72104: कु तिहोः =============== **Padacheda:** कु | S | 1 | 1 | ति-होः | S | 7 | 2 | Sutrartha --------- **किम्-शब्दस्य तकारादौ हकारादौ च विभक्तिप्रत्यये परे 'कु' आदेशः भवति ।** 'किम्' शब्दस्य विभक्तिप्रत्यये परे **किमः कः** (7.2.103) इत्यनेन ककारादेशे प्राप्ते अनेन सूत्रेण तकारादौ हकारादौ च विभक्तौ परे 'कु' इति आदेशः भवति । **अनेकाल् शित्सर्वस्य** (1.1.55) इति सर्वादेशः । यथा - 1. किम् + तसिल् [**पञ्चम्यास्तसिल्** (5.3.7) इति तसिल्-प्रत्ययः । **प्राग्दिशो विभक्तिः** (5.3.1) इति प्रत्ययस्य विभक्तिसंज्ञा] → कु तस् [**कु तिहोः** (7.2.104) इति किम्-शब्दस्य कु-आदेशः] → कुतः [विसर्गनिर्माणम्] 2. किम् + ह [**वा ह च च्छन्दसि** (5.3.13) इत्यनेन किम्-इत्यस्य ह-आदेशः। **प्राग्दिशो विभक्तिः** (5.3.1) इति प्रत्ययस्य विभक्तिसंज्ञा] → कुह [**कु तिहोः** (7.2.104) इति किम्-शब्दस्य कु-आदेशः] ज्ञातव्यम् - अस्मिन् सूत्रे 'ति' इत्यत्र इकारः उच्चारणार्थः अस्ति । Sutrartha (English) ------------------- The word किम् is converted to कु when followed by a विभक्तिप्रत्यय that begins with a शब्दस्य तकार or a हकार. Vasu English Summary -------------------- कु is substituted for किम् before a विभक्ति affix beginning with a त or ह। Vasu English Translation ------------------------ कु is substituted for किम् before a विभक्ति affix beginning with a त or ह। Thus कुतः, कुत्र, कुह (5.3.13), (5.3.7). The इ in ति means beginning with a त ॥ Kashika ------- तकारादौ हकारादौ च विभक्तौ परतः किमित्येतस्य कु इत्ययमादेशो भवति। कुतः। कुत्र। कुह। तिहोरितीकार उच्चारणार्थः॥ Siddhanta Kaumudi ----------------- किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः । कुतः । कस्मात् । यतः । ततः । अतः । इतः । अमुतः । बहुतः । द्व्यादेस्तु । द्वाभ्याम् ॥ Laghu Siddhanta Kaumudi ----------------------- किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः। कुतः, कस्मात्॥ Balamanorama ------------ **कु तिहोः** - कुतिहोः । 'कु' इति लुप्तप्रथमाकम् । 'किमः कः' इत्यस्मात् 'किमः' इत्यनुवर्तते । 'अष्टन आ' इत्यतोविभक्ता॑विति । तिश्च ह् च तयोरिति द्वन्द्वः । इकार उच्चारणार्थः । ताभ्यां विभक्तिर्विशेष्यते । तदादिविधिः । तदाह — किमः कुः स्यादित्यादिना । कुत इति । किंशब्दात् पञ्चम्यन्तात्तसिल् । सुब्लुक् । किमः कुभावः ।तसिलादयः प्राक्पाशपः॑ इत्युक्तेरव्ययत्वम् । वेत्यनुवृत्तेः फलमाह — कस्मादिति ।तिहो॑रित्युक्तेरत्र न कुभावः । सर्वनाम्न उदाहरति — यत इति । यच्छब्दात्पञ्चम्यन्तात्सुब्लुक्, तसिलो विभक्तित्वात्तस्मिन्परे त्यदाद्यत्वं पररूपम् । एवं तच्छब्दात्तत इति रूपम् । पक्षे तस्मादिति भवति । अत इति । एतच्छब्दात्पञ्चन्तात्तसिल् । सुब्लुक् । एतदोऽन् । सर्वादेशः । नलोपः । पक्षेएतस्मा॑दिति भवति । इत इति । इदंशब्दात्पञ्चम्यन्तात्तसिल् । सुब्लुक् ।