्न त्वाचष्ट इत्यस्मिन्नर्थे इत्येतदर्थः पाठ इत्यन्ये । पुच्छादिष्वति । भीमसेनस्य वाक्यम् । ग्रन्थान्त इति । भू सत्तायामित्यादिधातुपाठस्याऽन्त इत्यर्थः । इति चुरादयः ।अथ दिवादयः ।दिवु क्रीडा । उदित्करणं क्त्वायामिड्विकल्पार्थं निष्ठायामनिडर्थं, च । देवित्वा । द्यूत्वा.द्यूतम् । क्रीडायां — दीव्यन्ति माणवकाः । विजिगीषायां - शत्रुं दीव्यति । विजिगीषते इत्यर्थः । कान्तिरिच्छा । द्युतेः पृथग्ग्रहणात् । षिवु ।परिषिषेवेति ।स्थादिष्वेवाऽभ्यासस्ये॑ति नियमो नेह प्रवर्तते, तत्रप्राक् सिता॑दित्यनवृत्तेः । अस्य चाऽप्राक्सितीयत्वात् । तेनाऽभ्यासस्य षत्वंपरिनिविभ्यः॑ इत्यनेन भवत्येव । न्यषवीदिति ।सिवादीनां वे॑ति विकल्पः । नृती । ईदित्करणंश्वीदित॑ इति निष्ठायामिण्निषेधार्थम् । यद्यपिसेऽसिची॑ति इटो विकल्पतत्वात्यस्य विभाषेऽत्यनेनैवेष्टं सिध्यति, तथापियस्य विभाषे॑त्यस्याऽनित्यत्वज्ञापनार्थमीदित्करणं, तेनदावितमिभराजधिया॑ इत्यादि सिद्धम् । Padamanjari ----------- तद्धितेष्विति निवृतमिति । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । तत्सम्बद्धं कितीत्यपीति । निवृतमित्यपेक्ष्यते । ञ्णिद्ग्रहणं तु प्रत्ययमात्रेण सम्बद्धम्, अतः'तद्धितेषु' इत्यस्मिन्निवृतेऽपि तदनुवर्तत एव । उदाहरणएषु'हो हन्तेर्ञ्णिन्नेषु' इति कुत्वम् ॥ Nyaas ----- `तद्धितेष्विति निवृत्तम्` इति। अस्वरितत्वात्। `तत्सम्बद्धं कितीत्यपि` इति। निवृत्तमित्यपेक्षते। तत्सम्बद्धत्वं पुनस्तस्य `किति च` (7.2.118) इत्यत्र `तद्धितेषु` (7.2.117) इत्यनुवृत्तेः। यदि पुनः कितीत्यनुवर्तत, ततो लक्षणे `जायापत्योष्टक्` (3.2.52) `अमनुष्यकर्त्तृके च` (3.2.53) इति टकि कृते - जायाध्नस्तिलकालक इत्यत्रापि स्यात्। ञ्णिद्ग्रहणं तु प्रत्ययमात्रेण सम्बद्धम्। अतः `तद्धितेषु` (7.2.117) इत्येतस्मिन्? निवृत्तेऽपि तदनुवर्तत एव। `घातयति` इति। हेतुमण्णिच्। `हौ हन्तेर्ञ्णिन्नेषु` (7.3.54) इति कृत्वम्। `घातकः` इति। ण्दुल। `साधुघाती` इति। **सुप्यजातौ णिनिस्ताच्छील्ये** (3.2.78) इति णिनिः। `घातंघातम्` इति। `आभीक्ष्ण्ये णमुल्? च` (3.4.22) , `आभीक्ष्ण्ये द्वे भवतः` (वा।887) इति द्विर्वचनम्। `घातः` इति। भादे घञ्? (3.3.18) । `अधानि` इति। लुङ्, `चिण्? भावकर्मणोः` (3.1.66) इति चिणादेशश्च; `भावकर्मणोः (1.3.13) इत्यात्मनेपदम्, **चिणो लुक्** (6.4.104) इति तकारस्य लुक्। `जघान` इति। लिट्, तिप्, तस्य णल्, **अभ्यासाच्च** (7.3.55) इति कुत्वम्-घकारः। अथेह कस्मान्न भवति - वृत्रं हतवानिति। `ब्राहृभ्रूणवृत्रेषु क्विप्` (3.2.87) , तदन्तात्? **तस्येदम्** (4.3.120) इत्यण्, **षपूर्वहन्धृतराज्ञामणि** (6.4.135) इत्यल्लोपः - वात्र्रध्नः, भ्रौणध्नः? इत्याह - `धातोः` इत्यादि। धातोरित्येवमुच्यार्य यो विहितः प्रत्ययः स धातुप्रत्ययः। धातौः कार्यमुच्यमानं तत्रैव धातुप्रत्यये भवति। एतच्च भौणहत्यमिति निपातनेन (6.4.174) ज्ञापितम्। तेन वात्र्रध्नः, भ्रौणध्न इत्यादौ न भवति। न ह्यत्र धातोरित्येवं प्रत्ययो विहितः, किं तर्हि? प्रातपदिकादित्त्येवम्॥ Prakriyasarvasvam ----------------- चिण्णल्वर्जिते ञिति णिति प्रत्यये परे हनेरन्त्यस्य तः स्यात् । घत् य । उपधावृद्धिः । घात्यः । रिच् य । युज् य । पुगन्तस्य लघूपधस्य चाङ्गस्य सार्वधातुकार्धधातुकयोः परयोरिको गुणः स्यात् । Sutra Prayogas -------------- * **समूलघातं** (भट्टिकाव्यम्): `हनस्तः` इति तत्वम् ।