73030: नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् =========================================== **Padacheda:** नञः | S | 5 | 1 | शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- Before a तद्धित affix having an indicatory ञ् , ण् or क् , the वृद्धि is always substituted for the first vowel of 1. शुचि 2. ईश्वर 3. क्षेत्रज्ञ 4. कुशल and 4. निपुण when preceded by the Negative particle, but this substitution is optional for the vowel of the Negative particles. Vasu English Translation ------------------------ Before a तद्धित affix having an indicatory ञ् , ण् or क् , the वृद्धि is always substituted for the first vowel of 1. शुचि 2. ईश्वर 3. क्षेत्रज्ञ 4. कुशल and 4. निपुण when preceded by the Negative particle, but this substitution is optional for the vowel of the Negative particles. As अशौचम् or आशौचम्, अनैश्वर्यम् or आनैश्वर्यम्, अक्षैत्रज्ञ्यम् or आक्षैत्रज्ञ्यम्, अकौशलम् or आकौशलम्, अनैपुणम् or आनैपुणम् ॥ Some say the optional *vriddhi* of the negative particle is an *aprapta*-*vibhasha*, no other rule would have caused its *vriddhi* had this rule not existed. They argue that by (5.1.121), all affixes denoting भाव are prohibited after a *Tatpurusha* compound with the negative particle; therefore, the words शुचि &c, should be first developed by the addition of भाव-affixes, and then they should be compounded with the negative particle, which may be optionally *vriddhied* by this rule, which would apply to it, though it is not an *anga*, because the rule teaches *vriddhi*. Others controvert this opinion, and hold that other affixes causing *vriddhi* than भाव-affixes, also come after negative-*Tatpurusha* compounds, such as affixes denoting descendant &c: and भाव-affixes are added to *Bahuvrihi* negative compounds also, therefore, the force of the *anuvritti* of अङ्ग, which is understood up to the end of the Seventh *Adhyaya* (6.1.1), and a fortiori in this *sutra* also, should not be set aside as the above interpretation would do. Moreover the full *Taddhita* compounds अक्षेत्रज्ञ and अनीश्वर are read in the list of *Brahmanadi* words (5.1.124), and as such they take the भाव affix ष्यञ् which would have always caused the *vriddhi* of अ, but for this *sutra* which makes it optional. Therefore it is a *prapta*-*vibhasha*. Kashika ------- नञ उत्तरेषां शुचि ईश्वर क्षेत्रज्ञ कुशल निपुण इत्येतेषामचामादेरचो वृद्धिर्भवति पूर्वपदस्य वा भवति तद्धिते ञिति णिति किति च परतः। शुचि — अशौचम्, आशौचम्। ईश्वर — अनैश्वर्यम्, आनैश्वर्यम्। क्षेत्रज्ञ — अक्षैत्रज्ञ्यम्, आक्षैत्रज्ञ्यम्, कुशल — अकौशलम्, आकौशलम्। निपुण — अनैपुणम्, आनैपुणम्। अत्र केचिदाहुरियं पूर्वपदस्य वृद्धिरप्राप्तैव विभाषा विधीयते। **न नञ्पूर्वात् तत्पुरुषात्०** (५.