इदम इश् । पक्षे अस्मादिति भवति । अमुत इति । अदस्शब्दात्पञ्चम्यन्तात्तसिल्, उत्वमत्वे च । पक्षेअमुष्मा॑दिति भवति । बहुत इति । पक्षे 'बहुभ्य' इति भवति । द्व्यादेस्त्विति । सर्वनामत्वात्प्राप्तस्तसिल्-द्व्यादिपर्युदासान्नेत्यर्थः । Tattvabodhini ------------- **कु तिहोः** - कु तिहोः । तकारादिकार उच्चारणार्थः । वेत्यनुवृत्तेः फलं दर्शयेति -कस्मादिति । यतस्तत इति ।कृत्तद्धिते॑ति प्रातिपदिकत्वात्सुपो लुकि त्यादाद्यत्वम् । पक्षे — यस्मात् । तस्मात् । इतीति ।इदम इश् । पक्षे अस्मात् । अत इति । एतदोऽनादेशः । पक्षे एतस्मात् । अमुत इति ।अदसोसे॑रिति मुत्वम् । पक्षे । अमुष्मात् । बहुत इति । पक्षे -बहुभ्यः । द्वाभ्यामिति । सर्वनामत्वात्प्राप्तोऽपि तसिल्अद्व्यादिभ्यः॑इति पर्युदासान्न । तसेरिति ।प्रतियोगे पञ्चम्यास्तसिः;,अपादाने चाहीयरुहो॑रिति विहितस्य तसेस्तसिलादेश इत्यर्थः । विभक्त्यर्थ चेति । अन्यथा परत्वात्तसौ कृते तस्याऽप्राग्दिशीयत्वाद्विभक्तिसंज्ञाया अभावात्त्यदाद्यत्वांऽबावेयतोऽवगच्छती॑त्यादि न सिध्येदिति भावः । ननु तसेग्र्रामत इत्यादौ चरितार्थत्वात्किमादिभ्यस्तसिलो बाध्यत्वेन तसिर्नप्रवर्तते, तस्य निरलकाशत्वात् । तथा चतसेश्चे॑ति विधानं व्यर्थमिति वाच्यं,कुतोऽवहीयते॑कुतोऽवरोहती॑त्यादौ तसिलः सावकाशत्वात् । सर्वोभयार्थाभ्यामेव.सर्वोभयार्थाभ्यामेवेति । अत्र चाभिधानस्वाभाव्यमेव हेतुः । तेनेह नभवति -परिषिञ्चति । अभिषिञ्चति । उपर्यर्थे परिः । अभिस्त्वाभिमुख्ये । नन्वोदनं परिषिञ्चतीत्यत्र सर्वतोभावो परिरिति तसिलभावः कथमिति चेन्मैवम् । वावचनाऽनुवृत्त्या तु तत्सिद्धेः । Padamanjari ----------- तिशब्दस्य विभक्तिसंज्ञकस्याभावातकारे इकार उच्चारणार्थः । कुहेति । वा ह च च्छन्दसि इति हप्रत्ययः ॥ Nyaas ----- पूर्वस्यायमपवादः। तिशब्दस्य विभक्तेरभावादिकार उच्चारणार्थः। तकारस्यैव प्रयोजनम्। तत्र `यस्मिन्विधिस्तदादावल्ग्रहणे` (व्या।प।127) तकारादेशो विभक्तौ कार्यं विधीयते। अत आह - `तकारादौ` इत्यादि। `कुतः` इति। **पञ्चम्यास्तसिल्** (5.3.7) । `कुत्र` इति। `किमोऽत्` (5.3.12) इत्यत्र परसूत्राद्वाग्रहणं पुरस्तादपकृष्यते। तेन पक्षे **सप्तम्यास्त्रल्** (5.3.10) इति त्रल्यपि भवति। `कुह` इति। `वा ह च च्छब्दसि` (5.3.13) इति हः। एषाञ्च तसिलदीनां **प्राग्दिशो विभक्तिः** (5.3.1) इति विभक्तिसंज्ञा॥ Prakriyasarvasvam ----------------- तादौ हादौ च विभक्तौ परतः किमः कुः स्यात् । कुतस् । अत्र विभक्त्यर्थस्यान्तर्गतत्वात् सामान्यजा सुविभक्तिरेव स्यात् । तेन 'तद्धितश्चासर्वविभक्तिः (१-१-३८) इत्यव्ययत्वात् सुपो लुक् । कृतः बहुतः । सर्वनामभ्यः । सर्वतः । विश्वतः । तद् तस् ॥