73025: जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ========================================== **Padacheda:** जङ्गलधेनुवलजान्तस्य | S | 6 | 1 | विभाषितम् | S | 6 | 1 | उत्तरम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Before a तद्धित affix having an indicatory ञ् , ण् or क् the वृद्धि is substituted for the first vowel of the compound ending in 1. जङ्गल 2. धेनु and 3. बलज and optionally for the first vowel of these second members also. Vasu English Translation ------------------------ Before a तद्धित affix having an indicatory ञ् , ण् or क् the वृद्धि is substituted for the first vowel of the compound ending in 1. जङ्गल 2. धेनु and 3. बलज and optionally for the first vowel of these second members also. As कौरुजङ्गलम् or कौरुजाङ्गलम्, वैश्वधैनवम् or वैश्वधेनवम्, सौवर्णवलजः or सौवर्णवालजः ॥ Kashika ------- जङ्गल धेनु वलज इत्येवमन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिर्भवति, विभाषितमुत्तरम्, उत्तरपदस्य विभाषा भवति तद्धिते ञिति णिति किति च परतः। कुरुजङ्गलेषु भवं कौरुजङ्गलम्, कौरुजाङ्गलम्। वैश्वधेनवम्, वैश्वधैनवम्। सौवर्णवलजः, सौवर्णवालजः॥ Siddhanta Kaumudi ----------------- जङ्गलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिरुत्तरपदस्य वा ञिति णिति किति च । कुरुजङ्गले भवं कौरुजङ्गलजम् । वैस्वधेनवम् । वैश्वधैनवम् । सौवर्णवलजम् । सौवर्णवालजम् ॥ Balamanorama ------------ **जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम्** - जङ्गलदेनु । जङ्गलाद्यन्तस्याङ्गस्येति । जङ्गल, धेनु वलज इत्यन्तस्येत्यर्थः । कुरुजङ्गले इति ।भव॑मिति शेषः । कुरुजङ्गलादिशब्दा देशविशेषेषु । Padamanjari ----------- जङ्गलमुवनप्रायो देशः, कुरुषु जङ्गलं कुरुजङ्गलम् । धेनुःउनवप्रसूता, विश्वेषां धेनुर्विश्वधेनुः । सुवर्णविकारःउवलजम्, सौवर्णवलजम् । ठुतरम्ऽ इत्युतरपदं लक्ष्यते, तस्य नित्यसन्निहितत्वात् स्वरूपेण विभाषितत्वानुपपतेर्विभाषितवृद्धिकत्वाद् विभाषितमिति गौणो वादः ॥ Nyaas ----- `उत्तरम्` इत्यनेनोत्तरपदं लक्ष्यते; तस्य चोत्तरपदस्य नित्यं सन्निधानात्? विभाषितत्वं नोपपद्यते। तस्मात्? तत्सम्बन्धिन्या वृद्धेर्विभाषितत्वात्? `विभाषितम्` इत्युक्तम्। अत एवाह - `उत्तरपदस्य विभाषा भवति` इति। वृद्धिरिति प्रकृतेन सम्बन्धः॥ Prakriyasarvasvam ----------------- एतत्त्रयान्तस्याङ्गस्य वृद्धिनिमित्ततद्धिते परे पूर्वपदस्य वृद्धिः स्याद् उत्तरपदस्य तु वा स्यात् । सौधैनुकम् सौधेनुकम् । (वा०) इति ठगभावेऽणि प्राग्वद् वृद्धिः । आधैनवम् आधेनवम् ॥ कुरुजङ्गलेषु भवः कौरुजाङ्गलः, कौरुजङ्गलः । वलजं गृहद्वारं क्षेत्रं च । गौपुरवालजः । गौपुरवलजः ॥