१.१२१) इत्युत्तरो भावप्रत्ययः प्रतिषिध्यते। तत्र शुच्यादिभ्य एव प्रत्यये कृते पश्चाद् नञ्समासे सति वृद्धिरनङ्गस्यापि वचनाद् भवतीति। तदपरे न मृष्यन्ते। भाववचनादन्योऽपि हि तद्धितो वृद्धिनिमित्तमपत्यादिष्वर्थेषु नञ्समासादेव विद्यते, बहुव्रीहेश्च नञ्समासाद् भाववचनोऽप्यस्ति। तत्राङ्गाधिकारोपमर्दनं न युज्यत इति। अक्षेत्रज्ञानीश्वरौ तत्पुरुषावेव ब्राह्मणादिषु (५.१.१२४) पठ्येते, ततस्ताभ्यां भावे ष्यञ् भवति॥ Siddhanta Kaumudi ----------------- नञः परेषां शुच्यादिपञ्चानामादेरचोवृद्धिः पूर्वपदस्य सु वा ञितादौ परे । आशौचम् । अशौचम् । आनैश्वर्यम् । अनैश्वर्यम् । आक्षैत्रज्ञम् । अक्षैत्रज्ञम् । आकौशलम् । अकौशलम् ॥ आनैपुणम् । अनैपुणम् ॥ Padamanjari ----------- अप्राप्तैव विधीयत इति । अप्राप्तिमेवोपपादयति - न नञ्पूर्वादिति । उतरो भावप्रत्यय इति । त्वतल्भ्यामुतरः ष्यञादिः, ततश्चोतरो भावप्रत्ययः प्रागेव नञ्समासात् शुच्यादिभ्य एव विधेयः, पश्चान्नञ्समासः; तत्र नञोऽङ्गेऽनन्तर्भावादप्राप्ता वृद्धिर्विधीयत इति । तदपरे इत्यादि । असति विषयेऽङ्गाधिकार उपमृद्यः, अस्ति च विषयः; कः पुनरसौ ? भाववचनादन्योऽपत्यादिषु विहितः प्रत्ययः । अथापि भाववचने श्रद्धा, सोऽपि शक्यत एव दर्शयितुमित्याह - बहुव्रीहेश्चेति । ठुतरो भावप्रत्ययः प्रतिषिध्यतेऽ इत्येतदप्यत्र न सार्वत्रिकमित्याह - अक्षेत्रज्ञेति । तदेवमङ्गाधिकारो न बाधनीय इति स्थितम् । एवं च'तदुपस्पर्शादशौचम्' इत्यादिप्रयोगोपपतिः ।'दशाहं शावमाशौचम्' इत्यादौ त्विदमर्थोऽण् द्रष्टव्यः ॥ Nyaas ----- उदाहरणान्युत्तरत्र व्युत्पादयिष्यन्ते। `अत्र केचदहुः` इत्यादि। ग्रहणकवाक्यम्। अस्य `न नञ्पूर्वात्? तत्पुरुषात्` इति विवरणम्। `न नञ्पूर्वात्? तत्पुरुषात्` (5.1.120) इति त्वतल्भ्यामन्यो भावप्रत्ययः प्रतिषेध्यते, तत्रोत्तरं भावप्रत्ययमिच्छता शूच्यादिभ्य एव, न तु नञ्समासेभ्य उत्तरो भावप्रत्ययः कर्तव्यः। तस्मिन्? कृते पश्चान्नञ्समासः, ततश्चाङ्गस्यामादेरचो विधीयमाना वृद्धिर्न प्राप्नोति। न हि पूर्वं भावप्रत्यये कृते पश्चान्नञ्समासे नञ्? अङ्गसयाचामादिर्भवति, उत्तरपदस्यैवाङ्गत्वात्; उच्यते चेदं वचनम्, तत्र वचनसामर्थ्यादङ्गस्यापि वृद्धिर्भवति।