73024: प्राचां नगरान्ते ======================= **Padacheda:** प्राचाम् | S | 6 | 3 | नगरान्ते | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Before a तद्धित affix having an indicatory ञ् , ण् or क् the वृद्धि is substituted for the first vowels of both members of the compound which is the name of a city of the Eastern people and which ends in the word नगर। Vasu English Translation ------------------------ Before a तद्धित affix having an indicatory ञ् , ण् or क् the वृद्धि is substituted for the first vowels of both members of the compound which is the name of a city of the Eastern people and which ends in the word नगर। As सोह्मनागरः (= सुह्मनगरे भवः), पौण्ड्रनागरः ॥ Why do we say 'of the Eastern people'? Observe माद्रनगरः, from मद्रनगरः the city of the Northern people. Kashika ------- प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। सुह्मनगरे भवः सौह्मनागरः। पौण्ड्रनागरः। प्राचामिति किम्? मद्रनगरमुदक्षु, तत्र भवो माद्रनगरः॥ Siddhanta Kaumudi ----------------- प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो वृद्धिर्ञिति णिति किति च । सुह्मनगरे भवः सौह्मनागरः । पौर्वनागरः । प्राचां किम् । मनगरमुदक्षु तत्र भवो मानगरः ॥ Balamanorama ------------ **प्राचां नगरान्ते** - प्राचां नगरान्ते । अङ्गस्येत्यधिकृतं 'नगरान्ते' इति सप्तम्यनुरोधेन सप्तम्या विपरिणम्यते । उत्तरपदस्येत्यधिकृतम् ।ह्मद्भगसिन्ध्वन्ते॑ इति सूत्रात्पूर्वपदस्येत्यनुवर्तते । तदयमर्थः । प्राचां यन्नगरं तदन्ते अङ्गे पूर्वपदस्योत्तरपदस्य च अचामादेरचो वृद्धिः स्याञ् ञिति णिति किति च तद्धिते इति । सुहृनगरमिति पुण्ड्रनगरमिति च प्राग्देशस्य पूर्वान्तावधिः । मद्रनगरमुदक्ष्विति । उदग्देशे मद्रनगरं नाम किञ्चिन्नगरमस्तीत्यर्थः । Tattvabodhini ------------- **प्राचां नगरान्ते** - प्राचां नगरान्ते । सप्तमीनिर्देशात्अङ्गस्ये॑त्यधिकृतमपि सप्तम्यन्तेन विपरिणम्यते । तदाह -नगरान्तेऽङ्गे इति । Padamanjari ----------- प्राचां देश इति । आचार्यग्रहणं तु न भवति; उतरसूत्रे'विभाषितम्' इति वचनात् ॥ Nyaas ----- यद्यत्र प्राचामित्यत्राचार्यग्रहणं स्यात्, ततश्चोत्तरसूत्रे (7.3.26) `विभाषितम्` इति न ब्राऊयात्ेतदेव विकल्पार्थं प्राचांग्रहणं तत्रानुवर्त्तिष्यते। तस्माद्देशग्रहणं विज्ञायते इत्याह - `प्राचां देशे` इत्यादि। नगरग्रहणेनेह स्वरूपग्रहणम्; **स्वं रूपं शब्दस्याशब्दसंज्ञा** (1.1.68) इति वचनात्॥ Prakriyasarvasvam ----------------- प्राग्देशवाचिनि नगरान्ते शब्दे उभयपदवृद्धिः स्यात् । पुण्ड्रनगरे भवः, पौण्ड्रनागरः ।