`तदपरे` इत्यादि। यदुक्तमियं पूर्वपदस्य वृद्धिरप्राप्तैव विभाष विधीयत इति, तदपर आचार्या न क्षमन्ते। किं कारणम्? इत्याह - `भाववचनादन्योऽपि हि` इत्यादि। एवकारो भिन्नक्रमो विद्यत इत्यस्यानन्तरं द्रष्टव्यः। यदि नञ्समासादपत्यादिष्वर्थेषु वृद्धिनिमित्तं भाववचनादपरस्तद्धितो न विद्येत, एवं बहुव्रीहेश्च नञ्समासाद्भाववचनादन्योऽपि न विद्येत; ततो युज्यतेऽशुच्चादिशब्दानामनङ्गत्वादङ्गाधिकारोपमर्दनेन वृद्धिवचनस्याकृतार्थत्वात्। न त्वेतदेवम्; विद्यत एव ह्रन्योऽपत्यादिव्वर्थेषु नञ्समासाद्वृद्धिनिमित्तस्यद्धितः - अकुशलस्यापत्यमाकौशलिः, अकुशलस्येदमाकौशलमिति। बहुव्रीहेश्च नञ्समासाद्भाववचनोऽपि विद्यत एव - नास्य शुचयो विदयन्त इत्यशुचिः, तस्य भावः, **इगन्ताच्च लघुपूर्वात्** (5.1.131) इत्यण् - आशौचम्। यत एवमन्योऽपि भाववचनात्? तद्धितो नञ्समासाद्धिद्यते, वृद्धिनिमित्तको बहुव्रीहेश्च नञ्समासाद्भाववचनोऽपि विद्यते; तस्मात्? तत्र कृतार्थत्वाद्वचनस्याङ्गाधिकारबाधनं च युच्यते।यदप्युक्तम् - `न नञ्पूर्वात्? तत्पुरुषादित्यृत्तरो भावप्रत्ययः एव`(इति), तदप्ययुक्तमिति दर्शयन्नाह - `अक्षेत्रज्ञोऽनीआरः`[`अक्षेत्रज्ञानीआरौ` - काशिका] इत्यादि। एतौ हि द्वौ शब्दौ बाहृणादिषु तत्पुरुषावेव पठएते, तेनाभ्यां तत्पुरुषाभ्यामेव ष्यञ्? भवति, अन्यथा हि ब्राआहृणादिष्वनयोः पाठस्य वैयथ्र्यं स्यात्। तस्मादङ्गस्यैवेयं वृद्धिर्नित्यं प्राप्ता सती भावप्रत्यये, अन्यत्र च तद्धिते विकल्पेन विधीयते यथायोगम्। ततराशौचमिति यदि तत्पुरुषः क्रियते - न शुचिरशुतचिः, तदा **तस्येदम्** (4.3.120) इत्यणि कृते वृद्धिः; अथ बहुव्रीहिः - नास्ति शुचिरस्येन्यशुचिः, ततो यदि भावार्थो विवक्ष्यते तदा **इगन्ताच्च लघुपूर्वात्** (5.1.131) इत्यण्; अथ **तस्येदम्** (4.3.120) इत्यर्थो विवक्ष्यते, तदा `प्राग्दीवयतोऽण्` (4.1.83) इत्यण् - आनैआय्र्यम्, आक्षैत्रज्ञ्यमिति। तत्पुरुषाभ्यां ब्राआहृणादित्वात्? व्यञि कृते वृद्धिः। आकीशलमानैपुणमिति यदि बहुव्रीहिरयापि तत्पुरुषः, उभयथापि **तस्येदम्** (4.3.120) इत्यणेव। यद्यपि कुशलनिपुणशब्दौ ब्राआहृणादिषु युधादिषु च पठएते तथापि तदन्तात्? तत्पुरुषाद्वहुव्रीहेरपि भावप्रत्ययो नोपपद्यते; तदन्तविधेरभावात्। Prakriyasarvasvam ----------------- नञ्पूर्वाणामेपामुत्तरपदवृद्धिः स्यात् पूर्वपदस्य तु वा स्यात् । अशुचेरिदम् आशौचम् । अशौचम् । आनैश्वरम् अनैश्वरम् । आक्षैत्रज्ञम् । अक्षैत्रज्ञम् । आकौशलम् । अकौशलम् । आनैपुणम् । अनैपुणम् ॥ वृद्धिहेतुषु सर्वेषु समानाः प्रक्रिया इमाः ॥ अर्थाञ्जस्यात्तु कथिता भवतस्येदमर्थयोः ॥ २५९ ॥ ‘अणि परे वहेस्तृच्तृनोरिड् वाच्यः’ (वा०) संवोढुरिदं सांवहित्रं, वैवहित्रम् । ‘अग्नीधः शरणे रण् मत्वं च’ । (वा० ४-३-१२०) । पदत्वे धस्य जश्त्वं स्यादिति भत्वमिहोच्यते । अग्नीधो गृहमाग्नीध्रं तत्स्थः सोऽपि तथोच्यते ॥ २६० ॥ समिधामाधानमन्त्रे षेण्यण्’ (वा० ४-३-१२०) । षलोपे णत्वनाशादेन्यन् । सामिधेन्यो मन्त्रः । षित्वात् ङीषि ‘हल—’ (६-४-१५०) इति यलोपे सामिधेनी ऋक् ॥